#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00337 Uniform title: yogavāsiṣṭha part 3 with commentary tātparyaprakāśa Main title: yogavāsiṣṭha part 3 with commentary tātparyaprakāśa Author : valmiki Commentator : ānandabodhendra sarasvatī Editor : Vasudeva Laxmana Sharma Pansikar Description: Notes: Data entered by the staff of Muktabodha under the supervision of Mark S. G. Dyczkowski. Revision 0: Dec. 15, 2015 Publisher : Publication year : 1918 Publication city : Delhi Publication country : India #################################################### योगवासिष्ठ ओf वाल्मीकि श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशाख्यव्याख्यासहितः Wइथ् थे चोम्मेन्तर्य वासिष्ठमहारामायणतात्पर्यप्रकाश पणशीकरोपह्वलक्ष्मणशर्मतनुजनुषा वासुदेवशर्मणा सम्पादितः Eदितेद् ब्य Vअसुदेव ḻअxमन ष्हर्म Pअन्सिकर् १९१८ उत्पत्तिप्रकरणं तृतीयम् | प्रथमः सर्गः १ वाग्भाभिर्ब्रह्मविद्ब्रह्म भाति स्वप्न इवात्मनि | यदिदंतत्स्वशब्दोत्थैर्यो यद्वेत्ति स वेत्ति तत् || १ || सत्यं ज्ञानमनन्तमेकमजरं नित्यं विभुं शाश्वतं प्रत्यग्ब्रह्मरसायनं सुखघनं पूर्णं परं पावनम् | स्वात्मज्योतिरनादिमध्यनिधनं मायाविलासैर्मुहु- र्विश्वाकारमपास्तमायमभयं वन्दे विशुद्धं पदम् || १ || ज्ञानादेवात्मनो मोक्षो न तु कर्मसमाधिभिः | अज्ञातोऽसौ स्वसद्दृश्यं [स्वयं दृश्यं इति पाठः] सृजत्येवेति कीर्त्यते || १ || अथ [स्वयं दृश्यं इति पाठः] यथोक्तसाधनसंपन्नस्याधिकारिणः - तावद्विचारयेत्प्राज्ञो यावद्विश्रान्तिमात्मनि | संप्रयात्यपुनर्नाशां शान्तिं तुर्यपदाभिधाम् || यावत्तत्त्वापरोक्षावधारणं कर्तव्यतया विहितं विचारप्रकारं प्रकरणद्वयोपवर्णितसमस्तसाधनसंपन्नायाधिकारिमूर्धन्याय श्रीरामाय अथोपदिश्यते सम्यगेवं ज्ञानक्रमोऽधुना इति प्रतिज्ञानपूर्वकमुत्तरग्रन्थेन विस्तरेण वर्णयितुं प्रवृत्तो भगवान् श्रीवसिष्ठः सृष्टिप्रकारोपवर्णनमुखेन ब्रह्माद्वैतं प्रतिपादयितुं प्रवृत्तस्योत्पत्तिप्रकरणस्य सुखप्रबोधाय प्रथमं संक्षिप्य तात्पर्यं दिदर्शयिषुः तद्धेदं तर्ह्यव्याकृतमासीत् इत्यादिसृष्टिप्रदर्शकश्रौतसंदर्भस्य अहं ब्रह्मास्मि इत्यादिमहावाक्यार्थबोध् इवात्रापि [भावरूपं इति पाठः] दृष्टान्तस्यैकदेशेन बोध्यबोधोदये सति | उपादेयतया ग्राह्यो महावाक्यार्थनिर्णयः इति प्रागुक्तरीत्या पर्यवसानमिति दर्शयति - वाग्भाभिरित्यादिना | ब्रह्मैव वाग्भाभिर्महावाक्यजाखण्डाकारवृत्तीद्धस्वात्मप्रकाशैर्ब्रह्मवित् स्वतत्त्वं साक्षात्कृतवत्सद्भाति पारमार्थिकनित्यमुक्तपूर्णस्वरूपेण प्रकाशते | स्वमुक्तौ वाक्यजन्यवृत्त्यतिरिक्तं नापेक्षत इति भावः | तत्कुतः | यतो यदिदं देहेन्द्रियादि वियदादि च दृश्यं बन्धरूपमात्मनि प्रत्यगात्मभूते ब्रह्मण्येव स्वप्न इवाविर्भूतं भाति | नहि स्वाप्नबन्धनिवृत्तिः प्रबोधातिरिक्तं साधनमपेक्षत इति भावः | तथाच श्रुतौ यद्ब्रह्मविद्यया भविष्यन्तो मनुष्या मन्यन्ते किमु तद्ब्रह्मावेद्यस्मात्तत्सर्वमभवत् इत्याक्षिप्योत्तरमुक्तं ब्रह्म वा इदमग्र आसीत्तदात्मानमेवावेदाहं ब्रह्मास्मीति तस्मात्तत्सर्वमभवत् इति | सर्वं पूर्णम् असंसारिभूमानन्दैकस्वभावमित्यर्थः | अस्यां श्रुतौ ब्रह्म स्वयं स्वतत्त्वबोधान्मुक्तबन्धं पूर्णमभूदित्युक्तेस्तदेव प्राक् स्वतत्त्वप्रतिबोधात्स्वप्न इव द्वैतप्रियाप्रियदर्शनपरिच्छेदलक्षणं बन्धमनुभवतीवेति बन्धस्य मिथ्यात्वं प्रतीच एव ब्रह्मत्वं च स्फुटतरमवगम्यते | तत्र यथा तदुपपादकार्थवादभूतानां तन्नामरूपाभ्यामेव व्याक्रियते स एष इह प्रविष्ट आनखाग्रेभ्यः इत्यादिप्राक्तनसृष्टिप्रवेशादिवाक्यानां जगज्जिवभावयोरज्ञातब्रह्ममात्रोपादानकयोरुत्पत्त्यादिकालत्रयेऽपि ब्रह्मव्यतिरिक्तसत्ताऽसंभवान्मिथ्यात्वमेवेत्युपपादनेन स्वप्रधानमहावाक्यतात्पर्यविषयब्रह्माद्वैते पर्यवसानं तद्वदत्रापि बोध्यमिति भावः | भवतु तथा किं न नस्तेनेति तत्राह - तदित्यादिना | तद्ब्रह्म इदानींतनोऽस्मदादिरपि योऽधिकारी स्वशब्दोत्थैः श्रवणाद्युपायैर्यत् यादृशं तत्त्वतस्तथा वेत्ति अहमेव ब्रह्मेति साक्षात्करोति स तत् प्रायुक्तं पूर्णनित्यमुक्तब्रह्म भारूपं [भावरूपं इति पाठः] मोक्षफलमपि वेत्ति जीवन्नेव साक्षादनुभवति | तथाच श्रुतिः तद्यो यो देवानां प्रत्यबुध्यत स एव तदभवत्तद्यथर्षीणां तथा मनुष्याणां तद्धैतत्पश्यन् ऋषिर्वामदेवः प्रतिपेदेऽहं मनुरभवं सूर्यश्च इति || अथवा [इवास्यापि प्रकरणस्य इति पाठः] यन्मुमुक्षूणामज्ञातत्वाज्जिज्ञासितमिदं सर्वजनानामात्मत्वेन प्रत्यक्षं ब्रह्मवचनं वाक् वाचकशब्दप्रपञ्चो भातीति भास्तत्प्रकाश्यार्थंप्रपञ्चश्च ताभिः त्रयं वा इदं नामरूपं कर्म इति श्रुतिदर्शितद्वैतप्रपञ्चभावैरविविक्ततया प्. १२६) ब्रह्मवित् स्वं पश्यत्सदात्मनि स्वस्मिन् स्वप्न इव वधबन्धशोकमोहादिदुःखिस्वभावं भाति तत्तथा भातमपि ब्रह्म योऽधिकारी स्वशब्दोत्थैः स्वात्ममात्रपरिशेषक नेतिनेति इत्यादिवाक्यकृतैर्द्वैतनिषेधैर्यत् यादृशं परिशिष्टं वेत्ति स एव तद्ब्रह्म तत्त्वतोवेत्ति नत्वध्यारोपितनामरूपादिसंवलितदर्शीत्यर्थः || अथवा [३] वागिति वचनादिक्रियाशक्तिप्रधानानि कर्मेन्द्रियाण्युपलक्ष्यन्ते | भा इति प्रकाशप्रधानानि ज्ञानेन्द्रियाणि | तैर्द्वारैर्यो ब्रह्मविद्वस्तुतो ब्रह्मापि पश्यति स ब्रह्म सन्नप्यात्मनि स्वप्न इवाब्रह्मभूतोऽन्यथा भाति | बहिर्मुखस्य तत्त्वदर्शनासिद्धेः | पराञ्चि खानि व्यतृणत्स्वयंभूस्तस्मात्पराङ् पश्यति नान्तरात्मन् इत्यादिश्रुतेः | यस्त्वधिकारी यत्प्रसिद्धमिदं प्रपञ्चरूपमपि स्वशब्दोत्थैः ब्रह्मैवेदं सर्वम् आत्मैवेदं सर्वं इत्यादिपरमार्थपरवाक्यजन्यबोधैर्यत्सर्वाधिष्ठानसन्मात्रं वेत्ति स व्यावृत्तबाह्येन्द्रियप्रसरः प्रत्यङ्मुखस्तद्ब्रह्म वेत्ति | तथाच बाह्यदृष्ट्या ब्रह्मापि दृष्टमनर्थ एव प्रामाणिकप्रत्यग्दृष्ट्या तु जगदपि दृष्टं प्रुषार्थायेति सृष्टिप्रपञ्चनव्याजेन प्रत्यग्दृष्टिव्युत्पादनेऽस्य प्रकरणस्य तात्पर्यमित्यर्थः | अथवा [४] वक्ष्यमाणाभिरुपदेशवाग्भिर्भाभिर्दृष्टान्ताख्यानोपपत्तिप्रकाशैश्चैत् अदुच्यत इति शेषः | यद्ब्रह्मविदेव परमार्थतो ब्रह्म न ब्रह्मनामकमर्थान्तरं व्यवहितविप्रकृष्टदेशे स्वात्मनोऽन्यदेवास्तीति भ्रमितव्यमिति | यदिदं दृश्यप्रपञ्चरूपं तत्स्वप्न इवात्मन्येवाध्यस्तं भाति न तदपि परमार्थसत्यमन्यदस्तीति भ्रमितव्यमिति | तत्र चोक्तब्रह्मभावजगद्भावद्वये यो विवेक्यविवेकी वा यदेव स्वशब्दोत्थैर्ब्राह्मणोऽहं क्षत्रियोऽहं देवदत्तोऽहमिति स्वाभाविकलौकिकप्रसिद्धमिथ्यास्वशब्दजन्यैर्वा ब्रह्मैवाहं चिदेवाहमित्यादिशास्त्रीयसत्यार्थस्वशब्दजन्यैर्वा प्रत्ययैर्यद्यादृशं स्वरूपं स्वस्य वेत्ति स तदेव वेत्ति पुनःपुनरनुभवति | संसार्यात्मदर्शिनः संसार एव फलति ब्रह्मात्मदर्शिनस्तु ब्रह्मभाव एवेति तद्दर्शिनैव भाव्यमिति भावः || अथवा [५] ननु प्रागुपदिष्टमेव ब्रह्म यथास्थितं ब्रह्मतत्त्वं सत्तानियतिरुच्यते अस्त्यनन्तविलासात्मा सर्वगः सर्वसंश्रयः इत्यादिना तत्रोपदिष्टे ब्रह्मणि शमाद्यभावाच्चित्तास्थैर्ये प्राप्ते शमादिसाधनानि तद्दृढीकाराय पौरुषप्रयत्नश्चोपदिष्ट इति नोपदेष्टव्यान्तरमवशिष्यते | यदि सकृदुपदिष्टवाक्यार्थप्रकाशैर्ब्रह्म न भाति तर्हि शतकृत्वोऽप्युपदिश्यमानं तथैवेति किमस्यैव पुनःपुनरुपदेशेन पिष्टपेषणप्रायेणेत्याशङ्क्याह - वाग्भाभिरिति | यो ब्रह्मवित् ब्रह्मवेत्ता श्रोता वाग्भाभिः सकृदुपदेशवाक्यार्थप्रकाशैर्हेतुभिर्यद्ब्रह्म स्वयमेवेति भाति प्रथते तत्स्वप्न इव भादितप्रायं न दृढतरं भवति निद्रावशोऽनिरूढनाक्षत्रादिस्वनामघटितोपांशुप्रबोधकवाक्यमिव न सम्यगवधारयतीति वार्थः | स एव हे देवदत्त हे यज्ञदत्तेत्यादिचिरव्यवहारनिरूढस्वनामसंबोधनोत्थैरिव बहुकालाभ्यस्तश्रवणाद्यभ्यासदृढपरिचितमहावाक्योत्थप्रत्ययैर्यद्वेत् ति स एव तद्वेत्ति | तादृशासंदिग्धस्वात्मबोध एवाविद्योच्छेदहेतुरित्यर्थः | तथाच तादृशदृढनिश्चयापरोक्षानुभवाय पुनःपुनरुपपत्तिभिरुपदेशो [पुनःपुनरुपदेशो इति पाठः] यावत्फलोदयमभ्यसनीय इत्युत्तरग्रन्थोपपत्तिरिति भावः | तथाच सूत्रम् आवृत्तिरसकृदुपदेशात् इति || अथवा [६] यथा अब्रह्मविज्जाग्रद्भयादिचिरवासनावासितः स्वप्ने अविद्यया कुत्सनभर्त्सनभीषणादिवाग्भिर्भयकम्पपलायनगर्तपतनादिप्रतिभाभिश्चो पलक्षितो दुःखी भाति यथा वा उपासको जाग्रद्देवभाववासनावासितः स्वप्ने देव इव राजेव स्तुतिप्रशंसनादिवाग्भिर्जक्षणक्रीडनविमानारोहनभोविहारादिप्रतिभाभिश्च् ओपलक्षितो [वाग्भा इति पाठः] भाति तथा ब्रह्मविदपि चिराभ्यस्तश्रवणादिवासितः स्वप्ने ब्रह्मैवेदं सर्वमात्मैवेदं सर्वं अहमेवेदं सर्वोऽस्मीति परमार्थप्रतिपादकवाग्भिर्वास्तवब्रह्मभावप्रतिभाभिश्च भाति | तथा फलावस्थायामपि स्वप्नवत्परलोकफलस्यापि दृढाभ्यस्तवासनानुसारित्वस्य लीलोपाख्यानादौ व्युत्पादयिष्यमाणत्वात् | नन्वत्र किं प्रमाणं तत्राह - यदिति | यदिदं स्वप्नवत्परलोकस्यापि वासनानुसारित्वं तत्स्वयमेव शब्दयन्ति बोधयन्ति नतु मूलसापेक्षतयेति स्वशब्दाः श्रुतयस्तदुत्थैः प्रत्ययैः स्वतःप्रमाणभूतैरध्यवसीयते | अथ यत्रैनं घ्नन्तीव जिनन्तीव हस्तीव विच्छादयति गर्तमिव पतति यदेव जाग्रद्भयं पश्यति तदत्राविद्यया मन्यतेऽथो यत्र देव इव राजेवाहमेवेदं सर्वोऽस्मीति मन्यते सोऽस्य परमो लोकः | तद्य इह व्याघ्रो वा सिंहो वा यद्यद्भवन्ति तदाभवन्ति | यच्चित्तस्तन्मयो भवति गुह्यमेतत्सनातनं मनो कृतेनायात्यस्मिन् शरीरे इत्यादिश्रुतिभ्यः | यं यं वापि स्मरन्भावं त्यजत्यन्ते कलेवरम् | तं तमेवैति कौन्तेय सदा तद्भावभावितः || तस्मात्सर्वेषु कालेषु मामनुस्मर इत्यादिस्मृतिभ्यश्चेत्यर्थः | तथाचाभ्यासदशायां यो यद्वेत्ति संसार्यात्मानं ब्रह्मात्मभावं वा सफलावस्थायामपि तद्वेत्त्यनुभवतीति निरन्तरं ब्रह्मानुभववासनैव दृढीकार्येत्युत्पत्तिप्रकरणतात्पर्यार्थ इति भावः || अथवा [७] वाग्भिः श्रुतिस्मृत्यादिशब्दप्रमाणैर्भाभिर्विद्वदनुभवप्रकाशैश्च ब्रह्मविद्ब्रह्मैव | यदिदमस्याज्ञानदशाप्रसिद्धमब्रह्मत्वमवस्थात्रयं च तदात्मनि स्वप्न इव भाति | तस्य त्रय आवसथास्त्रयः स्वप्नाः इति श्रुतेः तस्मात्संभावनामात्रः संसारः प्रत्यगात्मनि | उक्तेऽर्थे संशयश्चेत्यात्प्रत्यग्दृष्ट्या निरीक्ष्यताम् || इति वार्तिकादिप्रसिद्धविद्वदनुभवाच्च | तदुक्तार्थद्वयं योऽधिकारि स्वः स्वीयः करतलामलकवदपरोक्षीकृतात्मतत्त्व उपदेशकुशल आचार्यस्तस्योपदेशशब्दोत्थैरनुभवानुकूलैरूहापोहाद्यपायैर्यद्यादृश ं वेत्ति स एव स्वानुभवतोऽपि तद्वेत्ति | आचार्यवान्पुरुषो वेद | आचार्याद्धैव विद्या विदिता साधिष्ठं प्रापत् | आचार्यो ज्ञाता कुशलानुशिष्टः इत्यादिश्रुतेरित्यर्थः || अथवा [८] ब्रह्मविदामनुभवसिद्धं ब्रह्म व्यवहारे वाग्भाभिस्तुल्यं भाति यथा वा घटादिशब्दाः संकेतात्स्वानुरञ्जितमर्थं प्रकाशयन्ति तद्भावापन्नेव स्वयं प्रथते यथा भा आलोकोऽपि तथा प्रथते एवं ब्रह्मापि भास्यानुरञ्जितं तदविविक्तस्वप्रकाशं प्रथत इत्यर्थः | नन्वसङ्गाद्वितीयस्य कथं परानुरञ्जनेन प्रथनं तत्राह - यदिति | यद्यस्मात्कारणादात्मन्यध्यासेन स्वप्न इव इदं तनोतीतिदंतत् | प्. १२७) सर्वप्रपञ्चविवर्तोपादानमित्यर्थः | तथाच कारणस्य कार्यानुरञ्जनं युक्तमेव | कार्यमिथ्यात्वाच्च नासङ्गाद्वितीयताविरोध इति भावः | तत्तथाभूतं ब्रह्म स्वशब्दोत्थैरनुगतस्वयंरूपमात्रपरामर्श्यात्मादिशब्दनिकृष्टबोधैर्य ओ वेत्ति स तदसङ्गोदासीनस्वप्रकाशचिन्मात्रस्वभावं वेत्ति न विशेषनामरूपसंवलितदर्शीत्यर्थः || अथवा [९] ब्रह्म स्वप्रकाशत्वाद्ब्रह्मवित्स्वप्रथायामन्यनिरपेक्षमपि वाग्भाभिः वागेवास्य ज्योतिर्भवति आदित्य एवास्य ज्योतिर्भवति इति श्रुत्युक्तेर्ज्योतिरन्तरैर्व्यामोहात्स्वप्न इवात्मनि ज्योतिरन्तरासंकीर्णदशायामेव समाध्यादौ निष्कृष्टं भाति न संसारजागरे | श्रुत्या तत्रैव आत्मैवास्य ज्योतिर्भवत्यात्मनैवायं ज्योतिषास्ते पल्ययते कर्म कुरुते इति स्वयंज्योतिष्ट्वास्फुटीभावप्रदर्शनात् | इत्थं स्वप्ने व्युत्पादितस्य स्वयंज्योतिरात्मनो जागरेऽप्यनुभवे उपायमाह - यदिति | इदमिति तदिति स्वमिति च शब्दैरुत्थैराधिभौतिकाधिदैविकाध्यात्मिकविषयप्रत्ययैर्भोक्तारं प्रति एति आगच्छतीति यत्तथाविधं यद्विषयजातं तद्यो वेत्ति स तद्ब्रह्मैव सन्वेत्ति नतु कल्पितोपाध्यात्मा सन्वेत्ति | जडात्मनो वेदनशक्त्यभावात् नान्योऽतोऽस्ति द्रष्टा नान्योऽतोऽस्ति श्रोता इति द्रष्टश्रोत्रन्तरप्रतिषेधाच्चेति भावः | तथाच बहिरर्थप्रकाशे ज्योतिरन्तरसंकीर्णत्वेऽपि नान्तरुपनीतार्थप्रथायां तत्संकर इति जागरेऽपि स्वयं ज्योतिरात्मा विवेकिभिः सुबोध इति सदैव तद्विमर्शपरेण भाव्यमित्याशयः || अथवा [१०] यदिदमिहलोकरूपं कर्मस्थानं तत्स्वर्गादिरूपं तत्फलस्थानं स्वं स्वयं तत्फलभोक्ता चेति त्रितयप्रतिपादककर्मकाण्डशब्दोत्थैः प्रत्ययैर्यद्भाति यच्चोपनिषद्वाग्भिर्मननादिप्रकाशैश्चाहं ब्रह्मविद्ब्रह्मेति वा भाति तत्सर्वं स्वप्न इवाप्रबुद्ध एवात्मनि भाति न भूमात्मनि | यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमा इति श्रुतेः | सर्वाणि च शास्त्राणि विधिनिषेधमोक्षपराण्यविद्यावद्विषयत्वं नातिवर्तन्ते इति भाष्याच्च | तदिदं रहस्यं योगस्तद्वेदेति श्रुतिं विडम्बयन्नह - यो यद्वेत्तीति | विद्वदनुभवैकसिद्धमिदमित्यर्थः || दुरूहस्यास्य पद्यस्य सुधीभिरपि दुर्गमाः | इमे गुरुप्रसादेन दशार्थाः संप्रकाशिताः || १ || न्यायेनानेन लोकेऽस्मिन्सर्गे ब्रह्माम्बरे सति | किमिदं कस्य कुत्रेति चोद्यमूचे निराकृतम् || २ || इत्थं प्रकरणार्थसंक्षेपोपदर्शनमुखेनावान्तरविषये प्रदर्शिते प्रपञ्चमिथ्यात्वज्ञानलक्षणावान्तरप्रयोजनानुबन्धी प्राक्तनचोद्यपरिहारोऽप्यर्थात्सिद्ध इत्याह - न्यायेनेति | अनेन संक्षेपतो दर्शितेन विस्तरतो वक्ष्यमाणेनाध्यस्तस्याधिष्ठानात्पृथगसत्त्वन्यायेनाध्यारोपापवादन्य आयेन वा ब्रह्माम्बरेऽध्यासक्रमेणास्मिन्परिदृश्यमाने सर्गे प्रपञ्चरूपे सति सर्गे वाऽपवाद क्रमेण लोकेऽवलोक्यमाने ब्रह्माम्बरे ब्रह्माकाशमात्रे सति तदेतद्भगवन्ब्रूहि किमिदं परिणश्यति | किमिदं जायते भूयः किमिदं परिवर्धते || इत्यादिना भवान् प्राग्यत्सतो नाशाद्यसंभवचोद्यमूचे तत्स्वतो निराकृतमेवोचे | सतो नाशाद्यनभ्युपगमान्नश्वरस्य सत्त्वानभ्युपगमाच्चोद्यविषयाभावादित्यर्थः || २ || अहं तावद्यथाज्ञानं यथावस्तु यथाक्रमम् | यथास्वभावं तत्सर्वं वच्मीदं श्रूयतां बुध || ३ || इत्थमवान्तरविषयफले प्रदर्श्य विस्तरोक्तिं प्रतिजानीते - अहमिति | इदं संक्षिप्य दर्शितमर्थजातं वच्मि विस्तरेणेत्यर्थः | प्रमाणतोऽनुभवतश्च यथाज्ञानं परीक्षणतो यथावस्तु साधनोपपत्तिनिरूपणतो यथाक्रमं श्रोतृबुद्धिपरिपाकानुसारतश्च यथास्वभावम् | सर्वत्र पदार्थानतिवृत्तावव्ययीभावः | अथवा यथावस्त्विति सर्गपूर्वावस्थोक्तिस्तदा सर्वजगतः सन्मात्ररूपत्वात् यथाज्ञानमिति सर्गारम्भकलनोन्मुखत्वोक्तिः | यथाक्रममिति स्थूलीभावेन सृष्टिक्रमोक्तिः | यथास्वभावमिति जगदारोपदशयामप्यविकृतस्वभावोक्तिः | सर्वमिति ज्ञानप्राप्यपूर्णभावोक्तिः | तस्मात्तत्सर्वमभवत् इति श्रुतौ पूर्णभावे सर्वशब्ददर्शनात् | बुधेत्युत्तमाधिकारस्मारणं श्रवणादरोत्पादनार्थम् || ३ || स्वप्नवत्पश्यति जगच्चिन्नभोदेहवित्स्वयम् [चिन्मयं इति पाठः] | स्वप्नसंसारदृष्टान्त एवाहंत्वंसमन्वितम् || ४ || स्वप्नवदात्मनीति यदुक्तं तस्य तात्पर्यं विशदयति - स्वप्नवदिति | चिन्नभोदेहविज्जीवभावापन्नं सद्यज्जगत्पश्यति तत्स्वप्नवत्पश्यति | यथा स्वप्नदर्शनं विषयबाधेऽपि न बाध्यते तद्वज्जगद्दर्शनमपीति | दृशेः सत्यत्वे तात्पर्यमिति भावः | एवमहमिति प्रत्यगात्मतादात्म्येन त्वमिति पराग्भावेन च भासमानं प्रपञ्चरूपमपि स्वप्नसंसारदृष्टान्ते दार्ष्टान्तिकत्वेन् समन्वितं सम्यक्संबद्धम् | तस्य मिथ्यात्वे तात्पर्यमिति भावः | अथवा ननु प्रमाणजस्य कथमप्रमाणजं स्वप्नदर्शनं दृष्टान्तस्तत्राह - देहविदिति | यद्यपि बाह्यं जगत्प्रमाणैः पश्यत तथापि कार्यकरणसघातात्मकव्यष्टिसमष्टिदेहभासकः [कारणसंघाता इति पाठः] स्वयमेव न बाह्यप्रमाणसापेक्ष इत्यर्थः | ननु रूपादिमत्त्वाद्देहोऽपि चक्षुरादिनैव भासतां तत्राह - अहंत्वमिति | यदि चक्षुरादिना स भासेत तर्हीदभित्येव भासेत | तद्विषये सर्वत्रेदंत्वदर्शनात् | अहंत्वं तु तत्र भासमानं स्वप्नसंसारदृष्टान्त एव समन्वितं युक्तमित्यर्थः | अथवा अस्तु देहस्य स्वप्नसाम्यं तथापि कथं बाह्यनामरूपात्मकजगन्मात्रस्य तथात्वं तत्राह - अहंत्वंसमन्वितमिति | न बाह्यरूपादितावन्मात्रं निष्कृष्टं भासते किंतु रूपमहं पश्यामीति त्रिपुटीभूतमहमर्थसंवलितत्वमर्थरूपम् तत्तु साक्षिमात्रगम्यत्वात्स्वप्नसंसारदृष्टान्ते दार्ष्टान्तिकं भवत्येवेति शेषः | नह्यध्यस्तगोचरज्ञाने सत्यार्थो विषयो भवति | अध्यस्तमेव हि परिस्फुरति भ्रमेषु नान्यत्कथंचन परिस्फुरति भ्रमेषु इति सिद्धान्तद्बाह्यप्रमाणानां व्यवहारेष्वर्थाविसंवादमात्रेणापि व्यावहारिकप्रामाण्याविघातादिति भावः || ४ || प्. १२८) मुमुक्षुव्यवहारोक्तिमयात्प्रकरणात्प्रकरणात्परम् | अथोत्पत्तिप्रकरणं मयेदं परिकथ्यते || ५ || अथेत्यानन्तर्येण हेतुतासंगतिर्दर्शिता || ५ || बन्धोऽयं दृश्यसद्भावाद्दृश्याभावेन बन्धनम् [सद्भावो दृश्याभावेन इति पाठः] | न संभवति दृश्यं तु यथेदं तच्छृणु क्रमात् || ६ || ननु बन्धनिरासोपायार्थिनो मम किमनेन दृश्यमिथ्यात्वपरोत्पत्तिप्रकरणश्रवणेनेत्यत्राह - बन्ध इति || ६ || उत्पद्यते यो जगति स एव किल वर्धते | स एव मोक्षमाप्नोति स्वर्गं वा नरकं च वा || ७ || ननु न दृश्यासंभवमात्रेण बन्धनिवृत्तिः उत्पत्तिवृद्धिनाशस्वर्गनरकादेर्बन्धस्य द्रष्टृधर्मताप्रत्ययेनात्मकोऽत्यन्तःपातेन दृश्यनिवृत्तावपि तदनिवृत्तेरित्याशङ्क्याह - उत्पद्यत इति द्वाभ्याम् | सत्यमुत्पद्यते यः स एव वृद्ध्यपक्षयस्वर्गनरकादीन् बन्धमोक्षौ चानुभवेन्न त्वात्मा उत्पत्त्यादिस्वभावः | स्वस्वरूपानवबोधेनैव तस्योत्पत्त्यादिभ्रमविभावनादित्यर्थः || ७ || अतस्ते स्वावबोधार्थं तत्तावत्कथयाम्यहम् | उत्पत्तिः संसृतावेति पूर्वमेव हि यो यथा || ८ || यतः स्वानवबोधादेव बन्धोऽतः स्वावबोधार्थं तद्दृश्यासंभवं तावद्वक्ष्यमाणप्रकारं कथयामि | यथा उत्पत्त्यादिसंबन्धः संसृतौ दृश्यसंसारकोटौ एति नात्मकोटौ | आत्मा तु दृश्योत्पत्तेः पूर्वं यथा तथैव नाणुमात्रमपि विक्रियत इत्यर्थः | तथाच श्रुतिः न निरोधो न चोत्पत्तिर्न बद्धो न च साधकः | न मुमुक्षुर्न वै मुक्तिरित्येषा [मुक्त इत्येषा इति पाठः] परमार्थता इति || ८ || इदं प्रकरणार्थं त्वं संक्षेपाच्छृणु राघव | ततः संकथयिष्यामि विस्तरं ते यथेप्सितम् || ९ || अयमेवास्य प्रकरणस्यार्थ इति वक्ष्यमाणविस्तरोपोद्धाततयास्मिन्सर्गे संक्षेपतः प्रपश्यत इत्याह - इदमिति | अयं चासौ प्रकरणार्थश्चेति कर्मधारयः | प्रकरणार्थमुत्पत्तिप्रकरणोपोद्धाताय इदमेतत्सगप्रपाद्यमिति वा || ९ || यदिदं दृश्यते सर्वं जगत्स्थावरजंगमम् | तत्सुषुप्ताविव स्वप्नः कल्पान्ते प्रविनश्यति || १० || पूर्वमेव हि यो यथेत्युक्तार्थस्योपपादनाय प्रलयावस्थापरिशिष्टात्मस्वरूपं वक्तुं पूर्वसर्गस्य कारणे लयप्रकारं दृष्टान्तेनाह - यदिदमिति | सांख्यनैयायिकाद्यभिमतप्रधानपरमाण्वादिपरिशेषात्मकप्रलयवैधर् म्यार्थं दृष्टान्तोक्तिः || १० || ततः स्तिमितगम्भीरं न तेजो न तमस्ततम् | अनाख्यमनभिव्यक्तं सत्किंचिदवशिष्यते || ११ || स्तिमितमक्रियममूर्तत्वात् | गम्भीरमपरिच्छेद्यत्वात् | अरूपत्वान्न तेजः | भारूपत्वान्न तमः | निर्धर्मकत्वादनाख्यम् | अज्ञानावृतत्वादनभिव्यक्तं प्रपञ्चसंस्काराधारत्वाद्वा अनभिव्यक्तम् || ११ || ऋतमात्मा परं ब्रह्म सत्यमित्यादिका बुधैः | कल्पिता व्यवहारार्थं तस्य संज्ञा महात्मनः || १२ || उत्कृष्टप्रमाणश्रुतिगम्यत्वादृतम् | यच्चाप्नोति यदादत्ते यच्चात्ति विषयानिह | यच्चास्य संततो भावस्तस्मादात्मेति शब्द्यते || इति व्यासोक्तरीत्या आत्मा | सत्यतोत्कर्षावधित्वात्परम् | बृहत्त्वाज्जगदाकारबृंहकत्वाद्वा ब्रह्म | यथाशास्त्रं विद्वद्भिरनुभूयमानं सत्यम् | व्यवहार उपदेश्योपदेशस्तदर्थम् || १२ || स तथाभूत एवात्मा स्वयमन्य इवोल्लसन् | जीवतामुपयातीव भाविनाम्ना [भाविनाम इति पाठः] कदर्थिताम् || १३ || सर्गादौ तस्यानृतं समष्टिजीवभावमाह - स इति | तथाभूतश्चित्स्वभावेन स्थित एव मोहादन्यो जड आकाशादिक्रमोद्भूतलिङ्गसमष्ट्यात्मा तदनुप्रवेशात्तदभिमानेन स इवोल्लसंस्तदन्तर्गतप्राणधारणोपाधिना देहनिष्पत्त्युत्तरभाविवागभिव्यक्त्यधीनत्वाद्भाविना जीवनाम्ना कदर्थितां कुत्सितार्थत्वेन संपादितां जीवतां एतीव [सेतीव इति पाठः] भ्रान्त्या | वस्तुतस्तु नैत्येवेत्यर्थः || १३ || ततः स जीवशब्दार्थकलनाकुलतां गतः | मनो भवति भूतात्मा मननान्मन्थरीभवन् || १४ || इत्थं ज्ञानशक्तिमात्रसाध्यं सर्गमुक्त्वा क्रियाशक्तिसहकृततत्साध्यं तमाह - तत इति | जीवशब्दार्थः क्रियाशक्तिप्रधानप्राणधृतिस्तत्कलनेन आकुलतां चञ्चलताम् | भूतात्मा भौतिकलिङ्गात्मा | संकल्पविकल्पमननान्मन्थरीभवन् जाड्येन मन्दीभवन् || १४ || मनः संपद्यते तेन महतः परमात्मनः | सुस्थिरादस्थिराकारस्तरङ्ग इव वारिधेः || १५ || तेन मनोभावेन | महतः परमात्मन इति ल्यब्लोपे पञ्चम्यौ | तादृशपरमात्मभावं विस्मृत्येत्यर्थः | मनः संपद्यते मनोधर्मसंकल्पादीनात्मन इति मन्यते || १५ || तत्स्वयं स्वैरमेवाशु संकल्पयति नित्यशः | तेनेत्थमिन्द्रजालश्रीर्विततेयं वितन्यते || १६ || तदेवं समष्टिमनोभावमापन्नं हिरण्यगर्भाख्यं ब्रह्म स्वयमन्येनाबोधितमपि पूर्ववासनानुरोधाद्विराड्भावं भुवनादिभावं तत्र चतुर्विधभूतग्रामभावमिति नित्यं स्वैरमेव संकल्पयतीत्यर्थः | तेन सत्यसंकल्पेन || १६ || यथा कटकशब्दार्थः पृथक्त्वार्हो न काञ्चनात् | न हेम कटकात्तद्वज्जगच्छब्दार्थता परे || १७ || इत्थमध्यारोपसहस्रेणापि नाधिष्ठानस्य पारमार्थिकस्थितिभङ्ग इति दर्शयितुं दृष्टान्तमाह - यथेति | हेमकटकरूपात्काञ्चनात्कटकशब्दार्थो यथा पृथक्त्वार्हो नेत्यन्वयः | परे ब्रह्मणि प्रतिभाता जगच्छब्दार्थतापि ततः पृथक्त्वार्हा नेत्यर्थः || १७ || ब्रह्मण्येवास्त्यनन्तात्म यथास्थितमिदं जगत् | न जगच्छब्दकार्थेऽस्ति हेम्नीव कटकात्मता || १८ || द्वयोः पृथक्त्वानर्हत्वेनैकसत्ताकता सिद्धा सा चानागन्तुकब्रह्मभावे स्वतो जगद्भावे तु तदधीना न स्वत इत्याह - ब्रह्मण्येवेति | इदं जगत् अनन्तात्मपरित्यक्तपरिच्छेदस्वभावं ब्रह्मस्वभाव एवास्ति जगच्छब्दकार्थे अन्तवदात्मस्वभावे तु नास्ति कटकात्मता यथा हेमस्वभावेऽस्ति न कटकस्वभावे तद्वत् || १८ || प्. १२९) सती वाप्यसती तापनद्येव लहरी चला | मनसेहेन्द्रजालश्रीर्जागती प्रवितन्यते || १९ || यदि स्वतो नास्ति कथं सतीव भाति तत्राह - सतीति | तापो मरुमरीचिस्तत्कल्पितनद्या लहरीव जागती इन्द्रजालश्रीरसत्यपि सतीव प्रवितन्यत इत्यन्वयः || १९ || अविद्या संसृतिर्बन्धो माया मोहो महत्तमः | कल्पितानीति नामानि यस्याः सकलवेदिभिः || २० || तस्या असत्त्वं तु आविद्यकत्वेनाविद्यात्मकत्वादित्यभिप्रेत्य तदनुरूपनामभिरविद्यां दर्शयति - अविद्येति | विद्यापोद्यत्वादविद्या | ऊर्ध्वाधस्तिर्यक्संसरणहेतुत्वात्संसृतिः | अस्वातन्त्र्यप्रयोजकत्वाद्बन्धः | मिथ्यात्वान्माया | भ्रमहेतुत्वान्मोहः | दुस्तरत्वान्महत् | स्वरूपावरकत्वात्तम इत्यादीनि नामानि || २० || बन्धस्य तावद्रूपं त्वं कथ्यमानमिदं शृणु | ततः स्वरूपं मोक्षस्य ज्ञास्यसीन्दुनिभानन || २१ || द्रष्टुर्दृश्यस्य सत्ताङ्ग बन्ध इत्यभिधीयते | द्रष्टा दृश्यबलाद्वद्धो [वशाद्वद्ध इति पाठः] दृश्याभावे विमुच्यते || २२ || ज्ञानेन बाधितुं प्राप्तुं च योग्यं बन्धमोक्षयोः स्वरूपमाह - द्रष्टुरिति | अङ्गेति प्रियसंबोधने || २२ || जगत्त्वमहमित्यादिर्मिथ्यात्मा दृश्यमुच्यते | यावदेतत्संभवति तावन्मोक्षो न विद्यते || २३ || नेदं नेदमिति व्यर्थप्रलापैर्नोपशाम्यति | संकल्पजनकैर्दृश्यव्याधिः प्रत्युत वर्धते || २४ || ननु यदि दृश्यासंभव एव मोक्षस्तर्हि तदा तदोपस्थितस्य दृश्यस्य नेदं नेदमिति निरासेनैव रोगनिरासेनारोग्यमिव स सेत्स्यतीति किं तत्त्वज्ञानायासेनेत्यत आह - नेदमिति | नेदमिति प्रलापो हि सति दृश्ये बाधितार्थत्वात्तद्विरोधि दृश्यान्तरोत्पादनसंकल्पेन [त्पादनेन संकल्पेन इति पाठः] तदुत्पादनेन पूर्वदृश्यनिरासको वाच्यः तथा सत्येकदृश्यनिरासाय दृश्यद्वयजननाद्वर्धत इत्यर्थः || २४ || न च तर्कभरक्षोदैर्न तीर्थनियमादिभिः | सतो दृश्यस्य जगतो यस्मादेति विचारकाः [विचारक इति पाठः] || २५ || हे विचारकाः दृश्यस्य सतः दृश्ये सति तर्कातिशयादिना दृश्यव्याधिर्न शाम्यतीत्येतावदेव न किंत्वन्योऽप्येति आगच्छतीत्यर्थः | षष्ठी चानादरे इति भावलक्षणे षष्ठी | दृश्यसत्ता नानादरादुपेक्ष्या किंतु विचारेण बाध्येत्यर्थः || २५ || जगद्दृश्यं तु यद्यस्ति न शाम्यत्येव कस्यचित् | नासतो विद्यते भावो नाभावो विद्यते सतः || २६ || किंच दृश्यस्य स्वतः सत्तभ्युपगमे सतो बाधायोगादनिर्मोक्षः स्यादित्याह - जगदिति || २६ || अचेत्यचित्स्वरूपात्मा यत्र यत्रैव तिष्ठति | द्रष्टा तत्रास्य दृश्यश्रीः समुदेत्यप्यणूदरे || २७ || नन्वयं द्रष्टा तपोध्यानादिबलाद्दृश्यनिर्मुक्ते दृश्यसमावेशायोग्यपरमाणूदरादौ वा गत्वा तिष्ठन् दृश्यनिर्मुक्तो भविष्यतीति कथमनिर्मोक्षस्तत्राह - अचेत्येति | तप आदिना अचेत्यो बोद्धुमशक्यः अज्ञातचिद्रूप [चिद्रूपेति पदं क्वचिन्न पठ्यते] आत्मा यस्य स द्रष्टा तादृशात्मन एव दृश्यबीजत्वादणूदरेऽपि भ्रान्त्या वैपुल्यप्रतिभासाविरोद्धात्तत्रापि दृश्यबन्धो दुर्वार इति भावः || २७ || तस्मादस्ति जगद्दृश्यं तत्प्रसृष्टमिदं मया | त्यक्तं तपोध्यानजपैरिति काञ्जिकतृप्तिवत् || २८ || उक्तमुपसंहरति - तस्मादिति | स्वस्थाने प्रमृष्टं देशान्तरप्राप्त्या त्यक्तं चेत्यर्थः | काञ्जिकं पर्युषितौदनोदकं सुराविशेषो वा || २८ || यदि राम जगद्दृश्यमस्ति तत्प्रतिबिम्बति | परमाणूदरेऽप्यस्मिंश्चिदादर्शे तथैव हि || २९ || परमाणूदरेऽप्यात्मनि ब्रह्माण्डसमावेशसंभावनार्थमादर्शे इति | यथा विपुलप्रदेशे तथैव न संकोचेनेत्यर्थः || २९ || यत्र तत्र स्थिते यद्वद्दर्पणे प्रतिबिम्बति | अद्न्यब्ध्युर्वीनदीवारि चिदादर्शे तथैव हि || ३० || ततस्तत्र पुनर्दुःखं जरा मरणजन्मनी | भावाभावग्रहोत्सर्गः स्थूलसूक्ष्मचलाचलः || ३१ || स्थूलो जागरे सूक्ष्मः स्वप्ने भावाभावग्रहः सुषुप्तौ तूत्सर्ग इति | चलाचलोऽस्थिरः || ३१ || इदं प्रमार्जितं दृश्यं मया चात्राहमास्थितः | एतदेवाक्षयं बीजं समाधौ संसृतिस्मृतेः || ३२ || ज्ञाननिरपेक्षसविकल्पकसमाधिना दृश्यमार्जनमाशङ्क्याह [मार्जनस्यासंभवमाह इति पाठः] - इदमिति | अस्मृतस्य प्रमार्जनायोगात्तत्स्मृतौ तु समाधिभङ्गादिति भावः || ३२ || सति त्वस्मिन्कुतो [ज्गद्दृश्ये इति पाठः] दृश्ये निर्विकल्पसमाधिता | समाधौ चेतनत्वं तु तुर्यं चाप्युपपद्यते || ३३ || अत एव न निर्विकल्पकसमाधिनापि तन्मार्जनमित्याह - सतीति | सति तु निर्विकल्पकसमाधौ चित्तसत्त्वे चेतनत्वं तद्बाधे तुर्यत्वं चोपपद्यते | दृश्ये सति तु निर्विकल्पसमाधितैव कुत इत्यन्वयः | न चाक्षयसुषुप्तात्वं तुर्यं चापीति पाठे तु स्पष्टम् || ३३ || व्युत्थाने हि समाधानात्सुषुप्तान्त इवाखिलम् | जगद्दुःखमिदं भाति यथास्थितमखण्डितम् || ३४ || अस्तु वा समाधिस्तथापि संसारो दुर्वार इत्याह - व्युत्थान इति | भाति भासमाने प्रतीचि प्राप्तं भवतीत्युत्तरेणान्वयः || ३४ || प्राप्तं भवति हे राम तत्किं नाम समाधिभिः | भूयोऽनर्थनिपाते हि क्षणसाम्ये हि किं सुखम् || ३५ || भूयोऽप्यनर्थनिपाते संभाविते सति क्षणमात्रसमाधानेन किं सुखम् | किमित्याक्षेपे | सुखं नास्तीत्यर्थः || ३५ || यदि वापि समाधाने निर्विकल्पे स्थितिं व्रजेत् | तदक्षयसुषुप्ताभं तन्मन्येतामलं पदम् || ३६ || यदि निर्विकल्पे स्थितिं कदाप्यव्युत्थानं व्रजेत्तत्तर्ह्यक्षयसुखं विनापि ज्ञानं प्राप्तमिति यदि मन्येतेति पराभिप्रायानुवादः | अक्षयसुषुप्ताभमिति मौढ्यानुच्छेदादपुरुषार्थता सूचिता || ३६ || प्. १३०) प्राप्यते सति दृश्येऽस्मिन्न च किंनाम केनचित् | यत्र यत्र किलायाति चित्ततास्य जगद्भ्रमः || ३७ || उत्तरमाह - प्राप्यत इति | अस्मिन्मनोलक्षणे दृश्ये सति केनचित्समाधियत्नवतापि किंनाम दृश्यं न प्राप्यते | यतोऽस्य चित्तता यत्रयत्र विषये आयाति तत्र तत्र तदनुबन्धी जगद्भ्रमो दुर्निवार इत्यर्थः || ३७ || द्रष्टाथ यदि पाषाणरूपतां भावयन्बलात् | किलास्ते तत्तदन्तेऽपि भूयोऽस्योदेति दृश्यता || ३८ || किंचायमज्ञत्वादनात्मानमेव पाषाणादिसमाधौ भावयेत् तदस्य तदन्ते फलकालेऽपि दृश्यतामेति न दृङ्मात्रपरिशेषसमाधिसिद्धिरित्याह - द्रष्टेति || ३८ || न च पाषाणतातुल्या निर्विकल्पसमाधयः | केषांचित्स्थितिमायान्ति सर्वैरित्यनुभूयते || ३९ || समाधिबललब्धनिर्दुःखपाषाणभावेऽपि न स्थैर्यं [स्थैर्यप्रत्याशा इति पाठः] प्रत्याशेत्याह - न चेति | इत्ययमर्थः सर्वैः समाधिनिष्ठैरनुभूयते || ३९ || न च पाषाणतातुल्या रूढिं [वृद्धिं याताः इति पाठः] याताः समाधयः | भवन्त्यग्रपदं शान्तं चिद्रूपमजमक्षयम् || ४० || मा भूदनिरूढानां स्थैर्यं तद्भावापत्तिपर्यन्तनिरूढसमाधीनां तु स्थैर्यं स्यात्तत्राह - न चेति | रूढिं याता अप्यचेतना नित्यपाषाणतादितुल्याः समाधयः सर्वसंसारशान्त्युपलक्षितमग्रपदं मोक्षरूपं न भवन्ति || ४० || तस्माद्यदीदं सद्दृश्यं तन्न शाम्येत्कदाचन | शाम्येत्तपोजपध्यानैर्दृश्यमित्यज्ञकल्पना || ४१ || अतः प्रागुक्तमेव सिद्धमित्याह - तस्मादिति || ४१ || आलीनवल्लरीरूपं यथा पद्माक्षकोटरे | आस्ते कमलिनीबीजं तथा द्रष्टरि दृश्यधीः || ४२ || साविद्ये द्रष्टरि दृश्यसद्भावं दृष्टान्तैः साधयति - आलीनेत्यादिचतुर्भिः | पद्माक्षकोटरे भाविकमलिनीवल्ल्या बीजमुपादानभूतमालीनं सूक्ष्मीभूतं पद्मवल्लरीरूपं यथा आस्ते असत उत्पत्त्ययोगात्तथा द्रष्टरि दृश्यसहिता धीरस्त्येवेत्यर्थः || ४२ || यथा रसः पदार्थेषु यथा तैलं तिलादिषु | कुसुमेषु यथाऽमोदस्तथा द्रष्टरि दृश्यधीः || ४३ || यत्र यत्र स्थितस्यापि कर्पूरादेः सुगन्धिता | यथोदेति तथा दृश्यं चिद्धातोरुदरे जगत् || ४४ || सतश्चोद्भवोऽपि दुर्वार इत्यत्रापि दृष्टान्तमाह - यत्रेति || ४४ || यथा चात्र तव स्वप्नः संकल्पश्चित्तराज्यधीः | स्वानुभूत्यैव दृष्तान्तस्तथा हृद्यस्ति दृश्यभूः || ४५ || यदुक्तं परमाणूदरेऽपीति तत्रापि तमाह - यथेति | यथा तव हृदि अन्तर्मनोराज्यधीः स्वानुभूत्यैव दृष्टा | स्वप्नः संकल्पश्च दृष्ट इति विपरिणामः || ४५ || तस्माच्चित्तविकल्पस्थपिशाचो बालकं यथा | विनिहन्त्येवमप्येतं द्रष्टारं दृश्यरूपिका || ४६ || एवमुक्तदृष्टान्तवत् एतं द्रष्टारमपि दृश्य लक्षणा रूपिका निहन्ति | स्त्रीवेषेण मोहयित्वा पुरुषान्निघ्नन्त्यः पिशाच्यो रूपिका इत्युच्यन्ते || ४६ || यथाङ्कुरोऽन्तर्बीजस्य संस्थितो देशकालतः | करोति भासुरं देहं तनोत्येवं हि दृश्यधीः || ४७ || यदि सर्वं दृश्यं हृद्यस्ति तर्ह्यधुनैव सर्वैः कुतो नानुभूयते तत्राह - यथेति | देशकालकर्मपरिपाका अपि तदाविर्भावसहकारिण इति भावः || ४७ || द्रव्यस्य हृद्येव चमत्कृतिर्यथा सदोदितास्त्यस्तमितोज्झितोदरे | द्रव्यस्य चिन्मात्रशरीरिणस्तथा स्वभावभूतास्त्युदरे जगत्स्थितिः || ४८ || अतर्क्याकार्यवैचित्र्यशक्तिश्चमत्कृतिः सा यथा बीजादिद्रव्यस्योदरे कोटरे हृदि सारभागे एवास्ति तथा चिन्मात्रस्वभावस्य विद्याशरीरिणोऽप्यात्मद्रव्यस्याप्युदरेऽन्तश्चिदचित्संवलनस्वभावभूता जगत्स्थितिरतीतानागतजगत्सत्तास्तीत्युक्तार्थनिगमनम् || ४८ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे बन्धहेतुवर्णनं नाम प्रथमः सर्गः || १ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे बन्धहेतुवर्णनं नाम प्रथमः सर्गः || १ || द्वितीयः सर्गः २ श्रीवसिष्ठ उवाच | इदमाकाशजाख्यानं शृणु श्रवणभूषणम् | उत्पत्त्याख्यं प्रकरणं येन राघव बुध्यसे [बुध्यते इति पाठः] || १ || अज्ञो भौतिकदेहात्मा मृत्युभक्षो न तत्त्ववित् | आकाशजो द्विज इव चिन्मात्रात्मेति कीर्त्यते || १ || कामकर्मवासनासंभृताविद्योपहित आत्मैव जगद्बीजं मृत्युबीजं च | विद्यया तद्बीजशक्तिदाहे तु मृत्युवशो भवतीति प्रागुक्तार्थे विशेषं दर्शयितुं जगदाद्यस्रष्टृतत्त्वशोधनेन वक्ष्यमाणार्थोपोद्धातसंगतामाख्यायिकां वर्णयिष्यन् श्रीवसिष्ठ उवाच - इदमिति | आकाशादध्यस्ता विद्या नैल्याधारत्वेनाकाशसदृशाद- विद्यावृतत्वादीषत्प्रकाशाद्वा ब्रह्मणो जात आकाशजो लिङ्गसमष्ट्यात्मा हिरण्यगर्भस्तस्याख्यानम् || १ || अस्ति ह्याकाशजो नाम द्विजः परमधार्मिकः | ध्यानैकनिष्ठः सततं प्रजानां च हिते रतः || २ || तद्यथा कृताय विजितायाधरेयाः संयन्ति इत्यादिश्रुत्या हैरण्यगर्भपदप्रापकसंवर्गविद्यादिधर्मे सर्वप्रजाकृतधर्माणामन्तर्भाववर्णनात्परमधार्मिकः | ध्यानमात्मचिन्तनं तदेकनिष्ठः || २ || प्. १३१) स चिरं जीवति यदा तदा मृत्युरचिन्तयत् | सर्वाण्येव क्रमेणाहं भूतान्यद्मि किलाक्षयः || ३ || चिरं जीवति मृत्युवशो न भवति यदा तदेत्यर्थः || ३ || एनमाकाशजं विप्रं न कस्माद्भक्षयाम्यहम् | अत्र मे कुण्ठिता शक्तिः खड्गधारा इवोपले || ४ || इति संचिन्त्य तं हन्तुमगच्छत्तत्पुरं तदा | त्यजन्त्युद्यममुद्युक्ता न स्वकर्माणि केचन || ५ || तत्पुरं मेरुमध्ये प्रसिद्धम् | सत्यलोके मृत्योरप्रवेशात् | उद्युक्ता उद्योगयुक्ताः समर्थाः || ५ || ततस्तत्सदनं यावन्मृत्युः प्रविशति स्वयम् | तावदेनं दहत्यग्निः कल्पान्तज्वलनोपमः || ६ || समाधिविघातकप्रतिरोधाय पूर्वमेव ब्रह्मणा प्राकारतया संकल्पितोऽग्निः | एनं मृत्युम् || ६ || अग्निज्वालामहामालां विदार्यान्तर्गतो ह्यसौ | द्विजं दृष्ट्वा समदातुं हस्तेनैच्छत्प्रयत्नतः || ७ || अग्निज्वालानां महतीं मालां वलयं विदार्य || ७ || नचाशकत्पुरो दृष्टमपि हस्तशतैर्द्विजम् | बलवानप्यवष्टब्धुं संकल्पपुरुषं यथा || ८ || अवष्टब्धुं स्प्रष्टुम् || ८ || अथागत्य यमं मृत्युरपृच्छत्संशयच्छिदम् | किमित्यहं न शक्नोमि भोक्तुमाकाशजं विभो || ९ || यम उवाच | मृत्युओ न किंचिच्छक्तस्त्वमेको मारयितुं बलात् | मारणीयस्य कर्माणि तत्कर्तॄणीति नेतरत् || १० || एकः असहायः | तत्कर्तॄणि मारणकर्तॄणि | इति एतस्मान्नेतरत्त्वदशक्तौ कारणमिति शेषः || १० || तस्मादेतस्य विप्रस्य मारणीयस्य यत्नतः | कर्माण्यन्विष्य तेषां त्वं साहाययेनैनमत्स्यसि || ११ || अन्विष्य गवेषणं कुरु | एष गतौ श्यन् लोट् हिः | साहाययेन आनुकूल्येन || ११ || ततः स मृत्युर्बभ्राम तत्कर्मान्वेषणादृतः | मण्डलानि दिगन्तांश्च सरांसि सरितो दिशः || १२ || कस्मिन्देशेऽयं प्राक्किं कर्म कृतवानिति सप्रणिधानं पर्यालोचनमेव चिरयत्ननिष्पाद्यत्वाद्बभ्रामेत्युच्यते न देशसंचरणम् | कर्तृलिङ्गसमवायिनामदृष्टानां बहिरन्वेषणाप्रसक्तेः || १२ || वनजङ्गलजालानि शैलानब्धितटानि च | द्वीपान्तराण्यरण्यानि नगराणि पुराणि च || १३ || पुराणि महानगरोपकण्ठे शाखानगराणि ||१३ || ग्रामाण्यखिलराष्ट्राणि देशान्तर्गहनानि च | एवं भूमण्डलं भ्रान्त्वा न कुतश्चित्स कानिचित् || १४ || तान्याकाशजकर्माणि लब्धवान्मृत्युरुद्यतः | वन्ध्यापुत्रमिव प्राज्ञः संकल्पाद्रिमिवापरः || १५ || लब्धवानुपलब्धवान् | अपरः संकल्पयितुरन्यः पुरुषः || १५ || समपृच्छदथागत्य यमं सर्वार्थकोविदम् | परायणं हि प्रभवः संदेहेष्वनुजीविनाम् || १६ || अनुजीविनां भृत्यानाम् || १६ || मृत्युरुवाच | आकाशजस्य कर्माणि क्व स्थितानि वद प्रभो | धर्मराजोऽथ संचिन्त्य सुचिरं प्रोक्तवानिदम् || १७ || धर्मराज उवाच | आकाशजस्य कर्माणि मृत्यो सन्ति न कानिचित् | एष आकाशजो विप्रो जातः खादेव केवलात् || १८ || प्रारब्धाधिकारफलानां फलारम्भेनैव विनाशात्संचितानां ज्ञानेन बाधादागामिनां बीजाभावान्न सन्त्येवेत्युक्तिः || १८ || आकाशादेव यो जातः स व्योमैवामलं भवेत् | सहकारीणि नो सन्ति न कर्माण्यस्य कानिचित् || १९ || सहकारिण्यभिमानरागादीनि मृत्योर्मारणे वा सहकारीणि कर्माण्यद्यतनानीति शेषः || १९ || संबन्धः प्राक्तनेनास्य न मनागपि कर्मणा | अस्ति वन्ध्यासुतस्येव तथाऽजाताकृतेरिव || २० || संबन्ध इति | तथाच सूत्रम् - तदधिगम उत्तरपूर्वाधयोरश्लेषविनाशौ इति | अजाताकृतेरनुत्पन्नाकारस्येव || २० || कारणानामभावेन तस्मादाकाशमेव सः | नैतस्य पूर्वकर्मास्ति नभसीव महाद्रुमः || २१ || कारणानामविद्यादीनां निर्विकारस्य विकारहेतूनां वा | तस्माद्विकारायोगात् || २१ || नैतदस्यावशं चित्तमभावात्पूर्वकर्मणाम् | अद्य तावदनेनाद्यं [अनेनान्यत्र किंचित् इति पाठः] न किंचित्कर्म संचितम् || २२ || मास्तु शारीरं मानसं तु स्यात्तत्राह - नैतदिति | पूर्वदेहस्पन्दवासनावशो हि चित्तस्पन्दः तदभावादेवाद्यतनं शारीरमपि आद्यमदनार्हं मृत्योः कर्म न संचितम् || २२ || एवमाकाशकोशात्मा विशदाकाशरूपिणि | स्वकारणे स्थितो नित्यः [नित्यं कर्माण्यस्य न कानिचित् इति पाठः] कारणानि न कानिचित् || २३ || एवंच सत्ययं परब्रह्मस्वभाव एव स्थितो न दृश्यस्त्रभाव इत्याह - एवमिति || २३ || प्राक्तनानि न सन्त्यस्य कर्माण्यद्य करोति नो | किंचिदप्येवमेषोऽत्र विज्ञानाकाशमात्रकः || २४ || तद्भावे तु प्राक्तनकर्मादिप्रसक्तिरेव नास्तीत्याह - प्राक्तनानीति || २४ || प्राणस्पन्दोऽस्य यत्कर्म लक्ष्यते चास्मदादिभिः | दृश्यतेऽस्माभिरेवं [रेवैतत् इति पाठः] तन्न त्वस्यास्त्यत्र कर्मधीः || २५ || ननु तर्हि कथमयमस्माभिः प्राणदेहादिक्रियावान्दृश्यते तत्राह - प्राणेति | तदस्माभिः स्वाविद्यया भ्रान्त्या दृश्यते नत्वस्य तत्र सत्यताधीरस्तीत्यर्थः || २५ || संस्थिता भावयन्तीव चिद्रूपैव परात्पदात् | भिन्नमाकारमात्मीयं चित्स्तम्भे शालभञ्जिका || २६ || कथं तर्हि तस्य देहादिधीस्तामाह - संस्थितेति | चित्स्तम्भे चिद्रूपैव शालभञ्जिका प्रतिमा आत्मीयं भिन्नं चिद्विलक्षणमाकारं भावयन्तीव स्थिता | तथाच भावनामात्ररूपं तन्न वास्तवमित्यस्य धीरित्यर्थः || २६ || प्. १३२) तथैव परमार्थात्सखात्मभूतः [परमार्थन्तः स्वात्मभूत इति पाठः] स्थितो द्विजः | यथा द्रवत्वं पयसि शून्यत्वं च यथाम्बरे || २७ || क्वचित्त्वस्य दृष्टान्तर्थमनुत्कीर्णा यथा स्तम्भे संस्थिता शालभञ्जिकेत्यर्धमधिकं पठ्यते || २७ || स्पन्दत्वं च यथा वायोस्तथैष परमे पदे | कर्माण्यद्यतनान्यस्य संचितानि न सन्ति हि || २८ || न पूर्वाण्येष तेनेह न संसारवशं गतः | सहकारिकारणानामभावे यः प्रजायते || २९ || उपपादितप्रकारेण कर्मासंभवानुवादस्य फलकीर्तनं न संसारवशं गत इति | प्रसिद्धरजतकारणाजन्यशुक्तिरजतस्येव तदीयदेहादेर्मिथ्यात्वनिर्णये तत्प्रयुक्तकर्तृत्वादिबाधान्न मृत्यवाक्रमणप्रसक्तिरित्याह - सहकारीत्यादिना वदेत्यन्तेन || २९ || नासौ स्वकारणाद्भिन्नो भवतीत्यनुभूयते | कारणानामभावेन तस्मादेष स्वयंभवः || ३० || कर्ता न पूर्वं नाप्यद्य कथमाक्रम्यते वद | यदैष कल्पनां बुद्ध्या मृतिनाम्नीं करिष्यति || ३१ || ननु जीवान्तराणामप्येतद्व्यष्ठित्वात्कथं ते वा मृत्युना गृह्यन्ते तत्राह - यदैष इति | यस्य जीवस्य पृथ्व्यादिमान् देह एवाहमिति निश्चयोऽस्ति स मूढः पार्थिवदेह एव भवति तस्य एष ब्रह्मा यदा सत्यसंकल्पबुद्ध्या मृतिनाम्नीं कल्पनां करिष्यति तदा स त्वया ग्रहीतुं शक्यत इत्यर्थः || ३१ || पृथ्व्यादिमानयमहमिति यस्य च निश्चयः | स पार्थिवो भवत्याशु ग्रहीतुं स च शक्यते || ३२ || पृथ्व्यादिकलनाभावादेष विप्रो न रूपवान् | दृढरज्ज्वेव गगनं ग्रहीतुं नैव युज्यते || ३३ || पृथ्व्यादिमयदेहकलनाया अभावान्न रूपवान्नाकारवान् || ३३ || मृत्युरुवाच | भगवञ्जायते शून्यात्कथं नाम वदेति मे | पृथ्व्यादयः कथं सन्ति न सन्ति वद वा कथम् || ३४ || निर्विकारस्य शून्यस्य विकारमजस्य जन्म सतां पृथ्व्यादीनामसत्त्वं चोक्तमसंभावयन्मृत्युरुवाच - भगवन्निति || ३४ || यम उवाच | न कदाचन जातोऽसौ न च नास्ति कदाचन | द्विजः केवलविज्ञानभामात्रं तत्तथा स्थितः || ३५ || परस्याकाशत्वोक्तिः पृथ्व्यादीनामसत्त्वोक्तिश्च न शून्यत्वाभिप्रायेण किंतु कार्यस्य कारणपृथक्सत्ताशून्यत्वाभिप्रायेण एवमजस्य जन्मोक्तिर्विवर्ताभिप्रायेण न परिणामाभिप्रायेणेत्याशयं सूचयन् यम उवाच - न कदाचनेति | यतोऽयं द्विजः परमार्थतः केवलं विज्ञानभामात्रं तत्ततो हेतोस्तथैव सदा स्थितो न विकृत इत्यर्थः || ३५ || महाप्रलयसंपत्तौ न किंचिदवशिष्यते | ब्रह्मास्ते शान्तमजरमनन्तात्मैव केवलम् || ३६ || आद्यन्तयोस्तन्मात्रपरिशेषात्तदेवास्य स्वाभाविकं सत्यं रूपमित्याशयेनाह - महाप्रलयेति सार्धेन || ३६ || शून्यं नित्योदितं सूक्ष्मं निरुपाधि परं स्थितम् | तदा तदनु येनास्य निकटेऽद्रिनिभं महः || ३७ || तदा प्रलये स्थितमित्यन्वयः | यदुक्तं दृश्यतेऽस्माभिरेवं तदिति तदुपपादयति - तदन्वित्यादिना | तदनु सर्गारम्भकाले येन वासनादृष्टसंभृतजीवाविद्याहेतुना अस्य संविन्मात्रस्वभावत्वान्निकटे पुरोविषयभावेन अद्रिनिभं पर्वतवदनिवार्यं विराडरूपं चतुर्मुखं वा देहोऽहमित्यभिलापार्हं महः स्थूलं रूपं चेतति ईषत्स्फुरति तदा तेनैव तादृशविद्याहेतुना काकतालीयवदकस्मात्स्वप्न इव भ्रान्तं मिथ्याभूतं तमाकारं पश्यति | अस्मदादिजन इत्यर्थः || ३७ || संविन्मात्रस्वभावत्वाद्देहोऽहमिति चेतति | काकतालीयवद्भ्रान्तमाकारं तेन पश्यति || ३८ || स एष ब्राह्मणस्तस्मिन्सर्गादावम्बरोदरे | निर्विकल्पश्चिदाकाशरूपमास्थाय संस्थितः || ३९ || तथाच परदृष्ट्यध्यस्तदेहादिना नास्य निर्विकल्पतादिक्षतिरिति प्रागुक्तमव्याहतमित्याशयेनाह - स एष इत्यादि || ३९ || नास्य देहो न कर्माणि न कर्तृत्वं न वासना | एष शुद्धचिदाकाशो विज्ञानघन आततः || ४० || प्राक्तनंवासनाजालं किंचिदस्य न विद्यते | केवलं व्योमरूपस्य भारूपस्येव तेजसः || ४१ || वेदनामात्रसंशान्तावीदृशोऽपि न दृश्यते | तस्माद्यथा चिदाकाशस्तथा तत्प्रतिपत्तयः || ४२ || वेदना बहिर्मुखचित्प्रवृत्तिस्तन्मात्रसंशान्तौ ईदृशः प्रातिभासिकरूपोऽपि | वेदनाशान्तिस्तर्हि कथं तत्राह - तस्मादिति | अधिष्ठानतत्त्वपरिचयेन विषयबाधे तत्प्रतिपत्तयो वेदना अपि यथा चिदाकाशस्तथैव तद्भावादवतिष्ठन्त इत्यर्थः || ४२ || कुतः किलात्र पृथ्व्यादेः कीदृशः संभवः कथम् | एतदाक्रमणे मृत्यो तस्मान्मा यत्नवान्भव || ४३ || यत्र चित्स्वभावानां वेदनानामप्यसहनं तत्र दूरे पृथ्व्यादिसहनसंभावनेति तव नाक्रमणं प्रत्याशेत्याशयेनाह - कुत इति || ४३ || ग्रहीतुं युज्यते व्योम न कदाचन केनचित् | श्रुत्वैतद्विस्मितो मृत्युर्जगाम निजमन्दिरम् || ४४ || श्रीराम उवाच | ब्रह्मैष कथितो देवस्त्वया मे प्रपितामहः | स्वयंभूरज एकात्मा विज्ञानात्मेति मे मतिः || ४५ || आकाशजद्विज इति नामान्तरप्रतिपादितो ब्रह्मैव मया आख्यायिकातात्पर्यार्थो जगन्मिथ्यात्वमपि परिज्ञातमिति सूचनेन गुरुं प्रहर्षयन् श्रीराम उवाच ##- प्. १३३) श्रीवसिष्ठ उवाच | एवमेतन्मया राम ब्रह्मैष कथितस्तव | विवादमकरोन्मृत्युर्यमेनैतत्कृते पुरा || ४६ || विवादं संवादम् || ४६ || मन्वन्तरे सर्वभक्षो यदा मृत्युर्हरन्प्रजाः | बलमेत्यब्जजाक्रान्तावारम्भमकरोत्स्वयम् || ४७ || मन्वोः अन्तरे संधिकाले | अब्जजस्याक्रान्तौ मारणे | आरम्भमुद्योगम् || ४७ || तदैव धर्मराजेन यएम्नाश्वनुशासितः | यदेव क्रियते नित्यं रतिस्तत्रैव जायते || ४८ || कथमशक्येऽपि मृत्योः पुनःपुनरुद्योग इति चेद्व्यसनितयेत्याह - यदेवेति || ४८ || ब्रह्मा किल पराकाशवपुराक्रम्यते कथम् | मनोमात्रं च संकल्पः पृथ्व्यादिरहिताकृतिः || ४९ || आख्यायिकामुखोक्तार्थं कण्ठतोऽपि वदंस्तच्छरीरादेर्मनोमात्रत्वमाह - ब्रह्मेति || ४९ || यश्चिद्व्योमचमत्कारः किलाकारानुभूतिमान् | स चिद्व्योमैव नो तस्य कारणत्वं न कार्यता || ५० || आकाशस्फुरदाकारः संकल्पपुरुषो यथा | पृथ्व्यादिरहितो भाति स्वयंभूर्भासते तथा || ५१ || आकाशे यथा अवाङ्मुखेन्द्रनीलमहाकटहाकारः पृथ्व्यादिरहितो भाति तथेत्यर्थः || ५१ || निर्मले व्योम्नि मुक्तालीसंकल्पस्वप्नयोः पुरम् | अपृत्व्यादि यथा भाति स्वयंभुर्भासते तथा || ५२ || न दृश्यमस्ति न द्रष्टा परमात्मनि केवले | स्वयंचित्ता तथाप्येष स्वयंभूरिति भासते || ५३ || स्वयंचित्ता चिन्मात्रस्वभावतैव अस्ति || ५३ || संकल्पमात्रमेवैतन्मनो ब्रह्मेति कथ्यते | संकल्पाकाशपुरुषो नास्य पृत्व्यादि विद्यते || ५४ || संकल्पमात्रमेव मनोरूपं न पृथ्व्यादिघटितं स एव ब्रह्मा पद्मज इत्यर्थः || ५४ || यथा चित्रकृदन्तःस्था निर्देहा भाति पुत्रिका | तथैव भासते ब्रह्मा चिदाकाशाच्छरञ्जनम् || ५५ || निराकारस्य संकल्पस्य कथं पुरुषाकारता तत्राह - यथेति | चित्रकृतो हि लेख्यप्रतिमाकारमन्तः संकल्पेन विधाय तथैव बहिर्लिखतोऽन्तःस्था पुत्रिका चित्रप्रतिमा यथा निर्देहापि तदाकारा भाति तथैव चिदाकाशस्याच्छं स्वच्छं यद्रञ्जनं प्रतिबिम्बग्राहकं मनस्तद्ब्रह्मा प्रजापतिशरीराकारं भाति || ५५ || चिद्व्योमकेवलमनन्तमनादिमध्यं ब्रह्मेति भाति निजचित्तवशात्स्वयंभूः | आकारवानिव पुमानिव वस्तुतस्तु वन्ध्यातनूज इव तस्य तु नास्ति देहः || ५६ || तत्र मनसस्तदाकारकल्पनापरिणामो न वास्तवः किंतु शुद्धं ब्रह्मैवाज्ञानात्तथा विवर्तत इत्याह - चिद्व्योमेति | ब्रह्मा स्वयंभूरित्याकारवानिवेत्यन्वयः || ५६ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे आद्यसृष्टिकर्तृवर्णनं नाम द्वितीयः सर्गः || २ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे आद्यसृष्टिकर्तृवर्णनं नाम द्वितीयः सर्गः || २ || तृतीयः सर्गः ३ श्रीराम उवाच | एवमेव मनः शुद्धं पृथ्व्यादिरहितं त्वया | मनो ब्रह्मेति कथितं सत्यं पृथ्व्यादिवर्जितम् || १ || मनोरूपो यतो ब्रह्मा तत्संकल्पमयं जगत् | मनोराज्यवदेवेदमसदित्यत्र कीर्त्यते || १ || मनोमात्रं च संकल्पः पृथ्व्यादिरहिताकृतिः इति प्रागुक्तरीत्या ब्रह्मणो मनोरूपत्वाभ्युपगमे मनसो वासनाजालरूपत्वात्प्राक्तनं वासनाजालं किंचिदस्य न विद्यत इत्युक्तिरयुक्तेति मन्यमानः श्रीराम उवाच - एवमेवेति द्वाभ्याम् | मनः शुद्धं पृथ्व्यादिरहितम् एवमेव प्रसिद्धम् | उत्तरत्र तर्हीत्यर्थे तदिति प्रयोगात्तदाकाङ्क्षितमत्र यदीत्यध्याहार्यम् || १ || तदत्र प्राक्तनी ब्रह्मन्स्मृतिः कस्मान्न कारणम् | यथा मम तवान्यस्य भूतानां चेति मे वद || २ || अत्रास्मिन्ब्रह्मणः शरीरे प्राक्तनीपूर्वशरीरत्यागकालोद्भूता स्मृतिस्तव मम अन्यस्य वा पुरुषस्य भूतानां पश्वादीनां च शरीरे प्राक्तनी स्मृतिर्यथा कारणं तथा कस्मात्कारणं न यं यं वापि स्मरन्भावम् इत्यादिस्मृतेः | यदि प्राक्तनी स्मृतिरस्ति तर्हि तदुद्भवाधारसंस्कारदेहादिकमपि प्राक्तनं दुर्वारमिति भावः || २ || श्रीवसिष्ठ उवाच | पूर्वदेहोऽस्ति यस्याद्य पूर्वकर्मसमन्वितः | तस्य स्मृतिः संभवति कारणं संसृतिस्थितेः || ३ || सत्यं पूर्वदेहादिसिद्धौ तदनुभूतगोचरा स्मृतिः कारणं स्यात्तदेवासिद्धमिति श्रीवसिष्ठ उवाच - पूर्वमिति द्वाभ्याम् | ननु तद्धैतल्लोकजिदेव इत्यादिश्रुतिभिस्तत्क्रतुन्यायेन च हैरण्यगर्भपदस्य कर्मोपासनसमुच्चयफलत्वप्रसिद्धेः कथं प्राग्देहवासनाद्यसत्त्वोक्तिः कथं वा मनोमयस्य तद्देहस्यापृथ्व्यादिमयत्वोक्तिर्मनसः अन्नमयं हि सौम्य मनः इत्यन्नविकारत्वपरश्रुतिविरोधादपञ्चीकृतभूतकार्यत्वसिद्धान्तविरोधाच्चेत् इ चेत् | सत्यम् | अज्ञदृशैवं यन्मदन्यन्नास्ति कस्मान्नु विभेमीति सह सिद्धं चतुष्टयम् इति श्रुतिस्मृतिसिद्धतदीयतत्त्वदृशा तु त्रैकालिकप्रपञ्चस्यापि नासीदस्ति भविष्यतीति त्रैकालिकबाधान्न पूर्वदेहवासनादिसत्त्वमिति तथोक्तिः | बाधितानुवृत्तौ तु मनसि तद्देहे च दग्धपटे तान्तवत्वमिव न पृथ्व्यादिमयत्वं यथापूर्वमस्तीति न कश्चिद्विरोधः | यत्राबाधिताज्ञमनःसंकल्पनगरादेरपि न सत्यत्वं भौतिकत्वं वा तत्र किं वाच्यं तत्त्वज्ञानबाधितानुवृत्तवेरिञ्च्यमनःसंकल्पजस्य विश्वस्य तथात्वमित्यभिप्रत्य वक्ष्यमाणजगन्मिथ्यात्वोपयिकत्वात्तत्त्वदृष्टिमेवावष्टभ्य पूर्वदेहवासनाद्यपलापो नाज्ञदृष्ट्यनुवाद्युपास्तिफलश्रुतिपुरस्कारेणेति || ३ || प्. १३४) ब्रह्मणः प्राक्तनं कर्म यदा किंचिन्न विद्यते | प्राक्तनी संस्मृतिस्तस्य तदोदेति कुतः कथम् || ४ || तस्मादकारण भाति वा स्वचित्तैककारणम् | स्वकारणादनन्यात्मा स्वयंभूः स्वयमात्मवान् || ५ || स्वचित्तं देहद्रष्टृचित्तं तदेकं कारणमिति तस्य स्वतश्चित्ताभावोक्तिः || ५ || आतिवाहिक एवासौ देहोऽस्त्यस्य स्वयंभुवः | न त्वाधिभौतिको राम देहोऽजस्योपपद्यते || ६ || आतवहनमर्चिर्धूमादिमार्गेण लोकान्तरप्रापणं तत्र साधूरस्मदादिलिङ्गदेह इवातिवाहिकः | सूक्ष्म इति यावत् | आधिभौतिकः स्थूलभूतजः || ६ || श्रीराम उवाच || आतिवाहिक एकोऽस्ति देहोऽन्यस्त्वाधिभौतिकः | सर्वासां भूतजातीनां ब्रह्मणोऽस्त्येक एव किम् || ७ || श्रीवसिष्ठ उवाच || सर्वेषामेव देहौ द्वौ भूतानां कारणात्मनाम् | अजस्य कारणाभावादेक एवातिवाहिकः || ८ || कारणात्मनां चक्षुरादिव्यावहारिकप्रमाणवद्यपञ्चीकृतभूतरूपकारणात्मनाम् | कारणाभावात् अविद्याऽपञ्चीकृतभूतानामनन्यपरश्रुतिचक्षुराद्यवेद्यत्वेन साक्षिवेद्यत्वेन च प्रातिभासिकत्वेन व्यावहारिकसत्यत्वाभावात्प्रागुक्तरीत्या वा कारणाभावादित्यर्थः || ८ || सर्वासां भूतजातीनामेकोऽजः कारणं परम् | अजस्य कारणं नास्ति तेनासावेकदेहवान् || ९ || प्रकारान्तरेणाप्याह - सर्वासामिति || ९ || नास्त्येव भौतिको देहः प्रथमस्य प्रजापतेः | आकाशात्मा च भात्येष आतिवाहिकदेहवान् || १० || आकाशात्मा चिदाकाशमात्ररूपः | आरोपितस्याधिष्ठानातिरिक्तस्वरूपाभावात् || १० || चित्तमात्रशरीरोऽसौ न पृथ्व्यादिक्रमात्मकः | आद्यः प्रजापतिर्व्योमवपुः प्रतनुते प्रजाः || ११ || इत्थं च तत्संकल्पकल्पितजगतोऽपि तदधिष्ठानचिन्मात्रता फलितेति विवक्षुराह - वित्तेति || ११ || ताश्च विद्व्योमरूपिण्यो विनान्यैः कारणान्तरैः | यद्यतस्तत्तदेवति सर्वैरेवानुभूयते || १२ || अन्यैस्तत्संकल्पव्यतिरिक्तैः कारणान्तरैः कारणभेदैः | यतो यस्मादुपादानाज्जातमिति शेषः | अनुभूयते कनककुण्डलादौ | तथा च जगतो ब्रह्ममात्रता सिद्धेति भावः || १२ || निर्वाणमात्रं पुरुषः परो बोधः स एव च | चित्तमात्रं तदेवास्ते नायाति वसुधादिताम् || १३ || तेन जीवस्यापि तन्मात्रता सिद्धेत्याह - निर्वाणमात्रमिति | यतः स चित्तोपाधिश्चित्तभ्रान्त्या चित्तमात्रभूतोऽपि परमार्थतः स चिदाकाश एवास्ते न भौतिकपुरुषादिभावमायातीत्यर्थः || १३ || सर्वेषां भूतजातानां संसारव्यवहारिणाम् | प्रथमोऽसौ प्रतिस्पन्दश्चित्तदेहः स्वतोदयः || १४ || स्वता अहंभावस्तस्योदयः || १४ || अस्मात्पूर्वात्प्रतिस्पन्दादनन्यैतत्स्वरूपिणी | इयं प्रविसृता सृष्टिः स्पन्दसृष्टिरिवानिलात् || १५ || एतदुपादानकस्थूलस्यैतन्मात्रत्वादनन्यैतत्स्वरूपिणी || १५ || प्रतिभानाकृतेरस्मात्प्रतिभामात्ररूपधृक् | विभात्येवमयं सर्गः सत्यानुभववान्स्थितः || १६ || अध्यस्तमनोविकारस्य जगतोऽप्यध्यस्ततैव फलितेत्याह - प्रतिभानेति | प्रतिभानं प्रतिभासस्तन्मात्रसिद्धाकृतेः प्रातिभासिकाकारादित्यर्थ्ः | अथवा परमार्थचिन्मात्राकाराच्चिन्मात्ररूपधृगपि सर्ग एवं परिदृश्यमानाऽचिदाकारेण विभातीत्यर्थः || १६ || दृष्टान्तोऽत्र भवत्स्वप्नपुरस्त्रीसुरतं [स्वप्नस्वप्नस्त्री इति मुद्रितपुस्तके पाठः] यथा | असदप्यर्थसंपत्त्या सत्यानुभवभासुरम् || १७ || स्वप्ने योऽन्यः स्वप्नस्तत्रत्यस्त्रीसुरतमिति सूक्ष्मकल्पनान्तर्गतस्थूलकल्पनादृष्टान्तत्वोपपत्त्यर्थम् | अर्थसंपत्त्या व्यवहारप्रयोजननिष्पत्त्या || १७ || अपृथ्व्यादिमयो भाति व्योमाकृतिरदेहकः | सदेह इव भूतेशः स्वात्मभूः पुरुषाकृतिः || १८ || तथाच प्रागुक्तं नासंभावितमित्याह - अपृथ्व्यादीति || १८ || संवित्संकल्परूपत्वान्नोदेति समुदेति च | स्वायत्तत्वात्स्वभावस्य नोदेति न च शाम्यति || १९ || नोदेति परमार्थतः समुदेति भ्रान्त्या तत्राद्यमुपपादयति - स्वायत्तत्वादिति | जगद्भाववदविद्याद्यधीनत्वाभावादिति भावः | स्वभावस्य स्वरूपस्थितेः || १९ || ब्रह्मा संकल्पपुरुषः पृथ्व्यादिरहिताकृतिः | केवलं चित्तमात्रात्मा कारणं त्रिजगत्स्थितेः || २० || संकल्प एष कचति यथा नाम स्वयंभुवः | व्योमात्मैष तथा भाति भवत्संकल्पशैलवत् || २१ || यथा यादृशप्राणिकर्मानुरोधेन येन येन प्रकारेण कचति विकसति | तथा तेन प्रकारेण || २१ || आतिवाहिकमेवान्तर्विस्मृत्या दृढरूपया | आधिभौतिकबोधेन मुधा भाति पिशाचवत् || २२ || तर्हि कथं सर्वेषां संकल्पशैलविलक्षणाधिभौतिकत्वार्थक्रियासामर्थ्याद्यनुभवस्तत्राह ##- प्. १३५) इदं प्रथमतोद्योगसंप्रबुद्धं महाचितेः | नोदेति शुद्धसंवित्त्वादातिवाहिकविस्मृतिः || २३ || तर्हि विरिञ्चेरप्यस्मदादिवदातिवाहिकभावविस्मृतिः किं न स्यात्तत्राह - इदमिति | इदं वैरिञ्चं रूपं महाचितेर्मायाशबलब्रह्मणः प्रथमता सर्वस्थूलप्रपञ्चापेक्षया कारणीभूतसूक्ष्मभूतात्मकतेति यावत् | तत्र उद्योगेन संकल्पेन सत्यसंकल्पत्वात्तथैव संप्रबुद्धं प्रत्यक्षमाविर्भूतमतस्तमोऽनाच्छादितत्वेन विरिञ्चेः शुद्धसंवित्त्वान्नातिवाहिकस्मृतिरुदेतीत्यर्थः || २३ || आधिभौतिकजातेन नास्योदेति पशाचिका | असत्या मृगतृष्णेव मिथ्या जाड्यभ्रमप्रदा || २४ || मनोमात्रं यदा [यथा ब्रह्मा इति पाठः] ब्रह्मा न पृथ्व्यादिमयात्मकः | मनोमात्रमतो विश्वं यद्यज्जातं तदेव हि || २५ || यदा यस्मिन्कल्पे यत इति वार्थः | यस्माज्जातं यजातम् || २५ || अजस्य सहकारीणि कारणानि न सन्ति यत् | तज्जस्यापि न सन्त्येव तानि तस्मात्तु कानिचित् || २६ || इत्थं च अन्नेन सोम्य शुङ्गेनापोमूलमन्विच्छ इति श्रुतिदर्शितन्यायेन जगतो मनोमात्रत्वं मनसश्च ब्रह्ममात्रतेति ब्रह्माद्वैतं फलितमित्याह - अजस्येत्यादित्रिभिः || २६ || कारणात्कार्यवैचित्र्यं तेन नात्रास्ति किंचन | यादृशं कारणं शुद्धं कार्यं तादृगिति स्थितम् || २७ || कार्यकारणता ह्यत्र न किंचिदुपपद्यते | यादृगेव परं ब्रह्म तादृगेव जगत्त्रयम् || २८ || इत्थं च भेदकाभावात्कार्यकारणभावायोगाज्जगद्ब्रह्मैव संपन्नमित्याह - कार्येति || २८ || मनस्तामिव यातेन ब्रह्मणा तन्यते जगत् | अनन्यादात्मनः [अनन्यत् इति पाठः] शुद्धाद्द्रवत्वमिव वारिणः || २९ || मनसा तन्यते सर्वमसदेवेदमाततम् | यथा संकल्पनगरं यथा गन्धर्वपत्तनम् || ३० || आधिभौतिकता नास्ति रज्ज्वामिव भुजङ्गता | ब्रह्मादयः प्रबुद्धास्तु कथं तिष्ठन्ति तत्र ते || ३१ || इत्थं च तत्त्वज्ञानां जगत एव बाधे देहादौ नाधिभौतिकताप्रत्ययसंभव इत्याह - आधिभौतिकतेति || ३१ || आतिवाहिक एवास्ति न प्रबुद्धमतेः किल | आधिभौतिकदेहस्य वाचो [चरचैवात्र इति पाठः] वात्र कुतः कथम् || ३२ || कैमुतिकन्यायेनाप्युक्तमर्थ द्रढयति - आतिवाहिकेति | आतिवाहिकः प्रातिभासिकः सोऽपि नास्त्येव तत्राधिभौतिकस्य वाचः कुतो हेतोः कथं केन प्रकारेण || ३२ || मनोनाम्नो मनुष्यस्य विरिञ्चयाकारधारिणः | मनोराज्यं जगदिति सत्यरूपमिव स्थितम् || ३३ || मनुष्यस्येति प्राक्तनोपासकावस्थां स्मृत्वोक्तिः || ३३ || मन एव विरिञ्चित्वं तद्धि संकल्पनात्मकम् | स्ववपुः स्फारतां नीत्वा मनसेदं वितन्यते || ३४ || विरिञ्चित्वं सर्वस्रष्टृत्वम् | हि यस्मात्तद्विरिञ्चित्वं विरिञ्चेः संकल्पनात्मकं न बाह्योपकरणाधीनम् | स्फारतां विपुलताम् | इदं विश्वम् || ३४ || विरिञ्चो मनसो रूपं विरिञ्चस्य मनो वपुः | पृथ्व्यादि विद्यते नात्र तेन पृथ्व्यादि कल्पितम् || ३५ || अत्र मनसि | तेन हेतुना मनसा वा कल्पितमध्यस्तमात्मनीति शेषः || ३५ || पद्माक्षे पद्मिनीवान्तर्मनो हृद्यस्ति दृश्यता | मनोदृश्यदृशौ भिन्ने न कदाचन केनचित् || ३६ || मनो हृदि | मनोन्तः दृश्यता लक्षणया दृश्यवर्गः | ननु कथं विरुद्धमिदमुच्यते | पृथ्व्यादि विद्यते नात्र मनो हृद्यस्ति दृश्यते इतिचेत्तत्राह - मनोदृश्येति | यतो मनश्च दृश्यं च तयोः समाहारो मनोदृश्यं तदुभयदृक् साक्ष्यात्मा च ते उभे केनचित्कदाचन न भिन्ने न विवेचिते | यावत्ते न विवेचिते तावदज्ञानानुच्छेदादस्त्येवेत्युक्तमिति भावः | अथवा मनश्च दृश्यदृक् दृश्यदर्शनं च तेन भिन्ने | तथाच मनस उच्छेद एव दृश्यदर्शनोच्छेद इति भावः || ३६ || यथा चात्र तव स्वप्नः संकल्पश्चित्तराज्यधीः | स्वानुभूत्यैव दृष्टान्तस्तस्माद्धृद्यस्ति दृश्यभूः || ३७ || तत्रान्वयव्यतिरेकसिद्धदृष्टान्तान्वदन्निगमयति - यथेति || ३७ || तस्माच्चित्तविकल्पस्थपिशाचो बालकं यथा | विनिहन्त्येवमेषान्तर्द्रष्टारं दृश्यरूपिका || ३८ || यथाङ्कुरोऽन्तर्बीजस्य संस्थितो देशकालतः | करोति भासुरं देहं तनोत्येवं हि दृश्यधीः || ३९ || दृश्यधीर्मनः || ३९ || सच्चेन्न शाम्यति कदाचन दृश्यदुःखं दृश्ये त्वशाम्यति न बोद्धरि केवलत्वम् | दृश्ये त्वसंभवति बोद्धरि बोद्धृभावः शाम्येत्स्थितोऽपि हि तदस्य विमोक्षमाहुः || ४० || ननु किमर्थं महता यत्नेन दृश्यमिथ्यात्वं साध्यते तस्य सत्यत्वे का क्षतिस्तत्राह - सच्चेदिति | स्थितोऽपि शाम्येत्किं पुनर्मिथ्याभूत इत्यर्थः | तत्केवलत्वमेव विमोश्नमाहुः || ४० || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे बन्धहेतुवर्णनं नाम तृतीयः सर्गः || ३ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे बन्धहेतुवर्णनं नाम तृतीयः सर्गः || ३ || प्. १३६) चतुर्थः सर्गः ४ श्रीवाल्मीकिरुवाच | कथयत्येवमुद्दामवचने मुनिनायके | श्रोतुमेकरसे जाते जने मौन्मुपस्थिते || १ || श्रुत्वोपदेशं प्रथममुत्थानादिनिशाक्रमः | प्रातरागमनं चित्रस्वभावश्चात्र [चित्तस्वभावश्च इति पाठः] वर्ण्यते || १ || एकरसे एकाग्रे || १ || शान्तेषु किङ्किणीजालरवेषु स्पन्दनं विना | पञ्जरान्तरहारीतशुकेष्वप्यस्तकेलिषु || २ || एकरसतामेव लिङ्गैर्दर्शयति - शान्तेष्वित्यादिना | हारीताः पक्षिविशेषाः || २ || सुविस्मृतविलासासु स्थितासु ललनास्वपि | चितभित्ताविव न्यस्ते समस्ते राजसद्मनि || ३ || राजसद्मनि लक्षणया राजसद्मस्थप्राणिनिकाये चित्रभित्तौ न्यस्ते चित्र इव स्थिते इति विपरिणामेनानुषङ्गः || ३ || मुहूर्तशेषमभवद्दिवसं मधुरातपम् | व्यवहारा रविकरैः सह तानवमाययुः || ४ || तानवमल्पताम् || ४ || ववुरुत्फुल्लकमलप्रकरामोदमांसलाः | वायवो मधुरस्पन्दाः श्रवणार्थमिवागताः || ५ || आमोदेन मांसलाः पुष्टाः | मधुरो मन्दत्वात्सुखकरः स्पन्दो येषाम् | सर्वत्र विशेषणानि साधारणानि | उपमानमुत्प्रेक्षा वा || ५ || श्रुतं चिन्तयितुं भानुरिवाहोरचनाभ्रमम् | तत्याजैकान्तमगमच्छून्यमस्तगिरेस्तटम् || ६ || भानुः श्रुतं श्रवणावधृतमर्थं चिन्तयितुं मननेन दृढीकर्तुमिवेत्युत्प्रेक्षा | शून्यं जनशून्यम् || ६ || उत्तस्थुर्मिहिकारम्भसमता वनभूमिषु | विज्ञानश्रवणादन्तःशीतलाः शान्तता इव || ७ || मिहिकानां तुषाराणामारम्भेण समता अविषमताः | अन्तःशीतला इति साधारणं विशेषणम् || ७ || बभूवुरल्पसंचारा जना दशसु दिक्ष्वपि | सावधानतया श्रोतुमिव संत्यक्तचेष्टिताः || ८ || संत्यक्तानि चेष्टितानि व्यापारान्तराणि यैः || ८ || छाया दीर्घत्वमाजग्मुर्वासिष्ठं वचनक्रमम् | इव श्रोतुमशेषाणां वस्तूनां दीर्घकन्धराः || ९ || अशेषाणां वस्तूनां छाया अशेषाणां श्रोतॄणां दीर्घाः कन्धराः कण्ठा वचनक्रमं श्रोतुमिव दीर्घत्वमाजग्मुः | असमासश्छान्दसः || ९ || प्रतीहारः पुरः प्रह्वो भूत्वाह वसुधाधिपम् | देव स्नानद्विजार्चासु कालो व्यतिगतो भृशम् || १० || प्रतीहारो द्वारपालः | प्रह्वो नम्रो भूत्वा || १० || ततो वसिष्ठो भगवान्संहृत्य मधुरां गिरम् | अद्य तावन्महाराज श्रुतमेतावदस्तु वः || ११ || संहृत्योपसंहृत्य || ११ || प्रातरन्यद्वदिष्यामि इत्युक्त्वा मौनवानभूत् | इत्याकर्णैवमस्तूक्त्वा भूपतिर्भूतिवृद्धये || १२ || एवमस्तु इत्युक्त्वा || १२ || पुष्पपाद्यार्घसन्मानदक्षिणादानपूजया | सदेवर्षिमुनीन्विप्रान्पूजयामास सादरम् || १३ || अथोत्तस्थौ सभा सर्वा सराजमुनिमण्डला | मण्डलाकीर्णरत्नौघपरिवेषावृतानना || १४ || सभाशब्दो जनवचनः | निःस्पृहैर्मुनिभी राजदत्तरत्नानामुपेक्षणान्मण्डलाकारेण कीर्णानां रत्नौघानां प्रभापरिवेषेऽन आवृतजनानना || १४ || परस्पराङ्गसंघट्टरणत्केयूरकङ्कणा | हारभाराहृतस्वर्णपट्टाभोरुस्तनान्तरा || १५ || हृता अपहृता स्वर्णजटितपट्टवस्त्राणां आभाकान्तिर्यैस्तथाविधानि ऊरुस्तनान्तराणि यस्याम् || १५ || शेखरोत्सङ्गविश्रान्तप्रबुद्धमधुपस्वनैः | सघुंघुमशिरोभारा वदद्भिरिव मूर्धजैः || १६ || शेखरस्य शिरोग्रस्य उत्सङ्गवद्विस्तृतभागे घुंघुमेत्यव्यक्तध्वन्यनुकरणम् || १६ || काञ्चनाभरणोद्द्योतकनकीकृतदिङ्मुखाः | बुद्धिस्थमुनिवागर्थसंशान्तेन्द्रियवृत्तयः || १७ || जग्मुर्नभश्चरा व्योम भूचरा भूमिमण्डलम् | चक्रुर्दिनसमाचारं सर्वे ते स्वेषु सद्मसु || १८ || एतस्मिन्नन्तरे श्यामा यामिनी समदृश्यत | जनसङ्गाद्विनिर्मुक्ता [जनसङ्घात् इति पाठः] गृहे बालाङ्गना यथा || १९ || श्यामा कृष्णा | बालाङ्गना | पक्षे यौवनमध्यस्था | संभवादुपमानदर्शनस्यापि तत्कालता गम्यते || १९ || देशान्तरं भासयितुं ययौ दिवसनायकः | सर्वत्रालोककर्तृत्वमेव सत्पुरुषव्रतम् || २० || सद्ब्रह्म तदात्मा पुरुषो ब्रह्म तन्निष्ठश्च तयोर्व्रतम् || २० || उदभूदभितः संध्या तारानिकरधारिणी | उत्फुल्लकिंशुकवना वसन्तश्रीरिवोदिता || २१ || चूतनीपकदम्बाग्रग्रामचैत्यगृहोदरे | निलिल्यिरे खगाश्चित्तेऽवदाता वृत्तयो यथा || २२ || अवदाता निर्मलाः | चित्ते अर्थान्निद्रावृते इति गम्यते || २२ || भानोर्भासा भूषितैर्मेघलेशैः किंचित्किंचित्कुङ्कुमच्छाययेव | पाश्चात्त्योऽद्रिः पीतवासाः समेघै- स्ताराहारः श्रीयुतः खवं समेतः || २३ || किंचित्किंचित्कुङ्कुमच्छाययेव विचित्रया भानोर्भासा भूषितैर्मेघैः पीतवासाः | तारालक्षणहारेण श्रिया च युक्तः | स प्रागुक्तः पाश्चात्त्योऽस्ताद्रिर्भानोर्भासा भूषितैर्मेघलेशैरुपलक्षितमर्थात्ताराहारं श्रीयुतं चेति समानधर्मकं स्वं आकाशं च समेतः प्रविष्टः | यथा पीतवासा विष्णुरुक्तधर्मा श्रीयुतो निरावरणं स्वानुरूपं ध्यायिनां हृदयाकाशं प्रविशति तद्वत् | संध्यासु हि भगवद्ध्यानं प्रशस्तमिति समासोक्त्या गम्यते || २३ || प्. १३७) पूजामादाय संध्यायां प्रगतायां यथागतम् | अन्धकाराः समुत्तस्थुर्वेताला वपुषा यथा || २४ || संध्यायां देव्यां पूजामादाय गतायां तद्गणा वेताला वपुषा यथा समुत्तिष्ठन्ति तद्वत् || २४ || अवश्यायकणास्पन्दी हेलाविद्युतपल्लवः | कोमलः कुमुदाशंसी ववावाशीतलोऽनिलः || २५ || कलिकाविकासात्कुमुदान्यासमन्ताच्छंसत्यनुमापयति तच्छीलः | विशेषणत्रयानुसारादाशीतलग्रहणं मान्द्यसौरभ्ययोरप्युपलक्षणम् || २५ || परमान्ध्यमुपाजग्मुर्दिशोऽविस्फुटतारकाः | लम्बदीर्घतमःकेश्यो विधवा इव योषितः || २६ || नीहारपटावृतत्वादविस्फुटास्तारका नक्षत्राणि कनीनिकाश्च यासां ताः | धवस्य भानोरस्तमयाद्विधवा इव || २६ || आययौ भुवनं तेजः क्षीरपूरेण पूरयन् | रसायनमयाकारः शशिक्षीरार्णवो [क्षीरार्णवोपमः इति पाठः] नभः || २७ || तेजोलक्षणेन दुग्धप्रवाहेण पूरयन् | रसायनममृतं तन्मयाकारः || २७ || जग्मुस्तिमिरसंघाताः पलायय क्वाप्यदृश्यताम् | श्रुतज्ञानगिरश्चित्तान्महीपानामिवाज्ञताः || २८ || श्रुता ज्ञानगिरो येन तथाविधान्महीपानां चित्तात् || २८ || ऋषयो भूमिपालाश्च मुनयो ब्राह्मणास्तथा | चेतसीव विचित्रार्थाः स्वास्पदेषु विशश्रमुः || २९ || विचित्राः वसिष्ठोपदिष्टा अर्थाः स्वचेतसीव स्वेषामास्पदेषु प्रतिष्ठासु विशश्रमुर्विश्रान्ताः || २९ || यमकायोपमाश्यामा ययौ तिमिरमांसला | आययौ मिहिकास्फारा तत्र तेषामुषः शनैः || ३० || श्यामा रात्रिः | उषः प्रत्यूषः || ३० || अन्तर्धानमुपाजग्मुस्तारा नभसि भासुराः | प्रभातपवनेनेव हृताः कुसुमवृष्टयः || ३१ || हृता अपनीताः | कुसुमवृष्टयो वृष्टिनिपतितकुसुमानीवेत्यत्र तात्पर्यम् || ३१ || दृश्यतामाजगामार्कः प्रभोन्मीलितलोचनः | विवेकवृत्तिर्महतां मनसीव नवोदिता || ३२ || प्रभाभिरुन्मीलितानि जनलोचनानि येन || ३२ || भानोर्भासा भूषितैर्मेघलेशैः किंचित्किंचित्कुङ्कुमच्छाययेव | पूर्वक्ष्माभृत्पीतवासाः समेघै-[स्तमोघ्नैः इति पाठः] स्ताराहारः श्रीयुतः खं समेतः || ३३ || तमोघ्नैः इति पाठे तमोविघातकैः काञ्चनशृङ्गैरित्यर्थः || ३३ || सभां पुनरुपाजग्मुर्नभश्चरमहीचराः | ह्यस्तनेन क्रमेणैव कृतप्रातस्तनक्रमाः || ३४ || ह्यस्तनेन पूर्वेद्युस्तनेन || ३४ || पूर्ववत्संनिवेशेन विवेश सकला सभा | बभूवास्पन्दिताकारा वातमुक्तेव पद्मिनी || ३५ || वातमुक्ता निर्वाता पद्मिनी पद्मवती सरसीव || ३५ || अथ प्रसङ्गमासाद्य रामो मधुरया गिरा | उवाच मुनिशार्दूलं वसिष्ठं वदतां वरम् || ३६ || प्रसङ्गं प्रस्तावम् || ३६ || श्रीराम उवाच | भगवन्मनसो रूपं कीदृशं वद मे स्फुटम् | यस्मात्तेनेयमखिला तन्यते लोकमञ्जरी || ३७ || रूपं तात्त्विकस्वरूपम् | यद्रूपं मनो वक्ष्यति जगतोऽपि तदेव रूपमिति न निस्तत्त्वतालक्षणं मिथ्यात्वं सेत्स्यतीति रामाशयः || ३७ || श्रीवसिष्ठ उवाच | रामास्य मनसो रूपं न किंचिदपि दृश्यते | नाममात्रादृते व्योम्नो यथा शून्यजडाकृतेः || ३८ || नाममात्रादिति | अत एव तत्कार्येषु वाचारम्भणं विकारो नामधेयम् इतिश्रुतमिथ्यात्वोपपत्तिरिति भावः | शून्यजडाकृतेरिति भूतव्योम्नो मनसश्च साधारणम् || ३८ || न बाह्ये नापि हृदये सद्रूपं विद्यते मनः | सर्वत्रैव स्थितं चैतद्विद्धि राम यथा नभः || ३९ || नभःसाम्यमेवोपपादयति - नेति || ३९ || इदमस्मात्समुत्पन्नं मृगतृष्णाम्बुसंनिभम् | रूपं तु क्षणसंकल्पाद्द्वितीयेन्दुभ्रमोपमम् || ४० || इदं जगदस्मान्मनसः भ्रमः | तद्विषयोऽध्यस्त इति यावत् | तदुपमम् || ४० || मध्ये यदेतदर्थस्य प्रतिभानं प्रथां गतम् | सतो वाप्यसतो वापि तन्मनो विद्धि नेतरत् || ४१ || यद्यपि मनो नाम परमार्थतो नास्त्येव तथापि शास्त्रीयव्यवहारोपयुक्तं कल्पितं तद्रूपमाह - मध्ये इति | प्रत्यक्षे पुरः सतः स्मृत्यादि परोक्षे त्वसतो वाऽर्थस्य मध्ये यदेतत्तदाकारप्रतिभानं प्रथां गतं सर्वजनानां तन्मन इत्यर्थः || ४१ || यदर्थप्रतिभानं तन्मन इत्यभिधीयते | अन्यत्र किंचिदप्यस्ति मनो नाम कदाचन || ४२ || तदेव संक्षिप्याह - यदिति | निराकारचितो योऽर्थाकाराध्यासस्तन्मन इत्यर्थः || ४२ || संकल्पनं मनो विद्धि संकल्पात्तत्र भिद्यते | यथा द्रवत्वात्सलिलं तथा स्पन्दो यथानिलात् || ४३ || एवं वृत्तिसामान्यैस्तल्लक्षणमुक्त्वा असाधारणवृत्त्याप्याह - संकल्पनमिति || ४३ || यत्र संकल्पनं तत्र तन्मनोऽङ्ग तथा स्थितम् | संकल्पमनसी भिन्ने न कदाचन केचन || ४४ || तदेव विषयभेदव्यवस्थितिप्रदर्शनेन द्रढयति - यत्रेति || ४४ || सत्यमस्त्वथवाऽसत्यं पदार्थप्रतिभासनम् | तावन्मात्रं मनो विद्धि तद्ब्रह्मैव पितामहः || ४५ || ननु चित्संवलितैव वृत्तिः पदार्थप्रतिभासनमित्युच्यते तत्र चितः सत्यत्वे कथं तद्घटितमनसो मिथ्यात्वं तत्राह - सत्यमिति | मिथ्याविषयाकारान्मिथ्या वा सत्यचित्संवलनात्सत्यं यथाविवक्षमस्तु न तत्राग्रहः यादृशं मनस्तत्समष्टिरपि तन्मात्रस्वभावा सैव विरिञ्चिरित्येतत्तु न व्याहतमित्याह - असत्यमिति || ४५ || प्. १३८) आतिवाहिकदेहात्मा मन इत्यभिधीयते | आधिभौतिकबुद्धिं तु स आधत्ते चिरस्थितेः || ४६ || यदि सर्वाकारमनोदेहोऽसौ तर्हि तस्य किमन्यत्सृज्यं तत्राह - आतिवाहिकेति | सूक्ष्माणामेव चिरं मिलितावस्थितेर्मिश्रणात्पञ्चीकरणे स्थूलपृथ्व्यादिबुद्धिं स एव धत्ते तदेवास्य स्रष्टृत्वमित्यर्थः || ४६ || अविद्या संसृतिश्चित्तं मनो बन्धो मलस्तमः | इति पर्यायनामानि दृश्यस्य विदुरुत्तमाः || ४७ || मन आदिप्रपञ्चः सर्वोऽप्यविद्याविलासत्वादविद्यैव तस्या एवोत्तरोत्तरं नामानीत्याह - अविद्येति || ४७ || नहि दृश्यादृते किंचिन्मनसो रूपमस्ति हि | दृश्यं चोत्पन्नमेवैतन्नेति वक्ष्याम्यहं पुनः || ४८ || यद्युत्पन्नस्य दृश्यस्याविद्यात्वं मनस्त्वं वा तर्हि कथं तयोरनादित्वप्रसिद्धिस्तत्राह - दृश्यं चेति || ४८ || यथा कमलबीजान्तः स्थिता कमलवल्लरी | महाचित्परमाण्वन्तस्तथा दृश्यं जगत्स्थितम् || ४९ || तथा च चित्यविद्यास्थितिरेव जगत्स्थितिरिति फलितमित्याशयेनाह - यथेति || ४९ || प्रकाशस्य यथाऽलोको यथा वातस्य चापलम् | यथा द्रवत्वं पयसि दृश्यत्वं द्रष्टरीदृशम् || ५० || साविद्यचितो दृश्याव्यभिचाराद्दृश्यस्य तत्स्वभावता फलितेत्याह - प्रकाशस्येति | ईदृशमेवंप्रकारम् | स्वभाव इति यावत् || ५० || अङ्गदत्वं यथा हेम्नि मृगनद्यां यथा जलम् | भित्तिर्यथा स्वप्नपुरे तथा द्रष्टरि दृश्यधीः || ५१ || तत्स्वभावत्वे तदपृथक्सत्ता फलितेत्याह - अङ्गदत्वमिति || ५१ || एवं द्रष्टरि दृश्यत्वमनन्यदिव यत्स्थितम् | तदप्युन्मार्जयाम्याशु त्वच्चित्तादर्शतो मलम् || ५२ || यद्द्रष्टुरस्याद्रष्टृत्वं दृश्याभावे भवेद्बलात् | तद्विद्धि केवलीभावं तत एवासतः सतः || ५३ || यदिति | दृश्यस्य द्रष्टृपृथक्सत्तापगमे अन्यसत्तयान्यस्य सत्त्वायोगात् दृश्याभावे तद्बलादस्य द्रष्टुश्चिन्मात्रस्य यदद्रष्टृत्वं भवेत्तत एवासतो बाधिताद्दृश्यात्सतः सन्मात्रचिद्रूपेण परिशिष्टस्यात्मनस्तत्केवलीभावं विद्धित्यर्थः || ५३ || तत्तामुपगते भावे रागद्वेषादिवासनाः | शाम्यन्त्यस्पन्दिते वाते स्पन्दनक्षुब्धता यथा || ५४ || अस्त्वेवं तथापि कथं प्रतिज्ञातं मच्चित्तादर्शे दृश्यमलमार्जनं सिद्ध्यति तत्राह - तत्तामिति | भावे चित्ते तत्तां कैवल्यबोधेन तद्भावम् | वातस्पन्दनप्रयुक्तवनजलाशयादिक्षुब्धताः || ५४ || असंभवति सर्वस्मिन्दिग्भूम्याकाशरूपिणि | प्रकाश्ये यादृशं रूपं प्रकाशस्यामलं भवेत् || ५५ || निर्विषयज्ञानस्थितिमसंभावयन्तं दृष्टान्तेनानुभावयति - असंभवतीत्यादिभिः || ५५ || त्रिजगत्त्वमहं चेति दृश्येऽसत्तामुपागते | द्रष्टुः स्यात्केवलीभावस्तादृशो विमलात्मनः || ५६ || असत्तामिति च्छेदः || ५६ || अनाप्ताखिलशैलादि प्रतिबिम्बे हि यादृशी | स्याद्दर्पणे दर्पणता केवलात्मस्वरूपिणी || ५७ || केवलदर्पणात्मस्वरूपिणी || ५७ || अहं त्वं जगदित्यादौ प्रशान्ते दृश्यसंभ्रमे | स्यात्तादृशी केवलता स्थिते द्रष्टर्यवीक्षणे || ५८ || चितो दृश्योन्मुखत्वं वीक्षणं तच्छून्ये || ५८ || श्रीराम उवाच | सच्चेन्न शाम्यत्येवेदं नाभावो विद्यते सतः | असत्तां च न विद्मोऽस्मिन्दृश्ये दोषप्रदायिनि || ५९ || दृश्यस्यासत्त्वे त्वदुक्तः केवलीभावः स्यात्तदेवानुभवविरुद्धं सत्सदित्येव दृश्यानुभवादिति परिणामवादमभिप्रेत्य श्रीरामः शङ्कते - सच्चेदिति द्वाभ्याम् || ५९ || तस्मात्कथमियं शाम्येद्ब्रह्मन्दृश्यविषूचिका | मनोभवभ्रमकरी दुःखसंततिदायिनी || ६० || मनसा भवो जन्मादिस्तद्भ्रमकरी || ६० || श्रीवसिष्ठ उवाच | अस्य दृश्यपिशाचस्य शान्त्यै मन्त्रमिमं शृणु | रामात्यन्तमयं येन मृतिमेष्यति नङ्क्ष्यति || ६१ || असतोऽप्यविद्यया सदनुबोधाद्दृश्यस्य सत्ताभ्रमः केवलीभावसाक्षात्कारेणाविद्यानाशे तु नायं भ्रमः समुदेतीति गूढाभिसन्धिः | प्रथमं जीवन्मुक्तदर्शनलिङ्गेनानिर्मोक्षप्रसञ्जनेन च दृश्ये सत्यताविश्वासं वारयन् विवर्तवादमाश्रित्य श्रीवसिष्ठ उवाच ##- नङ्क्ष्यतीति बाध एव द्वेधोक्तः || ६१ || यदस्ति तस्य नाशोऽस्ति न कदाचन राघव | तस्मात्तन्नष्टमप्यन्तर्बीजभूतं [बीजरूपं इति पाठः] भवेद्धृदि || ६२ || परिणामवादे दोषमाह - यदिति | अयं भावः - परिणामवादे ह्युत्तरोत्तरावस्थाभिः पूर्वपूर्वावस्थातिरोभावमात्रं नोच्छेदः सतोऽसत्त्वायोगात् तथाच नाशलक्षणषष्ठविकारेणापि तिरोहितस्य द्वैतस्य चित्ते प्रकृतौ वा स्थितस्य कामकर्मवासनाबीजात्पुनरुद्भवो दुर्वार इत्यनिर्मोक्षप्रसङ्ग इति || ६२ || स्मृतिबीजाच्चिदाकाशे पुनरुद्भूय दृश्यधीः | लोकशैलाम्बराकारं दोषं वितनुतेऽतनुम् || ६३ || स्मृतिग्रहणं भोगोपयुक्तान्तःकरणवृत्तिप्रमुखजगन्मात्रोपलक्षणम् || ६३ || इत्यनिर्मोक्षदोषः स्यान्न च तस्येह संभवः | यस्माद्देवर्षिमुनयो दृश्यन्ते मुक्तिभाजनम् || ६४ || मुक्तिभाजनं जीवन्मुक्ताः || ६४ || यदि स्याज्जगदादीदं तस्मान्मोक्षो न कस्यचित् | बाह्यस्थमस्तु हृत्स्थं वा दृश्यं नाशाय केवलम् || ६५ || ननु चिदात्मायं स्वबाह्यप्रधानस्थमेव दृश्यं बुद्ध्यविवेकात्स्वहृत्स्थतया पश्यति सोऽयं संसारः विवेकज्ञानोदयात्तदविवेकाभिमाननिवृत्तौ सत्यपि बहिस्तस्मिंस्ततो मोक्षः स्यादिति सांख्यरीतिमाशङ्क्याह - यदीति || ६५ || प्. १३९) तस्मादिमां प्रतिज्ञां त्वं शृणु रामातिभीषणाम् | यामुत्तरेण ग्रन्थेन नूनं त्वमवबुध्यसे || ६६ || तस्माद्विवर्तवाद एव परिशिष्यत इत्याशयेनाह - तस्मादित्यादिना | विषयरागिणामारम्भादिवादिनां च भीषणाम् | यथाहुर्गौडपादाचार्याः - अस्पर्शयोगो नामैष दुर्दर्शः सर्वयोगिनाम् | योगिनो बिभ्यति यस्मादभये भयदर्शिनः || इति || ६६ || अयमाकाशभूतादिरूपोऽहं चेति लक्षितः | जगच्छब्दस्य नामार्थो ननु नास्त्येव कश्चन || ६७ || यदिदं दृश्यते किंचिद्दृश्यजातं पुरोगतम् | परं ब्रह्मैव तत्सर्वमजरामरमव्ययम् || ६८ || पूर्णे पूर्णं प्रसरति शान्ते शान्तं [परं स्थितं इति पाठः] व्यवस्थितम् | व्योमन्येवोदितं व्योम ब्रह्मणि ब्रह्म तिष्ठति || ६९ || प्रतीचो यद्ब्रह्मैक्यं तत् पूर्णे पूर्णं प्रसरति | यतस्तच्छान्तावस्थात्रये शान्तं वियदादि द्वैतं व्यवस्थितम् | यतश्च व्योमन्येव घटाद्युपाधित्यागाद्व्योमेवोदितम् | अतो ब्रह्मण्येव ब्रह्म तिष्ठति नाणुमात्रमपि तद्विकृतमित्यर्थः | यत्र हि यदध्यासस्तत्कृतेन गुणेन दोषेण वा अणुमात्रेणापि स न संबध्यत इति || ६९ || न दृश्यमस्ति सद्रूपं न द्रष्टा न च दर्शनम् | न शून्यं न जडं नो चिच्छान्तमेवेदमाततम् || ७० || चित् बुद्धिप्रतिबिम्बचैतन्यम् || ७० || श्रीराम उवाच | वन्ध्यापुत्रेण पिष्टोऽद्रिः शशशृङ्गं प्रगायति | प्रसार्य भुजसंपातं शिला नृत्यति ताण्डवम् || ७१ || उक्ते विवर्तवादे पामराणामसंभावनामुद्घाटयन् श्रीराम उवाच - वन्ध्यापुत्रेणेत्यादिना | अत्र प्रायः पदार्थवाक्यार्थोभयासंभवप्रदर्शनाय तथा दृष्टान्ताः || ७१ || स्रवन्ति सिकतास्तैलं पठन्त्युपलपुत्रिकाः | गर्जन्ति चित्रजलदा इतीवेदं वचः प्रभो || ७२ || इत्येतानि वचांसीव प्रतिभान्तीति शेषः || ७२ || जरामरणदुःखादिशैलाकाशमयं जगत् | नास्तीति किमिदं नाम भवताऽपि ममोच्यते || ७३ || भवता प्रामाणिकमूर्धन्येनापि ममविवेकशालिनोऽप्रतार्यस्यापीति पामराशयसर्वस्वोक्तिः || ७३ || यथेदं न स्थितं विश्वं नोत्पन्नं न च विद्यते | तथा कथय मे ब्रह्मन्येनैतन्निश्चितं भवेत् || ७४ || इदानीं स्वाशयानुरूपमाह - यथेति || ७४ || श्रीवसिष्ठ उवाच | नासमन्वितवागस्मि शृणु राघव कथ्यते | यथेदमसदाभाति वन्ध्यापुत्र इवाऽरवी || ७५ || उक्तदोषं परिहृत्यासतोऽपि सत्यवद्भानं स्वप्नदृष्टान्तेन संभावयिष्यन् श्रीवसिष्ठ उवाच - नेत्यादिना | आरवी ध्वनिमान् || ७५ || इदमादावनुत्पन्नं सर्गादौ तेन नास्त्यलम् | इदं हि मनसो भाति स्वप्नादौ पत्तनं यथा || ७६ || मन एव च सर्गादावनुत्पन्नमसद्वपुः | तदेतच्छृणु वक्ष्यामि यथैवमनुभूयते || ७७ || मनोदृश्यमयं दोषं तनोतीमं क्षयात्मकम् | असदेव सदाकारं स्वप्नः स्वप्नान्तरं यथा || ७८ || तत्स्वयं स्वैरमेवाशु संकल्पयति देहकम् | तेनेयमिन्द्रजालश्रीर्विततेन वितन्यते || ७९ || विततेन चिरं भावनाविपुलेन || ७९ || स्फुरति वल्गति गच्छति याचते भ्रमति मज्जति संहरति स्वयम् | अपरतामुपयात्यपि केवलं चलति चञ्चलशक्तितया मनः || ८० || केवलं मन एव चञ्चलशक्तितया यच्चलति तत्रैव स्फुरतीत्यादिभ्रमविभावनमिति भावः | अपरतां सांसारिकदशाप्रयुक्तमपकर्षं केवलं कैवल्यलक्षणोत्कर्षं चोपयाति || ८० || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे उत्पत्तिप्रकरणार्थकल्पनं नाम चतुर्थः सर्गः || ४ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे उत्पत्तिप्रकरणार्थकल्पनं नाम चतुर्थः सर्गः || ४ || पञ्चमः सर्गः ५ श्रीराम उवाच | भगवन्मुनिशार्दूल किमिवेह मनोभ्रमे | विद्यते कथमुत्पन्नं मनो मायामयं कुतः || १ || विश्वस्य मूलं हि मनस्तस्य मूलमिहोच्यते | तदेव मनसस्तत्त्वं विश्वस्येति च वर्ण्यते || १ || एवं मनोमिथ्यात्ववर्णनेन प्रकरणार्थे कॢप्ते तदधिष्ठानतत्त्वं तदारोपप्रकारं तस्य मिथ्यात्वे कारणं च विस्तरेण जिज्ञासमानः श्रीराम उवाच - भगवन्निति | किं विद्यते | मनो भ्रमे परमार्थभूतं मूलं किमित्यर्थः || १ || उत्पत्तिमादाविति मे समासेन वद प्रभो | प्रवक्ष्यसि ततः शिष्टं वक्तव्यं वदतां वर || २ || सर्वजगदुत्पत्तिमूलमपहाय मनोमूलमात्रप्रश्ने बीजमाह - आदाविति | आद्यस्य मूलपरिज्ञाने नैव संक्षेपतः सर्वमूलपरिज्ञानोपपत्तेरित्याशयः || २ || प्. १४०) श्रीवसिष्ठ उवाच | महाप्रलयसंपत्तावसतां समुपागते | अशेषदृश्यसर्गादौ शान्तमेवावशिष्यते || ३ || तत्राद्यप्रश्नोत्तरं मुख्यत्वाद्विस्तरेणासर्गसमाप्तेर्वसिष्ठ उवाच - महाप्रलयेति | अर्थाज्जगति | असत्तां सूक्ष्मीभावादर्थक्रियाऽसमर्थताम् | भाविनोऽशेषदृश्यसर्गस्य आदौ | शान्तं निर्विक्षेपम् || ३ || आस्तेऽनस्तमितो भास्वानजो देवो निरामयः | सर्वदा सर्वकृत्सर्वः परमात्मा महेश्वरः || ४ || सर्वकृत्सर्वक्रियाशक्तिसंपन्नः || ४ || यतो वाचो निवर्तन्ते यो मुक्तैरवगम्यते | यस्य चात्मादिकाः संज्ञाः कल्पिता न स्वभावजाः || ५ || मुक्तैर्जीवन्मुक्तैरवगम्यते प्रत्यक्षमनुभूयते | स्वो भावः अनारोपितरूपं तज्जा न किंत्वारोपितधर्मजाः || ५ || यः पुमान्सांख्यदृष्टीनां ब्रह्म वेदान्तवादिनाम् | विज्ञानमात्रं विज्ञानविदामेकान्तनिर्मलम् || ६ || सर्ववादिनामपि स एव तत्तद्बुद्धिकल्पितविशेषैः सिद्धान्तविषय इत्यविवादः सर्वाधिष्ठाने तस्मिन्नित्याह - य इति | विज्ञानमात्रं क्षणिकविज्ञानमात्रम् || ६ || यः शून्यवादिनां शून्यो भासको योऽर्कतेजसाम् | वक्ता मन्ता ऋतं भोक्ता द्रष्टा कर्ता सदैव सः || ७ || सर्वेषां प्रत्यगात्मापि स एवेत्याह - वक्तेति | ऋतं सत्यम् || ७ || सन्नप्यसद्यो जगति यो देहस्थोऽपि दूरगः | चित्प्रकाशो ह्ययं यस्मादालोक इव भास्वतः || ८ || असत्त्वापादकाविद्यावृतत्वात्पामरदृशा असत् | अत एव दूरगः || ८ || यस्माद्विष्ण्वादयो देवाः सूर्यादिव मरीचयः | यस्माज्जगन्त्यनन्तानि बुद्बुदा जलधेरिव || ९ || देवाः प्रकाशप्राधान्यान्मरीचय इव | अचेतनत्वात् जगन्ति तु बुद्बुदानीव जायन्त इति शेषः || ९ || यं यान्ति दृश्यवृन्दानि पयांसीव महार्णवम् | य आत्मानं पदार्थं च प्रकाशयति दीपवत् || १० || यान्ति प्रलयेनापियन्ति | तस्यैव स्वप्रकाशत्वात्स्वपरप्रथानिर्वाहकत्वमाह ##- य आकाशे शरीरे च दृषत्स्वप्सु लतासु च | पांसुष्वद्रिषु वातेषु पातालेषु च संस्थितः || ११ || तस्यैव सर्वान्तरत्वेन सर्वगतत्वमाह - य इति || ११ || यः प्लावयति संरब्धं पुर्यष्टकमितस्ततः | येन मूकीकृता मूढाः शिला ध्यानमिवास्थिताः || १२ || संरब्धं स्वस्वव्यापारेषूद्युक्तं कर्मेन्द्रियाणि ज्ञानेन्द्रियाणि भूतसूक्ष्माणि प्राणा अविद्याकामकर्मान्तःकरणमिति पुर्यष्टकमितस्ततोऽन्तर्बहिश्च स्वचिद्व्याप्त्या प्लावयति | चेतनानां चेतनता यत्प्रयुक्तेत्यर्थः | एवमचेतनानामपि वैचित्र्ये स एव हेतुरित्याह - येनेत्यादिना || १२ || व्योम येन कृतं शून्यं शैला येन घनीकृताः | आपो द्रुताः कृता येन दीपो यस्य वशो रविः || १३ || यस्य वशः सन् रविर्दीपो दीप्तिस्वभावः | प्रकाशक इति यावत् | येन सूर्यस्तपति तेजसेद्धः इति श्रुतेः || १३ || प्रसरन्ति यतश्चित्राः संसारासारवृष्टयः [दृष्टय इति पाठः] | अक्षयामृतसंपूर्णादम्भोदादिव वृष्टयः || १४ || संसारलक्षणा असारदृष्टय एव आसारवृष्टयः | अक्षयेण नित्येन बहलेन चामृतेन सुखेन जलेन च संपूर्णादिति यथायोगमुभयविशेषणम् || १४ || आविर्भावतिरोभावमयास्त्रिभुवनोर्मयः | स्फुरन्त्यतितते यस्मिन्मराविव मरीचयः || १५ || प्राचुर्ये मयट् |अतिततेऽत्यन्तविस्तीर्णे | मरीचयस्तदुदकानि || १५ || नाशरूपो विनाशात्मा योऽन्तःस्थः सर्वजन्तुषु | गुप्तो योऽप्यतिरिक्तोऽपि सर्वभावेषु संस्थितः || १६ || प्रपञ्चात्मना नाशरूपः | स्वरूपेण त्वविनाशात्मा | सूक्ष्मतमत्वादन्तर्गुप्तः | महत्तमत्वात्सर्वतोऽप्यतिरिक्तः | निष्प्रपञ्चतयावशिष्टः | तथाच श्रुतिः पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवि इति || १६ || प्रकृतिव्रततिर्व्योम्नि जाता ब्रह्माण्डसत्फला | चित्तमूलेन्द्रियदला येन नृत्यति वायुना || १७ || प्रकृतिर्माया सैव व्रततिर्लता | व्योम्नि शुद्धचिति | येनेश्वरेण || १७ || यश्चिन्मणिः प्रकचति प्रतिदेहसमुद्गके | यस्मिन्निन्दौ स्फुरन्त्येता जगज्जालमरीचयः || १८ || समुद्गके संपुटके || १८ || प्रशान्ते चिद्घने यस्मिन्फुरन्त्यमृतवर्षिणि | धाराजलानि भूतानि सृष्टयस्तडितः स्फुटाः || १९ || भूतानि जाड्यप्राधान्याद्धाराजलानि | स्फुटाश्चित्प्रकाशप्रधानाः सृष्टयस्तडितः || १९ || चमत्कुर्वन्ति वस्तूनि यदालोकतया मिथः | असज्जातमसद्येन येन सत्सत्त्वमागतम् || २० || चमत्कुर्वन्ति विचित्रकार्याणि कुर्वते || २० || चलतीदमनिच्छस्य कायो यो यस्य संनिधौ | जडं परमरक्तस्य शान्तमात्मनि तिष्ठतः || २१ || यः प्रसिद्धो देवनरतिर्यगादिकायः अरक्तस्यासङ्गस्यानिच्छतश्च यस्य संनिधौ इदं दृश्यभूतमत एव परमत्यन्तं जडमपि चलति | पदसंस्कारपक्षाश्रयणात्सामान्ये नपुंसकम् || २१ || नियतिर्देशकालौ च चलनं स्पन्दनं क्रिया | इति येन गताः सत्तां सर्वसत्तातिगामिना || २२ || सर्गकालेऽवश्यं सृष्ट्या भाव्यं प्रलयकाले च प्रलयेनेत्यादिनियमो नियतिस्तदवच्छेदकौ देशकालौ | तत्राप्यौ बीजाद्यन्तर्गतकार्यस्य बीजोच्छूनतया चलनम् | बीजपुटं भित्त्वाङ्कुरादिनिर्गमनेन स्पन्दनम् | ततः काण्डपत्रशाखादिक्रमेण फलावसानो व्यापारः क्रिया | इत्येवं क्रमेण सर्वभावा येन सत्तां व्यवहारार्थक्रियासमर्थतां गताः | सर्वसत्तातिगामिनेति तस्य जगद्विलक्षणपारमार्थिकसत्तोक्ता || २२ || प्. १४१) शुद्धसंविन्मयत्वाद्यः खं भवेद्व्योमचिन्तया | पदार्थचिन्तयार्थत्वमिव तिष्ठत्यधिष्ठितः || २३ || अथवा स एव मायिकव्योमादिभावचिन्तया व्योमादिभावेन संपन्नो न ततोऽन्यद्व्योमादिशब्दभागस्तीत्याह - शुद्धेति | तथाच श्रुतिः सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाभिवदन्यदास्ते इति | चमत्कुर्वन्तीत्याद्येतदन्तेन श्लोकचतुष्टयेन जगदारोपप्रकारप्रश्नस्याप्युत्तरमुक्तम् || २३ || कुर्वन्नपीह जगतां महतामनन्त- वृन्दं न किंचन करोति न काश्चनापि | स्वात्मन्यनस्तमयसंविदि निर्विकारे त्यक्तोदयस्थितिमति स्थित एक एव || २४ || संप्रति तस्य मिथ्यात्वे कारणमाह - कुर्वन्नपीति | निर्विकारे अत एव त्यक्तस्वजातीयाद्युदयादिमति यतोऽयं स्थितस्ततोऽयं महतां जगतां ब्रह्माण्डानां वृन्दं तत्र विचित्रलीलाश्च कुर्वन्नपि न किंचन कार्यं न काश्चन क्रियाः करोतीति निर्विकारोपादानकत्वमेव कार्यमिथ्यात्वे हेतुरित्यर्थः || २४ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे मूलकारणदेवस्वरूपवर्णनं नाम पञ्चमः सर्गः || ५ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे मूलकारणदेवस्वरूपवर्णनं नाम पञ्चमः सर्गः || ५ || षष्ठः सर्गः ६ श्रीवसिष्ठ उवाच | अस्य देवाधिदेवस्य परस्य परमात्मनः | ज्ञानादेव परा सिद्धिर्न त्वनुष्ठानदुःखतः || १ || इत्थं जगन्मूलकारणं देवस्वरूपमुपवर्ण्य तत्प्राप्त्युपायज्ञानसाधनान्युपदिदिक्षुः श्रीवसिष्ठ उवाच - अस्येत्यादि | देवस्य हिरण्यगर्भस्यादिकारणत्वात्तदधिदेवस्य द्योतकत्वाद्देवानामिन्द्रियमनसामपि साक्षितया प्रकाशकत्वात्तेषामधिदेवस्येति वा || १ || अत्र ज्ञानमनुष्ठानं नत्वन्यदुपयुज्यते | मृगतृष्णाजलभ्रान्तिशान्तौ चेदं निरूपितम् || २ || अनुष्ठानमिव वक्ष्यमाणप्रयत्नसंपाद्यत्वाज्ज्ञानमपि गौण्यानुष्ठानमुच्यते | कर्मकोटिभिरपि दुर्भेद्यस्य ज्ञानमात्रेण निवृत्तावनुरूपं दृष्टान्तमाह - मृगतृष्णेति | निरूपितं दृष्टम् || २ || नह्येष दूरे नाभ्याशे नालभ्यो विषमे न च | स्वानन्दाभासरूपोऽसौ स्वदेहादेव लभ्यते || ३ || नातिदूरे नातिसंनिहिते क्रियामन्तरेणालभ्ये विषमादिस्थे च फले क्रिया सफला स्यादात्मा तु न तथेति तस्य न क्रियालभ्यतेत्याह - नहीति | विस्मृतकण्ठचामीकरवज्ज्ञानलभ्यता त्वस्य सुलभेत्याह - स्वानन्देति || ३ || किंचिन्नोपकरोत्यत्र तपोदानव्रतादिकम् | स्वभावमात्रे विश्रान्तिमृते नात्रास्ति साधनम् || ४ || अत्रास्यां प्रागुक्तदेवप्राप्तौ || ४ || साधुसंगमसच्छास्त्रपरतैवात्र कारणम् | साधनं बाधनं मोहजालस्य यदकृत्रिमम् || ५ || अत्र तत्प्राप्तिसाधने ज्ञानेऽपि कुतः सर्वथा कर्मनिरपेक्षता तत्राह - साधनमिति | यद्यतो मोहजालस्य बाधनमकृत्रिमं नित्यसिद्धं ब्रह्मैव चरमसाक्षात्कारवृत्त्यारूढं सद्बाधनं भादे कारणं नान्यदित्यर्थः || ५ || अयं सदेव इत्येव संपरिज्ञानमात्रतः | जन्तोर्न जायते दुःखं जीवन्मुक्तत्वमेति च || ६ || दुःखनिवृत्तौ जीवन्मुक्तौ वा तर्हि साधनान्तरं स्यात्तत्राह - अयमिति || ६ || श्रीराम उवाच | संपरिज्ञातमात्रेण किलानेनात्मनात्मना [मात्मनः इति पाठः] | पुनर्दोषा न बाधन्ते मरणाद्याः कदाचन [कथंचन इति पाठः] || ७ || तमेतं वेदानुवचनेन इति प्रत्यक्षं यज्ञदानतपसां ज्ञानसाधनत्वश्रवणात्किंचिन्नोपकरोतीत्याद्युक्तिः साधारणतप आदिविषया तीव्रतरतप आदिविधित्सयेति मन्यमानः श्रीराम उवाच - संपरीति || ७ || देवदेवो महानेष कुतो दूरादवाप्यते | तपसा केन तीव्रेण क्लेशेन कियताथवा || ८ || अदूराच्छीघ्रमवाप्यते ज्ञानेन प्राप्यते | शीघ्रं तज्ज्ञानं केनोपायेन सिद्ध्यतीत्यर्थः || ८ || श्रीवसिष्ठ उवाच | स्वपौरुषप्रयत्नेन विवेकेन विकासिना | स देवो ज्ञायते राम न तपःस्नानकर्मभिः || ९ || विविदिषार्थं विहितानां निष्कामकर्मणां जन्मान्तरानुष्ठितसाधारणानां विविदिषोत्पत्तावेवोपक्षयात्सत्यामुत्कटविविदिषायां श्रवणादिप्रयत्न एवोपयुज्यते न तप आदीति मन्यमानः श्रीवसिष्ठ उवाच - स्वपौरुषेत्यादिना || ९ || रागद्वेषतमःक्रोधमदमात्सर्यवर्जनम् | विना राम तपोदानं क्लेश एव न वास्तवम् || १० || न वास्तवं साधनमिति शेषः || १० || रागाद्युपहृते [द्युपगते इति पाठः] चित्ते वञ्चयित्वा परं धनम् | यदर्ज्यते तस्य दानाद्यस्यार्थास्तस्य तत्फलम् || ११ || तत्कुतस्तत्राह - रागादीति | सति रागादौ धनार्जने परवञ्चनाद्यवश्यंभावाच्चित्तशुद्धेरेव दौर्लभ्याद्दानादेः काम्यं फलमपि दुर्लभं दूरे ततो ज्ञानमोक्ष [मोक्षप्रत्या इति पाठः] प्रत्याशेत्याशयेनाह - रागादीति द्वाभ्याम् || ११ || प्. १४२) रागाद्युपहते चित्ते व्रतादि क्रियते च यत् | तद्दम्भः प्रोच्यते तस्य फलमस्ति मनाङ्ग च || १२ || तस्मात्पुरुषयत्नेन मुख्यमौषधमाहरेत् | सच्छास्त्रसज्जनासङ्गौ संसृतिव्याधिनाशनौ || १३ || मुख्यमौषधमेवादौ द्विधा दर्शयति - सच्छास्त्रेति || १३ || अत्रैकं पौरुषं यत्नं वर्जयित्वेतरा गतिः | सर्वदुःखक्षयप्राप्तौ न काचिदुपपद्यते || १४ || इतरा गतिरुपायान्तरम् || १४ || शृणु तत्पौरुषं कीदृगात्मज्ञानस्य लब्धये | येन शाम्यत्यशेषेण रागद्वेषविषूचिका || १५ || यथासंभवया वृत्त्या लोकशास्त्राविरुद्धया | संतोषसंतुष्टमना भोगगन्धं परित्यजेत् || १६ || वृत्त्या जीवनसाधनसंपत्त्या | भोगगन्धं भोगवासनाम् | तदभिनिवेशमिति यावत् || १६ || यथासंभवमुद्योगादनुद्विग्नतया स्वया | साधुसंगमसच्छास्त्रपरतां प्रथमं श्रयेत् || १७ || अनुद्विग्नतया अशक्यमिदमिति निर्वेद उद्विग्नता तद्वर्जनेन | स्वया आत्मीयया | हितयेति यावत् || १७ || यथाप्राप्तार्थसंतुष्टो यो गर्हितमुपेक्षते | साधुसंगमसच्छास्त्रपरः शीघ्रं स मुच्यते || १८ || गर्हितं शास्त्रशिष्टेषु निन्दितम् || १८ || विचारेण परिज्ञातस्वभावस्य महामतेः | अनुकम्प्या भवन्त्येते ब्रह्मविष्ण्विन्द्रशंकराः || १९ || परिज्ञातः स्वभाव आत्मतत्त्वं येन तस्य || १९ || देशे यं सुजनप्राया लोकाः साधुं प्रचक्षते | स विशिष्टः स साधुः स्यात्तं प्रयत्नेन संश्रयेत् || २० || साधुं लक्षयति - देश इति | सुजनाः श्रुतिस्मृत्याचारनिष्ठास्तत्प्रायास्तत्प्रचुरा लोका जनां यं प्रचक्षते स चेद्विशिष्टैर्ज्ञानवैराग्यादिगुणैः सहितः स्यात्तर्हि स साधुः स्यादित्यर्थः || २० || अध्यात्मविद्या विद्यानां प्रधानं तत्कथाश्रयम् | शास्त्रं सच्छास्त्रमित्याहुर्मुच्यते तद्विचारणात् || २१ || आत्मानमधिकृत्य प्रवृत्ता विद्या ज्ञानमध्यात्मविद्या तदुत्पत्त्यनुकूलविचारात्मककथाया आश्रयं शास्त्रमुपनिषत्सूत्रभाष्यैतद्ग्रन्थादि || २१ || सच्छास्त्रसत्संगमजैर्विवेकै- स्तथा विनश्यन्ति बलादविद्याः | यथा जलानां कतकानुषङ्गा- द्यथा जनानां मतयोऽपि [मतयश्च इति पाठः] योगात् || २२ || ननु सत्स्वनेकेषूपायेषु कुतः साधुसंगमसच्छास्त्रे एव प्रशयेते तत्राह - सच्छास्त्रेति | अविद्या मोहाः विद्याविरोधिनो रागादयश्च | जलानां पङ्का इति शेषः | मतयो बाह्यमनोवृत्तयो योगाभ्यासाद्विनश्यन्ति || २२ || इत्यार्षे श्रीवासिष्ठमहारामायणे मोक्षोपाये उत्पत्तिप्रकरणे मुमुक्षुप्रयत्नोपदेशो नाम षष्ठः सर्गः || ६ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे मुमुक्षुप्रयत्नोपदेशो नाम षष्ठः सर्गः || ६ || सप्तमः सर्गः ७ श्रीराम उवाच | य एष देवः कथितो यस्मिञ्ज्ञाते विमुच्यते | वद क्वासौ स्थितो ब्रह्मन्कथमेनमहं लभे || १ | विरिञ्च्यादिजगन्मूलं यो देवः प्राङ्निरूपितः | निरस्तनिखिलोपाधेस्तस्य तत्त्वमोहोच्यते || १ || प्रसङ्गजिज्ञासिते साधने परिज्ञाते प्रस्तुतजगत्कारणस्य वास्तवं रूपं जिज्ञासुः श्रीराम उवाच - य इति | यो विरिञ्च्यादिकारणभूत एष प्रत्यगात्मभूतो देवः प्राक्कथितः असौ क्व कस्मिन्नुपाधावनावरणेनाभिव्यक्तः | कीदृशे वा तत्त्वे स्थितः | कथं लभे इत्यौत्सुक्योक्तिः साधनानां पूर्वमुक्तत्वादन्तरङ्गोपायान्तरप्रश्नो वा || १ || श्रीवसिष्ठ उवाच | य एष देवः कथितो नैष दूरेऽवतिष्ठते | शरीरे संस्थितो नित्यं चिन्मात्रमिति विश्रुतः || २ || तत्रादौ प्रथमप्रश्नोत्तरमाह - य इति | नैष दूरेऽवतिष्ठत इत्यौत्सुक्यपरिहारार्थमुक्तिः | शरीरे सामान्याभिव्यक्त्या तदन्तर्हृदयपुण्डरीके तु विशेषतः सम्यगभिव्यक्तः | स्थित इत्यर्थः || २ || एष सर्वमिदं विश्वं न विश्वं चैष सर्वगः | विद्यते ह्येष एवैको न तु विश्वाभिधास्ति दृक् || ३ || तर्हि किं देहपरिच्छिन्न एव सः नेत्याह - एष इति | तर्हि किं दृश्यविश्वाकार एव नेत्याह - नेति | सर्वाधिष्ठानभावेन सर्वगतत्वप्रतिपादनाय विश्वात्मत्वोक्तिरिति भावः || ३ || चिन्मात्रमेष शशिभृच्चिन्मात्रं गरुडेश्वरः | चिन्मात्रमेव तपनश्चिन्मात्रं कमलोद्भवः || ४ || न केवलं कार्यात्मकं विश्वमेव तद्व्यतिरेकेण नास्ति किंतु तत्कारणमायापि सहतद्गुणाभिमानिदेवैरित्याशयेनाह - चिन्मात्रमेष इति | गरुडस्येश्वरो नियन्ता विष्णुः | तपनस्य त्रिमूर्त्यात्मत्वप्रसिद्धेस्तत्पङ्क्तावुक्तिः || ४ || श्रीराम उवाच | बाला अपि वदन्त्येतद्यदि चेतनमात्रकम् | जगदित्येव केवात्र नाम स्यादुपदेशता || ५ || चिन्मात्रमित्यत्र कर्तरि क्विबन्तान्मात्रचि चेतनमात्रं विश्वमित्यर्थो लभ्यते | तच्च लोके आबालगोपालं प्रसिद्धं पुरुषार्थापर्यवसितं चेति नोपदेशार्हमिति मन्यमानानामाशयमुद्घाटयन् रामः शङ्कते - बाला अपीति || ५ || प्. १४३) श्रीवसिष्ठ उवाच | चिन्मात्रं चेतनं विश्वमिति यज्ज्ञातवानसि | न किंचिदेव विज्ञातं भवता भवनाशनम् || ६ || नासौ कर्तरि क्विप् अपितु भावे | तथाच नोक्तदोष इति मन्यमानो वसिष्ठः प्रागुक्तकल्पं निन्दति - चिन्मात्रमिति | किंचिदल्पमपि न विज्ञातम् | भ्रान्तेरज्ञानलेशस्याप्यनिवृत्तेरिति भावः || ६ || चेतनं राम संसारो जीव एष पशुः स्मृतः | एतस्मादेव निर्यान्ति जरामरणभीतयः || ७ || कुतो न विज्ञातं तत्राह - चेतनमिति | कर्तरि क्विबन्तत्वे चिच्चेतनशब्दौ तुल्यार्थौ स्याताम् | नन्द्यादिल्युप्रत्ययस्यापि कर्तर्येव विधानाच्चितिकर्तृतदर्थः [कर्तरितृ इति पाठः] स्यात् | नच नित्यचितेः कर्तृत्वसंभव इत्यनित्यमनोवृत्तिप्रतिफलनचित्परिग्रहे तदाश्रयभूतमन्तःकरणमेवात्मतया गृह्णंस्तदात्मा जीव उक्तः स्यात् | स च बहिर्मुखतया विषयानेव सारतया पश्यन्पशुः | एतस्मादेव देहेन्द्रियविषयवासनानुसारात्तत्तद्देहपरिग्रहे जरामरणादयोऽन्तस्था निर्यान्तीवाविर्भ्वन्तीत्यर्थः || ७ || पशुरज्ञो ह्यमूर्तोऽपि दुःखस्यैवैष भाजनम् | चेतनत्वाच्चेतनीयं मनोऽनर्थः स्वयं स्थितः || ८ || ननु मूर्तस्थूलशरीरातिरिक्ततया तज्ज्ञानादेव जरामरणादिप्रत्ययः सिद्धः अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः इति श्रुतेरित्याशङ्क्याह - पशुरिति | अमूर्तस्थूलदेहशून्योऽप्यसौ न कृतार्थो यतोऽज्ञः अज्ञानवान् चेतनीयं यन्मनस्तद्रूपोऽनर्थश्च स्वयं भूत्वा स्थितोऽतो दुःखस्यैव भाजनम् | अशरीरमित्यादिश्रुतेस्तु स्थूलसूक्ष्मकारणाख्यदेहत्रयरहितं प्रियाप्रिये न स्पृशत इत्यर्थो न स्थूलदेहमात्ररहितमिति | तथात्वेऽपि स्वप्ने प्रियाप्रियदर्शनादिति भावः || ८ || चेत्यनिर्मुक्तता या स्यादचेत्योन्मुखताथवा | अस्य सा भरितावस्था [भवितावस्था इति पाठः] तां ज्ञात्वा नानुशोचति || ९ || कीदृशस्य तर्हि तस्य ज्ञानात्कृतकृत्यता तत्राह - चेत्येति | चेत्यनिर्मुक्तता मुक्तौ अचेत्योन्मुखता तु समाधौ प्रसिद्धा || ९ || भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः | क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे || १० || तत्र श्रुतिं प्रमाणयति - भिद्यत इति | मूलाज्ञाननाशात्तत्कार्यान्तःकरणतादात्म्याध्यासलक्षणो हृदयग्रन्थिर्भिद्यते नश्यति तन्नाशादेव तन्मूलकसंशयादयोऽपीत्यर्थः | परं कारणमप्यवरं यस्मात्तथाविधे || १० || तस्य चेत्योन्मुखत्वं तु चेत्यासंभवनं विना | रोद्धुं न शक्यते दृश्यं चेत्यं शाम्यति वै कथम् || ११ || ननु तर्हि चित्तनिरोधलक्षणयोगेनैव चेत्योन्मुखत्वस्य रोद्धुं शक्यत्वात्किं ज्ञानप्रयासेन तत्राह - तस्येति | चेत्यस्य दृश्यस्यासंभवनं ज्ञानेन मूलतो बाधम् | शाम्यति वै कथम् विना ज्ञानमिति शेषः | तथाच विना ज्ञानं तादृशस्वरूपसमाधिरेव न सिद्ध्यतीत्यर्थः || ११ || अचेत्यचित्स्वरूपं यत्तच्चासंभवनं विना | क्व स्वरूपोन्मुखत्वं हि केवलं चेत्यरोधतः || १२ || एवं मोक्षोऽपि ज्ञानमन्तरेण दुर्लभ इत्याह - अचेत्येति | यन्मोक्षाख्यमचेत्यचित्स्वरूपं तच्च असंभवनं प्रागुक्तचेत्यासंभवनं विना क्व | हि यस्मात्समाधौ केवलं स्वरूपोन्मुखत्वमपि चेत्यरोधतो दृश्यबाधादेव भवति तत्र किं वाच्यं मोक्षे तदावश्यकत्वमिति भावः || १२ || श्रीराम उवाच | यस्मिञ्जीवे हि विज्ञाते न विनश्यति संसृतिः | व्योमरूपी पशुस्त्वज्ञः स ब्रह्मन्कुत्र कीदृशः || १३ || यस्मिन्निति | ननु रामस्येदं प्रश्नश्लोकद्वयमप्यसंगतं चेतनं राम संसारो जीव एष पशुः स्मृतः इति जीवस्वरूपस्य तदाधारस्य मनोमूलकारणस्य च प्रागुक्तत्वेनाद्यश्लोकानुत्थानात् [प्राक्तनत्वेन इति पाठः] | ब्रह्मस्वरूपस्य च सर्गाद्यश्लोके पृष्ठत्वेन पुनःप्रश्नानर्हत्वादिति चेत् | एवं तर्हि न यथाश्रुतप्रश्नो रामाभिप्रेतः किंत्वाक्षेपः | तथाहि | ननु जीव एव संसार इति व्याहृतं तस्य ब्रह्मप्राप्तौ ब्रह्मणोऽपि संसारित्वप्रसङ्गात् | तदप्राप्तौ तु तत्साधनज्ञानशास्त्रादिवैयर्थ्यम् | तस्मादन्यदेव जैवं रूपं वाच्यम् | तथा तदाधारोऽपि किं ब्रह्मैव उतान्यत् | आद्ये ज्ञानेन ब्रह्माध्यस्तसर्वद्वैतेन सह बाधापत्तौ वरघातन्यायापत्तिः | द्वितीये ब्रह्माद्वैतव्याघात इति मन्यमानः श्रीराम्ः पृच्छति - यस्मिन्निति | व्योमेव रूपी कल्पितरूपवान् | कुत्र कस्मिन्नाधारे तिष्ठति कीदृशः किं संसारकोटावुतात्मकोटावित्यर्थः [उतान्यकोटौ इति पाठः] || १३ || साधुसंगमसच्छास्त्रैः [भवितावस्था इति पाठः] संसारार्णवतारकः | दृश्यते परमात्मा यः स ब्रह्मन्वद कीदृशः || १४ || किंच यदि जीवः संसारकोटावेव तर्हि तस्य संसारार्णवतारको यः शास्त्रैरुपदिश्यते स कीदृशः | नहि जलधिमेव जलधेः कश्चित्तारयति | तस्माद्व्याहृतं जीवस्य संसारित्ववचनमिति || १४ || श्रीवसिष्ठ उवाच | यदेतच्चेतनं जीवो [जीवे विशीर्णे इति पाठः] विशीर्णो जन्मजङ्गले | एतमात्मानमिच्छन्ति ये तेऽज्ञाः पण्डिता अपि || १५ || स्यादेतदेवं यदि जीव एव संसरेज्जीव एव स्वज्ञानान्मुच्येत जीव एव वा तात्त्विक आत्मा स्यात् | नत्वेवम् | ब्रह्म वा इदमग्र आसीत्तदात्मानमेवावेदहं ब्रह्मास्मीति तस्मात्तत्सर्वमभवत् इति श्रुतौ ब्रह्मण एव स्वाज्ञानात्संसारः स्वज्ञानान्मुक्तिरिति प्रतिपादनविरोधात् | नान्योऽतोऽस्ति द्रष्टा इत्यादिचेतनधात्वन्तरप्रतिषेधविरोधाच्च | यदा तु ब्रह्मैव अनेन जीवेनात्मना इति श्रुतेरिदंकारास्पदत्वात्कल्पितत्वाच्चानात्मभूतेन संसारकोट्यन्तर्भूतेनैव जीवेनात्मतया भ्रान्त्या गृहीतेन तद्धर्मैर्जीवोऽहमिति मन्यमानः संसरति तदा जीवस्यैव संसारित्वं पर्यवसन्नमिति तद्बाधेऽपि न वरघातन्यायापातादिदोष इत्यभिप्रेत्य स्वोक्तमेव द्रढयन् श्रीवसिष्ठ उवाच - यदेतदित्यादिना | जन्मग्रहणं शरीरसंघोपलक्षणं || १५ || प्. १४४) जीव एव हि संसारश्चेतना दुःखसंततिः [संततेः इति पाठः] | अस्मिञ्ज्ञाते न विज्ञातं किंचिद्भवति कुत्रचित् || १६ || ज्ञायते परमात्मा चेद्राम दुःखस्य संततिः | क्षयमेति विषावेशशान्ताविव विषूचिका || १७ || श्रीराम उवाच | रूपं कथय मे ब्रह्मन्यथावत्परमात्मनः | यस्मिन्दृष्टे मनो मोहान्समग्रान्संतरिष्यति || १८ || एवं समाहितो रामः सर्गोपक्रमपृष्टार्थमेव प्रासङ्गिकोक्तिव्यवहितमिति पुनः स्पष्टं पृच्छति - रूपमिति | कार्यबाहुल्यान्मोहानिति बहुवचनम् || १८ || श्रीवसिष्ठ उवाच | देशाद्देशान्तरं दूरं प्राप्तायाः संविदो वपुः | निमिषेणैव [निमेषेणैव इति पाठः] यन्मध्ये तद्रूपं परमात्मनः || १९ || तत्र लोके निर्विषयज्ञानाप्रसिद्धेर्निर्विषयानावृतापरोक्षचिद्रूपं [नावृत्त्या इति पाठः] तदित्युक्तेऽप्यनुभवपथानारोहाद्यथा तत्तमारोहति तथाह - देशादिति | शाखाग्रचन्द्रदर्शने चक्षुर्द्वारा निःसृतान्तःकरणाभिव्यक्तापरोक्षसंविदः शाखादेशाद्दूरं चन्द्रदेशं निमिषान्तरमात्रेण प्राप्तायाः शाखाचन्द्रयोर्युगपद्ग्रहणान्यथानुपपत्त्या शाखाप्रदेशमारभ्य चन्द्रपर्यन्तमनुस्यूतता अवश्यं वाच्या | अन्तराले विच्छेदे कारणानुभवयोरभावात् | तत्र तस्याः शाखाचन्द्रप्रदेशयोः सविषयत्वेऽपि मध्ये यद्वपुः स्वरूपं तदेव निर्विषयापरोक्षचिद्रूपं प्रसिद्धमिति परमात्मनोऽपि तद्रूपं ज्ञेयमित्यर्थः || १९ || अत्यन्ताभाव एवास्ति संसारस्य यथास्थितेः [जगत्स्थितेः इति पाठः] | यस्मिन्बोधमहाम्भोधौ तद्रूपं परमात्मनः || २० || यथास्थितेः नाशादिविकारमन्तरेणैव स्वस्थाने [स्वाधिष्ठाने इति पाठः] मिथ्यात्वमापन्नस्येति यावत् | जगत्स्थितेः [निमेषेणैव इति पाठः] इति पाठेऽपि गच्छति बाधमिति जगदिति व्युत्पत्त्या अयमेवार्थः || २० || द्रष्टृदृश्यक्रमो यत्र स्थितोऽप्यस्तमयं गतः | यदनाकाशमाकाशं तद्रूपं परमात्मनः || २१ || तदेव स्पष्टमाह - द्रष्ट्रिति | आकाशबाधेऽप्यपरिच्छिन्नत्वेन विपुलत्वादाकाशम् || २१ || अशून्यमिव यच्छून्यं यस्मिन्शून्यं जगत्स्थितम् | सर्गौघे सति यच्छून्यं तद्रूपं परमात्मनः || २२ || जगत्स्वभावशून्यमपि यत्सर्ववस्तुयाथात्म्यभूतस्वरूपेण पूर्णत्वादणुमातेणाप्यशून्यमिव शून्यमसदपि जगद्यस्मिन् स्थितं सद्भावमापन्नमित्यर्थः | सर्गलक्षणा ओघा यस्य तथाविधे अज्ञाने सति यत्सदप्यनुपयोगाछून्यमिव शून्यम् || २२ || यन्महाचिन्मयमपि बृहत्पाषाणवत्स्थितम् | जडं वा जडमेवान्तस्तद्रूपं परमात्मनः || २३ || महाचित्प्रचुरत्वादस्थूलादिधर्मकमप्यज्ञदृशा पाषाणवद्बृहत्स्थूलमन्तरजडमेव जडं वा | इवार्थे वाशब्दः | जडमिव स्थितमित्यर्थः || २३ || सबाह्याभ्यन्तरं येन सर्वं संप्राप्य संगमम् | स्वरूपसत्तामाप्नोति तद्रूपं परमात्मनः || २४ || बाह्यमधिभूताधिदैवमाभ्यन्तरमध्यात्मं च यत्प्रसिद्धं तत्सहितं सर्वं जगद्येन संगमाध्यासिकतादात्म्यं संप्राप्य सत्सदिति व्यवहारयोग्यतालक्षणां स्वरूपसत्तामाप्नोतीत्यर्थः || २४ || प्रकाशस्य यथालोकः शून्यत्वं नभसो यथा | तथेदं संस्थितं यत्र तद्रूपं परमात्मनः || २५ || प्रकाशादेरालोकादि यथा आत्मतया संस्थितं तथेति लोकदृष्ट्या दृष्टान्तोक्तिः | वस्तुतस्त्वान्त्यात्कार्यादनुगतं ब्रह्मैव सर्वभावानामात्मा नत्वान्तरालिकाः प्रकाशादय इति || २५ || श्रीराम उवाच | सद्रूपं परमात्मेति कथं नाम हि बुध्यते | इयतोऽस्य जगन्नाम्नो दृश्यस्यासंभवः कथम् || २६ || यत् खलु प्रमाणैर्यथावगम्यते तत्तथैव सत् न रूपान्तरेण | ब्रह्म च नावगम्यते तत्कथं सद्रूपं निश्चेतुं शक्यम् जगच्च तथावगम्यमानं कथमसदिति रामः शङ्कते - सद्रूपमिति | इयतः इदंप्रमाणस्य विपुलस्य बहुप्रमाणसिद्धस्य चेत्यर्थः || २६ || श्रीवसिष्ठ उवाच | भ्रमस्य जागतस्यास्य जातस्याकाशवर्णवत् | अत्यन्ताभावसंबोधे यदि रूढिरलं भवेत् || २७ || ब्रह्म प्रमाणैर्नावगम्यत इत्यसिद्धम् | असति प्रतिबन्धके महावाक्यैस्तदवगमात् | प्रतिबन्धनिरासस्तु तदध्यस्तद्वैतमिथ्यात्वबोधेनैव | नहि सर्पादिकमप्रत्याख्याय रज्जुतत्त्वं बोधयितुं शक्यमित्यभिप्रेत्य श्रीवसिष्ठ उवाच - भ्रमस्येत्यादिना || २७ || तज्ज्ञातं ब्रह्मणो रूपं भवेन्नान्येन कर्मणा | दृश्यात्यन्ताभावतस्तु ऋते नान्या शुभा गतिः || २८ || अत्यन्ताभावसंपत्तौ दृश्यस्यास्य यथा स्थितेः | शिष्यते परमार्थोऽसौ बुध्यते जायते ततः || २९ || यः शिष्यते स बुध्यते यो बुध्यते स ततो बोधात् बोद्धुरात्मैव जायत इत्यर्थः || २९ || न विदः प्रतिबिम्बोऽस्ति दृश्याभावादृते क्वचित् | क्वचिन्नाप्रतिबिम्बेन किलादर्शोऽवतिष्ठते || ३० || उक्तेऽर्थे उपपत्तिमाह - नेति | विदो ब्रह्मणः प्रतिबिम्बो नास्ति बुद्धाविति शेषः | बुद्धौ प्रतिबिम्बितं हि ब्रह्म स्वावरकमज्ञानं दहत्तत्त्वतः प्रतीयेत | न चाध्यस्तसत्यताबुद्धौ ब्रह्म प्रतिबिम्बति | विरोधिद्वैताक्रान्तबुद्धावद्वैतप्रतिबिम्बानुदयादित्यर्थः | ननु द्वैतप्रतिबिम्बशून्यतादशायां ब्रह्म प्रतिबिम्बतां तत्राह - क्वचिदिति | यथा आदर्शः क्वचिदपि किंचित्प्रतिबिम्बग्रहणं विना नावतिष्ठते तद्वद्बुद्धिरपि द्वैतप्रतिबिम्बग्रहणं विनेत्यर्थः || ३० || प्. १४५) जगन्नाम्नोऽस्य दृश्यस्य स्वसत्तासंभवं विना | बुध्यते परमं तत्त्वं न कदाचन केनचित् || ३१ || अनयोपपत्त्यापि प्रागुक्तं सिद्धमित्याह - जगदिति | स्वसत्ताऽसंभवं मिथ्यात्वम् | तन्निश्चयमिति यावत् || ३१ || श्रीराम उवाच | इयतो दृश्यजातस्य ब्रह्माण्डस्य जगत्स्थितेः | मुने कथमसत्तास्ति क्व मेरुः सर्षपोदरे || ३२ || रामः किंचिदधिकं विशेषमभिप्रेत्य द्वितीयं प्रश्नमुत्थापयति - इयत इति | भवेदेवं यदि ब्रह्मणि जगदध्यस्तं स्यात्तदेव त्वसंभवि | चिन्मात्ररूपत्वात्परमसूक्ष्मे ब्रह्मणि इयतो ब्रह्माण्डविस्तृतस्थूलप्रपञ्चस्याध्यासाघटनात्तदेतदाह - क्व मेरुरिति || ३२ || श्रीवसिष्ठ उवाच | दिनानि कतिचिद्राम यदि तिष्ठस्यखिन्नधीः | साधुसंगमसच्छास्त्रपरमस्तदहं क्षणात् || ३३ || भवेदेवं यदि जगति स्थूलता विमर्शसहा स्यान्नतु सा तथा | स्थूलताप्रत्यय एव यदा तवास्माभिः कालेनोपपत्तिभिः शिथिलीकरिष्यते तदा त्वमस्मदुक्तमवधारयिष्यसीत्यभिप्रेत्य श्रीवसिष्ठ उवाच - दिनानीत्यादिना | अखिन्नधीरनुद्विग्नचित्तः || ३३ || प्रमार्जयामि ते दृश्यं बोधे मृगजलं यथा | दृश्याभावे द्रष्टृता च शाम्येद्बोधोऽवशिष्यते || ३४ || द्रष्टृत्वं सति दृश्येऽस्मिन्दृश्यत्वं सत्यथेक्षके | एकत्वं सति हि द्वित्वे द्वित्वं चैकत्वयोजने || ३५ || दृश्यद्वैताभावे न केवलं द्रष्टुरेवाभावः किंतु द्वित्वैकत्वयोरपीत्युपपादयति - द्रष्टृत्वमिति | सति ईक्षके द्रष्टरीत्यर्थः | एकत्वं हि द्वित्वादावन्यत्र प्रसिद्धे सति तद्व्यावृत्तये कल्प्यते न व्यावर्त्याप्रसिद्धावित्यर्थः || ३५ || एकाभावे द्वयोरेव सिद्धिर्भवति नात्र हि | द्वित्वैक्यद्रष्टृदृश्यत्वक्षये सदवशिष्यते || ३६ || इत्थं द्वैतैक्यवर्जितं सन्मात्रं परिशिष्यत इत्याह - द्वित्वैक्येति || ३६ || अहंतादिजगद्दृश्यं सर्वं ते मार्जयाम्यहम् | अत्यन्ताभावसंवित्त्या मनोमुकुरतो मलम् || ३७ || प्रकारान्तरेणापि दृश्यमार्जनं प्रतिजानीते - अहंतादीति || ३७ || नासतो विद्यते भावो नाभावो विद्यते सतः | यत्तु नास्ति स्वभावेन कः क्लेशस्तस्य मार्जने || ३८ || असतो हि सत्ताविकारो विवर्तः स्वरूपं वोच्येत न त्रयमपि | खपुष्पादौ त्रयस्याप्यदर्शनादेवं सतोऽप्यसत्त्वं स्वरूपव्याघातादेवासंभवीत्यनिर्वचनीयतासिद्धौ न तस्य मार्जने क्लेश इत्यर्थः || ३८ || जगदादावनुत्पन्नं यच्चेदं दृश्यते ततम् | तत्स्वात्मन्येव विमले ब्रह्मचित्त्वात्स्वबृंहितम् || ३९ || एवमुत्पत्तिरपि सती व्यर्था असतस्त्वसंभविनीति हेम्नि कल्पितं कटकत्वं हेमदृष्ट्येव सुबाधमित्याह - जगदिति द्वाभ्याम् || ३९ || जगन्नाम्ना न चोत्पन्नं न चास्ति न च दृश्यते | हेम्नीव कटकादित्वं किमेतन्मार्जने श्रमः || ४० || तथैतद्विस्तरेणाहं वक्ष्यामि बहुयुक्तिभिः | अबाधितं यथा तत्त्वं स्वयमेवानुभूयते || ४१ || वक्ष्यमाणप्रकारान्तरोक्तीरपि प्रसङ्गात्प्रतिजानीते - तथेति || ४१ || आदावेव हि नोत्पन्नं यत्तस्येहास्तिता कुतः | कुतो मरौ जलसरिद्द्वितीयेन्दौ कुतो ग्रहः || ४२ || अनुत्पन्नस्य सत्तेव [सत्त्वेन इति पाठः] ग्रहणमप्यसदेवेत्याह - आदाविति || ४२ || यथा वन्ध्यासुतो नास्ति यथा नास्ति मरौ जलम् | यथा नास्ति नभोयक्षस्तथा [नभोवृक्षः इति पाठः] नास्ति जगद्भ्रमः || ४३ || एवंच भ्रान्तितद्विषययोरुभयोरप्यसत्ता सिद्धेति सदृष्टान्तमाह - यथेति || ४३ || यदिदं दृश्यते राम रद्ब्रह्मैव निरामयम् | एतत्पुरस्ताद्वक्ष्यामि युक्तितो न गिरैव च || ४४ || किं तर्हि दर्शनाभासेषु परमार्थतोऽस्ति तदाह - यदिदमिति | युक्तित आख्यानाद्युपपत्तितः || ४४ || यन्नाम युक्तिभिरिह प्रवदन्ति तज्ज्ञास्तत्रावहेलनमयुक्तमुदारबुद्धे | यो युक्तियुक्तमवमत्य विमूढबुद्धिः कष्टाग्रहो भवति तं विदुरज्ञमेव || ४५ || अनुभवपथानारोहे किं युक्तिसहस्रेणापि लक्ष्यापराद्धेषोर्धानुष्कस्येवेत्यवहेलनामाशङ्क्याह - यदिति | तज्ज्ञास्तत्त्वज्ञाः | अवमत्य अनादृत्य | कष्टे निर्युक्तिके आग्रहोऽभिनिवेशो यस्य तथाविधो यो भवति तमज्ञमेव विदुः | प्राज्ञा इति शेषः || ४५ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे जगदादिदृश्यासत्ताप्रतिज्ञा नाम सप्तमः सर्गः || ७ || इति श्रीवासिष्टमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे जगदादिदृश्यासत्ताप्रतिज्ञा नाम सप्तमः सर्गः || ७ || अष्टमः सर्गः ८ श्रीराम उवाच | कयैतज्ज्ञायते युक्त्या कथमेतत्प्रसिध्यति | न्यायानुभूत एतस्मिन्न ज्ञेयमवशिष्यते || १ || प्रागुक्ततत्त्वविज्ञानं सच्छास्त्रेभ्यो न चान्यतः | सच्छास्त्रेष्वप्ययं ग्रन्थः सद्यः फल इतीर्यते || १ || वक्ष्यामि युक्तित इति यत्प्रतिज्ञातं गुरुणा तत् श्रीरामः पृच्छति - कयैतदिति | यदिदं दृश्यते राम रद्ब्रह्मैव निरामयमिति यदुक्तमेतत् | एतस्मिन्नित्यनेनाप्यस्यैव परामर्शः || १ || प्. १४६) श्रीवसिष्ठ उवाच | बहुकालमियं रूढा मिथ्याज्ञानविषूचिका | जगन्नाम्न्यविचाराख्या विना ज्ञानं न शाम्यति || २ || वदाम्याख्यायिका राम या इमा बोधसिद्धये | ताश्चेच्छृणोषि तत्साधो मुक्त एवासि बुद्धिमान् || ३ || वदामि वक्ष्यामि | इमास्त्वत्पृष्टयुक्तिप्रधानाः सन्निहिताः || ३ || नो चेदुद्वेगशीलत्वादर्धादुत्थाय गच्छसि | तत्तिर्यग्धर्मिणस्तेऽद्य न किंचिदपि सेत्स्यति || ४ || नो चेत् न शृणोषि चेत् | अश्रवणे हेतुमाह - उद्वेगेति | तत्तर्हि तिरश्चां पश्वादीनां धर्मः सच्छास्त्रश्रवणायोग्यता तद्वतः || ४ || योऽयमर्थं प्रार्थयते तदर्थं यतते तथा | सोऽवश्यं तदवाप्नोति न चेच्छ्रान्तो निवर्तते || ५ || ननु महतामपि दुर्लभमिदं कथं मादृशेन लभ्येतेति मन्दमतेरनाश्वासमाशङ्क्याह - य इति | निवर्तते अर्धप्रयत्नादिति शेषः || ५ || साधुसंगमसच्छास्त्रपरो भवसि राम चेत् | तद्दिनैरेव नो मासैः प्राप्नोषि परमं पदम् || ६ || श्रीराम उवाच | आत्मज्ञानप्रबोधाय शास्त्रं शास्त्रविदां वर | किं नाम तत्प्रधानं स्याद्यस्मिञ्ज्ञाते न शोच्यते || ७ || श्रीवसिष्ठ उवाच | आत्मज्ञानप्रधानानामिदमेव महामते | शास्त्राणां परमं शास्त्रं महारामायणं शुभम् || ८ || इतिहासोत्तमादस्माच्छ्रुताद्बोधः प्रवर्तते | सर्वेषामितिहासानामयं सार उदाहृतः || ९ || कुतोऽस्योत्तमत्वं तत्राह - सर्वेषामिति || ९ || श्रुतेऽस्मिन्वाङ्मये यस्माज्जिवन्मुक्तत्वमक्षयम् | उदेति स्वयमेवात इदमेवातिपावनम् || १० || वाङ्मये वाक्यसंदर्भात्मके ग्रन्थे || १० || स्थितमेवास्तमायाति जगद्दृश्यं विचारणात् | यथा स्वप्ने परिज्ञाते स्वप्नादावेव भावना || ११ || यथा स्वप्नादौ स्थिते एव स्वप्नोऽयमिति परिज्ञाते स्वप्नसत्यत्वभावना अस्तमभ्येति तद्वत् || ११ || यदिहास्ति तदन्यत्र यन्नेहास्ति न तत्क्वचित् | इमं समस्तविज्ञानशास्त्रकोशं विदुर्बुधाः || १२ || अन्यत्र ग्रन्थान्तरे | यद्बोधोपयुक्तयुक्तिजातम् | विज्ञानशास्त्रधनानां कोशगृहम् || १२ || य इदं शृणुयान्नित्यं तस्योदारचमत्कृतेः | बोधस्यापि परं बोधं बुद्धिरेति न संशयः || १३ || बोधस्येतरग्रन्थजन्यबोधस्यापि परमुत्कृष्टं बोधम् | पञ्चम्यर्थे षष्ठी || १३ || यस्मै नेदं त्वरुचये रोचते दुष्कृतोदयात् | विचारयतु यत्किंचित्सच्छास्त्रं ज्ञानवाङ्मयम् || १४ || यस्मै एतन्न रोचते सोऽन्यत्सच्छास्त्रं विचारयतु नास्माकं तत्र प्रद्वेष इत्यर्थः || १४ || जीवन्मुक्तत्वमस्मिंस्तु श्रुते समनुभूयते | स्वयमेव यथा पीते नीरोगत्वं वरौषधे || १५ || कस्तर्ह्यस्यातिशये हेतुस्तमाह - जीवन्मुक्तत्वमिति || १५ || श्रूयमाणे हि शास्त्रेऽस्मिञ्छ्रोता वेत्त्येतदात्मना | यधावदिदमस्माभिर्ननूक्तं वरशापवत् || १६ || एतज्जीवन्मुक्तत्वमात्मना स्वयमेव वेत्त्यनुभवति | इदमस्माभिरुक्तं वरवत् शापवद्वा यथावत् यथार्थमेव भवति नान्यथेत्यर्थः || १६ || नश्यति संसृतिदुःखमिदं ते स्वात्मविचारणया कथयैव | नो धनदानतपःश्रुतवेदै- स्तत्कथनोदितयत्नशतेन || १७ || स्वात्मविचारणात्मिकया प्रकृतग्रन्थकथयैव नश्यति | धनैर्दानैस्तपोभिः श्रुतैर्द्वैतशास्त्रश्रवणैः कर्मकाण्डरूपैर्वेदैश्च द्वैतवेदशास्त्रलक्षणेन कथनेन वाक्यप्रबन्धेन उदितयागहोमादियत्नशतेन च ते संसृतिदुःखं नो नश्यतीत्यर्थः || १७ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे सच्छास्त्रनिरूपणं नामाष्टमः सर्गः || ८ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे सच्छास्त्रनिरूपणं नामाष्टमः सर्गः || ८ || नवमः सर्गः ९ श्रीवसिष्ठ उवाच | तच्चित्तास्तद्गतप्राणा बोधयन्तः परस्परम् | कथयन्तश्च तन्नित्यं तुष्यन्ति च रमन्ति च || १ || जीवन्मुक्तस्य लक्ष्माणि तस्य सर्वात्मता तथा | जगत्प्रलयशिष्टात्मस्वरूपं चेह कीर्त्यते || १ || आत्मविचारोऽपि यावदवधारणं तदेकप्रवणतालक्षण एवापेक्ष्यते न कादाचित्को व्यापारान्तरव्यवहितावृतो वा | आत्मक्रीड आत्मरतिः क्रियावानेष ब्रह्मविदां वरिष्ठः | ब्रह्मसंस्थोऽमृतत्वमेति इत्यादिश्रुतेरित्यभिप्रेत्य श्रीवसिष्ठ उवाच - तच्चित्ता इति | तस्मिन्नात्मन्येव चित्तं येषाम् | तद्गतास्तत्प्राप्तावेवोद्युक्ताः प्राणा जीवनव्यापारा येषाम् || १ || तेषां ज्ञानैकनिष्ठानामात्मज्ञानविचारिणाम् | सा जीवन्मुक्ततोदेति विदेहान्मुक्ततैव या || २ || ज्ञाने ज्ञानसाधनश्रवणादौ एका निष्ठा अनन्यव्यापारतालक्षणा स्थितिर्येषां | विदेहाद्देहविगमाद्या शुद्धा मुक्ततैव नान्येत्यर्थः || २ || प्. १४७) श्रीराम उवाच | ब्रह्मन्विदेहमुक्तस्य जीवन्मुक्तस्य लक्षणम् | ब्रूहि येन तथैवाहं यते शास्त्रदृशा धिया || ३ || श्रवणादिफलोक्तिप्रसञ्जिते जीवन्मुक्तविदेहमुक्तलक्षणे जिज्ञासुः श्रीराम उवाच - ब्रह्मन्निति | शास्त्रलक्षणया दृशा चक्षुषोत्पादितया धिया || ३ || श्रीवसिष्ठ उवाच | यथास्थितमिदं यस्य व्यवहारवतोऽपि च | अस्तं गतं स्थितं व्योम जीवन्मुक्तः स उच्यते || ४ || विदेहमुक्तेर्जीवन्मुक्तिपूर्वकत्वात्पाठक्रमादर्थक्रमो बलीयानिति न्यायेन प्रश्नक्रममुल्लङ्घ्य प्रथमं जीवन्मुक्तलक्षणं श्रीवसिष्ठ उवाच - यथेति | शास्त्रानिषिद्धव्यवहारवतोऽपि यस्य विश्वं परमार्थदृशा भादादस्तं गतं सद्व्योम आकाशमिव शून्यं स्थितं दर्पणनगरमिव प्रतीयमानमपि नास्त्येवेत्यर्थः || ४ || बोधैकनिष्ठतां यातो जाग्रत्येव सुषुप्तवत् | या आस्ते व्यवहर्तैव जीवन्मुक्तः स उच्यते || ५ || यो व्यवहर्ता सन्नपि नैव किंचित्करोमीति युक्तो मन्येत तत्त्ववित् इति भगवदुक्तदिशा जाग्रत्यपि सुप्तवन्निर्विकार आस्ते || ५ || नोदेति नास्तमायाति सुखे दुःखे मुखप्रभा | यथाप्राप्तस्थितेर्यस्य जीवन्मुक्तः स उच्यते || ६ || यो जागर्ति सुषुप्तस्थो यस्य जाग्रन्न विद्यते | यस्य निर्वासनो बोधः स जीवन्मुक्त उच्यते || ७ || निर्विकारे स्वात्मनि सुषुप्त इव तिष्ठतीति सुषुप्तस्तथाभूतोऽपि योऽविद्यानिद्राक्षयात्स्वात्मनि जागर्ति | देहेन्द्रियादिभाधादिन्द्रियैरर्थोपलब्धिलक्षणा जाग्रद्यस्य न विद्यते | यस्य बोधो निर्वासन इति जाग्रद्वासनोद्भवनिमित्तः स्वप्नोऽपि यस्य न विद्यत इति भावः || ७ || रागद्वेषभयादीनामनुरूपं चरन्नपि | योऽन्तर्व्योमवदच्छस्थः स जीवन्मुक्त उच्यते || ८ || अनुरूपं यथोचितं नट इवानुकाराभिनयमिति वा | अच्छे निरावरणात्मनि तिष्ठतीत्यच्छस्थः | सुपि स्थः इति कः || ८ || यस्य नाहंकृतो भावो यस्य बुद्धिर्न लिप्यते | कुर्वतोऽकुर्वतो वापि स जीवन्मुक्त उच्यते || ९ || न लिप्यते कर्तृत्वाकर्तृत्वाभिमानाभ्यामित्यर्थः || ९ || यस्योन्मेषनिमेषार्धाद्विदः प्रल्यसंभवौ | पश्येत्त्रिलोक्याः स्वसमः स जीवन्मुक्त उच्यते || १० || यस्य विदश्चिदात्मन उन्मेषादावरणविघटनात् त्रिलोक्याः प्रलयं निमेषादावरणाच्च प्राक् संभवं यः पश्येदित्यर्थः | विदेहमुक्तावेव निःशेषोन्मेषात्साक्षिणीश्वरे चावरणाभावाचोभयत्राप्यर्धादित्युक्तिः || १० || यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः | हर्षामर्षभयोन्मुक्तः स जीवन्मुक्त उच्यते || ११ || नोद्विजते न बिभेति | लोको जनः | यतोऽसौ हर्षामर्षभयहेत्वज्ञानाभिमानोन्मुक्तः || ११ || शान्तसंसारकलनः कलावानपि निष्कलः | यः सचित्तोऽपि निश्चित्तः स जीवन्मुक्त उच्यते || १२ || यतोऽसौ सचित्तः सचेतनोऽपि निश्चित्तो निर्मनस्कः | शान्ता संसारस्य कलना सत्यतामतिर्यस्य सः | परदृष्ट्या कलावान्देहावयववानपि निष्कलो निरवयवः || १२ || यः समस्तार्थजातेषु व्यवहार्यपि शीतलः | पदार्थेष्वपि पूर्णात्मा स जीवन्मुक्त उच्यते || १३ || शीतलो रागाद्यतापितः | यतोऽयं रागादिविषयेष्वपि पदार्थेषु पूर्णस्तेषामप्यात्मा | नह्यहेयोपादेये स्वात्मनि तदध्यस्ते मिथ्यात्वेन निश्चिते वार्थे रागादिसंभव इति भावः || १३ || जीवन्मुक्तपदं त्यक्त्वा देहे कालवशीकृते | विशत्यदेहमुक्तत्वं पवनोऽस्पन्दतामिव || १४ || इदानीं प्रथमपृष्टं विदेहमुक्तलक्षणं वक्तुमुपक्रमते - जीवन्मुक्तेति | कालेन वशीकृते ग्रस्ते | प्रारब्धक्षये सतीति यावत् || १४ || विदेहमुक्तो नोदेति नास्तमेति न शाम्यति | न सन्नासन्न दूरस्थो न चाहं न च नेतरः || १५ || तस्यादौ विद्वदनुभवसिद्धं स्वरूपलक्षणमाह - विदेहमुक्त इति | उदयास्तमयौ वृद्ध्यपक्षयौ | सन्व्यक्तः | असन्नव्यक्तः | न च अहं अहं नेति च न | न च इतरः || १५ || सूर्यो भूत्वा प्रतपति विष्णुः पाति जगत्त्रयम् | रुद्रः सर्वान्संहरति सर्गान्सृजति पद्मजः || १६ || तस्य लोकदृष्ट्या सार्वात्म्यलक्षणं तटस्थलक्षणमाह - सूर्य इत्यादिना || १६ || खं भूत्वा पवनस्कन्धं धत्ते सर्पिसुरासुरम् | कुलाचलगतो भूत्वा लोकपालपुरास्पदः || १७ || कुलाचलो मेरुर्मानसोत्तरश्च | तयोरेव लोकपालपुरप्रसिद्धेः || १७ || भूमिर्भूत्वा बिभर्तीमां लोकस्थितिमखण्डिताम् | तृणगुल्मलता भूत्वा ददाति फलसंततिम् || १८ || लोकस्थितिं जनमर्यादाम् || १८ || बिभ्रज्जलानलाकारं ज्वलति द्रवति द्रुतम् | चन्द्रोऽमृतं प्रसवति मृतं हालाहलं विषम् || १९ || हालाहलसंज्ञं विषं भूत्वा मृतं मरणं प्रसवतीति च्छान्दसो विकरणव्यत्ययः || १९ || तेजः प्रकटयत्याशास्तनोत्यान्ध्यं तमो भवत् | शून्यं सद्व्योमतामेति गिरिः सन् रोधयत्यलम् || २० || तेजो भवत् प्रकटयत्याशा दिशः || २० || करोति जंगमं चित्तः स्थावरं स्थावराकृतिः | भूत्वार्णवो बलयति भूस्त्रियं वलयो यथा || २१ || चित्तः स्फुटान्तःकरणाभिव्यक्तचैतन्यतः | स्थावराकृतिः अस्फुटचित्तत्वाज्जडप्रायाकृतिः | भूरेव स्त्री ताम् || २१ || परमार्कवपुर्भूत्वा प्रकाशान्तं विअसारयन् | त्रिजगत्त्रसरेण्वोघं [त्रिजगत्त्रसरेण्वन्तं इति पाठः] शान्तमेवावतिष्ठते || २२ || परमार्कवपुरनावरणचिदात्मा प्रकाशान्तं तत्प्रकाशव्याप्तं त्रिजगदादि त्रसरेण्वन्तं पदार्थौघं विसारयन्विस्तारयन्नपि स्वयं शान्तं निर्विकारमेवावतिष्ठते || २२ || प्. १४८) यत्किंचिदिदमाभाति भातं भानमुपैष्यति | कालत्रयगतं दृश्यं तदसौ सर्वमेव च || २३ || श्रीराम उवाच | कथमेवं वद ब्रह्मन्भूयते विषमा हि मे | दृष्टिरेषाथ दुष्प्राप्या दुराक्रम्येति निश्चयः || २४ || प्रतिबन्धबाहुल्येन समदृष्टिर्दौर्लभ्यान्मुक्तेर्दौर्लभ्यं मन्यमानस्तत्प्राप्त्युपायसोत्कण्ठः श्रीराम उवाच - कथमिति | हि यस्माद्विषमा दृष्टिः | एषा मुक्तिर्दुष्प्राप्या | अथ कथंचित्प्राप्तापि तत्र चित्तस्थैर्यस्य दुष्करत्वाद्दुरारोहेति मे निश्चय इत्यन्वयः || २४ || श्रीवसिष्ठ उवाच | मुक्तिरेषोच्यते राम ब्रह्मैतत्समुदाहृतम् | निर्वाणमेतत्कथितं शृणु तत्प्राप्यते कथम् || २५ || एवं सोत्कण्ठं रामं तत्प्राप्त्युपायोपदेशेनाश्वासयन् वसिष्ठ उवाच ##- यदिदं दृश्यते दृश्यमहन्त्वन्तादिसंयुतम् [त्वन्त्वादि इति क्वचित्] | सतोऽप्यस्यात्यनुत्पत्त्या बुद्धयैतदवाप्यते || २६ || अनात्मन्यारोपितप्रत्यक्तमहन्त्वम् | पराक्चेतनत्वं त्वन्त्वम् | सतः सदिति भासमानस्याप्यस्य वन्ध्यापुत्रस्येवात्यन्तमनुत्पत्त्या [मनुत्पन्न इति पाठः] || २६ || श्रीराम उवाच | विदेहमुक्तास्त्रैलोक्यं संपद्यन्ते यदा तदा | मन्येते सर्गतामेव गता वेद्यविदांवर || २७ || ब्रह्मणः सार्वात्म्यश्रवणाद्ब्रह्मप्राप्तौ तद्भावेन संसारप्राप्तिरेव किं न स्यादिति रामः शङ्कते - विदेहेति | ते विदेहमुक्ताः सर्गतां संसारभावमेव गता इति मन्ये || २७ || श्रीवसिठ उवाच | विद्यते चेत्त्रिभुवनं तत्तत्तां संप्रयान्तु ते | यत्र त्रैलोक्यशब्दार्थो न संभवति कश्चन || २८ || प्रागुक्तात्यन्तानुत्पत्तिमेवावलम्ब्य वसिष्ठः परिहरति - विद्यते चेदिति | तत्तर्हि तत्तांतत्तत्सर्गरूपताम् | ते मुक्ताः यत्र न संभवन्ति तत्र उक्तार्थधीः कुत इत्युत्तरेणान्वयः || २८ || एतत्त्रिलोकतां यातं ब्रह्मेत्युक्तार्थधीः कुतः | तस्मान्नो संभवत्येषा जगच्छब्दार्थकल्पना || २९ || उक्तार्थधीस्त्वच्छङ्कितार्थबुद्धिः तस्मादित्युपसंहारः || २९ || अनन्यच्छान्तमाभासमात्रमाकाशनिर्मलम् | ब्रह्मैव जगदित्येतत्सर्वं सत्त्वावबोधतः || ३० || अनन्यदद्वयम् | आभासमात्रं चिन्मात्रम् | सत्त्वं सन्मात्रभावस्तदवबोधतः || ३० || अहं हि हेमकटके विचार्यापि न दृष्टवान् | कटकत्वं क्वचिन्नाम ऋते निर्मलहाटकात् || ३१ || प्रत्यग्दृष्ट्या पर्यालोचने तदध्यस्तस्यासत्त्वं दृष्टान्तैरनुभावयति ##- जलादृते पयोवीचौ नाहं पश्यामि किंचन | वीचित्वं तादृशं दृष्टं यत्र नास्त्येव तत्र हि || ३२ || स्पन्दत्वं पवनादन्यन्न कदाचन कुत्रचित् | स्पन्द एव सदा वायुर्जगत्तस्मान्न भिद्यते || ३३ || यथा शून्यत्वमाकाशे ताप एव मरौ जलम् | तेज एव सदा लोके ब्रह्मैव त्रिजगत्तथा || ३४ || श्रीराम उवाच | अत्यन्ताभावसंपत्त्या जगद्दृश्यस्य मुक्तता | ययोदेति मुने युक्त्या तां ममोपदिशोत्तमम् || ३५ || एवं दर्शितदृष्टान्तान्पर्यालोच्य गुरूक्तार्थं श्लोकद्वयेन संभवयंस्तत्र विपरीतभावनाविक्षेपात्पुनरसंभावनाविकल्पोदयैरप्रतिष्ठितेन मनसावधारयितुमशक्नुवन्निव तदवधारणोपायं पृच्छति - अत्यन्तेत्यादिना | जगद्दृश्यस्यात्यन्ताभावसंपत्तिर्बाधस्तया || ३५ || मिथःसंपन्नयोर्द्रष्टृदृश्ययोरेकसंख्ययोः | द्वयाभावे स्थितिं याते [याति इति पाठः] निर्वाणमवशिष्यते || ३६ || मुथः एकसंख्ययोः संपन्नयोर्बाधपरिशिष्टस्वप्रकाशात्मभावापन्नयोरिति यावत् || ३६ || दृश्यस्य जगतस्तस्मादत्यन्तासंभवो यथा | ब्रह्मैवेत्थं स्वभावस्थं बुध्यते वद मे तथा || ३७ || कयैतज्ज्ञायते युक्त्या कथमेतत्प्रसिद्ध्यति | एतस्मिंस्तु मुने सिद्धे न साध्यमवशिष्यते || ३८ || श्रीवसिष्ठ उवाच | बहुकालमियं रूढा मिथ्याज्ञानविषूचिका | नूनं विचारमन्त्रेण निर्मूलमुपशाम्यति || ३९ || श्रुतार्थस्य सकृत्संभावनोदये पुनःपुनश्चिरमनाभ्यास एव तत्प्रतिष्ठावधारणोपाय इति श्रीवसिष्ठ उवाच - बहुकालमित्यादिना || ३९ || न शक्यते झटित्येषा समुत्सादयितुं क्षणात् | समप्रपतने ह्यद्रौ समरोहावरोहणे || ४० || शिखरारूढस्य पुंसः सर्वतः सममधः प्रपतनं यस्मात्तथाविधेऽद्रौ समे तुल्यकाले आरोहावरोहणे यथा झटित्येव कर्तुं न श्येते तद्वत् || ४० || तस्मादभ्यासयोगेन युक्त्या न्यायोपपत्तिभिः | जगद्भ्रान्तिर्यथा शाम्येत्तवेदं कथ्यते शृणु || ४१ || वक्ष्याम्याख्यायिकां राम यामिमां बोधसिद्धये | तां चेच्छृणोषि तत्साधो मुक्त एवासि बोधवान् || ४२ || वक्ष्यमाणजगत्प्रलयाख्यायिकाम् || ४२ || अथोत्पत्तिप्रकरणं मयेदं तव कथ्यते | यत्किलोत्पद्यते राम तेन मुक्तेन भूयते || ४३ || अथ प्रलयाख्यायिकानन्तरम् | उत्पत्तिप्रकरणं जगदुत्पत्तिप्रक्रमः | स च निर्विकारोपादानको विवर्त एव पर्यवस्यतीति बन्धमिथ्यात्वे स्वतः सिद्ध एव मोक्ष इति तद्वर्णनाशय इत्याह - यदित्यादिना | यद्यदुत्पद्यते इति प्रतिपाद्यते तेन तेन मुक्तेन तत्तद्बन्धशून्येन स्वेन भूयते स्थीयत इत्यर्थः || ४३ || इयमित्थं जगद्भ्रान्तिर्भात्यजातैव खात्मिका | इत्युत्पत्तिप्रकरणे कथ्यतेऽस्मिन्मयाधुना || ४४ || प्. १४९) यदिदं दृश्यते किंचिज्जगत्स्थावरजङ्गमम् | सर्वं सर्वप्रकाराढ्यं ससुरासुरकिन्नरम् || ४५ || अजातैव खात्मिका भातीत्युक्तमर्थं प्रलयाख्यायिकया समर्थयितुमुपक्रमते - यदिदमिति | यदिदं जगद्दृश्यते तत्प्रलये असद्भवतीत्युत्तरेणान्वयः || ४५ || तन्महाप्रलये प्राप्ते रुद्रादिपरिणामिनि | भवत्यसददृश्यात्म क्वापि याति विनश्यति || ४६ || महाप्रलये प्राकृते | रुद्रदीनां परिणामिनि तिरोभावयितरि | विनश्यतीत्यस्य व्याख्या असददृश्यात्मेति || ४६ || ततः स्तिमितगम्भीरं न तेजो न तमस्तततम् | अनाख्यमनभिव्यक्तं सत्किंचिदवशिष्यते || ४७ || किं शून्यान्तं नश्यति नेत्याह - तत इति | अनाख्यमनभिव्यक्तमिति नामरूपप्रतिषेढः || ४७ || न शून्यं नापि चाकारं न दृश्यं न च दर्शनम् | न च भूतपदार्थौघो यदनन्ततया स्थितम् || ४८ || तत्प्रतिषेधे नामरूपशून्यवस्तुनो जगत्यत्यन्ताप्रसिद्धेः शून्यतामाशङ्क्याह - नेति | तर्हि तस्याशून्यस्याकारदृश्यदर्शनादिभावः परिशेषात्स्यात्तत्राह - नापीत्यादिना | आकारमिति च्छान्दसं मत्वर्थी याजन्तं वा || ४८ || किमप्यव्यपदेशात्म पूर्णात्पूर्णतराकृति | न सन्नासन्न सदसन्न भावो भवनं न च || ४९ || अनाख्यत्वादेवाव्यपदेशात्म | अव्यपदेश्यतामेव प्रपञ्चयति - न सदित्यादिना | भवनं कालसंबन्ध उत्पत्तिर्वा तद्वान्भावः || ४९ || चिन्मात्रं चेत्यरहितमनन्तमजरं शिवम् | अनादिमध्यपर्यन्तं यदनादि निरामयम् || ५० || न विद्यते आदिः कारणं यस्य तदनादि || ५० || यस्मिञ्जगत्प्रस्फुरति दृष्टमौक्तिकहंसवत् | यश्चेदं यश्च नैवेदं देवः सदसदात्मकः || ५१ || मुक्ताभुजां हंसानां तत्परिणामत्वात्पूर्वं मुक्तात्मना पश्चाद्धंसात्मना च दृष्टतदुभयानुगतद्रव्यवच्चित्रभ्रान्त्यादिदृष्टमुक्तामयहंसवद्वा | यश्चेदमध्यारोपदृशा | नैवेदमपवाददृशा | सदसदात्मको व्यक्ताव्यक्तावस्थाद्वयानुगतः || ५१ || अकर्णजिह्वानासात्वग्नेत्रः सर्वत्र सर्वदा | शृणोत्यास्वादयति यो जिघ्रेत्स्पृशति पश्यति || ५२ || कर्णनासाद्यभावेऽपि श्रवणादिकमस्य स्वप्ने प्रत्यक्षम् | तथाच श्रुतिः अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः स शृणोत्यकर्णः इति || ५२ || स एव सदसद्रूपं येनालोकेन लक्ष्यते | सर्गचित्रमनाद्यन्तं स्वरूपं चाप्य रञ्जनम् || ५३ || येनालोकेन प्रागुक्तसदसद्रूपं लक्ष्यते स चिदालोकोऽपि स एव | तथा अज्ञानसत्त्वे सर्गचित्रमज्ञाननिवृत्तौ त्वनाद्यन्तं स्वरूपं चाप्य प्राप्य रञ्जनं प्रथनं स एवेत्यर्थः || ५३ || अर्धोन्मीलितदृश्यभ्रूमध्ये तारकवज्जगत् | व्योमात्मैव सदाभासं स्वरूपं योऽभिपश्यति || ५४ || एवं जीवन्मुक्तदशायां बाधितजगदाभासदर्शनमपि स एवेत्याह - अर्धेति | यथा योगिनः खेचरमुद्रायां भ्रूमध्ये दृष्टिनिवेशे अर्धोन्मीलितचक्षुर्दृश्यभ्रूमध्ये निविष्टं कृष्णतारकमस्फुटत्वात्सदाभासं जगत्पश्यन्ति तद्वद्यो व्योमात्मैव सदाभासं स्वरूपं पश्यति सोऽपि स एवेत्यर्थः | खेचरमुद्रायास्तु लक्षणमुक्तं योगशास्त्रे - कपालकुहरे जिह्वा प्रविष्टा विपरीतगा | भ्रुवोरन्तर्गता दृष्टिर्मुद्रा भवति खेचरी || न पीड्यते स रोगेण न च लिप्येत कर्मणा | बाध्यते न स कालेन यो मुद्रां वेत्ति खेचरीम् || इति || ५४ || यस्यान्यदस्ति न विभोः कारणं शशशृङ्गवत् | यस्येदं च जगत्कार्यं तरङ्गौघ इवाम्भसः || ५५ || ज्वलतः सर्वतोऽजस्रं चित्तस्थानेषु तिष्ठतः | यस्य चिन्मात्रदीपस्य भासा भाति जगत्त्रयम् || ५६ || एवं सर्वलयाधारतत्पदार्थरूपं प्रदर्श्य त्वंपदार्थरूपेणापि तं दर्शयितुमुपक्रमते - ज्वलत इत्यादिना | सर्वतः सामान्यतो ज्वलतो दीप्यमानस्य चित्रस्थानेषु त्वनावृतत्वादजस्रं विशेषाभिव्यक्त्या ज्वलतस्तिष्ठतः || ५६ || यं विनाऽर्कादयोऽप्येते प्रकाशास्तिमिरोपमाः | सति यस्मिन्प्रवर्तन्ते त्रिजगन्मृगतृष्णिकाः || ५७ || यथान्धस्य दिनजातमप्यप्रकाशरूपं तथा दृग्रूपं यं विना तिमिरोपमाः || ५७ || सस्पन्दे समुदेतीव निःस्पन्दान्तर्गते न च | इयं यस्मिञ्जगल्लक्ष्मीरलात इव चक्रता || ५८ || यस्मिन्मनोभावेन सस्पन्दे जगल्लक्ष्मीः समुदेतीव | निःस्पन्दे अन्तः प्रत्यक्तत्वं गते प्राप्ते तु न च समुदेति | चोऽवधारणे | अलाते ज्वलदुल्मुके निशि भ्राम्यमाणे चक्राकारता प्रसिद्धा || ५८ || जगन्निर्माणविलयविलासो व्यापको महान् | स्पन्दास्पन्दात्मको यस्य स्वभावो निर्मलोऽक्षयः || ५९ || उक्तमेव स्पष्टमाह - जगदिति | यस्य स्वभावः पारमार्थिकरूपं तु निर्मलोऽक्षयः || ५९ || स्पन्दास्पन्दमयी यस्य पवनस्येव सर्वगा | सत्ता नाम्नैव भिन्नेव व्यवहारान्न वस्तुतः || ६० || उक्तस्पन्दास्पन्दयोः सद्रूपपूर्णतयोरनन्यथाभावात्तद्व्यतिरिक्तान्यथाभावस्य विवर्ततापर्यवसाना नाम्नैव भिन्ना न वस्तुत इत्यर्थः || ६० || सर्वदैव प्रबुद्धो यः सुप्तो यः सर्वदैव च | न सुप्तो न प्रबुद्धश्च यः सर्वत्रैव सर्वदा || ६१ || तस्य प्रबुद्धाज्झमुक्तदृक्प्रसिद्धं त्रैविध्यमाह - सर्वदैवेति || ६१ || यदस्पन्दं शिवं शान्तं यत्स्पन्दं त्रिजगत्स्थितिः | स्पन्दास्पन्दविलासात्मा य एको भरिताकृतिः [भरतावनिः इति पाठः] || ६२ || मुमुक्षुहेयोपादेयताप्रयोजकमपि तस्योक्तरूपद्वयमेवेत्याशयेनाह - यदिति || ६२ || प्. १५०) आमोद इव पुष्पेषु न नश्यति विनाशिषु | प्रत्यक्षस्थोऽप्यथाग्राह्यः शौक्ल्यं शुक्लपटे यथा || ६३ || आमोद इव सार इति शेषः | सर्ववस्तुप्रत्यक्षवृत्तिषु प्रथारूपेण स्थितोऽपि वृत्तिविषयनिष्कर्षेणाग्राह्यो [संनिकर्षग्राह्यो इति पाठः] ग्रहीतुमशक्यः || ६३ || मूकोपमोऽपि योऽमूको मन्ता योऽप्युपलोपमः | यो भोक्ता नित्यतृप्तोऽपि कर्ता यश्चाप्यकिंचनः || ६४ || वागिन्द्रियाभावान्मूकोपमोऽपि सर्ववाक्प्रवृत्तिनिमित्तत्वादमूकः | एवं मननविकारहीनत्वादुपलोपमोऽपि मन्तेत्यादि बोध्यम् | नास्ति किञ्चन क्रियादिनिमित्तं यस्य सोऽकिञ्चनः || ६४ || योऽनङ्गोऽपि समस्ताङ्गः सहस्रकरलोचनः | न किंचित्संस्थितेनापि येन व्याप्तमिदं जगत् || ६५ || समस्तानामङ्गान्येवाङ्गानि यस्य अत एव सहस्राण्यनन्तानि करलोचनादीनि यस्य || ६५ || निरिन्द्रियबलस्यापि यस्याशेषेन्द्रियक्रियाः | यस्य निर्मननस्यैता मनोनिर्माणरीतयः || ६६ || एताः प्रसिद्धजगद्रूपाः || ६६ || यदनालोकनाद्भ्रान्तिसंसारोरगभीतयः | यस्मिन्दृष्टे पलायन्ते सर्वाशाः सर्वभीतयः || ६७ || आशाः कामाः दिशः प्रतीति वा || ६७ || साक्षिणि स्फार आभासे ध्रुवे दीप इव क्रियाः | सति यस्मिन्प्रवर्तन्ते चित्तेहाः स्पन्दपूर्विकाः || ६८ || दीपे सति नाट्यादिक्रिया इव स्फारे अपरिच्छिन्ने आभासे प्रकाशरूपे अत एव साक्षिणि | यस्मिन्सति चित्तस्येहाश्चेष्टाः प्रवर्तन्ते || ६८ || यस्माद्घटपटाकारपदार्थशतपङ्क्तयः | तरङ्गगणकल्लोलवीचयो वारिधेरिव || ६९ || वारिधेरिव प्रवर्तन्ते इत्यनुषज्यते || ६९ || स एवान्यतयोदेति यत्पदार्थशतभ्रमैः | कटकाङ्गदकेयूरनूपुरैरिव काञ्चनम् || ७० || स चिदात्मैवान्यतया जडप्रपञ्चात्मना | ये प्रसिद्धाश्च ते पदार्थशतभ्रमाश्चेति कर्मधारयादित्थंभावे तृतीया || ७० || यस्त्वमेकोऽवभासात्मा योऽहमेते जनाश्च ये | यश्च न त्वमबुद्धात्मा नाहं नैते जनाश्च [जनाश्च ये इति पाठः] यः || ७१ || यः अवभासत इत्यवभासस्त्वया साक्षात्कृत आत्मा सन् त्वमेवैकः | एवं मया जनैर्वा साक्षात्कृतस्तत्तदात्मैवैकः | अबुद्धात्मा तु तद्विपरीत इत्यर्थः || ७१ || अन्येवाप्यतिरिक्तेव सैवासेव च भङ्गुरा | पयसीव तरङ्गाली यस्मात्फुरति दृश्यभूः || ७२ || असौ अनन्याप्यन्येव | अनतिरिक्ताप्यतिरिक्तेव | अतिरेकोऽत्र [अतिरिक्तत्वं पृथक्त्वं इति पाठः] पृथक्त्वमिति न पौनरुक्त्यम् | सा प्राक्सिद्धैवासेवोत्पत्तिसिद्धेव || ७२ || यतः कालस्य कलना यतो दृश्यस्य दृश्यता | मानसी कलना येन यस्य भासा विभासनम् || ७३ || कालस्य कलनाः षड्भावविकाराः दृश्यस्य दृश्यता दर्शनफलव्याप्तिः | मानसी कलना इष्टानिष्टप्राप्तिपरिहारविषया मनोरथविकल्पा येन निमित्तेन | क्रमाद्यदीयसच्चिदानन्दरूपतानिर्वाह्या इति यावत् | तच्च त्रयं यस्य भासा जगद्विभासनमेव नान्यत् | अज्ञातसाधारणी सर्वव्याप्तिः सत्ता | अनावृतमात्रव्याप्तिर्दर्शनं | तत्रानुकूलवेदनीयमात्रव्याप्तिरानन्दतेत्यवान्तरौपाधिकवैलक्षण्येऽपि भारूपव्याप्तेरेकत्वादिति भावः || ७३ || क्रियां रूपं रसं गन्धं शब्दं स्पर्शं च चेतनम् | यद्वेत्सि तदसौ देवो येन वेत्सि तदप्यसौ || ७४ || देहकर्मेन्द्रियोपाधौ क्रियाम् ज्ञानेन्द्रियोपाधौ रूपादि अन्तःकरणोपाधौ चेतनम् प्रमातारं च यत्स्वरूपः सन् वेत्सि तत्प्रमातृ निष्कृष्टचिद्रूपमसौ | येन विषयव्याप्तवृत्तिनिष्कृष्टचिद्रूपेण वेत्सि तदप्यसौ देव इत्यर्थः || ७४ || द्रष्टृदर्शनदृश्यानां मध्ये यद्दर्शनं स्थितम् | साधो तदवधानेन स्वात्मानमवबुध्यसे || ७५ || तथाच त्रिपुटीसाक्षी स इति फलितमित्याह - द्रष्ट्रिति | अवधानमेकाग्रेण मनसा उपाधिभ्यो निष्कृष्य दर्शनम् || ७५ || अजमजरमनाद्यं शाश्वतं ब्रह्म नित्यं शिवममलममोघं वन्द्यमुच्चैरनिन्द्यम् | सकलकलनशून्यं कारणं कारणाना- मनुभवनमवेद्यं वेदनं विश्वमन्तः || ७६ || इत्थं तत्त्वंपदार्थौ निर्दिश्य वाक्यार्थमन्ते दर्शयति - अजमिति | कारणं कारणानामिति तत्पदवाच्यार्थस्य [वाक्यार्थस्य इति पाठः] निर्देशः | शून्यमित्यन्तस्तत्पदलक्ष्यार्थस्य | विश्वं कृत्स्नं वेदनमित्यवस्थात्रयद्रष्टृत्वंपदवाच्यस्य | अवेद्यं वेदनमिति वेद्यावस्थात्रयनिर्मुक्तत्वंपदलक्ष्यस्य | समभिव्याहाराच्चाखण्डवाक्यार्थोपदेश इति || ७६ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे परमकारणवर्णनं नाम नवमः सर्गः || ९ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे परमकारणवर्णनं नाम नवमः सर्गः || ९ || प्. १५१) दशमः सर्गः १० श्रीराम उवाच | महाप्रलयसंपत्तौ यदेतदवशिष्यते | भवत्येतदनाकारं नाम नास्त्यत्र संशयः || १ || विरोधमिव संभाव्य प्रागुक्ते ब्रह्मलक्षणे | क्रमात्तत्परिहारेण तात्पर्यमिह वर्ण्यते || १ || महाप्रलये यत्सत्किंचिदवशिष्यते तत् न तेजो न तम इत्यादिविरुद्धरूपसंभावितं मन्यमानस्तथोक्तेस्तात्पर्यं जिज्ञासुः श्रीराम एकतरार्थसंभावनोपन्यासेन प्रश्नभूमिकां रचयति - महाप्रलयेति | आकारविलये अनाकारताप्रसिद्धेः संभावितमिदमिति द्योतनाय नामेति निपातः || १ || न शून्यं कथमेतत्स्यान्न प्रकाशः कथं भवेत् | कथं वा न तमोरूपं कथं वा नैव भास्वरम् || २ || इदानीं प्रष्टव्यार्थं दर्शयति - नेत्यादिन | नष्टस्याशून्यता दुर्लभा तेजस्तमसोरन्यतरनाशेऽन्यतरापरिशेषोऽप्यप्रसिद्ध इत्यर्थः | प्रकाश्यविलयात्तदानीं परप्रकाशरूपत्वाभावेऽपि खद्योतवत्स्वमात्रप्रकाशेन भास्वरं कथं न भवेदित्यर्थः || २ || कथं वा नैव चिद्रूपं जीवो वा न कथं भवेत् | कथं न बुद्धितत्त्वं स्यात्कथं वा न मनो भवेत् || ३ || दृश्यातिरिक्तस्य दर्शनत्वप्रसिद्धेर्न दृश्यं न च दर्शनमित्युक्तिव्याघातमभिप्रेत्याह - कथं वेति | यदि तु दृश्यदर्शनातिरिक्तो द्रष्टैव प्रसिद्ध इत्युच्येत तर्हि जीवो बुद्धितत्त्वं मनो वा कथं न भवेत्तेषामेवमतभेदेन द्रष्टृप्रसिद्धेस्तथाच तेषामेव लोके प्राणिवाचकभूतशब्दाभिलप्यत्वान्न [शब्दाभिधेयत्वात् इति पाठः] च भूतपदार्थौघ इत्युक्तिव्याघात इति भावः || ३ || कथं वा नैव किंचित्स्यात्कथं वा सर्वमित्यपि | अनयैव वचोभङ्ग्या मम मोह इवोदितः || ४ || यच्चोक्तं यस्त्वमेकोऽवभासात्मा योऽहमेते जनाश्च ये | यश्च न त्वमबुद्धात्मा नाहं नैते जनाश्च ये || इति तदपि स्वोक्तिव्याहतमित्यभिप्रेत्याह - कथं वेति | किंचित्त्वमहमादि || ४ || श्रीवसिष्ठ उवाच | विषमोऽयमतिप्रश्नो भवता समुदाहृतः | भेत्तास्म्यहं त्वयत्नेन नैशं तम इवांशुमान् || ५ || मदाशयमतिक्रम्य प्रश्नोऽतिप्रश्नः | भेत्ता छेत्ता तत्प्रश्नबीजं संशयं स्वाशयोद्घाटनेनेति शेषः | अंशुमान् सूर्यः || ५ || महाकल्पान्तसंपत्तौ यत्तत्सदवशिष्यते | तद्राम न यथा शून्यं तदिदं शृणु कथ्यते || ६ || अनुत्कीर्णा यथा स्तम्भे संस्थिता शालभञ्जिका | तथा विश्वं स्थितं तत्र तेन शून्यं न तत्पदम् || ७ || स्तम्भोत्कीर्णप्रतिमायाः स्तम्भसत्तातिरिक्तसत्ताभावात्तत्सत्तया स्थितेरनुत्कीर्णदशायामप्यनपायादिति भावः || ७ || अयमित्थं महाभोगो जगदाख्योऽवभासते | सत्यो भवत्वसत्यो वा यत्र तत्र त्वशून्यता || ८ || अयं प्रपञ्चो व्यवहारतः सत्यो वा परमार्थतोऽसत्यो वा भवतु | यत्र यस्मिन्नधिष्ठानेऽवभासते तत्रास्य न शून्यता | शून्यस्यारोपाधिष्ठानत्वायोगादित्यर्थः || ८ || यथा न पुत्रिकाशून्यः स्तम्भोऽनुत्कीर्णपुत्रिकः | तथा भातं [मासं इति पाठः] जगद्ब्रह्म तेन शून्यं न तत्पदम् || ९ || अन्वयमुखसमर्थितमर्थं व्यतिरेकमुखेनापि समर्थयते - यथेति | तथा तत्पदं जगच्छून्यं नेति संबन्धः | यतो ब्रह्मैव प्राग्जगद्भातं तेन हेतुनेत्यर्थः || ९ || सौम्याम्भसि यथा वीचिर्न चास्ति नच नास्ति च | तथा जगद्ब्रह्मणीदं शून्याशून्यपदं गतम् || १० || ननु तदा यदि जगदस्ति तर्हि प्रलयानुपपत्तिर्यदि नास्ति तर्हि प्राप्तैव तच्छून्यतेति सत्त्वसत्त्वव्याघातं दृष्टान्तेन वारयति - सौम्येति | वीचिलीनेति शेषः | शून्याशून्यपदं अनिर्वचनीयतां शून्याशून्योभयकल्पनाधिष्ठानं परमार्थवस्तुप्राप्तमिति वा || १० || देशकालादि शान्तत्वात्पुत्रिकारचनं द्रुमे | संभवत्ययथाऽतो वै तेनानन्ते विमुह्यते || ११ || यदि स्तम्भपुत्रिकावदेव प्रलये जगदस्ति तर्हि कथं वादिभिस्तत्र विमुह्यते न स्तम्भपुत्रिकायां तत्राह - देशेति | पुत्रिकारचनयोग्यकर्तृकर्माधारदेशस्य अहरादिकालस्य आदिपदात्कर्तृकरणोपकरणादेश्च विषये शान्तत्वान्निराकाङ्क्षत्वात्सर्वसामग्रीसंपत्तेरित्यर्थः | द्रुमे द्रुमविकारस्तम्भे पुत्रिकारचनं संभवति तेन तत्र तत्सत्ता संभावयितुं शक्यत इत्यर्थः | अनन्ते त्रिविधपरिच्छेदशून्ये ब्रह्मणि तु अयथा यथोक्तसामग्र्यदर्शनमित्यर्थः | वै इति निश्चये | अतस्तेन प्रसिद्धेन वादिजनेन विमुह्यते मोहः प्राप्यत इत्यर्थः || ११ || तत्स्तम्भपुत्रिकाद्येतत्परमार्थे जगत्स्थितेः | एकदेशेन सदृशमुपमानं न सर्वथा [सर्वतः इति पाठः] || १२ || यद्युक्तरीत्या वैषम्यं कथं तर्हि स्तम्भपुत्रिकादृष्टान्तस्तत्राह - तदिति | तदेतत्प्रागुक्तं स्तम्भपुत्रिकादि परमार्थे ब्रह्मणि एकदेशेन तत्सत्तानुच्छेदांशेन [तत्सत आधारसत्तानुच्छेदांशेन इति पाठः] || १२ || न कदाचिदुदेतीदं परस्मान्न च शाम्यति | इत्थं स्थितं केवलं सद्ब्रह्म स्वात्मनि संस्थितम् || १३ || नन्वस्तूक्तरीत्या जगत्सत्ता तदुदयास्तमययोर्विरुद्धयोस्तु तत्र युगपत्कथं सत्तेत्याशङ्क्य तयोः स्वधर्मिव्यतिरिक्तसत्तानभ्युपगमाद्धर्मिपृथक्सत्तानिरासे संभावनैव नास्तीत्याशयेनाह - न कदाचिदिति || १३ || अशून्यापेक्षया शून्यशब्दार्थपरिकल्पना | अशून्यत्वात्संभवतः शून्यताशून्यते कुतः || १४ || नन्वशून्यत्वेनोदेति न शाम्यतीति शून्योर्थकनञा [अशून्यार्थकनञः इति पाठः] कथमुल्लेखस्तत्राह - अशून्येति | प्रतियोगिन्यशून्यत्वं सिद्धवत्कृत्य तदपेक्षया वस्त्वन्तरे तच्छून्यता कल्प्यते कल्पितां च शून्यतामपेक्ष्य प्रतियोगिन्यशून्यत्वमिति परस्परसापेक्षकल्पने शून्यताशून्यते कुतः संभवतः इत्यर्थः || १४ || प्. १५२) ब्रह्मण्ययं प्रकाशो हि न संभवति भूतजः | सूर्यानलेन्दुतारादिः कुतस्तत्र किलाव्यये || १५ || इत्थं प्रथमप्रश्नपदं [प्रश्ने पदं इति पाठः] व्यवस्थाप्य द्वितीयमपि समाधत्ते - ब्रह्मणीत्यादिना | अबिन्धनस्य पार्थिवेन्धनस्य वाव्ययेन हि सूर्यानलादेः संभवः | अव्यये तु ब्रह्मणि स कुत इति न प्रकाश इत्युक्तिरिति भावः | एतेन कथं वा नैव भास्वरमित्यस्याप्युत्तरमुक्तमेव || १५ || महाभूतप्रकाशानामभावस्तम उच्यते | महाभूताभावजं तु तेनात्र न तमः क्वचित् || १६ || कथं वा न तमोरूपमित्येतत्समाधत्ते - महाभूतेति | सूर्यामहाताभावजं तु तमः [तत्तमः इति पाठः] पृथ्व्यादिमहाभूतप्रकाशानां अभावो विरोधी सन् परप्रकाश्येषु पृथ्व्यादिष्वेव तम इत्युच्यते न स्वप्रकाशे तेनात्र न तम इत्यर्थः | तु शब्दो मायातमोव्यावृत्त्यर्थः || १६ || स्वानुभूतिः प्रकाशोऽस्य [प्रकाशोऽयं इति पाठः] केवलं व्योमरूपिणः | योऽन्तरस्ति स तेनैव नत्वन्येनानुभूयते || १७ || स्वप्रकाशतामनुभवेन साधयति - स्वानुभूतिरिति | यद्यपि बुद्ध्यादयोऽन्येनानुभूयन्ते तथापि तेषामन्तर्योऽस्ति स तेनैवानुभूयते स्वातिरिक्तानुभवं नापेक्षते | अन्यथा अनवस्थापत्तेरित्यर्थः || १७ || मुक्तं तमःप्रकाशाभ्यामित्येतदजरं पदम् | आकाशकोशमेवेदं विद्धि कोशं जगत्स्थितेः || १८ || द्वितीयतृतीयप्रश्नोत्तरमुपपादितमुपसंहरति - मुक्तमिति | इति उक्तविधया बोध्यमिति शेषः | जगत्स्थितेर्धनस्थानीयायाः कोशगृहस्थानीयं ब्रह्म आकाशोदरस्वच्छं विद्धीत्यर्थः || १८ || बिल्वस्य बिल्वमध्यस्य यथा भेदो न कश्चन | तथास्ति ब्रह्मजगतोर्न मनागपि भिन्नता || १९ || अन्त्योपान्त्यप्रश्नोत्तरमाह - बिल्वस्येति | मध्यस्योदरस्य || १९ || सलिलान्तर्यथा वीचिर्मृदन्तर्घटको [र्मृदोन्तः इति मुद्रितपुस्तके पाठः] यथा | तथा यत्र जगत्सत्ता तत्कथं खात्मकं भवेत् || २० || अल्पो घटो घटकः | सिंहावलोकनन्यायेनाह - तत्कथमिति | खात्मकं शून्यम् || २० || भूर्जलाद्युपमानश्रीः साकारान्ता समानसा | ब्रह्म त्वाकाशविशदं तस्यान्तस्थं तथैव तत् || २१ || ननु जलान्तःस्थिताया भुवो घटाद्यन्तर्गतजलादेर्वा आधारस्वभावत्वादर्शनात्कथं ब्रह्मान्तर्गतजगतस्तदा ब्रह्मस्वभावता तत्राह - भूजलादीति | त्वदुक्ता भूजलाद्युपमानश्रीर्न समा | यतः साकारमन्तोऽवसानं दर्शनावधिर्यस्यास्तथाविधा | तस्य निराकारस्य ब्रह्मणोऽन्तस्थं तज्जगत्तु विलीनत्वान्निराकारमेवेति तथैवेत्यर्थः || २१ || तस्माद्यादृक्चिदाकाशमाकाशादपि निर्मलम् | तदन्तस्थं तादृगेव जगच्छब्दार्थभागपि || २२ || उक्तमेवार्थं स्फुटमाह - तस्मादिति || २२ || मरीचेऽन्तर्यथा तैक्ष्ण्यमृते भोक्तुर्न लक्ष्यते | चिन्मात्रत्वं चिदाकाशे तथा चेत्यकलां विना || २३ || अत एव चतुर्थप्रश्नोऽपि निराकृत इत्याह - मरीच इति | सत्यं दृश्यातिरिक्तमेव दर्शनत्वेन प्रसिद्धं तत्तु दृश्याभावेन दर्शनत्वव्यवहारार्हमिति भावः || २३ || तस्माच्चिदप्यचिद्रूपं चेत्यरिक्तं तदात्मनि | जगत्ता तादृगेवेयं तावन्मात्रात्मतावशात् [तादृङ्मात्र इति पाठः] || २४ || तस्मादिति | अत एव चिदादिशब्दाः प्रतीचि लक्षणयैव प्रवर्तन्ते न मुख्यवृत्त्येति भावः | यथा जगल्लये चितस्तद्विषयतालक्षणा चित्ता निवर्तते एवं चिद्विषयत्वलक्षणा जगतो जगत्तापीत्याह - जगत्तेति | तावन्मात्रात्मतावशाद्बहीरूपालोका अन्तर्मनस्काराश्च तन्मया इत्युत्तरेण संबन्धः || २४ || रूपालोकमनस्कारास्तन्मया एव नेतरत् | यथास्थितमतो विश्वं सुषुप्तं तुर्यमेव वा || २५ || वक्ष्यमाणासु सप्तसु पञ्चम्यन्तभूमिकागतानां सुषुप्तमुत्तरयोस्तुर्यम् || २५ || तेन योगी सुषुप्तात्मा व्यवहार्यपि शान्तधीः | आस्ते ब्रह्म निराभासं सर्वाभाससमुद्गकः || २६ || उक्तार्थमेव पूर्वोत्तरार्धाभ्यां स्पष्टमाह - तेनेति | सर्वाभासानां संस्काराणां समुद्रकः संपुटकः || २६ || आकारिणि यथा सौम्ये स्थितास्तोये महोर्मयः | अनाकृतौ तथा विश्वं स्थितं तत्सदृशं परे || २७ || अनाकारब्रह्मात्मना कथं साकारजगत्सत्तेत्याशङ्क्य यथा नानाकाराणामूर्मीणामेकाकारजलात्मनेत्यविरोध इत्यभिप्रेत्याह - आकारिणीति | सौम्ये निश्चलत्वात्प्रसन्ने || २७ || पूर्णात्पूर्णं प्रसरति यत्तत्पूर्णं निराकृति | ब्रह्मणो विश्वमाभातं [विश्वभानं तत्तद्धि स्वार्थं इति पाठः] तद्धि स्वार्थं विचक्षितम् || २८ || एवमुपाधिभूतस्य जगतः कारणाव्यतिरेकमुक्त्वा तदुपाधिकजीवस्यापि तमाह - पूर्णादिति | यत्पूर्णाद्ब्रह्मणः सकाशादौपाधिकभेदेन जीवभावेन प्रसरति तत्परमार्थतः पूर्णमेव | तत्र साकारस्य पूर्णत्वायोगाद्यत्पूर्णं तन्निराकृति | यदि पूर्णं तर्हि किमर्थं विश्वात्मना जीवभावेन चाभातं तत्राह - यदिति | यद्विश्वात्मना भातं तद्धि स्वार्थं स्वस्वरूपलाभप्रयोजनसिद्धये विचक्षितं दिदृक्षितम् | क्रमादधिकारिशरीरप्राप्त्या स्वतत्त्वसाक्षात्कारेणाज्ञानतिरोहितस्वात्मलाभार्थं जगज्जीवभावेन प्रसरतीत्यर्थः | तछाच श्रुतिः रूपं रूपं प्रतिरूपो बभूव तदस्य रूपं प्रतिचक्षणाय इति || २८ || पूर्णात्पूर्नं प्रसरति संस्थितं पूर्णमेव तत् | अतो विश्वमनुत्पन्नं यच्चोत्पन्नं तदेव तत् || २९ || कथं तद्दिदृक्षितं तदाह - पूर्णादिति | उक्तार्थम् || २९ || चेत्यासंभवतस्तस्मिन्यदेका जगदर्थता | आस्वादका संभवतो मरीचे कैव तीक्ष्णता || ३० || यद्यस्मात्कारणाज्जगच्छब्दार्थता एका एकरसा संपन्नेत्यर्थः | पदे इति पाठे का इत्यपह्नवे || ३० || प्. १५३) सत्येवेयमसत्यैष चित्तचेत्यादिता परे | तद्भावात्प्रतिबिम्बस्य प्रतिबिम्बार्हता कुतः || ३१ || एकरसत्वादेव चित्तचेत्यादिनानारसताऽसत्यैव सत्येव प्रतिभासतः इत्यर्थः | एवं चोपाध्यभावे प्रतिबिम्बजीवभावार्हतो कुतो नास्त्येवेति जीवो वा न कथं भवेदिति शङ्कापि निरस्तेति भावः || ३१ || परमाणोरपि परं तदणीयो ह्यणीयसः | शुद्धं सूक्ष्मं परं शान्तं तदाकाशोदरादपि || ३२ || दिक्कालाद्यनवच्छिन्नरूपत्वादतिविस्तृतम् | तदनाद्यन्तमाभासं भासनीयविवर्जितम् || ३३ || जीवो हि अणुर्मध्यमपरिमाणो वा पुण्यपापादिदूषितत्वादशुद्धः स्वभासनीयविषयभोक्ता प्रसिद्धस्तत्तु तद्विपरीतमित्याह - परमाणोरपीति द्वाभ्याम् || ३२ || ३३ || चिद्रूपमेव नो यत्र लभ्यते तत्र जीवता | कथं स्याच्चित्तताकारा वासना नित्यरूपिणी [ऽनिलरूपिणी इति पाठः] || ३४ || यद्विषयप्रथात्वलक्षणं [विषयप्रत्याययत्वलक्षणं इति पाठः] चिद्रूपत्वमेव न सहते तदनुकूलप्रतिकूलविषयभोक्तृतालक्षणं जीवत्वं सुतरामित्याह - चिद्रूपमिति | एतेन कथं न बुद्धितत्त्वं स्यात्कथं वा न मनो भवेदिति शङ्कापि प्रत्युक्तेत्याह - कथमिति || ३४ || चिद्रूपानुदयादेव तत्र नास्त्येव जीवता | न बुद्धिता चित्तता वा नेन्द्रियत्वं न वासना || ३५ || उक्तमेव स्पष्टयति - चिद्रूपेति || ३५ || एवमित्थं महारम्भपूर्णमप्यजरं पदम् | अस्मद्दृष्ट्या स्थितं शान्तं शून्यमाकाशतोऽधिकम् || ३६ || सर्वप्रश्नसमाधाने फलितमुपसंहरति - एवमिति || ३६ || श्रीराम उवाच | परमार्थस्य किं रूपं तस्यानन्तचिदाकृतेः | पुनरेतन्ममाचक्ष्व निपुणं बोधवृद्धये || ३७ || एवं समाहिते चेतसि येन रूपेण तदपरोक्षमनुभवितुं शक्यं तदसाधारणं रूपं परिचेतुकामः पुनः पृच्छति - परमार्थस्येति || ३७ || श्रीवसिष्ठ उवाच | महाप्रलयसंपत्तौ सर्वकारणकारणम् | शिष्यते परमं ब्रह्म तदिदं वर्ण्यते शृणु || ३८ || तदिदमपरोक्षम् || ३८ || नाशयित्वा स्वमात्मानं मनसो वृत्तिसंक्षये | सद्रूपं यदनाख्येयं तद्रूपं तस्य वस्तुनः || ३९ || यथा समाधौ निरोधेन वृत्तिसंक्षये सति निरिन्धनाग्निवन्मनसः स्वमात्मानं मनःस्वरूपमपि नाशयित्वा यदनाख्येयं स्वप्रकाशसद्रूपमवशिष्यते तदित्यर्थः || ३९ || नास्ति दृश्यं जगद्द्रष्टा दृश्याभावाद्विलीनवत् | भातीति भासनं यत्स्यात्तद्रूपं तस्य वस्तुनः || ४० || एवं निर्विकल्पसमाध्यारम्भे दृश्याभावाद्रष्टा प्रमातापि विलीनवद्भातीति त्रिपुटीलयभासनं साक्षिरूपं तदित्यर्थः || ४० || चितेर्जीवस्वभावाया यदचेत्योन्मुखं वपुः | चिन्मात्रं विमलं शान्तं तद्रूपं परमात्मनः || ४१ || एवं समाधिव्युत्थानप्राक्काले भाविजीवस्वभावायाश्चितेरचेत्योन्मुखं यद्वपुः स्वरूपं तदित्यर्थः | यद्यपि समाधिमध्यकालेऽपि स्फुरत्परमात्मरूपमेव तथापि तदपि [तदतिसूक्ष्मत्वात् इति पाठः] सूक्ष्मत्वान्नारुरुक्षुणाभ्यासदशायां लक्षयितुं शक्यमित्याद्यन्तप्रदर्शनम् || ४१ || अङ्गलग्नेऽपि वातादौ स्पर्शाद्यनुभवं विना | जीवतश्चेतसो रूपं यत्तद्वै परमात्मनः || ४२ || इदानीमारूढानुभवसिद्धतन्मध्यस्फुरद्रूपेणापि तद्दर्शयति - अङ्गेति | ब्रह्माकाराविच्छिन्नापरोक्षवृत्तिमत्त्वाच्चेतसो जीवत एव चित्ते जीवत्येव सति क्षीरोदकवद्ब्रह्मण्यैकरस्येन तिरोभूतत्वाच्चित्तमनादृत्येत्यर्थः | षष्ठी चानादरे इति भावलक्षणे षष्ठी | वातादौ अङ्गलग्नेऽपि तत्स्पर्शाद्यनुभवं विना स्फुरद्यद्रूपं तदेव तद्रूपमित्यर्थः | क्वचित्तु पुस्तके एतत्पूर्वार्धस्थाने अङ्गुष्ठस्याथवाङ्गुल्या वाताद्यस्पर्शने सति इति पठ्यते तत्राङ्गुष्ठस्य तथाङ्गुल्याश्च ये वातादयो नोदनादिव्यापारास्तेषामस्पर्शने स्पर्शाप्रतिसंधाने सतीत्यर्थः | वा गतिगन्धनयोः भावे क्तः || ४२ || अस्वप्नाया अनन्ताया अजडाया मनःस्थितेः | यद्रूपं चिरनिद्रायास्तत्तदानघ शिष्यते || ४३ || इदानीं योगाभ्यासविधुराणामप्यनुभवपथं यथारोहति तथाह - अस्वप्नाया इति | स्वप्नदर्शनशून्या मशकमत्कुणाद्यविच्छिना मनोविश्रान्तिहेतुर्या सुषुप्तिः सैव चेतसो जाड्यहीना चिरं संभाव्येत तद्रूपं प्रलयेऽवशिष्यत इत्यर्थः || ४३ || यद्व्योम्नो हृदयं यद्वा शिलायाः पवनस्य च | तस्याचेत्यस्य चिद्व्योम्नस्तद्रूपं परमात्मनः || ४४ || व्योम्नो हृदयं रहस्यं शून्यत्वं पवनस्य हृदयमन्तर्बहिःपूर्णत्वं शिलायास्तु घनत्वं तस्यैवाचेत्यस्य चेत्यभिन्नस्य चेत्यरहितस्य च चिद्व्योम्नः सतो यद्रूपं भवेत्तत्तदित्यर्थः || ४४ || अचेत्यस्यामनस्कस्य जीवतो या स्वभावतः | स्यात्स्थितिः सा परा शान्ता सत्ता तस्याद्यवस्तुनः || ४५ || किं बहुना सर्वस्यापि जीवतश्चेत्यचित्तपरित्यागे या स्थितिः परिशिष्यते सा तद्रूपमित्याह - अचेत्यस्येति || ४५ || चित्प्रकाशस्य यन्मध्यं प्रकाशस्यापि खस्य वा | दर्शनस्य च यन्मध्यं तद्रूपं ब्रह्मणो विदुः || ४६ || यत् द्रष्टृकोटौ अन्नमयान्ते आत्मतया प्रसृतस्य चित्प्रकाशस्यैकैककोशविवेकेन पर्यालोच्यमानस्यानन्दमयकोशस्याप्यान्तरत्वान्मध्यं दृश्यकोटौ च मूर्तप्रपञ्चसारभूतादित्यात्मकप्रकाशस्यामूर्तप्रपञ्चसारभूतस्य खस्याकाशस्य लिङ्गसमष्ट्यात्मनोऽव्याकृताकाशस्य वा आन्तरत्वाद्यन्मध्यं दर्शनस्य चाक्षुषादिवृत्तिरूपस्य चान्तःस्फुरणरूपत्वाद्यन्मध्यं क्रमादानन्दसच्चिद्रूपं प्रसिद्धं तदित्यर्थः | तथा च तैत्तिरियाणामुपनिषदि अन्नमयादीनां कोशानामान्तरमानन्दमयकोशं प्रदर्श्य तस्य प्रियमेव शिरः | मोदो दक्षिणः पक्षः | प्रमोद उत्तरः पक्षः | आनन्द आत्मा | ब्रह्मपुच्छं प्रतिष्ठा इति तस्याप्यान्तरं ब्रह्म दर्शितम् | बृहदारण्यके च द्वे वाव ब्रह्मणो रूपे मूर्तं चैवामूर्तं च इति प्रस्तुत्य तस्यैतस्य मूर्तस्यैष रसो य एष तपति तस्यैतस्यामूर्तस्यैष रसो य एष एतस्मिन्मण्डले पुरुषः इति तदुभयसारं प्रदर्श्य अथात आदेशो नेति नेतीति मूर्तामूर्तारोपाधिष्ठानं तदान्तरं ब्रह्म तन्निषेधेन दर्शितम् | प्रतिबोधविदितं मतमिति तलबकारिणामुपनिषदि ब्रह्मणः सर्वबुद्धिवृत्त्यान्तरत्वमुक्तमिति || ४६ || प्. १५४) वेदनस्य प्रकाशस्य दृश्यस्य तमसस्तथा | वेदनं यदनाद्यन्तं तद्रूपं परमात्मनः || ४७ || बुद्धिवृत्तेरर्थस्फुरणस्य विषयस्याज्ञानस्य च यत्साक्षिभूतं वेदनं तेषामाद्यन्तप्रथात्वादनाद्यन्तं तदित्यर्थः || ४७ || यतो जगदुदेतीव नित्यानुदितरूप्यपि | विभिन्नवदिवाभिन्नं तद्रूपं परमार्थकम् || ४८ || व्यवहारपरस्यापि यत्पाषाणवदासनम् | अव्योम्न एव व्योमत्वं तद्रूपं परमात्मनः || ४९ || मायिकव्यवहारपरस्यापि ज्ञस्येश्वरस्य वा यत् पाषाणवदचलमासनम् | अच्छिद्रस्यैव सर्वजगदवकाशदातृत्वाद्व्योमत्वं यस्येति शेषस्तदित्यर्थः || ४९ || वेद्यवेदनवेट्तृत्वरूपत्रयमिदं पुरः | यत्रोदेत्यस्तमायाति तत्तत्परमदुर्लभम् || ५० || वेद्यादित्रिपुटीजन्मादिनिमित्तं यत्सच्चिदात्मरूपं तदेव तदित्याह - वेद्येति || ५० || वेद्यवेदनवेत्तृत्वं यत्रेदं प्रतिबिम्बति | अबुद्ध्यादौ महादर्शे तद्रूपं परमं स्मृतम् || ५१ || निमित्ततापि न परिणामेन किंतु विवर्तभावेनेत्याह - वेद्येति || ५१ || मनः स्वप्नेन्द्रियैर्मुक्तं यद्रूपं स्यान्महाचितेः | जङ्गमे स्थावरे वापि तत्सर्वान्तेऽवशिष्यते || ५२ || स्वप्नैरिन्द्रियोपलक्षितजागरैश्च मुक्तं मनो यत्सुषुप्तात्मरूपं स्यात्तदेव स्थावरे जङ्गमे च दृश्यप्रलयकालेऽवशिष्यते || ५२ || स्थावराणां हि यद्रूपं तच्चेद्बोधमयं भवेत् | मनोबुद्ध्यादिनिर्मुक्तं तत्परेणोपमीयते || ५३ || स्थावराणां रूपमचलस्वभावः | परेण परमात्मना || ५३ || ब्रह्मार्कविष्णुहरशक्रसदाशिवादि शान्तौ शिवं परममेतदिहैकमास्ते | सर्वोपधिव्ययवशादविकल्परूपं चैतन्यमात्रमयमुज्झितविश्वसङ्गम् || ५४ || उक्तं प्रलयात्मतत्त्वावस्थानमुपसंहरति - ब्रह्मेति | एतत्सर्वानुभवसिद्धप्रत्यगात्मभूतम् | इहास्मिन् जगति | सर्वोपधिव्ययः सर्वोपाधिलयः | मायासंवलानात्प्राचुर्ये मयट् || ५४ || इत्यार्षे श्रीवासिष्ठमहारामायणे मोक्षोपाये उत्पत्तिप्रकरणे महाकल्पान्तावशिष्टपरमभाववर्णनं नाम दशमः सर्गः || १० || इति श्रीवासिष्ठ महारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे महाकल्पान्तावशिष्ठपरमभाववर्णनं नाम दशमः सर्गः || १० || एकादशः सर्गः ११ श्रीराम उवाच | इदं [इत्थंरूपं इति पाठः] रूपमिदं दृश्यं जगन्नास्तीति भासुरम् | महाप्रलयसंप्राप्तौ भो ब्रह्मन्क्वेव तिष्ठति [गच्छति इति पाठः] || १ || सदधिष्ठानतः सत्ता प्रलयेऽपि न वार्यते | स्वतस्तु सत्ता जगतः सर्गेऽप्यत्र निवार्यते || १ || नन्वस्तु प्रलये जगत्सत्तासामान्यात्मकब्रह्ममात्रपरिशेषात्प्रातिस्विकसत्तया जगतो निवृत्तावपि ताद्रूप्येण सत्ता सर्गे तु प्रलयवैलक्षण्यस्य सर्वानुभवसिद्धत्वात्स्वतन्त्रसत्ताप्यपरा वाच्या | तथाच तयोपेतं जगद्ब्रह्मणि निवर्तमानमन्यत्र तिष्ठतीत्येव संभाव्यते | नाभावो विद्यते सतः इति सतोऽसत्त्वस्य त्वयैव वारितत्वात् | तथाच यत्र तिष्ठति तदेव जगतः परायणमुपदिश्यतामितिमन्यमानः श्रीराम उवाच - इदमिति | इदमेवंविधं चतुर्दशभुवनदेवनरासुरतिर्यगाद्यनन्तविस्ताररूपं यस्य इदमित्थं भासुरं स्फुटतरं दृश्यं प्रत्यक्षादिदृढीकृतं जगत् महाप्रलयसंप्राप्तौ क्वेव तिष्ठति तद्वदेति शेषः | गच्छतीति पाठेऽपि प्राप्त्यर्थस्य गमेरुक्त एवार्थः || १ || श्रीवसिष्ठ उवाच | कुत आयाति कीदृग्वा वन्ध्यापुत्रः क्व गच्छति | क्व याति कुत आयाति वद वा व्योमकाननम् || २ || सर्वपदार्थानामुत्पत्तिकाले यदि पृथक्सत्तया कुतश्चिदागमनं स्यात्तर्हि तस्य प्रलयेऽन्यत्र गमनं तत्र क्सत्तया कुतश्चिदागमनं स्यात्तर्हि तस्य प्रलयेऽन्यत्र गमनं तत्र स्थितिश्च स्यात्तदेव तावद्बन्ध्यापुत्रवदस्य नास्तीत्याशयेन वसिष्ठ उवाच - कुत इति || २ || श्रीराम उवाच | वन्ध्यापुत्रो व्योमवनं नैवास्ति न भविष्यति | कीदृशी दृश्यता तस्य कीदृशी तस्य नास्तिता || ३ || रामो दृष्टान्तदार्ष्टान्तिकयोर्वैषम्यं शङ्कते - वन्ध्येति | तात्कालिकस्वसत्ता भविष्यत्कालिकसत्ताप्रत्यक्षवेद्यता च तयोर्नास्तीति वैषम्यमिति प्रतियोग्यस्तित्वाप्रसिद्धौ नास्तितापि तयोर्दुर्वचेत्यर्थः || ३ || श्रीवसिष्ठ उवाच | वन्ध्यापुत्रव्योमवने यथा न स्तः कदाचन | जगदाद्यखिलं दृश्यं तथा नास्ति कदाचन || ४ || यद्येवं तर्हि जगदपि स्वसत्तया नास्ति न भविष्यति न दृश्यमपीति तस्य तत्साम्यमेवेति वसिष्ठ आह - वन्ध्येति || ४ || प्. १५५) न चोत्पन्नं न च ध्वंसि यत्किलादौ न विद्यते | उत्पत्तिः कीदृशी तस्य नाशशब्दस्य का कथा || ५ || सत्ताभावे उत्पत्त्याद्यपि जगतो न सिद्ध्यतीत्याह - न चेति || ५ || श्रीराम उवाच | वन्ध्यापुत्रनभोवृक्षकल्पना तावदस्ति हि | सा यथा नाशजन्माढ्या तथैवेदं न किं भवेत् || ६ || ननु प्रत्यक्षसिद्धोत्पत्त्यादिमतो जगतो न वन्ध्यापुत्रादिरुपमानम् | अत्यन्तासत उपमानत्वादर्शनाच्च | अतः परिशेषाद्विकल्परूपस्तत्प्रत्यय एवोपमानं जन्मनाशादिमत्त्वेन तस्य जगत्साधर्म्यसंभवादिति रामः शङ्कते - वन्ध्येति || ६ || श्रीवसिष्ठ उवाच | तुल्यस्यातुलदुःस्थस्य भावकैः किल तोलनम् | निरन्वया यथैवोक्तिर्जगत्सत्ता तथैव हि || ७ || स्यात्तस्योपमानता यद्युपमेयजगदन्तःपातो न स्यात् | तदन्तःपाते तु तस्य नोपमानतासंभव इत्यपरमार्थसतो जगतो मदुक्त एव दृष्टान्तः परिशिष्यत इत्याशयेन वसिष्ठ उवाच - तुल्यस्येति | तुल्यस्योपमातुमिष्टस्य दृश्यस्योपमेयबहिर्भूततुलाऽलाभेन दुःस्थस्योपमातुमशक्यस्योपमेयकोटिप्रविष्टैर्भावकैर्यत्तोलनमुपमावच् अनं तत् निरन्वया अनन्वयालंकारोदाहरणभूता यथा उक्तिस्तथैव | यथा गगनं गगनाकारं सागरः सागरोपमः इत्युक्तिरनुपमत्वे पर्यवस्यति तथैव स्यादिति न विकल्पकल्पनादृष्टान्तः | अतो जगतः पृथक्सत्ता यथा मदुक्तवन्ध्यापुत्रादिसत्ता तथैवेत्यर्थः | असतः सद्दृष्टान्तत्वादर्शनेऽप्यसद्दृष्टान्तता न विरुध्यते | वन्ध्यापुत्र इव खपुष्पमसदित्युक्तिर्दर्शनादिति भावः || ७ || यथा सौवर्णकटके दृश्यमानमिदं स्फुटम् | कटकत्वं तु नैवास्ति जगत्त्वं न तथा परे || ८ || ननु प्रत्यक्षमुपलभ्यमानस्य कथमसत्त्वमित्याशङ्क्य तथाविधस्यापि सम्यग्दर्शने बाधदृष्टेरसत्त्वं बहुतरदृष्टान्तेषु प्रसिद्धमित्याह - कटकत्वमित्यादिपञ्चभिः || ८ || आकाशे च यथा नास्ति शून्यत्वं व्यतिरेकवत् | जगत्त्वं ब्रह्मणि तथा नास्त्येवाप्युपलब्ध्मत् || ९ || व्यतिरेको भेदस्तद्वत् | उपलब्धिमदुपलभ्यमानमपि || ९ || कज्जलान्न यथा कार्ष्ण्यं शैत्यं च न यथा हिमात् | पृथगेवं भवेद्बुद्धं जगन्नास्ति परे पदे || १० || यथा शैत्यं न शशिनो न हिमाद्व्यतिरिच्यते | ब्रह्मणो न तथा सर्गो विद्यते व्यतिरेकवान् || ११ || मरुनद्यां यथा तोयं द्वितीयेन्दौ यथेन्दुता | नास्त्येवेह जगन्नाम दृष्टमप्यमलात्मनि || १२ || दृष्टं अनुभूयमानमपि || १२ || आदावेव हि यन्नास्ति कारणासंभवात्स्वयम् | वर्तमानेऽपि तन्नास्ति नाशः स्यात्तत्र कीदृशः || १३ || क्वासंभवद्भूतजाड्यं पृथ्व्यादेर्जडवस्तुनः | कारणं भवितुं शक्तं छायायाश्चातपो यथा || १४ || कथं कारणासंभवस्तमाह - क्वेति | पृथ्त्र्यादेर्जडवस्तुनो हि जडमेव कारणं भवितुं शक्तं तत्त्वसंभवद्भूतजाड्यं ब्रह्म | क्वचिदपि स्वविरुद्धपरिणामादर्शनादिति भावः || १४ || कारणाभावतः कार्यं नेदं तत्किंचनोदितम् | यत्तत्कारणमेवास्ति तदेवेत्थमवस्थितम् || १५ || परिणामदृष्ट्या नेदं किंचिदुदितम् विवर्तदृष्ट्या तु यद्यपि विरुद्धारोपोऽपि संभवति तथापि तत्कारणमेवेत्थं जगद्भावेनावस्थितं न पृथक्कार्यसत्तास्तीत्यर्थः || १५ || अज्ञानमेव यद्भाति संविदाभासमेव तत् | यज्जगद्दृश्यते स्वप्ने संवित्कचनमेव तत् || १६ || नन्वज्ञानमेव तर्हि परिणामिकारणमस्तीति कथं कारणाभावस्तत्राह - अज्ञानमेवेति | यदज्ञानमेव [यज्ज्ञानेति क्वचित्] जगदाकारपरिणतं भातीत्युच्यते तत्संविदं जगदात्मना आभासयतीति संविदाभासम् | संविदमेव जगदात्मना विवर्तयतीत्यर्थः | अज्ञानपरिणामस्य संविद्विवर्तत्वमेव स्वप्ने प्रसिद्धमित्याह - यदिति || १६ || संवित्कचनमेवान्तर्यथा स्वप्ने जगद्भ्रमः | सर्गादौ ब्रह्मणि तथा जगत्कचनमाततम् || १७ || तदेव स्पष्टमाह - संविदिति || १७ || यदिदं दृश्यते किंचित्सदैवात्मनि संस्थितम् | नास्तमेति न चोदेति जगत्किंचित्कदाचन || १८ || तथाच जगतो ब्रह्ममात्रत्वं यत्प्रतिज्ञातं तत्सिद्धमित्याह - यदिदमिति | आत्मनि परमार्थस्वभावे || १८ || यथा द्रवत्वं सलिलं स्पन्दनं पवनो यथा | यथा प्रकाश आभासो ब्रह्मैव त्रिजगत्तथा || १९ || यथा पुरमिवास्तेऽन्तर्विदेव [ऽन्तश्चिदेव इति पाठः] स्वप्नसंविदः | तथा जगदिवाभाति स्वात्मैव परमात्मनि || २० || स्वप्नसंविदः स्वप्नद्रष्टुरन्तर्गता वित् चैतन्यमेव पुरमिव यथा आस्ते || २० || श्रीराम उवाच | एवं चेत्तत्कथं ब्रह्मन्सुघनप्रत्ययं वद | इदं दृश्यविषं जातमसत्स्वप्नानुभूतिवत् || २१ || जगत्प्रत्ययस्य सुघनत्वेन स्वप्नस्य च कार्त्स्येनानभिव्यक्ततया पेलवत्वेन वैषम्यं द्रष्टृदृश्यसंबन्धस्य च स्वाभाविकत्वेनानिवार्यत्वान्मुक्त्यसंभवं च रामः शङ्कते - एवं चेदित्यादिना | इदं दृश्यविषमेवमुक्तरीत्या स्वप्नानुभूतिवदसच्चेदाकल्पान्तं व्यवहाराविसंवादार्हं सुघनं दृढमिति प्रत्ययो यस्मिंस्तथाविधं कथं जातमित्यर्थः | स्वप्नानुभूतिमत् इति पाठेऽपि स्वदृष्टान्ततया स्वप्नानुभूतिमत्तत्सदृशमित्येवार्थः || २१ || सति दृश्य किल द्रष्टा सति द्रष्टरि दृश्यता | एकसत्त्वे द्वयोर्बन्धो मुक्तिरेकक्षये द्वयोः || २२ || दृअष्टा दुर्वार इति शेषः | एवमुत्तरवाक्ययोरपि | द्वयोर्मध्ये एकस्य क्षये हि मुक्तिः स्यात्स एव दुर्घट इति भावः || २२ || प्. १५६) अत्यन्तासंभवो यावद्रुद्धो दृश्यस्य न क्षयः | तावद्द्रष्टरि दृश्यत्वं न संभवति मोक्षधीः || २३ || कुतो दुर्घटस्तत्राह - अत्यन्तेति | अत्यन्तं मूलपरिशेषणासंभवो यस्य | मूलाविद्याबाधेनात्यन्तिक इत्यर्थः | दृश्यत्वमपरिहार्यमिति शेषः | अतो मोक्षधीर्न संभवतीत्यर्थः || २३ || दृश्यं चेत्संभवत्यादौ पश्चात्क्षयमुपालभेत् | तद्दृश्यस्मरणानर्थरूपो बन्धो न शाम्यति || २४ || मास्त्वत्यन्तासंभवबोधः संभूतस्यैव विद्यया क्षयोऽस्तु तत्राह - दृश्यमिति | तत्तर्हि स्मर्णमिव स्मरणं संस्कारात्मना स्थितस्य पुनरुद्भवः स एवानर्थः || २४ || यत्र क्वचन संस्थस्य स्वादर्शस्येव चिद्गतेः | प्रतिबिम्बो लगत्येव सर्वस्मृतिमयो ह्यलम् || २५ || दृश्यप्रदेशपरिहाणेनैव दृश्यासंभवोपपत्तिशङ्कायास्तु परिहारस्त्वयैव प्रागुक्त इत्याह - यत्रेति || २५ || आदावेव हि नोत्पन्नं दृश्यं नास्त्येव चेत्स्वयम् | द्रष्टुर्दृश्यस्वभावत्वात्तत्संभवति मुक्तता || २६ || यद्यनुत्पन्नं स्यात्तदा द्रष्टुश्चैतन्यस्य दृश्यस्वभावत्वान्मुक्तता संभवेत् | नत्वनुत्पन्नमनुभूयते अतो न द्रष्टुः स्वभावनिर्मुक्तिरिति भावः || २६ || तस्मादसंभवन्मुक्तेर्मम प्रोत्सार्य युक्तिभिः | अत्यन्तासंभवो यावत्कथयात्मविदां वर || २७ || तस्मान्मम असंभवन्मुक्तेर्मुक्त्यसंभवस्य शङ्कामिति शेषः | यावन्निरुढः स्यात्तवात्कथय || २७ || श्रीवसिष्ठ उवाच | असदेव सदा भाति जगत्सर्वात्मकं यथा | शृण्वहं कथया राम दीर्घया कथयामि ते || २८ || यच्छङ्कितं स्वप्नवैषम्यं तस्य वक्ष्यमाणसृष्ट्याख्यायिकया समाधानं वसिष्ठः प्रतिजानीते - असदिति | दीर्घया मण्डपोपाख्यानादिविस्तारितया यद्यपि सुघनप्रत्ययं तथाप्यसदेव सदात्मनावभातीत्यंशे स्वप्नसाम्यमस्त्येव सुघनप्रत्ययता तु चिरानुवृत्त्येति भावः || २८ || व्यवसायकथावक्यैर्यावत्तत्रानुवर्णितम् | न विश्राम्यति ते तावद्धृदि पांसुर्यथा हृदे || २९ || व्यवसायः पूर्वेषां व्यवहारस्तत्कथावाक्यैः || २९ || अत्यन्ताभावमस्यास्त्वं जगत्सर्गभ्रमस्थितेः | युद्धैकध्याननिष्ठात्मा व्यवहारं करिष्यसि || ३० || तेनैव ते द्वितीयशङ्कानिरासस्तत्त्वे विश्रान्तिर्लोकव्यवहारश्च सेत्स्यतीत्याह ##- भावाभावग्रहोत्सर्गस्थूलसूक्ष्मचलाचलाः | दृशस्त्वां वेधयिष्यन्ति न महाद्रिमिवेपवः || ३१ || प्रयोजनादिभावे गृह्यन्त इति ग्रहाः प्रयोजनाभावे नूत्सृज्यन्त इत्युत्सर्गाः | स्थूलसूक्ष्मादिविषयेषु चलाचलास्तदनुरूपा दृशो व्यवहारदृष्टयो न वेधयिष्यन्ति | रागाद्युद्भवेन न पीडयिष्यन्तीत्यर्थः | प्राग्व्याख्यातो वार्थो ग्राह्यः || ३१ || स एषोऽस्त्येक एवात्मा न द्वितीयास्ति कल्पना | जगदत्र यथोत्पन्नं तत्ते वक्ष्यामि राघव || ३२ || अत्र द्वितीयकल्पनारहितेऽप्यात्मनि || ३२ || तस्मादिमानि सकलानि विजृम्भितानि सोऽपीदमङ्ग सकलासकलं महात्मा | रूपावलोकनमनोमननप्रकारा कारास्पदं स्वयमुदेति विलीयते च || ३३ || हे अङ्ग इमानि जगन्ति तस्मादात्मनः सकाशाद्विजृम्भितानि आविर्भूतानि | किं तटस्थेश्वरादिव भेदेन नेत्याह - स इति | स महात्मापि सकलासकलं समष्टिव्यष्टिरूपं इदं बहिरिन्द्रियैर्दृश्यमानं रूपावलोकनप्रकारास्पदमन्तस्तु मनो मननप्रकाराकारास्पदं भूत्वा स्वयमेवोदेति विलीयते च | उदयविलयभावेन भ्रान्त्या विभाव्यत इत्यर्थः || ३३ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे परमार्थवर्णनं नामैकादशः सर्गः || ११ || इति श्रीवासिष्ठमहारामायण उत्पत्तिप्रकरणे परमार्थवर्णनंनामैकादशः सर्गः || ११ || द्वादशः सर्गः १२ श्रीवसिष्ठ उवाच | एतस्मात्परमाच्छान्तात्पदात्परमपावनात् | यथेदमुत्थितं विश्वं तच्छृणूत्तमया धिया || १ || अत्यन्तासंभवं वक्तुमपवादेन कृत्स्नशः | सर्गस्तदनुरूपोऽस्मिन्नध्यारोपः प्रपश्यते || १ || प्रतिज्ञातार्थ वक्तुमुपक्रममाणः श्रीवसिष्ठ उवाच - एतस्मादिति || १ || सुषुप्तं स्वप्नवद्भाति भाति ब्रह्मैव सर्गवत् | सर्वात्मकं च तत्स्थानं तत्र तावत्क्रमं शृणु || २ || यथा प्रतिपुरुषं सुषुप्तात्मरूपमेव स्वप्नवद्विवर्तते तथा ब्रह्मापीति दृष्टानुसारिणीयं कल्पनेत्यर्थः | तत्रैकपुरुषवासनामात्रकार्यत्वात्स्वप्नो न सुघनप्रत्ययः सर्ववासनाकार्यत्वाच्च प्रपञ्चः सुघनप्रत्यय इति पूर्वशङ्कापरिहारमभिप्रेत्याह - सर्वात्मकं चेति | सर्वात्मकत्वं च आत्मा वा इदमेक एवाग्र आसीत् इति श्रुतौ सर्ववाचीदंपदसामानाधिकरण्यात् | तत्स्थानं सर्वसुषुप्तसमष्टिप्रलयावस्थं ब्रह्म || २ || तस्यानन्तप्रकाशात्मरूपस्यानन्तचिन्मणेः | सत्तामात्रात्मकं विश्वं यदजस्रं स्वभावतः || ३ || यद्यस्मात्कारणाद्विश्वं चिन्मणे सत्तामात्रमात्मा परमार्थरूपं यस्य तथाविधं तत्तस्माचेत्यतामिव गच्छतीत्युत्तरेण संबन्धः || ३ || प्. १५७) तदात्मनि स्वयं किंचिच्चेत्यतामिव गच्छति | अगृहीतात्मकं संविदहंमर्शनपूर्वकम् || ४ || तस्य प्रथमं स ईक्षत लोकान्न सृजा इति श्रुतिसिद्धमीक्षणभावं दर्शयति - तदित्यादित्रिभिः | संविदा अहंमर्शनपूर्वकमगृहीतात्मकमहंकाराध्यासं विनेति यावत् | आकाशादणु शुद्धं च यद्बोधनं तत्सर्वस्मिन्सृज्यविषये भाविनामरूपानुसंधानैः किंचिदुहितानि रूपकाणि यस्मिंस्तथा विधं सच्चेत्यतामिव गच्छतीत्यन्वयः || ४ || भाविनामार्थकलनैः किंचिदूहितरूपकम् | आकाशादणु शुद्धं च सर्वस्मिन्भाति बोधनम् || ५ || ततः सा परमा सत्ता सचेतश्चेतनोन्मुखी | चिन्नामयोग्या भवति किंचिल्लभ्यतया तथा || ६ || तस्येक्षणवृत्तितद्विषयोपाधिभ्यामीश्वरजीवभावो दर्शयति - तत इति | चेत-ईक्षणात्मिका वृत्तिस्तत्सहिता चेतना तदभिव्यक्तचेतन्यं तदुन्मुखी तत्प्रधाना सती चेतयतीति चित्सर्वज्ञेश्वरस्तन्नामयोग्येत्यर्थः | वाक्प्रवृत्तिविषयधर्मवत्त्वेन वाग्व्यवहारलभ्यतया || ६ || घनसंवेदना पश्चाद्भाविजीवादिनामिका | संभवत्यात्तकलना यदोज्झति परं पदम् || ७ || चिरानुवृत्त्या घना दृढीभूता ईक्षणसंवेदना यस्यास्तथाविधा सती भाता गृहीता कलना तद्विषयसूक्ष्मप्रपञ्चात्मभावलक्षणपरिच्छेदकलना यथा अत एव परं पदमपरिच्छिन्नभूमात्मभावं [सदैव काल इति पाठः] विस्मरणेनोज्झति तदा भाविप्राणधारणोपाधिकजीवहिरण्यगर्भादिनामिका संभवतीत्यर्थः || ७ || सत्तैव भावनामात्रसारा संसरणोन्मुखी | तदा वस्तुस्वभावेन त्वनुत्तिष्ठति ताभिमाम् || ८ || तथा भावेऽपि न ब्रह्मसत्ताया स्वरूपक्षतिरित्याह - सत्तेति | तदा ब्रह्मसत्तैव भावनामात्रसारा संसरणोन्मुखी भवति न विकारादिक्रियासारेत्यर्थः | तत्कुतस्तत्राह - वस्तुस्वभावेनेति | कथं तर्हि जीवभावस्तत्राहमन्विति | तामिमांसत्तमेवानुसृत्य रजौ सर्प इव जीवभाव उत्तिष्ठतीत्यर्थः || ८ || समनन्तरमेवास्याः [भेदस्याः इति पाठः] स्वसत्तोदेति शून्यता | शब्दादिगुणबीजं सा भविष्यदभिधार्थदा || ९ || इदानीं महाभूतसर्ग विवक्षुः प्रथममाकाशसर्गमाह - समनन्तरमिति | अस्या जीवसत्तायाः समनन्तरमेव स्वसत्ता इतरभूतावकाशदत्वाच्छऊन्यताप्राया उदेति | सूर्यादिसर्गोत्तरं भविष्यन्तीनामाकाशाद्यभिधानामासमन्प्रपद्यते प्रकाशत इत्याद्यर्यदा || ९ || अहंतोदेति तदनु सह [भूतायथार्थ(?) इति पाठः] वै कालसत्तया | भविष्यदभिधार्थेन बीजं मुख्यजगत्स्थितेः || १० || तत्र प्रागुक्तजीवस्याद्दंताभिमानं तदाप्रभृति द्विपरार्थपरिमिततदायुः का * * प्तिं चाह - अहंतेति | भविष्यदित्यादि पूर्ववत् || १० || तस्याः शक्तेः परायास्तु स्वसंवेदनमात्रकम् | एतज्जालमसद्रूपं सदिषोदेति विस्फुरत् || ११ || इयमाकाशार्दकारकान्सृष्टिर्न हिरण्यगर्भादेव किंतु तद्वेषोपहितपरमात्मसत्ताया एव तस्या एव सर्वकारणत्वादित्याह - तस्या इति | शक्तिशब्देमात्र परवृत्तेबोध्यते | तस्या अविकृतातद्योतनाय स्वसंवेदनमात्रकमिति || ११ || एवंप्रायात्मिका संविद्बीजं संकल्पशाखिनः | भवत्यहंकारकणस्ततः स्पन्दतया मरुत् || १२ || एवंप्राथात्मिका विवदहंकारेण विकारभाव(?) आत्मा स्वरूपं यस्यास्तथाविधा स.विद्वियत्कार्यगोचरसंकल्पवृक्षस्य बीजमित्यर्थः | अत एव तस्याहंकारस्य कण एकदेश इव परि * *##? आविर्भवतीत्यर्थः || १२ || चिदहं तावती व्योमशब्दतन्मात्रभावनात् | स्वतो घनीभूय शनैः स्वतन्मात्रं भवत्यलम् || १३ || तस्या एव वियदहन्तोपहितपरसत्तायाः सर्व * *? बीजभूतशब्दता * * *? प्रभावनात्तदुत्पत्तिरित्याह - चिदिति | यत आकाशभावादतिसूक्ष्मा* *?द्धनीभूय स्वतन्मात्रं शब्दतन्मात्रं भवतीत्यर्थः | यद्यपि सांख्यदर्शनपुराणादिषु तन्मात्रतो भूतोत्पत्तिः प्रसिद्धा(?) तथा आत्मन आकाशः संभूतः तत्तेजोभ्युजत इत्यादिश्रुतिषु वियदादीनां साक्षाद्द्र * *? दानकत्वश्रवणात् तद्यथा दुन्दुभेर्दग्धमानस्य इत्यादौ शब्दसामान्यस्य तद्विशेषोभावानत्वश्रवणाचाकाशादेव शब्दसामान्याकतान्मात्रोत्पत्ति *? त्तेति न दोषः || १३ || भाविनामार्थरूपं तद्बीजं शब्दोघशाखिनः | पदवाक्यप्रमाणाख्यं वेदवृन्दं विकासितम् || १४ || शब्दतन्मात्रस्य वेदादिसर्व * *? विशेषोपादानात्वमाह - भावीति || १४ || तस्मादुदेप्यत्यखिला जगच्छ्रीः परमात्मनः | शब्दौघनिर्मितार्थौघपरिणामविसारिणः || १५ || तस्माद्वेदभावा * *? परमात्मनो जग * * * * * *? ते | स भूरिति व्याहरत् स भुवमसृजत् एत इति वै प्रजापतिर्देवानष्र्जत अ * *? मिति मनुष्याविन्दव इति प्तृन् इत्यादिश्रुतेरित्यर्थः || १५ || चिदेवंपरिवारा सा जीवशब्देन कथ्यते | भाविशब्दार्थजालेन बीजं रुपोपशाखिनः || १६ || यदुक्तं भाविजीवादिनामिवेति तद्वा * *? त्तं तस्यैव प्रा * * *? द्धारणनिमित्तेन सिद्धमित्याह - चिदिति | एवमुक्तप्रकारो * * * * * * ? परिवारो [सन्ततिः परिवारः इति पाठः] यस्यः सा | तस्याः सर्वमूर्त्र्याकारहेतुतामाह - बीजमिति | रूपमत्र मूर्द्धाकारा || १६ || चतुर्दशविधं भूतजालमावलितान्तरम् | जगज्जटरगर्तौघं प्रसरष्यति वै ततः || १७ || तस्य * *? प्राणभावेनाध्या * * * *? क्रियाहेतुत्वमाह - चतुर्दशेति | चतुर्दशभुवनभेदाचतुर्दशविधं प्राणिजातं तत * *? प्राणवायोर्निमित्तात्वेन * * * * * * * * *? णि ब्रह्माणोदराणि तद्रूपं गर्तोयं प्रसरिष्यति पंचरिष्यति || १७ || असंप्राप्तामिवाचारा चिज्जवात्प्रस्फुरद्वपुः | सा चैव स्पर्शतन्मात्रं भावनाद्भवति क्षणात् || १८ || तस्येव * * *?भिमानोपहितचैतन्यस्य सर्वस्पर्शविशेषोपादानस्पर्शतन्मात्रभावमावहप्रवहाद्येकोनपञ्चाश त्पवनस्कन्धविभागेन सर्वपदार्थक्रियास्पन्दनिमित्तत्वं चाह - असंप्राप्तेति द्वाभ्याम् | प्रागसंप्राप्ताभिधाचारापि वायुभावाभिमानजवात्प्रस्फुरद्वपुः || १८ || प्. १५८) पवनस्कन्धविस्तारं बीजं स्पर्शौघशाखिनः | सर्वभूतक्रियास्पन्दस्तस्मात्संप्रसरिष्यति || १९ || तत्रैव चिद्विलासेन प्रकाशोऽनुभवाद्भवेत् | तेजस्तन्मात्रकं तत्तु भविष्यदभिधार्थकम् || २० || ततस्तेजस उत्पत्तिमाह - तत्रेति | चिद्विलासः प्रकाशात्मकत्वभावना | शेषं पूर्ववत् | तेजस्तन्मात्रकं रूपतन्मात्रकम् || २० || तत्सूर्याग्निविजृम्भादिबीजमालोकशाखिनः | तस्माद्रूपविभेदेन संसारः प्रसरिष्यति || २१ || तत्तेजः | विजृम्भेव क्षणव्यादाना विद्युत् | आदिपदाच्चन्द्रनक्षत्रादि || २१ || भावयंस्तनुतामेव रसस्कन्ध इवाम्भसः | स्वदनं तस्य सङ्घस्य रसतन्मात्रमुच्यते || २२ || ततो जलोत्पत्तिमाह - भावयन्निति | स तेजोभूत आत्मा अम्भसो रसस्कन्ध इवाहमस्मीति तनुतां तच्छरीरतां परिच्छिन्नतां वा भावयन् संस्तद्भावमापद्यत इति शेषः | तस्य जलात्मकस्य सङ्घस्य मूर्तद्रव्यस्य जिह्वया आस्वादने मधुरमिदमिति यत्स्वदनं तद्रसविशेषोपादानसामान्यरूपत्वाद्रसतन्मात्रमुच्यत इत्यर्थः || २२ || भाविवारिविलासात्मा तद्बीजं रसशाखिनः | अन्योन्यस्वदने तस्मात्संसारः प्रसरिष्यति || २३ || तस्यैव रसस्येन्द्रियविषयभावेनान्योन्यस्वदने तद्विषयरागाद्युद्भवेन पुनःपुनर्विषयार्जनप्रवृत्त्यात्मा संसारः प्रसरिष्यतीत्यर्थः | एवं पूर्वत्रापि || २३ || भविष्यद्रूपसंकल्पनामासौ कल्पनात्मकः | संकल्पात्मगुणैर्गन्धतन्मात्रत्वं प्रपश्यति || २४ || ततः पृथिवीसर्गमाह - भविष्यदिति | असौ जलभावापन्नः परमात्मा पृथिव्येवाहमिति संकल्पनात्मकः सन् भविष्यद्रूपसंकल्पनामा [भविष्यतद्रूप इति पाठः] भूत्वा गन्धसंकल्पात्मगुणैः स्वस्य गन्धतन्मात्रत्वं प्रपश्यतीत्यर्थः || २४ || भाविभूगोलकत्वेन बीजमाकृतिशाखिनः | सर्वाधारात्मनस्तस्मात्संसारः प्रसरिष्यति || २५ || तस्योपयोगमाह - भावीति | भूगोलकत्वेन ब्रह्माण्डगोलकत्वेन ज्योतिषप्रसिद्धभूगोलकत्वेन वा | आकृतिर्मनुष्याद्याकारः || २५ || चिता विभाव्यमानानि तन्मात्राणि परस्परम् | स्वयं परिणतान्यन्तरम्बुनीव निरन्तरम् || २६ || एवमुत्पन्नानां भूतानां मिश्रणेन ब्रह्माण्डाकारपरिणतिमाह - चितेति | पूर्वोक्तभूताहंभावापन्नया चिता ब्रह्माण्डाकारेण विभाव्यमानानि अन्तर्दशगुणोत्तरस्वावरणान्तरम्बुनि बुद्बुदानीव ब्रह्माण्डात्मना परिणतानीत्यर्थः || २६ || तथैतानि विमिश्राणि विविक्तानि पुनर्यथा | न शुद्धान्युपलभ्यन्ते सर्वनाशान्तमेव हि || २७ || कियत्कालं तेषां विमिश्रभावेनावस्थानं तदाह - तथेति | एतानि भूतानि तथा विमिश्राणि यथा पुनः सर्वनाशपर्यन्तं न विविक्तानि शुद्धान्युपलभ्यन्ते || २७ || संवित्तिमात्ररूपाणि स्थितानि गगनोदरे | भवन्ति वटजालानि यथा बीजकणान्तरे || २८ || ब्रह्मसत्तया प्राक् सत्तामेव स्थूलात्मनाविर्भाव इति सदृष्टान्तमाह - संवित्तीति | गगनमत्राव्याकृताकाशः || २८ || प्रसवं परिपश्यन्ति शतशाखं स्फुरन्ति च | परमाण्वन्तरे भान्ति क्षणात्कल्पीभवन्ति च || २९ || ननु सूक्ष्मतमत्वादनवकाशेषु तन्मात्रेषु स्थूलावस्थितिर्विरुद्धा तत्राह ##- मायिकप्रसवादिदर्शनमात्रं तच्च परमाण्वाद्यन्तरेऽपि संभवति | स्वप्ने सूक्ष्मतमनाडीच्छिद्रेष्वपि विशालतमजगद्दर्शनादिति भावः || २९ || विवर्तमेव धावन्ति निर्विवर्तानि सन्ति च | चिद्वेधितानि सर्वाणि क्षणात्पिण्डीभवन्ति च || ३० || तेषां स्थूलभावेऽपि न स्वरूपसौक्ष्म्यापायो विवर्तस्याविकारकत्वादित्याह ##- अत एव न विलम्ब इत्याह - क्षणादिति | परिणामपक्षे हि कूश्माणोद्पचय इव विलम्बः स्यात् || ३० || तन्मात्रगणमेतत्स्यात्सा संकल्पात्मिका चितिः | वेदनात्रसरेण्वाभमनाकारैव पश्यति || ३१ || उक्तार्थस्मारणेनोपसंहरति - तन्मात्रेति | एतदुक्तप्रकारम् | छान्दसि क्लीबता || ३१ || बीजं जगत्सु ननु पञ्चकमात्रमेव बीजं पराव्यवहितस्थितिशक्तिराद्या | बीजं तदेव भवतीति सदानुभूतं चिन्मात्रमेवमजमाद्यमतो जगच्छ्रीः || ३२ || इत्थं च यदुक्तं ब्रह्मैव जगदाकारं भवतीति तत्सिद्धमित्याह - बीजमिति | जगतस्तन्मात्रपञ्चकं बीजं कारणं तस्य च बीजं परेण परमात्मना अव्यवहिता साक्षात्संबधा जगत्स्थितिहेतुर्मायाशक्तिरेव | इत्थांच तत्परमात्मतत्त्वमेव मायाशक्त्या बीजं भवन्मायापगमे तदेव भवतीति प्रतिज्ञातार्थसिद्धिरित्यर्थः || ३२ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे जगदुत्पत्तिवर्णनं नाम द्वादशः सर्गः || १२ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे जगदुत्पत्तिवर्णनं नाम द्वादशः सर्गः || १२ || प्. १५९) त्रयोदशः सर्गः श्रीवसिष्ठ उवाच | परमे ब्रह्मणि स्फारे समे राम समस्थिते | अनुत्पन्ननभस्तेजस्तमःसत्ता चिदात्मनि || १ || सर्गोक्त्या प्राग्जगद्भावो वर्णितो ब्रह्मणोऽनृतः | जीवभावोऽधुना तस्य देहाद्याप्तिश्च वर्ण्यते || प्रलये सुषुप्ताविव विलयेन मायाशबलब्रह्मभावं प्राप्तानां जीवोपाधीनां पुनराविर्भावक्रमं सहेतुकं श्रीवसिष्ठ उवाच - परम इत्यादिपञ्चभिः | विकारकृतवैषम्यशून्यमायाशबलत्वात्समेऽसमे चाधिष्ठाने स्थिते अनुत्पन्नानां नभस्तेजस्तम आदीनां या कारणात्मना सत्ता तद्रूपे चिदात्मनि || १ || पूर्वं चेत्यत्वकलनं सतश्चेत्यांशचेतनात् | उदेति चित्तकलनं चितिशक्तित्वचेतनात् || २ || चितश्चेतयितृभावलक्षणजीवत्वस्य विषयकरणसिद्धिपूर्वकत्वात्तदध्यासं प्रथमं दर्शयति - पूर्वमिति | कलनं कल्पनम् | तत्र हेतुः सद्वस्तुनस्तत्प्रथा स्वभावतैव | एवमुत्तरत्रापि | यदेवाध्यस्यते तत्प्रथास्वभावतायाश्चिति पूर्वसिद्धत्वात्सर्वत्र निमित्तता || २ || ततो जीवत्वकलनं चेत्यसंयोगचेतनात् | ततोऽस्य [ततोऽहंभावकलनं इति पाठः] मायाकलनं चेत्यैकपरतावशात् || ३ || मायात्राहंभावः | अहंभावकलनम् इति पाठे तु स्पष्टम् | सा हि जीवभावस्य निरूढावस्था एकपरता तावन्मात्रोऽहमित्यभिमानः || ३ || ततो बुद्धित्वकलनमहन्तापरिणामतः | एतदेव मनस्तादिशब्दतन्मात्रकादिमत् || ४ || परिणामत उपचयतः | इत्थं धर्मसिद्धौ शब्दादिविषयमात्राणां वासनात्मना स्वान्तर्गतानां स्वप्न इव मननात्तद्घटितं मनोरूपमेतदेव संपद्यत इत्यर्थः || ४ || उच्छूनादन्यतन्मात्रभावनाद्भूतरूपिणः [भावनोद्भूत इति पाठः] | अयमित्थं महागुल्मो जगदादिर्विलोक्यते || ५ || तस्य स्थूलदेहभावापत्तिमाह - उच्छूनादिति | वासनात्मनां शब्दतन्मात्राणामन्यैः स्पर्शादितन्मात्रैर्भावनान्मेलनात्पञ्चीकृतभावेनोच्छूनादाध्यात्मिकम हाभूतरूपिणः | स्थूलदेहभावापन्नान्मनस इति यावत् || ५ || झटित्येवं क्रमेणेति स्वप्ने पुरमिवाकृतम् | महाकाशमहाटव्यामुद्भूयोद्भूय नश्यति || ६ || उक्तमुपसंहरति - झटितीत्यादिना | अकृतमनिच्छासंपन्नम् || ६ || जगत्करञ्जकुञ्जानां बीजमेतद्वापजम् | नापेक्षते किंचिदपि क्षितिवार्यनलादिकम् || ७ || एतच्चिदात्मकं पश्चात्किलोर्व्यादि करिष्यति | स्वं स्वप्नवित्पुरमिव चिन्मात्रामकमेव यत् || ८ || पश्चादुत्तरकाले | स्वप्नवित्स्वप्नद्रष्टा | स्वं स्वानुभूयमानम् | वस्तुतस्तु तदसङ्गमेवेत्याह - चिन्मात्रात्मकमेवेति | यच्चिन्मात्रात्मकं तत् यत्रतत्रस्थमपि जगदाद्यङ्कुरं मुञ्चत्येवेत्युत्तरेणान्वयः || ८ || जगदाद्यङ्कुरं यत्र तत्रस्थमपि मुञ्चति | जगतः पञ्चकं बीजं पञ्चकस्य चिदव्यया || ९ || पञ्चकं तन्मात्राणाम् || ९ || यद्बीजं तत्फलं विद्धि तस्माद्ब्रह्ममयं जगत् | एवमेष महाकाशे सर्गादौ पञ्चको गणः || १० || एवमित्यादेः सर्वस्योत्तरान्वयः || १० || चिच्छक्त्या स्वाङ्गभूतात्मा कल्पितोस्ति न वास्तवः | अनेनोच्छूनतामेत्य यदपीदं वितन्यते || ११ || चिच्छक्त्या चेत्यप्रथनशक्त्या स्वाङ्गभूतात्मा स्वशरीरमिव संपन्नस्वरूपः | अनेन पञ्चकगणेन | इदं स्थूलम् || ११ || तदप्याकाशरूपात्मकल्पनात्मनि सन्मयम् | क्वचिन्न नाम तत्सिद्धं यदसिद्धेन साध्यते || १२ || आकाशरूपमिव स्वकल्पनाधिष्ठानात्मनि स्थितत्वात्सन्मयं न स्वत इत्यर्थः | तदेवोपपादयति - क्वचिदिति || १२ || स्वरूपं यद्विकल्पात्म कथं तत्सत्यतामियात् | अथ चेत्पञ्चकं ब्रह्म ब्रह्मात्मकतया धिया || १३ || ननु पञ्चकगणस्य ब्रह्मण्यध्यस्तस्यास्तु ब्रह्ममात्रता तत्कार्यस्य तु सा कथं तत्राह - अथेति || १३ || तत्पञ्चकं विद्धि प्रौढो ब्रह्मैव त्रिजगत्क्रमः | यथा स्फुरति सर्गादावेष पञ्चकसंभवः || १४ || तत्पञ्चकं तत्कार्यस्थूलभूतपञ्चकमपि चिद्ब्रह्मैव | हीति कारणकार्ययोरेकत्वप्रसिद्धेर्हेतोरित्यर्थः | तथाच प्रौढो रूढजगत्क्रमो ब्रह्मैवेति सिद्धमित्यर्थः | कथं तर्ह्यभिन्ने कार्यकारणत्वव्यवहारस्तत्राह [कार्येति पदं क्वचिन्न लभ्यते] - यथेति || १४ || तथैवाद्येह भूतत्वे याति कारणतां स्वयम् | एवं न जायते किंचिज्जगज्जातं [जातं तु इति पाठः] न लक्ष्यते || १५ || भूतत्वे पौर्वकालिकत्वे | स्वयं औत्तरकालिकं स्वं प्रत्येवेति शेषः | उपसंहरति - एवमिति || १५ || स्वप्नसंकल्पपुरवदसत्सदनुभूयते | ब्रह्माकाशपराकाशे जीवाकाशत्वमात्मनि || १६ || तदुपाधिकजीवभावोऽप्यसन्नेवेति दर्शयन्नसतः सत्त्वानुभावसंभावनां दृष्टान्तेनापनुदति - स्वप्नेति | ब्रह्माकाशरूपे पराकाशे परमप्रकाशे आत्मनि जीवाकाशत्वं असत्सदिवानुभूयते || १६ || इति चित्यवदातात्मा पृथ्व्यादीनामसंभवात् | इत्येष जीवः कथितो व्योम्नि खात्मा इवोदितः || १७ || अवदातात्मा प्रपश्यतीत्यध्याहृत्यान्वयः | वस्तुतः पृथ्व्यादीनां परिच्छेदोपाधीनामसंभवाद्व्योम्नि गन्धर्वनगरगृहघटादिपरिच्छिन्नः खादेव कल्पनया उदितः | खात्मैवैष जीवः कथित इत्यर्थः || १७ || प्. १६०) जीवाकाशस्त्विमं देहं यथा विन्दति तच्छृणु | जीवाकाशः स्वमेवासौ तस्मिंस्तु परमेश्वरे || १८ || एवं सामान्याभिमानेन ब्रह्मणः समष्टिजीवभावमुक्त्वा विशेषाभिमानेन व्यष्टतद्भावेन स्थूलदेहान्ततादात्म्यारोपक्रमं प्रपञ्चयितुमारभते - जीवाकाश इत्यादिना | तत्रादौ भावनयैव समष्ट्युपाधेर्व्यष्ट्यन्तःकरणाङ्कुरारम्भं दर्शयति - जीवाकाश इत्यादिना तस्मिन्परमेश्वरे कल्पितः समष्टिजीवाकाशो विस्तृतमपि स्वं अणुरल्पतरः स्फुलिङ्गवत्तेजःकणोऽस्मीति चिन्तया तथैवात्मानं चेतत्यनुभवतीत्युत्तरेणान्वयः | एतदेवाभिंप्रेत्याह श्रुतिः यथाऽग्नेः क्षुद्रा विस्फुलिङ्गा व्युच्चरन्त्येवमेवास्मादात्मनः सर्व एत आत्मानो व्युच्चरन्ति इति || १८ || अणुतेजःकणोऽस्मीति स्वयं चेतति चिन्तया | यत्तदेवोच्छूनमिव [उच्छून्यभावं इति पाठः] भावयत्यात्मनाम्बरे || १९ || तस्याभावनोपचयादुपचयमाह - यदित्यादिना | यञ्चेतति तदेवोच्छूनमिव भावयति || १९ || असदेव सदाकारं संकल्पेन्दुर्यथा न सन् | तमेव भावयन् द्रष्टृदृश्यरूपतया स्थितः || २० || यद्भावयति तत्संकल्पेन्दुर्यथा न सन् तथा असदेवेत्यर्थः | तद्भावनफलमाह - तमेवेति || २० || एक एव द्वितामेति स्वप्ने स्वमृतिबोधवत् | किंचित्स्थौल्यमिवादत्ते ततस्तारकतां विअन् || २१ || द्रष्टृदृश्यभावसंवलने तस्योपचयं दर्शयति - किंचिदिति | अणुतेजःकणभावमपहाय तारकासादृश्यं विदन् किंचित्स्थौल्यमादत्त इव | अयमेवास्य भूतमात्रासंवलितलिङ्गात्मभावः || २१ || यथाभावितमात्रार्थभाविताद्विश्वरूपतः [भावित्वाद्यत्स्वरूपतः इति पाठः] | स एव स्वात्मा सततोऽप्ययं सोहमिति स्वयम् || २२ || अयं जीवस्ततस्तादृशवेदनात्सतारकाकार एव स्वात्मा आस बभूव | तत्र हेतुद्वयमाह - यथाभावितेति सोऽहमिति तद्भावाभिनयः || २२ || चित्तात्प्रत्ययमाधत्ते स्वप्ने स्वामिव पान्थताम् | तारकाकारमाकारं भाविदेहाभिधं तथा || २३ || अयं लिङ्गदेहप्रत्ययो भाविस्थूलदेहप्रत्ययश्च चित्तकल्पनावशादेवेत्याह - चित्तादिति | तारकाकारं प्रागुक्तलिङ्गाकारम् || २३ || भावयत्येति [भावयन्याति इति पाठः] तद्भावं चित्तं चेत्यार्थतामिव | परित्यज्यैव तद्बाह्यं ततस्तारककोटरे || २४ || तत्र दृष्टान्तश्चित्तं चेत्यार्थतां विषयाकारतामिवेति | वस्तुनः सर्वोपाधिवात्यस्यापि मोहात्तद्भावपरित्यागेनोपाध्यन्तर्भानं सदृष्टान्तमुपपादयंस्तस्य स्वप्नादिवासनामयसंसारमाह - परित्यज्यैवेत्यादिना | तारककोटरे उपाध्यन्तःकल्पिताकाशे || २४ || अन्तर्भाति बहिष्ठोऽपि पर्वतो मुकुरे यथा | कूपसंस्थो यथा देहः समुद्गकगतं वचः || २५ || यथा सर्वत्र व्यवहारसमर्थो देहः कूपसंस्थस्तन्मात्रव्यवहारी भाति | यथा वा पूराच्छ्रवणयोग्यमप्याक्रोशादिवचः समुद्गकगतः संपुटकावरुद्धमबहिःप्रसारि || २५ || स्वप्नसंकल्पयोः संविद्वेत्त्येतज्जिवकोऽणुके [वेत्त्येवं जीवक इति पाठः] | स्वरूपतारकान्तस्थो जीवोऽयं चेतति स्वयम् || २६ || यथा वा स्वप्नसंकल्पयोः संविद्देहान्तरेव स्वप्नादि पश्यति तथा अणुके प्रागुक्तस्फुलिङ्गसदृशोपाधौ स्वरूपतया कल्पिततारकान्तस्थो वासनामयदेहादिव्यवहारं चेततीत्यर्थः | चित्तं चेत्यार्थतामिवेति दृष्टान्तपक्षेऽपि परित्यज्येत्यादिसार्धश्लोकद्वयमेव योज्यम् | स्वप्नसंकल्पयोर्बहिष्ठोऽपि विषयस्तद्बाह्यरूपं परित्यज्यैव अन्तर्भाति यथा कूपजलप्रतिबिम्बितो देहो यथा वा गुहादिसंपुटगतं प्रतिध्वनिवचस्तथा जीवक एतद्वासनामयं वेद्यं वेत्ति | शिष्टं प्राग्वत् || २६ || तदेतद्बुद्धिचित्तादिज्ञानसत्तादिरूपकम् | जीवाकाशः [जीवाकाशस्ततस्तत्रेति पाठः] स्वतस्तत्र तारकाकाशकोशगम् || २७ || तदेतद्वासनामयदेहादिव्यवहारदृशा निष्कर्षे बुद्धिचित्तादिपरिणामत्वात्तत्तद्रूपकं परमार्थदृशा विमर्शे तु ज्ञानसत्तानन्दरूपकमेव | तत्तत्स्थूलदेहभावनया तद्भावापन्नस्य चक्षुरादिकल्पनया जाग्रद्व्यवहारसंसारं प्रपञ्चयति - जीवाकाश इत्यादिना || २७ || प्रेक्षेऽहमिति भावेन द्रष्टुं प्रसरतीव खे | ततो रन्ध्रद्वयेनैव भाविबाह्याभिधं पुनः || २८ || येन पश्यति तन्नेत्रयुगं नाम्ना भविष्यति | येन स्पृशति सा वै त्वग्यच्छृणोति श्रुतिस्तु सा || २९ || येन जिघ्रति तद्घ्राणं स स्वमात्मनि पश्यति | तत्तस्य स्वदनं पश्चाद्रसना चोल्लसिष्यति || ३० || स्वदनं रसनेन्द्रियम् || ३० || स्पन्दते यत्स तद्बायुश्चेष्टा कर्मेन्द्रियव्रजम् | रूपालोकमनस्कारजातमित्यपि भावयत् || ३१ || यत्स्पन्दते तद्वायुः प्राणादिवृत्तिः || ३१ || आतिवाहिकदेहात्मा तिष्ठत्यम्बरमम्बरे | एवमुच्छूनतां तस्मिन्भावयंस्तेजसः [भाववत्तेजसः इति पाठः] कणे || ३२ || भावयत् अध्यस्यत् आस्ते ब्रह्म || ३२ || असत्यां सत्यसंकाशां ब्रह्मास्ते जीवशब्दवत् | इत्थं स जीवशब्दार्थः कलनाकुलतां गतः || ३३ || आतिवाहिकदेहात्मा चित्तदेहाम्बराकृतिः | स्वकल्पनान्त आकारमण्डं संस्थं प्रपश्यति || ३४ || चित्तदेहाम्बरमेव स्थौल्येन स्थूलदेहाकृतिर्यस्य | स्फुलिङ्गाकारादिबाह्यविषयान्तस्वकल्पनाकारं ब्रह्म तदन्ते संस्थं आवरणादिसंस्थायुक्तमण्डं ब्रह्माण्डं प्रपश्यतीत्यर्थः || ३४ || कश्चिज्जलगतं वेत्ति कश्चित्सम्राट्स्वरूपिणम् | भाविब्रह्माण्डकलनां पश्यत्यनुभवत्यपि || ३५ || तस्यैव जलान्तर्गतब्रह्माण्डशरीराहंभाववेदनं तदन्तश्चतुर्मुखशरीराहंभाववेदनं चेति द्वैविध्यमाह - कश्चिदिति || ३५ || प्. १६१) आत्मगर्भगृहं चित्ताद्यथासंकल्पमात्मनः | देशकालक्रियाद्रव्यकल्पनावेदनं स तत् || ३६ || आत्मन आत्मत्वेनाभिमताच्चित्तादेव निमित्ताद्यथासंकल्पमात्मनो गर्भगृहवासनिमित्तत्वाद्गर्भगृहं देशादिकल्पनावेदनं भावयन्नामादिनिर्मातेश्वर एव तत्तच्छब्दैस्तांस्तानर्थानात्मानं च बद्नातीत्युत्तरेणान्वयः || ३६ || भावयञ्छब्दनिर्माता शब्दैर्बध्नाति कल्पितैः | आतिवाहिकदेहोऽसावित्यसत्यजगद्भ्रमे || ३७ || असत्य एव कचति स्वप्ने खोड्डयनं यथा | इत्यनुत्पन्न एवासौ स्वयंभुः स्वयमुत्थितः || ३८ || उपपादिताया उत्पत्त्याख्यायिकायाः प्रस्तुतोपयोगमाह - इत्यनुत्पन्न इति || ३८ || आतिवाहिकदेहात्मा प्रभुराद्यः प्रजापतिः | एतस्मिन्नपि संपन्ने ब्रह्माण्डाकारिणि भ्रमे || ३९ || न किंचिदपि संपन्नं न च जातं न दृश्यते | तद्ब्रह्माकाशमाकाशमेव स्थितमनन्तकम् || ४० || संकल्पनगराकारमेतत्सदपि नैव सत् | अनिर्मितमरागं च एतद्वै [एतत् खे चित्रं इति पाठः] चित्रमुत्थितम् || ४१ || अरागं रङ्गद्रव्यशून्यम् || ४१ || अकृतं चानुभूतं च न सत्यं सत्यवत्स्थितम् | महाकल्पे विमुक्तत्वाद्ब्रह्मादीनामसंशयम् || ४२ || बाह्यसामग्र्या अनिर्मितमान्तरप्रयत्नेन त्वकृतमिति भेदः | ननु तर्ह्यदृष्टसंस्कारादिसामग्रीजन्यमेव जगत्किं न स्यात्तत्राह - महाकल्पे इति | अयं भावः | ब्रह्मणा सह ते सर्वे संप्राप्ते प्रतिसंचरे | परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम् || यावदधिकारमवस्थितिराधिकारिकाणाम् इत्यादिस्मृतिसूत्रोपदर्शितन्यायेन महाकल्पान्ते प्राक्तनानां ब्रह्मादीनां मुक्तत्वावधारणान्न तदीयादृष्टसंस्कारेणाग्रिमजगन्निर्माणम् | यस्तूपासकः कल्पादौ हिरण्यगर्भादिपदं लभते न तेन कदापि प्राग्विचित्रं जगत् सृष्टमित्यनुभवाभावे तत्संस्कारासंभवाज्जगतो न संकारजत्वमिति स्वप्नेन्द्रजालवदकस्मादेवाविद्ययैवोद्भूतत्वान्मिथ्यात्वमेवेति || ४२ || स्मृतिर्न प्राक्तनी काचित्कारणं वा स्वयंभुवः | तेन यादृक्स्वयंभूः स्यात्तादृक्तज्जमिदं स्मृतम् || ४३ || अनाद्यनुभवस्त्वित्थं योऽत्रास्ति [योऽवास्त्यवनिकादिके इति पाठः] वनिकादिके | स्वप्नानुभूतं पृथ्व्यादि प्रबोधे यादृशं भवेत् || ४४ || ननु तर्ह्यनादिसाक्ष्यनुभवादेव तत्संस्कारोऽस्तु तज्जश्च प्रपञ्चोऽस्तु तत्राह - अनादीति | अवनिकादिके पृथ्व्यादिसर्गविषये | यादृशं तादृशं भवेदिति शेषः | साक्षिवेद्यस्वप्नादेर्मिथ्यात्वदृष्तेस्तज्जनितसंस्कारजस्यापि मिथ्यात्वमेव स्यादिति भावः || ४४ || स्मृतः स व्योममात्रात्मा सर्वदैव स्मृतं जगत् | यत्र यत्र यथा तोये द्रवत्वं नाम भिद्यते || ४५ || यादृक्स्वयंभूस्तादृक्तज्जमिति यदुक्तं तद्विवृणोति - स्मृत इति | स स्वयंभूः स्मृत इव स्मृतः स्मर्यमाणातीतपदार्थवद्व्योममात्रात्मा शून्यमात्रस्वभावस्तथा जगदपीत्यर्थः | यत्र यत्र देशे काले च यथा तोये द्रवत्वं न भिद्यत इत्यग्रिमनञोऽत्रापि संबन्धः | नामेति प्रसिद्धौ || ४५ || तत्र तत्र तथा नान्यः सर्गोऽस्ति परमात्मनि | सृष्टिरेवमियं प्रौढा सम एव त्वयं स्थितः || ४६ || प्रौढा भाति | परमार्थतस्तु समो जगद्वैषम्यशून्य एव स्थितः || ४६ || भात्येवं नाम ब्रह्माण्डं व्योमात्मेवातिनिर्मलम् | दृश्यमेवमिदं शान्तं स्वात्मनिर्मितविभ्रमम् || ४७ || उक्तमेव विवृणोति - भातीत्यादिना || ४७ || निराधारं निराधेयमद्वैतं चैक्यवर्जितम् | जगत्संविदि जातायामपि जातं न किंचन || ४८ || द्वैतव्यवहाराभावे व्यावर्त्याभावादेकत्वसंख्ययापि वर्जितम् | संविदि भ्रान्तौ || ४८ || परमाकाशमाशून्यमच्छमेव व्यवस्थितम् | सर्वसंसारता नास्ति यदेव तदवस्थितम् || ४९ || सर्वः संसारो यस्मिंस्तद्भावो नास्ति || ४९ || नाधेयं तत्र नाधारो न दृश्यं न च द्रष्टृता | ब्रह्माण्डं नास्ति न ब्रह्मा न च वैतण्डिका क्वचित् || ५० || वैतण्डिका मोहमदान्धजनवेतण्डघटा | जगद्विमर्शे स्थाप्यपक्षाभावात्प्रसक्ता वादिनो वैतण्डिकता वा || ५० || न जगन्नापि जगती शान्तमेवाखिलं स्थितम् | ब्रह्मैव कचति स्वच्छमित्थमात्मात्मनात्मनि || ५१ || चित्त्वाद्द्रवत्वात्सलिलमिवावर्ततयात्मनि | असदेवेदमाभाति सदिवेहानुभूयते || ५२ || विनश्यत्यसदेवान्ते स्वप्ने स्वमरणं यथा | अथवा स्वस्वरूपत्वात्सदेवेदमनामयम् | अखण्डितमनाद्यन्तं ज्ञानमात्राम्बरोदरम् || ५३ || इत्थमपवाददृष्ट्या स्वतो जगतः शून्यत्वमुक्त्वा अधिष्ठानदृष्ट्या त्वाह - अथवेति || ५३ || आकाश एव परमे प्रथमः प्रजेशो नित्यं स्वयं कचति शून्यतया समो यः | स ह्यातिवाहिकवपुर्नतु भूतरूपी पृथ्व्यादि तेन न सदस्ति यथा [तथा न इति पाठः] न जातम् || ५४ || सिंहावलोकनन्यायेन प्रागुक्तं सर्वमनुसंधायोपसंहरति - आकाश एवेति | परमे ब्रह्मणि प्रजेशः स्वयंभूराकाशः शून्यमेव | यः समः परमात्मा स एव शून्यप्रजेशाद्यात्मना कचति प्रथते | हि यस्मात्स प्रजेश आतिवाहिकवपुर्मनोमयशरीरो न पाञ्चभौतिकः | तेन तत्संकल्पमात्ररूपत्वेन पृथ्व्यादि न सत् सत्यम् | यथा न जातमनुत्पन्नं शशशृङ्गादि नास्ति तद्वदित्यर्थः | यथा न जातं नास्ति च तथोपवर्णितमिति शेषो वा || ५४ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे स्वयंभूत्पत्तिवर्णनं नाम त्रयोदशः सर्गः || १३ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे स्वयंभूत्पत्तिवर्णनं नाम त्रयोदशः सर्गः || १३ || प्. १६२) श्रीवसिष्ठ उवाच | इत्थं जगदहंतादिदृश्यजातं न किंचन | अजातत्वाच्च नास्त्येव यच्चास्ति परमेव तत् || १ || प्राग्वर्णिते जीवभावे परिच्छेदादिसंशयान् | युक्त्या निरस्य ब्रह्मैक्यं शिष्टमत्रानुवर्ण्यते || १ || तत्रादौ समष्टिविराड्जीवपरिच्छेदनिरासाय वृत्तानुवादेन भूमिकां रचयति - इत्थमित्यादिना || १ || परमाकाशमेवादौ जीवतां चेतति स्वयम् | निःस्पन्दाम्भोधिकुहरे सलिलं स्पन्दतामिव || २ || तदनुगुणां विराड् [विराड्विग्रहकल्पनां इति पाठः] देहकल्पनां विवक्षुस्तदर्थं समष्टिजीवभावसिद्धिमाह - परमेति || २ || आकाशरूपमजहदेवं वेत्तीव हृद्यताम् | स्वप्नसंकल्पशलादाविव चिद्वृत्तिरान्तरी || ३ || आकाशरूपमजहदित्येतत्पूर्वान्वयि | आन्तरी संकल्पात्मिका चिद्वृत्तिरेवं वक्ष्यमाणविराडुपाधिविषयां हृद्यतां आत्मताभ्रान्त्या प्रेमास्पदतां वेत्तीव || ३ || पृथ्व्यादिरहितो देहो यो विराडात्मको महान् | आतिवाहिक एवासौ चिन्मात्राच्छनभोमयः || ४ || संकल्पजत्वोक्तेः फलं दर्शयति - पृथ्व्यादीति || ४ || अक्षयः स्वप्नशैलाभः स्थिरस्वप्नपुरोपमः | चित्रक्ट्स्थिरचित्तस्थचित्रसैन्यसमाकृतिः || ५ || क्षयो निवासस्तद्रहितः | स्थिरं चिरस्थायि स्वप्नपुरं यदि स्यात्तदा तदुपमः | चित्रकृतः स्थिरं निश्चलं यदि चित्रं स्यात्तदा तद्वासनात्मकचित्रसैन्यसमाकृतिः || ५ || अनिखातमहास्तम्भपुत्रिकौघसमोपमः | ब्रह्माकाशेऽनिखातात्मा सुस्तम्भे शालभञ्जिका || ६ || अनिखाता अनुत्कीर्णा ये महास्तम्भपुत्रिकौघास्तत्समाश्च येऽन्ये ते सर्वेऽप्युपमा यस्य | ब्रह्माकाशलक्षणे सुस्तम्भे अनिखातात्मा अनुत्कीर्णस्वरूपा शालभञ्जिकेति रूपकम् || ६ || आद्यः प्रजापतिः पूर्वं स्वयंभूरिति विश्रुतः | प्राकनानां स्वकार्याणामभावादप्यकारणः || ७ || आधिभौतिकं रूपं मिथ्येत्युक्त्वा तस्याधिदैविकमपि तत्तथैवेत्याह - आद्य इत्यादिना | तत्र हेतून्प्राग्वर्णितानेव स्मारयति - प्राक्तनानामित्यादिसार्धेन | स्वकार्याणां स्वकर्मणाम् || ७ || महाप्रलयपर्यन्तेष्वाद्यकालपितामहाः [ष्वाद्या किल इति पाठः] | मुच्यन्ते सर्व एवातः प्राक्तनं कर्म तेषु किम् || ८ || सोऽकुड्य एव कुड्यात्मा दृश्यादृश्यः स्वयंस्थितः | न च दृश्यं न च द्रष्टा न स्रष्टा सर्वमेव च || ९ || अकुड्ये दर्पणादौ प्रतिबिम्बकुड्यात्मेव दृश्योऽप्यसत्त्वान्न दर्शनार्हः | असत्त्वमुपपादयितुमसङ्गनिर्विकारचिति द्रष्टा दृश्यं दर्शनं स्रष्टा सृष्टिः सर्जनं भोक्ता भोग्यं भोग इति त्रिपुटीत्रयासंभवमाह - न चेति | सर्वमित्यनुक्तषट्कपरिग्रहः || ९ || प्रतिशब्दपदार्थानां सर्वेषामेष एव सः | तस्मादुदेति जीवाली दीपाली दीपकादिव || १० || एवं सर्वनिषेधेऽपि न प्रतिशब्दार्थानां शून्यता | यस्मादेष प्रत्यगात्मैव प्रतिशब्दपदार्थानां स आत्मा स्थितः || १० || संकल्प एव संकल्पात्किलेति क्ष्मादिवर्जितः | आदिमादिव निःशून्यः स्वप्नात्स्वप्नान्तरं यथा || ११ || घनसंकल्पात्मकविराट्कार्यत्वाद्व्यष्टिदेहिनामपि संकल्पमात्रमयत्वं न सत्यपृथ्यवादिघटितत्वमित्याह - संकल्प इति | यथा आदिमात् हिरण्यगर्भान्मिथ्यात्वान्नितरां शून्यो विराडुत्पन्नस्तद्वद्विराजो व्यष्ट्यात्मापीत्यर्थः [दृश्यात्मापि इति पाठः] || ११ || अस्मादेकप्रतिस्पन्दाज्जीवाः संप्रसरन्ति ये | सहकारिकारणानामभावाच्च स एव ते || १२ || एकस्वभावत्वेनैव व्यष्टिसमष्योरेकत्वं प्रसाध्य तेन ब्रह्मैक्यपरिशेषः सिद्ध इत्याह - अस्मादित्यादिना | ये व्यष्टिजीवाः सहकारिकारणानामभावादेकोऽसहाय एव परिस्पन्दते तथाविधादस्माद्विराजः प्रसरन्ति ते स एव नान्ये | तथाविधाद्वृक्षात्प्रसृतानां शाखादीनां ततो भेदादर्शनादिति भावः || १२ || सहकारिकारणानामभावे कार्यकारणम् | एकमेतदतो नान्यः परस्मात्सर्गविभ्रमः || १३ || ब्रह्मवाद्यो विराडात्मा विराडात्मेव सर्गता | जीवाकाशः स एवेत्थं स्थितः पृथ्व्याद्यसद्यतः || १४ || श्रीराम उवाच | किं स्यात्परिमितो जीवो राशिराहो अनन्तकः | आहोस्विदस्त्यनन्तात्मा जीवपिण्डोऽचलोपमः || १५ || व्यष्टिसमष्टितन्मूलानामेकत्वे व्यष्टिसमष्ट्योरवास्तवत्वं तन्मूलस्यैव वस्तुतेति कुतः मूलसमष्ट्योरवास्तवत्वं व्यष्टिविभागस्यैव प्रत्यक्षादिप्रमाणसिद्धस्य वास्तवत्वं किं न स्यात्सेनासमाजादौ समष्ट्यपगमेऽपि व्यष्टिपरिशेषेण तस्याः सत्यत्वकॢप्तेरिति मन्यमानः श्रीराम उवाच - किं स्यादिति | व्यष्टिमात्रसत्यत्वे व्यष्टिजीव एवैकबुद्धिपरिमितत्वादेकदेशावस्थितेर्वा परस्परसंश्लेषेणैकपिण्डात्मतापत्तेर्वा कल्पितसमष्ट्यात्मा संभाव्यत इति भावः || १५ || धाराः पयोमुच इव शीकरा इव वारिधेः | कणास्तप्तायस इव कस्मान्निर्यान्ति जीवकाः || १६ || अवश्यं चैवमभ्युपेयमन्यथा वृष्टिवारिधि जलकणवद्विस्फुलिङ्गवद्वा समष्टेरुद्भवे अनित्यत्वापत्त्या कृतहानाकृताभ्यागमः स्यादित्याशयेनाह - धारा इति | कस्मादिति | यस्मान्निर्यान्ति तत्र संभावयितुं शक्यमित्यर्थः || १६ || प्. १६३) इति मे भगवन्ब्रूहि जीवजालविनिर्णयम् | ज्ञातमेतन्मया प्रायस्तदेव प्रकटीकुरु || १७ || विशेषजिज्ञासया वैपरीत्यापादनं न दुर्मेधस्तया त्वदाशयानवबोधादित्याह - ज्ञातमिति || १७ || श्रीवसिष्ठ उवाच | एक एव न जीवोऽस्ति राशीनां संभवः कुतः | शशशृङ्गं समुड्डीय प्रयातीवे हि ते वचः || १८ || प्रयोजनवद्ब्रह्मात्मैकत्वसिद्धये एकाधिष्ठाना अनेककल्पना लघीयसीति समष्टिजीवं परिकल्प्य तदुपहितव्यष्टिकल्पना मयोक्ता न व्यष्टिसमष्ट्योरन्यतरसत्यत्वाय जीवोत्पत्त्यादिप्रतिपादनाय वा तत्र च न त्वदाशङ्काप्रसर इत्याशयेन श्रीवसिष्ठ उवाच - एक इति | अप्यर्थे एवकारः || १८ || न जीवोऽस्ति न जीवानां राशयः सन्ति राघव | न चैकः पर्वतप्रख्यो जीवपिण्डोऽस्ति कश्चन || १९ || जीवशब्दार्थकलनाः समस्तकलनान्विताः | नेह काश्चन सन्तीति निश्चयोऽस्तु तवाचलः || २० || कलनाः प्रतिभासाः || २० || शुद्धचिन्मात्रममलं ब्रह्मास्तीह हि सर्वगम् | तद्यथा सर्वशक्तित्वाद्विन्दते याः स्वयं कलाः || २१ || कलाः कल्पनाकौशलानि विन्दते लभते | अनुसंधत इति यावत् || २१ || चिन्मात्रानुक्रमेणैव संप्रफुल्ललतामिव | ननु मूर्ताममूर्तां वा तामेवाशु प्रपश्यति || २२ || तत्तत्संकल्पवृत्तिक्रमानुसारिणां चितो मात्राणामाभासानामनुप्रवेशेनैव निमित्तेन तामेव कलां कूर्तामूर्तस्वरूपेणाविर्भूतां प्रपश्यति | यथा लताक्रमेण स्वां कोरकितामथ संप्रफुल्लतां च पश्यति तद्वत् || २२ || जीवो बुद्धिः क्रियास्पन्दो मनोद्वित्वैक्यमित्यपि | स्वसत्तां प्रकचन्तीं तां नियोजयति वेदने || २३ || दर्शनप्राकरमेव विषयप्रपञ्चनेन विशदयति - जीव इति | तद्ब्रह्मैव वेदने नियोजयति | विषयीकरोतीति यावत् || २३ || साऽबुद्धैव भवत्येवं भवेद्ब्रह्मैव बोधतः [बोधिता इति पाठः] | अबोधः प्रेक्षया याति नाशं न तु प्रबुध्यते || २४ || तथा प्रकचनं चास्याविद्ययैव तदपगमे तु निर्विक्षेपस्वरूपमात्रावस्थितिरित्याह - सेति | अबुद्धा अज्ञानावृतैवैवमुक्तरूपा भवति | प्रेक्षयात्मप्रबोधेन | प्रबोध एव दुर्लभ इत्याह - नत्विति || २४ || यथान्धकारो दीपेन प्रेक्ष्यमाणः प्रणश्यति | न चास्य ज्ञायते तत्त्वमबोधस्यैवमेव हि || २५ || निवर्तितस्याबोधस्य तर्हि किमात्मना परिशेषः | न तावद्बोधात्मना तस्य तदकरणत्वाद्विरोधाच्च | नाप्यन्यात्मनान्यपरिशेषादित्याशङ्क्याह - यथेति || २५ || एवं ब्रह्मैव जीवात्मा निर्विभागो निरन्तरः | सर्वशक्तिरनाद्यन्तो महाचित्साररूपवान् || २६ || उपपादितमुपसंहरति - एवमिति | चेदेव सारोऽबाध्यांशस्तेनैव परमार्थरूपेण रूपवान् || २६ || सर्वानणुतया त्वस्य न क्वचिद्भेदकल्पना | विद्यते या हि कलना सा तदेवानुभूतितः || २७ || सर्वतोऽप्यनणुतया अपरिच्छिन्नतया विषयभेदापगमे तत्कलनभेदोऽपि [अपीति क्वचिन्न पठ्यते] वनच्छेदे वनातपभेद इवापगत इति ब्रह्ममात्रपरिशेष इत्याह - विद्यत इति || २७ || श्रीराम उवाच | एवमेतत्कथं ब्रह्मन्नेकजीवेच्छयाखिलाः | जगज्जीवा न युज्यन्ते महाजीवैकतावशात् || २८ || उक्तमभ्युपगम्य श्रीरामः प्रागुक्ते व्यष्टिसमष्टिजीवयोरभेदे व्यष्टिजीवेच्छादेरपि समष्टिधर्मत्वेनामोघत्वापत्त्या भोगमोक्षाव्यवस्थां शङ्कते - एवमिति | एतत्प्राग्वर्णितमेवमेवेत्यभ्युपगमः | जगज्जीवा अन्ये सर्वे जीवाः || २८ || श्रीवसिष्ठ उवाच | महाजीवात्म तद्ब्रह्म सर्वशक्तिमयात्मकम् | स्थितं तथेच्छमेवेह निर्विभागं निरन्तरम् || २९ || ब्रह्म प्रथमं सत्यसंकल्पसमष्टिजीवभावापन्नं सत्स्वसंकल्पाधीनवृत्तिव्यष्टिजीवभावमापद्यते | तत्र पूर्वसंकल्पविरुद्धेऽर्थे न व्यष्टीनां सत्यसंकल्पतासिद्धिरिति परिहरन् श्रीवसिष्ठ उवाच - महाजीवेति | यथा जगद्व्यवस्था सिद्ध्यति तथेच्छं अहमेव सर्वदा सर्वेषु सत्यसंकल्पः स्यामितीच्छावदिति यावत् | निर्विभागं व्यष्टिविघागात्पूर्व तच्छून्यम् | निरन्तरमित्युत्तरान्वयि || २९ || यदेवेच्छति तत्तस्य भवत्याशु महात्मनः | पूर्वं तेनेष्टमिच्छादि ततो द्वित्वमुदेति यत् || ३० || इच्छा सत्यसंकल्पः | आदिपदात्तेनेतरेच्छाप्रतिरोधः | द्वित्वं व्यष्टिविभागः || ३० || पश्चाद्द्वित्वविभक्तानां स्वशक्तीनां प्रकल्पितः | अनेनेत्थं हि भवतीत्येवं तेन क्रियाक्रमः || ३१ || स्वशक्तीनां स्वांशजीवानाम् | अनेन दण्डचक्रादिबाह्योपकरणेनेत्थं भ्रमणादिना घटादि भवतीति क्रियाक्रमो न संकल्पमात्रादित्यर्थः || ३१ || तं विनानुदये त्वासां प्रधानेच्छैव रोहति | शक्त्या ह्यजातया ब्राह्या नियमोऽयं प्रकल्पितः || ३२ || ननु तर्हि कथमन्येषामपि महर्षीणां क्रियाक्रमं विनापि संकल्पादेव कार्यदर्शनं तत्राह - तमिति | एवं तं क्रियाक्रमं विना कार्यानुदये नियते सति यत्क्वचिदासां महर्ष्यादिव्यष्टिशक्तीनां क्रियाक्रमं विना इच्छा रोहति तत्प्रधानस्य समष्टेरिच्छैव रोहति | अस्यायं संकल्पः सिद्ध्यत्विति प्रधानस्यैव तत्रेच्छा कल्प्यत इत्यर्थः || ३२ || यस्या जीवाभिधानायाः शक्त्यपेक्षा फलत्यसौ | प्रधानशक्तिनियमानुष्ठानेन विना न तु || ३३ || उक्तार्थमेव स्पष्टयति - यस्या इति | असौ फलति || ३३ || प्. १६४) प्रधानशक्तिनियमः सुप्रतिष्ठो न [भवेद्भवेत् इति पाठः] चेद्भवेत् | तत्फलं शक्त्यधीनत्वान्नेहितानां क्वचिद्भवेत् || ३४ || क्रियाक्रमस्यापि फलसिद्धिः प्रधानसंकल्पाधीनैवेत्याह - प्रधानेति | सुप्रतिष्ठः सम्यक्फलसिद्ध्यनुगुणो यदि भवेत्तदा ईहितानां कार्यादिचेष्टानामपि फलं न भवेदिति संबन्धः || ३४ || एवं ब्रह्म महाजीवो विद्यतेऽन्तादिवर्जितः | जीवकोटि महाकोटि भवत्यथ न किंचन || ३५ || एवंच निष्कर्षे ब्रह्मैव महाजीवः स एव व्यष्टिसमष्टिकोटिद्वयं भवतीति फलितमित्युपसंहरति - एवमिति || ३५ || चेत्यसंवेदनाज्जीवो भवत्यायाति संसृतिम् | तदसंवेदनाद्रूपं समायाति समं पुनः || ३६ || विस्तरोक्तं बोधसौकर्याय संक्षिप्य दर्शयति - चेत्येति | सममविषमं ब्रह्मस्वरूपम् || ३६ || एवं कनिष्ठजीवानां ज्येष्ठजीवक्रमाक्रमैः | समुदेत्यात्मजीवत्वं ताम्राणामिव हेमता || ३७ || ब्रह्मभावो जीवानामुपासनेन समष्टिभावप्राप्तिक्रमेण वा अत्रैव ज्ञानेन साक्षाद्वा समुदेतीत्याह - एवमिति | आत्मजीवत्वं प्रागुक्तब्रह्मभावमहाजीवत्वम् | यथा ताम्राणां हेमता रसौषधैः पाकक्रमेण वा स्पर्शसंयोगे अक्रमेण वा भवति तद्वत् || ३७ || अत्रान्तरे महाकाश इत्थमेष गणोऽप्यसन् | स्वात्मैव सदिवोदेति चिच्चमत्करणात्मकः || ३८ || जीवजगद्भावौ विमर्शे चिच्चमत्कारमात्रं न वस्त्वन्तरमित्याह - अत्रेति | आन्तरे प्रत्यग्रूपे महाकाशे || ३८ || स्वयमेव चमत्कारो यः समापद्यते चितः | भविष्यन्नामदेहादि तदहंभावनं विदुः || ३९ || चितो यस्माच्चिदालेहस्तन्मयत्वादनन्तकः | स एष भुवनाभोग इति तस्यां प्रबिम्बति || ४० || कोऽसौ चिच्चमत्कारस्तमाह - चित इति | जगत्संस्कारसंस्कृतमायाप्रतिफलनेन तदैकरस्येन स्वात्मा स्वादश्चिदालेहः तस्यामात्मचिति प्रबिम्बति स्फुरति || ४० || परिणामविकारादिशब्दैः सैव चिदव्यया | तादृग्रूपादभेद्यापि स्वशक्त्यैव विबुध्यते || ४१ || सा चिदालीढा चिद्वास्तवचिद्रूपाद्भेत्तुमशक्यापि परिणामादिशब्दैर्भिन्नेव विबुध्यते || ४१ || अविच्छिन्नविलासात्म स्वतो यत्स्वदनं चितः | चेत्यस्य च प्रकाशस्य जगदित्येव तत्स्थितम् || ४२ || चितस्तदधीनप्रकाशस्य चेत्यस्य च स्वतः स्वाभाविकं यदविच्छिन्नविलासात्म अविविक्तस्वभावापन्नं स्वदनं तदेव जगदिति भ्रान्त्या स्थितमित्यर्थः || ४२ || आकाशादपि सूक्ष्मैषा या शक्तिर्वितता चितः | सा स्वभावत एवैतामहंतां परिपश्यति || ४३ || तत्राप्यहंतादर्शनं पूर्वं तत्कृतं च परिच्छिन्नजगद्रूपदर्शनमित्याह - आकाशादिति द्वाभ्याम् || ४३ || आत्मन्यात्मात्मनैवास्या यत्प्रस्फुरति वारिवत् | जगदन्तमहंताणुं तदैषा संप्रपश्यति || ४४ || बहिर्बहिः स्थौल्योत्कर्षणपरंपरायां जगद्ब्रह्माणोऽन्ते यस्य तथाविधमहंताणुम् || ४४ || चमत्कारकरी चारु यच्चमत्कुरुते चितिः | स्वयं स्वात्मनि तस्यैव जगन्नाम कृतं ततः || ४५ || तथाच चिच्चमत्कृतेरेव जगदिति नामकरणं न जगत्पृथगस्तीति फलितमित्याह - चमत्कारेति || ४५ || चितश्चेत्यमहंकारः सैव राघव कल्पना | तन्मात्रादि चिदेवातो द्वित्वैकत्वे क्व संस्थिते || ४६ || चिदधीनमहंकारकल्पनं तदधीनं तन्मात्रादिजगत्कल्पनमिति स्थिते यदधीनमन्यकल्पनं तदेव परिशिष्टमित्याह - चित इति || ४६ || जीवहेत्वादिसंत्यागे त्वं चाहं चेति संत्यज | शेषः सदसतोर्मध्ये भवत्यर्थात्मको भवेत् || ४७ || सदसतोः सत्यानृतयोः कल्पनयोर्मध्ये त्वं चाहं चेति चेतनपरिच्छेदकल्पनैव दुस्त्यजा तत्त्यागे कृते शेषः स्वत एव विकल्पकाभावात्सन्मात्ररूपः संपद्यत इत्याह - जीवेति | भावप्रधानो निर्देशः | जीवभावं प्रति हेतुर्निमित्तं वासनाकर्मादि | आदिपदादुपादानपरिग्रहः | भवत्यर्थः सत्ता तदात्मकः || ४७ || चिता यथादौ कलिता स्वसत्ता सा तथोदिता | अभिन्ना दृश्यते व्योम्नः सत्तासत्ते न विद्महे || ४८ || ज्ञानेन दृश्यतत्संवलितसत्तापाये पूर्वसिद्धाधिष्ठानसत्ता यथा स्थितैवोदिता मेधापाये निर्मलव्योमसत्तावदित्याह - चितेति || ४८ || विश्वंखं जगदीहाख्यं खमस्ति विबुधालयः | साकारश्चिच्चमत्काररूपत्वान्नान्यदस्ति हि || ४९ || अनुभावितं निष्प्रपञ्चत्वमनुमानेनापि द्रढयति - विश्वमिति | ईहाख्यं मनश्चेष्टारूपं सूक्ष्मं जगत् खं शून्यमेव | तथा विबुधानामिन्द्रियतदधिष्ठातृदेवानामालयः साकारः स्थूलश्च विश्वविराड्रूप इति द्विविधमपि विश्वं खं शून्यमेवास्ति चिच्चमत्काररूपत्वादित्यर्थः || ४९ || यो यद्विलासस्तस्मात्स न कदाचन भिद्यते | अपि सावयवं तस्मात्कैवानवयवे कथा || ५० || तत्र व्याप्त्यादिसिद्धये उदाहरणादि दर्शयति - यो यदिति | सावयवजलादिकार्ये तरङ्गादावपि तथा दृष्टं निरवयवचित्कार्ये कैव कथेत्यर्थः || ५० || चितेर्नित्यमचेत्याया निर्नाम्न्या वितताकृतेः | यद्रूपं जगतो रूपं तत्तत्स्फुरणरूपिणः || ५१ || इत्थं च नामरूपनिष्कृष्टापरिच्छिन्नचिद्रूपमेव जगतस्तात्त्विकं रूपं फलितमित्याह - चितेरिति || ५१ || मनो बुद्धिरहंकारो भूतानि गिरयो दिशः | इति या यास्तु रचनाश्चितस्तत्त्वाज्जगत्स्थितेः || ५२ || वैपरीत्यदर्शनेऽपि जगद्रचना चिद्रचनैवेति फलितमित्याह - मन इति || ५२ || चितेश्चित्त्वं जगद्विद्धि नाजगच्चित्त्वमस्ति हि | अजगत्त्वादचिच्चित्स्याद्भानाद्भेदो जगत्कुतः || ५३ || एवं जगतश्चिन्मयत्वे सति चिद्धर्मतैव फलितेत्याह - चित इति | चिच्चित्वयोश्च [त्विच्चेत्ययोश्च इति पाठः] कल्पनरूपभानाद्भेदो न वस्तुत इति जगत्कुतः || ५३ || प्. १६५) चितेर्मरीचिबीजस्य निजा यान्तश्चमत्कृतिः | सा चैषा जीवतन्मात्रमात्रं जगदिति स्थिता || ५४ || वर्णितां जगतश्चिन्मात्रतामुक्तिवैचित्र्यैर्दृढं व्युत्पादयितुमुपक्रमते - चितेरित्यादिना | चितेरर्थप्रथनशक्तिरेव जीवतदुपाधिभूततन्मात्रमात्रं सज्जगदिति वेष्.एण [विशेषेण इति पाठः] स्थितेत्यर्थः || ५४ || चित्तात्स्वशक्तिकचनं [चित्तादिति मूले टीकायां च पाठः] यदहंभावनं चितः | जीवः स्पन्दनकर्मात्मा भविष्यदभिधो ह्यसौ || ५५ || ततश्चित्तादहंकारशक्तिस्फुरणमेव स्पन्दनकर्मप्राणसंवलने जीवशब्दवाच्यं भविष्यईत्याह - चित्तादिति || ५५ || यच्चिच्चित्त्वेन कचनं स्वसंपाद्याभिधात्मकम् | स्वविकारैर्व्यवच्छेद्यं भिद्यते नो न विद्यते || ५६ || तथा भावेऽपि न चित्स्वभावभेद इत्याह - यदिति | यत् यद्यपि चितश्चित्त्वेन कचनं स्वविकाररैहंतादिभिर्व्यवच्छेद्यं सत्स्वसंपाद्यजीवाद्यभिधात्मकं संपन्नं तथापि तद्व्यवच्छिन्नरूपमुपाधिमिथ्यात्वान्न विद्यत इति नो भिद्यते नैव भेदप्रसक्तिरित्यर्थः || ५६ || चित्स्पन्दरूपिणोरस्ति न भेदः कर्तृकर्मणोः | स्पन्दमात्रं भवेत्कर्म स एव पुरुषः स्मृतः || ५७ || चित्स्पन्दशक्तिभेदादहंकारप्राणोपहितजीवभेदमाशङ्क्याह - चिदिति | चित्प्रधानोऽहंकारः कर्ता स्पन्दप्रधानः प्राणः क्रिया | नहि स्वक्रियया कर्ता भिद्यते अतः स चित्स्पन्दसंवलित एव पुरुषो जीव इत्यर्थः || ५७ || जीवश्चित्तपरिस्पन्दः पुंसां चित्तं स एव च | मनस्त्विन्द्रियरूपं सत्सत्तां नानेव गच्छति || ५८ || एवं चित्तमन-इन्द्रियादिभावेऽपि न जीवभेदः | जीवोपाधिमनस एव गोलकभेदेनेन्द्रियभावेनावस्थानादित्याह - जीव इति || ५८ || शान्ताशेषविशेषं हि चित्प्रकाशच्छटा जगत् | कार्यकारणकादित्वं तस्मादन्यन्न विद्यते || ५९ || एवं जगज्जीवभेदनिरासे फलितमुपसंहरति - शान्तेति | हि यस्मात्तुच्छतरकार्यकारणादिभावस्वभावं जगत्प्रागुक्तरीत्या चित्प्रकाशस्य छटाप्रान्त इव तदभिन्नसत्तस्फूर्तिकं तस्माद्धेतोरन्यत्र विद्यते इति शान्ताशेषविशेषं प्रत्यगात्मरूपमेव संपन्नमित्यर्थः || ५९ || अच्छेद्योऽहमदाह्योऽहमक्लेद्योऽशोष्य एव च | नित्यः सर्वगतः स्थाणुरचलोऽहमिति स्थितम् || ६० || तत्र सर्वानर्थनिवृत्तिं दर्शयति - अच्छेद्य इति || ६० || ववदन्ते तथा ह्यत्र विवदन्तो यथा भ्रमैः | भ्रमयन्तो वयं त्वेते जाता विगतविभ्रमाः || ६१ || एतदपरिज्ञानादेव द्वैतवादिनां विवादभेदो नास्माकमित्याह - विवदन्त इति | स्वस्वभ्रमैरन्यान्भ्रमयन्तो यथा तद्वत् || ६१ || दृश्ये मूर्ते ज्ञसंरूढे विकारादि पृथग्भवेत् | नामूर्ते तज्ज्ञकचिते चित्खे सदसदात्मनि || ६२ || अज्ञतज्ज्ञयोर्दृश्ये मूर्तामूर्तभावनाकृत एव सत्यमिथ्यात्वप्रयुक्तद्वैताद्वैतविभाग इत्याह - दृश्य इति || ६२ || चित्तरौ चेत्यरसतः शक्तिः कालादिनामिकाम् | तनोत्याकाशविशदां चिन्मधुश्रीः स्वमञ्जरीम् || ६३ || चेत्ये रस आसक्तिस्तद्रूपजलसेकाच्चिद्वसन्तश्रीरूपा शक्तिर्मायाकालादिनामिकां स्वमञ्जरीं तनोति | आकाशे प्रथमभूते ऊर्ध्वदेशे च विशदाम् || ६३ || स्वयं विचित्रं स्फुरति चिदण्डकमनाहतम् | स्वयं विलक्षणस्पन्दं चिद्वायुरण्डजात्मकः [रण्डजात्मकम् इति पाठः] || ६४ || यथा ब्रह्म स्वाधीनकल्पनाक्रमैर्जगज्जीवभावं प्राप्तं तथा स्वाधीनैरेव बोधक्रमैः स्वरूपेऽवतिष्ठत इत्याह - स्वयमित्यादिसार्धचतुर्भिः | चित्स्वयमेवानाहतमच्छिन्नगर्भमेव सत् प्रथममाकाशकल्पने सच्छिद्रत्वादण्डकमण्डसदृशं ब्रह्माण्डरूपं वा स्फुरति | ततोऽण्डजात्मको वायुः सूत्रात्मा वातस्कन्धरूपो वा स्फुरतीति सर्वत्रानुषङ्गः || ६४ || स्वयं विचित्रं कचनं चिद्वारि न निखातगम् | स्वयं विचित्रधातुत्वं श्रेष्ठाङ्गमपि निर्मितम् || ६५ || ततो वक्ष्यमाणतेजोजन्मानन्तरं वारि अप्तत्त्वं भूत्वा स्फुरति | तच्च न तडागादिनिखातगं भूसर्गात्प्राक्तदयोगात् | सा चित्स्वयं विचित्राः स्वर्णरजतादिधातवो यस्यां पृथिव्यां तद्भावं श्रेष्ठानां देवासुरमनुष्याणामङ्गं देहादिभावमपि निर्माणेन प्रापितम् || ६५ || स्वविचित्ररसोल्लासा चिज्ज्योत्स्ना सततोदिता | स्वयं चिदेव प्रकटश्चिदालोको महात्मकः || ६६ || जगदाप्यायकचन्द्रात्मनापि स्वयमेवाभूदित्याह - स्वयमिति | भौमोषधिरसभेदानामपि चन्द्राधीनत्वात्स्वविचित्रेत्युक्तम् | अत्र तेजःसर्गः पाठक्रमादार्थक्रमो बलीयानिति प्रागुक्तवायुसर्गानन्तरं बोध्यः | चिदण्डकमित्यादिसमस्तं सर्वत्र रूपकं वा बोध्यम् || ६६ || स्वयमस्तं गते बाह्ये स्वज्ञानादुदिता चितिः | स्वयं जडेषु जाड्येन पदं सौषुप्तमागता || ६७ || स्वज्ञानादेव बाह्ये दृश्येऽस्तं गते सति उदिता आविर्भूतपूर्णभावा अवतिष्ठत इति शेषः | जडेषु स्थावरादिषु || ६७ || स्वयं स्पन्दितयास्पन्दिचित्त्वाच्चिति महानभः | चित्प्रकाशप्रकाशो हि जगदस्ति च नास्ति च || ६८ || उक्तमेवार्थं संक्षिप्याहार्धेन - स्वयमिति | अविचारे स्पन्दस्वभावप्राणाद्यात्मभावकल्पने स्पन्दि संसार्येव भवति | स्वविचाराविर्भूतचित्त्वात्तु चित्येव स्वस्वभावेऽवतिष्ठत इत्यर्थः | तदवस्थस्य किं जगदस्ति उत नास्ति सत्त्वे संसारापत्तिरसत्त्वे त्वसद्व्याप्तिप्रसङ्ग इत्याशङ्क्य सर्वदा जगतो ब्रह्मसत्तया सत्त्वमेव स्वसत्तया त्वसत्त्वमेवेत्याह - चित्प्रकाश इत्याद्यर्धषट्केन | सर्वत्र चित्सत्तोपजीवित्वप्रदर्शनाय प्रकाशादिभावरूपि तत्तद्धर्मतोक्तिः| प्रकाशस्य तेजसः प्रकाशो भास्वररूपम् || ६८ || चिदाकाशैकशून्यत्वं जगदस्ति च नास्ति च | चिदालोकमहारूपं जगदस्ति च नास्ति च || ६९ || प्. १६६) चिन्मारुतपरिस्पन्दो जगदस्ति च नास्ति च | चिद्धनध्वान्तकृष्णत्वं जगदस्ति च नास्ति च || ७० || चिदर्कालोकदिवसो जगदस्ति च नास्ति च | चित्कज्जलरजस्तैलपरमाणुर्जगत्क्रमः [जगद्भमः इति पाठः] || ७१ || तैलदाहे कज्जलस्येव जगद्बाधे चिदवशेषात्कज्जलत्वोक्तिर्न कार्यत्वाभिप्रायेण || ७१ || चिद्ग्न्यौष्ण्यं जगल्लेखा जगच्चिच्छङ्खशुक्लता | जगच्चिच्छैलजठरं चिज्जलद्रवता जगत् || ७२ || जगच्चिदिक्षुमाधुर्यं चित्क्षीरस्निग्धता जगत् | जगच्चिद्धिमशीतत्वं चिज्ज्वालाज्वलनं जगत् || ७३ || जगच्चित्सर्षपस्नेहो वीचिश्चित्सरितो जगत् | जगच्चित्क्षुद्रमाधुर्यं जगच्चित्कनकाङ्गदम् || ७४ || जगच्चित्पुष्पसौगन्ध्यं चिल्लताग्रफलं जगत् | चित्सत्तैव जगत्सत्ता जगत्सत्तैव चिद्वपुः || ७५ || सर्वत्र चिदपृथक्सत्त्वादेव जगतश्चिद्धर्मत्वमभिप्रेतमिति स्फुटमाह ##- अत्र भेदविकारादि नखे मलमिव स्थितम् | इतीदं दन्मयत्वेन सदसद्भुवनत्रयम् || ७६ || खे मलं नैल्यमिव प्रतीतमपि न स्थितम् | असदपि भुवनत्रयमित्युक्तविधया सन्मयत्वेन सदित्यर्थः || ७६ || अविकल्पतदात्मत्वात्सत्तासत्तैकतैव च | अवयवावयविता शब्दार्थौ शशशृङ्गवत् || ७७ || जगदसत्ता तर्हि वस्त्वन्तरं स्यात्तत्राह - अविकल्पेति | कल्पितनिरूपितसत्तासत्तयोरधिष्ठानातिरेकादर्शनादित्यर्थः | सावयवनिरवयवयोः कथमपृथक्सत्त्वमिति वदस्तार्किकान्विद्वदनुभवापलापिनो धिक्करोति - अवयवेति || ७७ || अनुभूत्यपलापाय कल्पितो यैर्धिगस्तु तान् | न विद्यते जगद्यत्र साद्र्यब्ध्युवीनदीश्वरम् || ७८ || तत्र युक्तिविरोधमाह - न विद्यत इति | अद्र्यब्धिभिरुर्व्यादिभिस्तत्तदीश्वरैश्च सहितं जगत् || ७८ || चिदेकत्वात्प्रसङ्गः स्यात्कस्तत्रेतरविभ्रमः | शिलाहृदयपीनापि स्वाकाशे विशदैव चित् || ७९ || प्रसज्ज्यत इति प्रसङ्गः | कर्मणि घञ् | तत्र इतरस्यावयवादेर्विभ्रमः कः प्रसक्तः स्यादित्यर्थः | विशदा स्वच्छा || ७९ || धत्तेऽन्तरखिलं शान्तं संनिवेशं यथा शिला | पदार्थनिकराकाशे त्वयमाकाशजो मलः || ८० || शान्तं मिथ्यात्वादसदेवाखिलं यथा स्फटिकशिलाप्रतिबिम्बनगरसंनिवेशं धत्ते तद्वत् | कुतोऽखिलस्य शान्तत्वं तत्राह - पदार्थेति | सर्वपदार्थाधिष्ठाने चिदाकाशेऽयं भूताकाशजो मलो वायवादिः सावयवप्रपञ्चः | तत्र भूताकाशेऽप्यसङ्गस्वभावे यदि तत्कार्यश्लेषा न सन्ति तदा चिदाकाशे सत्तासत्ताद्याः श्लेषाः सुतरां न सन्तीत्यर्थः || ८० || सत्तासत्तात्मतात्वत्तामत्ताश्लेषा न सन्ति ते | पल्लवान्तरलेखौघसंनिवेशवदाततम् || ८१ || तर्हि चित्यसतो जगत्संनिवेशस्य कथं भानं तत्राह - पल्लवेति | यथा पल्लवं शिरारेखौघसंनिवेशं पल्लवात्पृथगनिरूढत्वादसदेव तदन्यानन्यात्मकतया स्थितं धत्ते चिदपि तथा जगदित्यर्थः || ८१ || अन्यानन्यात्मकमिदं धत्तेऽन्तश्चित्स्वभावतः | समस्तकारणौघानां कारणादि पितामहः || ८२ || निर्विकाराकाशोपादानकत्वाज्जगद्विकारस्य मिथ्यात्वमुक्तं संप्रति मिथ्याविकल्पसहस्रात्मकचित्तसमष्ट्यात्मकहिरण्यगर्भनिदानकत्वादपि जगतो मिथ्यात्वमित्याह - समस्तेति || ८२ || स्वभावतो कारणात्म चित्तं चिद्ध्यनुभूतितः | न चासत्त्वमचेत्यायाश्चितो वाचापि सिद्ध्यति || ८३ || चित्तकार्यमानोरथिकविकल्पानामसत्त्वादेव चित्तमकारणात्म तदेव पितामह इत्यर्थः | चेत्यासत्त्वे चितोऽप्यसत्त्वं तस्यास्तदव्यभिचारदर्शनादिति वाचपि चितोऽसत्त्वं न सिद्ध्यति | हि यस्माच्चिदनुभूतितः सिद्धा | अनुभवविरुद्धे च न वाचः प्रामाण्यमित्यर्थः || ८३ || यदस्ति तदुदेतीति दृष्टं बीजादिवाङ्कुरः || ८४ || यदि जगत्स्वतः सत्स्यात्तदा ज्ञानाद्युपायसहस्रैरप्यनुच्छेद्यमेव स्यात्सत आत्यन्तिकोच्छेदासंभवेन पुनराविर्भावावर्जनादनिर्मोक्षप्रसङ्गः स्यादित्याशयेनाह - यदिति || ८४ || गगन इव सुशून्यभेदमस्ति त्रिभुवनमङ्ग महाचितोऽन्तरस्याः | परमपदमयं समस्तदृश्यं त्विदमिति निश्चयवान्भवानुभूतेः || ८५ || यदि दृश्यस्य सत्तायां महानाग्रहस्तर्हि अनुभवेन भेदं निरस्य परमपदात्मकच्चिन्मयत्वेन तत्सत्तयैव सा स्वीकार्येत्याह - गगन इति || ८५ || इत्युक्तवत्यथ मुनौ दिवसो जगाम सायंतनाय विधयेऽस्तमिनो [मितो इति क्वचित्] जगाम | स्नातुं सभा कृतनमस्करणा जगाम श्यामाक्षये रविकरैश्च सहाजगाम || ८६ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे ब्रह्मप्रतिपादनं नाम चतुर्दशः सर्गः || १४ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे ब्रह्मप्रतिपादनं नाम चतुर्दशः सर्गः || १४ || तृतीयो दिवसः | प्. १६७) पञ्चदशः सर्गः १५ ज्गदाकाशमेवेदं यथा हि व्योम्नि मौक्तिकम् | विमले भाति स्वात्मैव जग्च्चिद्गगनं यथा || १ || शश्वद्दृष्टान्तयुक्त्योधैरुक्तार्थमनुभावयन् | विस्तृतं मण्डपाख्यानमत्रोपक्रमते मुनिः || १ || जगच्चिदाकाशमेवेति प्रतिज्ञा | कथं तर्हि पृथग्भाति तत्राह - यथेति | यथा विमले व्योम्नि भ्रान्त्या मुक्तानां संघो मौक्तिकं भाति तद्वत् | चिद्गगनं स्वात्मैव यथा जगत्तथा दृष्टान्तः श्रूयतामिति शेषः || १ || अनुत्कीर्णैव भातीव त्रिजगच्छालभञ्जिका | चित्स्तम्भेनैव सोत्कीर्णा नचोत्कर्तात्र विद्यते || २ || नचोत्कर्तेति | तदुत्कर्तृचेतनान्तराप्रसिद्धेर्निर्विकारासङ्गस्योत्कर्तनासंभवाच्चेति भावः || २ || समुद्रेऽन्तर्जलस्पन्दाः स्वभावादच्युता अपि | वीचिवेगा भवन्तीव परे दृश्यविदस्तथा || ३ || दृश्यविदो जगत्प्रत्ययाः || ३ || जालान्तर्गतसूर्याभा जालाकाररजांस्यपि | जगद्भानं प्रति स्थूलान्यणुं प्रति यथाचलाः || ४ || जगदतिमहत्त्वेन मूढैरवगतमपि विद्वद्दृष्ट्या वस्तुतो जालसूर्यमरीच्यणुकादप्यतिफल्विवत्याह - जालेति | सूर्याभाया यो जालच्छिद्रप्रयुक्तो दण्डमुसलाद्याकारस्तदन्तर्गतानि रजांसि | अपिशब्दादन्येषां स्थूलतमत्वं किं वाच्यमित्याशयः | अथवा जगदवभासकसाक्षिचित्प्रकाशस्य सूर्यालोकादिप्रकाशात्तदन्तर्गतपरमाण्वादिभ्योऽप्यतिसूक्ष्मत्वमित्याह - जालेति || ४ || जगद्भानं न भातीदं ब्रह्मणो व्यतिरेकतः | जालसूर्यांशुजालं तु व्यतिरेकानुभूतिदम् || ५ || तदेवोपपादयितुं मरीचितदणुवैधर्म्यं चिति दर्शयति - जगदिति || ५ || अनुभूतान्यपीमानि जगन्ति व्योमरूपिणि | पृथ्व्यादीनि न सन्त्येव स्वप्नसंकल्पयोरिव || ६ || व्यतिरेकतो न भातीत्युक्तेरनुभवविरोधं परिहरति - अनुभूतान्यपीति || ६ || पिण्डग्रहो जगत्यस्मिन्विज्ञानाकाशरूपिणि | मरुनद्यां जलमिव न संभवति कुत्रचित् || ७ || अनेकदिनावस्थाभिन्नस्य कथं स्वप्नसंकल्पसाम्यं तत्राह - पिण्डेति | पिण्डग्रहो मूर्ततास्वीकारः || ७ || जगत्यपिण्डग्राहेऽस्मिन्संकल्पनगरोपमे | मरौ सरिदिवाभाति दृश्यता भ्रान्तिरूपिणी || ८ || स्वप्नाद्दृश्येव जगतां तुलादेशेन केन च | तुलिता कलनोन्मुक्ता दृश्यश्रीर्व्योम जृम्भते || ९ || जगतां दृश्यश्रीर्दृशि साक्षिचैतन्य एवैकतः स्वप्नमारोप्य केन च सारासारविवेचकबुद्धिलक्षणेन तुलामध्यकण्टकप्रदेशेन तुलिता साम्येनावधारिता चेत्सैव जागरे स्वप्न इव कलनोन्मुक्ता सती व्योम शून्यं ब्रह्मैव वा जृम्भते प्रथते || ९ || वर्जयित्वा ज्ञविज्ञानं जगच्छब्दार्थभाजनम् | जगद्ब्रह्मस्वशब्दानामर्थे नास्त्येव भिन्नता || १० || तथाचाविवेकिदृशैव ब्रह्मादिशब्दार्थाज्जगच्छब्दार्थभेदो न तत्त्वज्ञदृशेत्याह - वर्जयित्वेति || १० || इदं त्वचेत्यचिन्मात्रं भानोर्भातं नभः प्रति | तथा सूक्ष्मं यथा मेघं प्रति संकल्पवारिदः || ११ || कथं तर्हि तत्त्वज्ञदृशां जगत्प्रति तत्साक्षिदर्शनमित्युक्ते शून्यात्मकनभः प्रति तदालोकस्य प्रकाशत्वदर्शनमिवेत्याह - इदमिति | साक्षिचैतन्यं प्रति जगद्दर्शनं तर्हि कथं तत्राप्याह - तथेति || ११ || यथा स्वप्नपुरं स्वच्छं जाग्रत्पुरवरं प्रति | तथा जगदिदं स्वच्छं सांकल्पिकजगत्प्रति || १२ || कथमत्यन्तमलिनस्य दृश्यस्य स्वच्छतमचिन्मात्रतेत्याशङ्क्य प्रतीतिकालिकैव बाह्यमानसदृश्ययोर्मलिनता तिरोभावकाले तु परस्परापेक्षया स्वच्छतमतैव परिशिष्यत इत्याह - यथेति | जगज्जाग्रत्प्रपञ्चः | सांकल्प्कग्रहऽनं स्वाप्नस्याप्युपलक्षणम् || १२ || तस्मादचेत्यचिद्रूपं जगद्व्योमैव केवलम् | शून्यौ व्योमजगच्छब्दौ पर्यायौ विद्धि चिन्मयौ || १३ || उपसंहरति - तस्मादित्यादिना | शून्यौ शून्यार्थावर्थशून्यौ वा || १३ || तस्मान्न किंचिदुत्पन्नं जगदादीह दृश्यकम् | अनाख्यमनभिव्यक्तं यथास्थितमवस्थितम् || १४ || जगदेवं महाकाशे चिदाकाशमभित्तिमत् | तद्देशस्याणुमात्रस्य तुलायाश्चाप्रपूरकम् || १५ || एवमुक्तरीत्या महाकाशे मायाकाशे स्थितं जगदभित्तिमन्निरावरणं चिदाकाशमेव | परिच्छिन्नजगदभेदे चितोऽपि तावन्मात्रतां वारयति - तद्देशस्येति | तद्देशस्य चित्प्रदेशस्याणुमात्रस्याल्पतरस्यापि अल्पान्तःकरणवृत्तितद्वासनापरिच्छिन्नाणुतमचिद्भागेऽपि सर्वजगत्परिच्छेदभानेन तदन्तर्भाव्यस्य जगतस्तदप्रपूरकत्वे दूरनिरस्ता ब्रह्मचैतन्यस्य तावन्मात्रतेति भावः || १५ || आकाशरूपमेवाच्छं पिण्डग्रहविवर्जितम् | व्योम्नि व्योममयं चित्रं संकल्पपुरवत्स्थितम् || १६ || कथं व्योमवच्छून्यप्रायचित्तवृत्तितद्वासनान्तर्भूता विपुरतमजगदवस्थितिस्तत्राह - आकाशेति | पिण्डग्रहो मूर्तिस्वीकारः | तत्रानुभवारोहाय दृष्टान्तमाह - संकल्पेति || १६ || अत्रेदं मण्डपाख्यानं शृणु श्रवणभूषणम् | निःसंदेहो यथैषोऽर्थश्चित्ते विश्रान्तिमेष्यति || १७ || उक्तेऽर्थे रामस्य संदेहव्यामोहानवधारणानि लिङ्गैरुपलक्ष्य श्रीवसिष्ठस्तदपनोदाय तदुपपत्तिसहस्रकथानुरञ्जनान्वितं विस्तृतं मण्डपोपाख्यानं श्रावयितुं प्रतिजानीते - अत्रेति || १७ || प्. १६८) श्रीराम उवाच | सद्बोधवृद्धये ब्रह्मन्समासेन वदाशु मे | मण्डपाख्यानमखिलं येन बोधो विवर्धते || १८ || समासेनानुपयुक्तार्थे संक्षेपेण | पूर्वतरप्रतिज्ञायामिवोक्तिविलम्बमाशङ्क्याह - आश्विति || १८ || श्रीवसिष्ठ उवाच | अभूदस्मिन्महीपीठे कुलपद्मो विकाशवान् | पद्मो नाम नृपः श्रीमान्बहुपुत्रो विवेकवान् || १९ || कुलस्य वंशस्य पद्म इव यशःसौरभ्यहेतुत्वात्पद्मः || १९ || मर्यादापालनाम्भोधिर्द्विषत्तिमिरभास्करः | कान्ताकुमुदिनीचन्द्रो दोषतृणहुताशनः || २० || वर्णाश्रममर्यादा वेला द्वीपमर्यादा च || २० || मेरुर्विबुधवृन्दानां यशश्चन्द्रो भवार्णवे | सरः सद्गुणहंसानां कमलामलभास्करः || २१ || विबुधा विद्वांसो देवाश्च तद्वृन्दानाम् | कमलाः संपदस्तल्लक्षणकमलानां भास्करः || २१ || संग्रामवीरुत्पवनो मनोमातङ्गकेसरी | समस्तविद्यादयितः सर्वाश्चर्यगुणाकरः || २२ || संग्रामे वीरुत्प्रायाणां परेषां पवन इव प्रकम्पयिता अत एव मानोर्जिततन्मनोलक्षणमातङ्गानां केसरी शतून्मानभङ्गेन नमयिता न हन्तेत्याशयः | दयितः प्रियः || २२ || सुरारिसागरक्षोभविलसन्मन्दराचलः | विलासपुष्पौघमधुः सौभाग्यकुसुमायुधः || २३ || तस्येन्द्रशत्रुजेतृत्वमाह - सुरारीति | मधुर्वसन्तः || २३ || लीलालतालास्यमरुत्साहसोत्साहकेशवः | सौजन्यकैरवशशी दुर्लीलावल्लिकानलः || २४ || सर्वासाध्यधरण्युद्धारादिसाधनोद्योगः साहसम् | दुश्चेष्टाविषवल्लीनामनल इव दाहकः | कुत्सायां कन् || २४ || तस्यास्ति सुभगा भार्या लीला नाम विलासिनी | सर्वसौभाग्यवलिता कमलेवोदिताऽवनौ || २५ || वलिता वेष्टिता | कमला लक्ष्मीः || २५ || सर्वानुवृत्तिललिता लीला मधुरभाषिणी | सानन्दमन्दचलिता द्वितीयेन्दूदयस्मिता || २६ || सर्वास्वनुवृत्तिषु भर्तृसेवाप्रकारेषु सर्वेषां परिजनानां वा अनुवृत्तिष्वनुकूलाचरणेषु ललिता || २६ || अलकालिमनोहारिवदनाम्भोजशालिनी | सिताङ्गी कर्णिकागौरी जङ्गमेव सरोजिनी || २७ || अलका एव अलयो भ्रमराः | सिताङ्गी निर्मलाङ्गी | कर्णिकेव कर्णिकया च गौरी | एवमग्रेऽप्युपमानसाधारणविशेषणानि योज्यानि || २७ || लतविलासकुन्दौघभासिनी रसशालिनी | प्रवालहस्ता पुष्पाभा मधुश्रीरिव देहिनी || २८ || रसः प्रेमा मकरन्दश्च || २८ || अवदाततनुः पुण्या स्पर्शनाह्लादकारिणी | गङ्गेव गां गता देहवती हंसविलासिनी || २९ || अवदाततनुः स्वच्छदेहा || २९ || तस्य भूतलपुष्पेषोः सकलाह्लाददायिनः | परिचर्यां चिरं कर्तुमन्या रतिरिवोदिता || ३० || उद्विग्ने प्रोद्विग्ना मुदिते मुदिता समाकुलाकुलिते | प्रतिबिम्बसमा कान्ता संक्रुद्धे केवलं भीता || ३१ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे मण्डपोपाख्याने राजवर्णनं नाम पञ्चदशः सर्गः || १५ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे राजवर्णनं नाम पञ्चदशः सर्गः || १५ || षोडशः सर्गः १६ श्रीवसिष्ठ उवाच | भूतलाप्सरसा सार्धमनन्यदयितापतिः | अकृत्रिमप्रेमरसं स रेमे कान्तया तया || १ || अतृप्तिः कामभोगेभ्यो भूयो दुःखावसानता | देवैरप्यन्यथाकर्तुमशक्येत्यत्र कीर्त्यते || १ || अनन्यदयितापतिरिति प्रेमरसस्याकृत्रिमत्वे हेतुः || १ || उद्यानवनगुल्मेषु तमालगहनेषु च | पुष्पमण्डपरम्येषु लतावलयसद्मसु || २ || उद्यानवनगुल्मेष्वित्यादीनां रेमे इत्यत्रैवान्वयः || २ || पुष्पान्तःपुरशययासु पुष्पसंभारवीथिषु | वसन्तोद्यानदोलासु क्रीडापुष्करिणीषु च || ३ || चन्दनद्रुमशैलेषु संतानकतलेषु च | कदम्बनीपगेहेषु पारिभद्रोदरेषु च || ४ || संतानकाः कल्पवृक्षविशेषाः स्वप्रभावादिन्द्रप्रसादाद्वा प्राप्तास्तेषां तलेषु || ४ || विकसत्कुन्दमन्दारमकरन्दसुगन्धिषु | वसन्तवनजालेषु कूजत्कोकिलपक्षिषु || ५ || नानारण्यतृणानां च स्थलेषु मृदुदीप्तिषु | निर्झरेषु तरत्तारसीकरासारवर्षिषु || ६ || तरतां प्लवमानानां तारसीकराणामासारो धारासंपातः || ६ || शैलानां मणिमाणिक्यशिलानां फलकेषु च | देवर्षिमुनिगेहेषु दूरपुण्याश्रमेषु च || ७ || देवर्षिमुनिगेहेषु सहयात्रारूपं रमणम् || ७ || प्. १६९) कुमुद्वतीषु फुल्लासु स्मेरासु नलिनीषु च | वनस्थलीषु कृष्णासु फुल्लासु फलिनीषु च || ८ || कुमुद्वतीषु निशि नलिनीषु दिवा || ८ || सुरतैः सुरतारुण्यैः सुन्दरः सुन्दरेहितैः | ईहितैः पेशलान्योन्यघनप्रेमरसाधिकैः || ९ || सुरसदृशैस्तारुण्यैः | सुन्दराणां विषयाणामीहितैरीप्सितैः | ईहितैर्विलासचेष्टितैः || ९ || प्रहेलिकाभिराख्यानैस्तथा चाक्षरमुष्टिभिः | अष्टापदैर्बहुद्यूतैस्तथा गूढचतुर्थकैः || १० || प्रहेलिकाः लौकिकपरिहासकथाः | आख्यानानि पौराणिकानि | अक्षरमुष्ट्यादयो द्यूतविशेषाः || १० || नाटिकाख्यायिकाभिश्च श्लोकैर्विन्दुमतिक्रमैः | देशकालविभागैश्च नगरग्रामचेष्टितैः || ११ || नाट्यदृश्यार्थाः प्रबन्धा नाटिकाः | श्रवणमात्रास्वाद्यकाव्यनिबन्धकथा आख्यायिकाः | विन्दूनां विदुषां मतिभिः क्रम्यन्ते अवगम्यन्त इति विन्दुमतिक्रमैर्गूढाशयश्लोकैः | नगरग्रामचेष्टितैरनुकृतैरिति यावत् || ११ || स्रग्दाममालावलितैर्नानाभरणयोजनैः | लीलाविलोलचलनैर्विचित्ररसभोजनैः || १२ || वलितैर्वेष्टनैः || १२ || आर्द्रकुङ्कुमकर्पूरताम्बूलीदलचर्वणैः | फुल्लपुष्पलतागुञ्जादेहगोपनखव्रणैः || १३ || फुल्लैः पुष्पैर्लताभिर्गुञ्जाभिर्वा देहस्य गोपनं पिधानं येषु तथाविधैर्नखव्रणैर्नक्षक्षतैः || १३ || समालम्भनलीलाभिर्मालाप्रहरणक्रमैः | गृहे कुसुमदोलाभिरन्योन्यं दोलनक्रमैः || १४ || अनुधावनेन स्पर्शः समालम्भनं तत्प्रधानलीलाभिः || १४ || नौयानयुग्महस्त्यश्वदान्तोष्ट्रादिगमागमैः | जलकेलिविलासेन परस्परसमुक्षणैः || १५ || नौभिर्यानं जलेषु | युग्मभूतहस्त्यश्वानां दान्तानां दमनेन शिक्षितानामुष्ट्रादीनां च गमागमैश्च्ंक्रमणपरिवर्तनैः || १५ || नृत्यगीतकलालास्यतालताण्डवमण्डनैः | संगीतकैः संकथनिर्वीणामुरजवादनैः || १६ || गीतिकथालापाः संकथनानि || १६ || उद्यानेषु सरित्तीरवृक्षेषु वरवीथिषु | अन्तःपुरेषु हर्म्येषु फुल्लदोलावदोलनैः || १७ || सा तथा सुखसंवृद्धा तस्य प्रणयिनी प्रिया | एकदा चिन्तयामास सुभ्रूः संकल्पशालिनी || १८ || प्राणेभ्योऽपि प्रियो भर्ता ममैष जगतीपतिः | यौवनोल्लासवान्श्रीमान्कथं स्यादजरामरः || १९ || भर्त्रानेन सहोत्तुङ्गस्तनी कुसुमसद्मसु | कथं स्वैरं चिरं कान्ता रमे युगशतान्यहम् || २० || तथा यते यत्नमतस्तपोजपयमेहितैः | रजनीशमुखो राजा यथा स्यादजरामरः || २१ || यमेहितैर्नियमानुष्ठानैः || २१ || ज्ञानवृद्धांस्तपोवृद्धान्विद्यावृद्धानहं द्विजान् | पृच्छामि तावन्मरणं कथं न स्यान्नृणामिति || २२ || इत्यानीयाथ संपूज्य द्विजान्पप्रच्छ सा नता | अमरत्वं कथं विप्रा भवेदिति पुनःपुनः || २३ || इति चिन्तयामासेति पूर्वतनेनान्वयः | अमरत्वं भर्तुः स्वस्य चेति शेषः || २३ || विप्रा ऊचुः | तपोजपयमैर्देवि समस्ताः सिद्धसिद्धयः | संप्राप्यन्तेऽमरत्वं तु न कदाचन लभ्यते || २४ || इत्याकर्ण्य द्विजमुखाच्चिन्तयामास सा पुनः | इदं स्वप्रज्ञयैवाशु भीता प्रियवियोगतः || २५ || स्वप्रज्ञयैव इदं वक्ष्यमाणं चिन्तयामास || २५ || मरणं भर्तुरग्रे मे यदि दैवाद्भविष्यति | तत्सर्वदुःखनिर्मुक्ता संस्थास्ये सुखमात्मनि || २६ || आत्मनि सर्वदुःखनिर्मुक्ता | परलोके एतज्जन्मस्मरणाभावेन भर्तृवियोगदुःखाप्रसक्तेरिति भावः || २६ || अथ वर्षसहस्रेण भर्तादौ चेन्मरिष्यति | तत्करिष्ये तथा येन जीवो गेहान्न यास्यति || २७ || तद्भ्रमद्भर्तृजीवेऽस्मिन्निजे शुद्धान्तमण्डपे | भर्त्रा विलोकिता नित्यं निवत्स्यामि यथासुखम् || २८ || शुद्धान्तस्यान्तःपुरस्य मण्डपे || २८ || अद्यैवारभ्यैतदर्थं देवीं ज्ञप्तिं सरस्वतीम् | जपोपवासनियमैरातोषं पूजयाम्यहम् || २९ || ज्ञप्तिं चिद्रूपम् || २९ || इति निश्चित्य सा नाथमनुक्त्वैव वराङ्गना | यथाशास्त्रं चचारोग्रं तथा नियममास्थिता || ३० || नाथमनुक्त्वेति | ननु या स्त्री भर्त्राऽननुज्ञाता उपवासव्रतं चरेत् | आयुष्यं हरते भर्तुर्मृता नरकमृच्छति || इति निन्दितमिदं कथं यथाशास्त्रमिति चेत् | प्रत्यक्षं वा परोक्षं वा सदा भर्तृहितं चरेत् | व्रतोपवासनियमैरुपचारैश्च लौकिकैः || इति शास्त्रनिन्दाया भर्तृहितातिरिक्तस्वकाम्योपवासादिविषयत्वाददोषः || ३० || त्रिरात्रस्य त्रिरात्रस्य पर्यन्ते कृतपारणा | देवद्विजगुरुप्राज्ञविद्वत्पूजापरायणा || ३१ || स्नानदानतपोध्याननित्योद्युक्तशरीरिका | सर्वास्तिक्यसदाचारकारिणी क्लेशहारिणी || ३२ || सर्वस्मिन् शास्त्रार्थे अस्त्यवश्यं फलमिति बुद्धिः सर्वास्तिक्यम् || ३२ || यथाकालं यथोद्योगं यथाशास्त्रं यथाक्रमम् | तोषयामास भर्तारमपरिज्ञातसंस्थितिः || ३३ || त्रिरात्रशतमेवं सा बाला नियमशालिनी | अनारतं तपोनिष्ठामतिष्ठत्कष्टचेष्टया || ३४ || अतिष्ठत् अनुष्ठितवती || ३४ || प्. १७०) त्रिरात्राणां शते चाथ पूजिता प्रतिमानिता | तुष्टा भगवती गौरी वागीशा समुवाच ताम् || ३५ || बाह्योपचारैः पूजिता भावोपचारैः प्रतिमानिता || ३५ || श्रीसरस्वत्युवाच | निरन्तरेण तपसा भर्तृभक्त्यतिशालिना | परितुष्टास्मि ते वत्से गृहाण वरमीप्सितम् || ३६ || श्रीराज्ञ्युवाच | जय जन्मजराज्वालादाहदोषशशिप्रभे | जय हार्दान्धकारौघनिवारणरविप्रभे || ३७ || भाविभर्तृजीवनब्रह्मविद्याप्राप्तिं भाग्यानुरूपामेव स्तुतिं दैवाद्राज्ञ्युवाच - जयेति || ३७ || अम्ब मातर्जगन्मातस्त्रायस्व कृपणामिमाम् | इदं वरद्वयं देहि यदहं प्रार्थये शुभे || ३८ || इमां मामिति शेषः || ३८ || एकं तावद्विदेहस्य भर्तुर्जीवो ममाम्बिके | अस्मादेव हि मा यासीन्निजान्तःपुरमण्डपात् || ३९ || द्वितीयं त्वां महादेवि प्रार्थयेऽहं यदा यदा | दर्शनाय वरार्थाय तदा मे देहि दर्शनम् || ४० || यदा यदा वरार्थाय दर्शनाय प्रार्थये तदा दर्शनं देहीत्यन्वयः || ४० || इत्याकर्ण्य जगन्माता तवास्त्वेवमिति स्वयम् | उक्त्वान्तर्धानमगमत्प्रोत्थायोर्मिरिवार्णवे || ४१ || अथ सा राजमहिषी परितुष्टेष्टदेवता | श्रुतगीतेव हरिणी बभूवानन्दधारिणी || ४२ || पक्षमासर्तुकटके दिनारे वर्षदण्डके | क्षणनाभौ स्पन्दमये कालचक्रे वहत्यथ || ४३ || पक्षा नेमिकटका मासा मध्यकटका ऋतवो नाभिकटका यस्य | त्रिनाभि चक्रमजरम् इति श्रुतेः | त्रतयानुस्यूतानि दिनान्यरास्तिर्यगनुप्रोतशङ्कवः केसरप्राया यस्य | वर्षः संवत्सरोऽक्षदण्डको यस्य | क्षणस्त्रिंशत्कलात्मको नाभिर्मध्यच्छिद्रं यस्य तथाविधे सूर्यादिस्पन्दमये || ४३ || अन्तर्धिमाजगामास्याः पत्युस्तच्चेतनं तनौ | संदृश्यमानमेवाशु शुष्कपत्ररसो यथा || ४४ || रणखण्डितदेहस्येत्युत्तराल्लभ्यते [देहस्य इति षष्ठ्येकवचनान्तं पदमेतत् ४५ तमश्लोकगतरणखण्डितदेहे इति सप्तम्येकवचननिर्देशकमिति भाति] | पत्युस्तत्प्राणनादिलिङ्गैः प्रत्यक्षप्रायं चेतनं तनौ लिङ्गदेहे अन्तर्धि तिरोभावमाययौ || ४४ || रणखण्डितदेहेऽस्मिन्मृतेऽन्तःपुरमण्डपे | निर्जला नलिनीवासौ परां म्लानिमुपाययौ || ४५ || नलिनी पद्मिनी || ४५ || विषोष्णश्वसनध्वस्तसकलाधरपल्लवा | प्राप सा मरणावस्थां सशल्येव मृगी यथा || ४६ || विषवदुष्णेन निःश्वसनेन ध्वस्तो विवर्णीकृतः | सशल्येवेत्युत्प्रेक्षा | मृगी यथेत्युपमेति न यथाशब्दपौनरुक्त्यम् | सशल्येति मृग्या अपि विशेषणम् || ४६ || प्राप सा तमसान्धत्वं तस्मिन्मरणमागते | दीपज्वालालवे क्षीणे सद्मश्रीरिव भूषिता || ४७ || सद्मश्रीर्गृहशोभा | भूषिता प्राग्दीपेनालंकृता || ४७ || कार्श्यमाप क्षणेनासौ बाला विरसतां गता | यथा स्रोतस्विनी स्रोतःक्षये क्षारविधूसरा || ४८ || स्रोतसः प्रवाहस्य क्षये शोषे क्षारेणोषेण विधूसरा || ४८ || क्षिप्रमाक्रन्दिनी क्षिप्रं मौनमूका वियोगिनी | बभूव चक्रवाक्रीव मानिनी मरणोन्मुखी || ४९ || मानिनी प्राग्भर्तृमन्मानवती तत्क्षयान्मरणोन्मुखी || ४९ || अथ तामतिमात्रविह्वलां सकृपाकाशभवा सरस्वती | शफरीं हृदशोषविह्वलां प्रथमा वृष्टिरिवान्वकम्पतः || ५० || सकृपा प्राग्बहुजन्मस्वाराधितत्वात्तत्त्वज्ञानदानपर्यवसितकृपावती | आकाशभवा अशरीरिणीति यावत् | अन्वकम्पतेत्यनुकम्पाफलमाश्वासनं लक्ष्यते || ५० || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे मण्डपोपाख्याने राज्ञीपरिदेवनं नाम षोडशः सर्गः || १६ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे राज्ञीपरिदेवनं नाम षोडशः सर्गः || १६ || सप्तदशः सर्गः १७ श्रीसरस्वत्युवाच | शवीभूतमिमं वत्से भर्तारं पुष्पपुञ्जके | आच्छाद्य स्थापयैनं त्वं पुनर्भर्तारमेष्यसि || १ || अन्वयव्यतिरेकाभ्यां नव्यप्राक्तनसर्गयोः | मनोमात्रविलासत्वात्तुल्यत्वमिह बोध्यते || १ || अशरीरिण्येवाश्वासनवरप्रदानाभ्यामनुकम्पमाना श्रीसरस्वत्युवाच - शवीभूतमिति | पुष्पपुञ्जके पुष्पराशौ || १ || पुष्पाणि म्लानिमेष्यन्ति नो नचैष विनङ्क्ष्यति | भूयश्च तव भर्तृत्वमचिरेण करिष्यति || २ || नो इति निषेधार्थो निपातः पूर्वान्वयी || २ || एतदीयश्च जीवोऽसावाकाशविशदस्तव | न निर्गमिष्यति क्षिप्रमितोऽन्तःपुरमण्डपात् || ३ || प्राक्तनवरस्यासत्यताशङ्कां वारयति - एतदीय इति || ३ || षट्पदश्रेणिनयना समाकर्ण्येति बन्धुभिः | सा समाश्वासितागत्य पयोभिरिव पद्मिनी || ४ || यथा पयःशोषाच्छुष्यन्ती पद्मिनी पयोभिरागत्याश्वास्यते तद्वत् || ४ || पतिं संस्थाप्य तत्रैव पुष्पपूरप्रगोपितम् | किंचिदाश्वासिताऽतिष्ठद्दरिद्रेव निधानिनी || ५ || प्. १७१) तस्मिन्नेव दिने सैषा तस्मिञ्छुद्धान्तमण्डपे | अर्धरात्रे परिजने सर्वस्मिन्निद्रया हृते || ६ || शुद्धान्तोऽवरोधः || ६ || ज्ञप्तिं भगवतीं देवीं शुद्धध्यानमहाधिया | दुःखादाह्वाययामास सोवाच समुपेत्य ताम् || ७ || शुद्धध्यानसहितमहाधिया आहूतेवागतेत्याह्वाययामासेत्युत्प्रेक्षा | अर्तिह्री - इत्येतदपवादेन शाच्छासाह्वा - इत्यादिना युक् | सा सरस्वती || ७ || किं स्मृतास्मि त्वया वत्से धत्से किमिति शोकिताम् | संसारभ्रान्तयो भान्ति मृगतृष्णाम्बुवन्मुधा || ८ || तत्रादौ शोकापनयाय तद्धेतूनां मिथ्यात्वमाह - संसारेति || ८ || लीलोवाच | क्व ममावस्थितो भर्ता किं करोत्यथ कीदृशः | समीपं नय मां तस्य नैका शक्नोपि जीवितुम् || ९ || श्रीदेव्युवाच | चित्ताकाशं चिदाकाशमाकाशं च तृतीयकम् | द्वाभ्यां शून्यतरं विद्धि चिदाकाशं वरानने || १० || इहलोकवत्परलोककल्पनाया अपि चिन्मात्राधिष्ठानकत्वं दर्शयितुं चिदाकाशं विविच्य दर्शयति - चित्तेति | वासनामयं चित्ताकाशं निरूढं व्यावहारिकं तृतीयकं उभयसंधावुभयशून्यं चिदाकाशं सुलक्ष्यमिति भावः || १० || तच्चिदाकाशकोशात्म चिदाकाशैकभावनात् | अविद्यमानमप्याशु दृश्यतेऽथानुभूयते || ११ || चिदाकाशमेव स्वावरणाज्ञानाविविक्तं स्फुरदसज्जगदात्मना सद्यो दृश्यते तेन च दुःखाद्यनुभूयत इत्याह - तदिति | तत् पृथगविद्यमानमपि चिदाकाशस्यैकाग्रचिन्तनात् आशु इत एव दृश्यते अथ तत्र गत्वा अनुभूयते चेत्यर्थः || ११ || देशाद्देशान्तरप्राप्तौ संविदो मध्यमेव यत् | निमिषेण चिदाकाशं तद्विद्धि वरवर्णिनि || १२ || तदर्थं चिदाकाशं परिचाययति - देशादिति | क्रमिकविषयद्वयाभाससंधौ तदुभयशून्यचिदाकाशः सुलक्ष्य इत्यर्थः || १२ || तस्मिन्निरस्तनिःशेषसंकल्पा स्थितिमेषि चेत् | सर्वात्मकं पदं तत्त्वं त्वं तदाप्नोष्यसंशयम् || १३ || अतस्तव तत्प्राप्तिरेव तद्भावस्थितभर्तृसमीपे प्राप्तिस्तत्रैव भर्तृपरलोककल्पनादित्याशयेनाह - तस्मिन्निति || १३ || अत्यन्ताभावसंपत्त्या जगतश्चैतदाप्यते | नान्यथा मद्वरेणाशु त्वं तु प्राप्स्यसि सुन्दरि || १४ || कथं तर्हि तत्प्राप्तिस्तत्रोपायमाह - अत्यन्तेति | तत्त्वदर्शनेनाविद्याक्षये द्वैतानुदय एवात्यन्ताभावसंपत्तिः | तत्र नान्यः पन्था इति श्रुतिर्मानमित्यभिप्रेत्याह - नान्यथेति | मम तर्हि कथं ज्ञानप्राप्तिस्तत्राह - मद्वरेणेति || १४ || श्रीवसिष्ठ उवाच | इत्युक्त्वा सा ययौ देवी दिव्यमात्मीयमास्पदम् | लीला तु लीलयैवासीन्निर्विकल्पसमाधिभाक् || १५ || लीलया वरप्रभावाद्विनैवाभ्यासश्रमम् || १५ || तत्तत्याज निमेषेण सान्तःकरणपञ्जरम् | स्वदेहं खमिवोड्डीना मुक्तनीडा विहंगमी || १६ || लोहपञ्जरवद्दुर्भेद्यान्तःकरणसहितं स्थूलदेहम् | स्थिरीकृतचेतसा अभिमानत्याग एवात्र विवक्षितो नतु मरणवद्बहिर्निर्गमनम् || १६ || ददर्श खस्था भर्तारं तस्मिन्नेवालयाम्बरे | संस्थितं पृथ्वीपालमास्थाने बहुराजनि || १७ || खमत्र चिदाकाशस्तत्स्था सती आलयाम्बरे आविर्भूतस्ववासनाकर्मानुरूपदेहगेहादिसंपत्त्या संस्थितम् || १७ || सिंहासने समारूढं जयजीवेति संस्तुतम् | प्रस्तुतं मण्डलानीककार्यमाहर्तुमादृतम् || १८ || प्रस्तुतमुपस्थितं कार्यमाहर्तुं संपादयितुम् || १८ || पताकामञ्जरीकीर्णराजधानीगृहस्थितम् | पूर्वद्वारस्थितासंख्यमुनिविप्रर्षिमण्डलम् || १९ || पताकामण्डलैर्व्याप्ताया राजधान्याः प्रधानगृहे स्थितम् | इत आरभ्य बहुपदबहुव्रीहयः सर्वे || १९ || दक्षिणद्वारगासंख्यराजराजेशमण्डलम् | पश्चिमद्वारगासंख्यललनालोकमण्डलम् || २० || ललनालोकाः स्त्रीजनाः || २० || उत्तरद्वारगासंख्यरथहस्त्यश्वसंकुलम् | एकभृत्यविनिर्णीतदक्षिणापथविग्रह्म || २१ || एकभृत्यवचसा विनिर्णीतो दक्षिणापथे विग्रहो युद्धप्रसङ्गो येन || २१ || कर्णाटनाथरचितपूर्वदेशक्रियाक्रमम् | सुराष्ट्राधिपनिर्णीतसर्वम्लेच्छोत्तरापथम् || २२ || सर्वदेशराजानां तद्वश्यतां दर्शयति - कर्णाटेति | क्रियाक्रमो व्यवहारमर्यादास्थापनम् | निर्णीताः निगृह्य वशीकृताः || २२ || मालदेशसमाक्रान्तसर्वपाश्चात्यतङ्गणम् | दक्षिणाब्धितटायातलङ्कादूतविनोदितम् || २३ || मालदानामीशेन राज्ञा सम्यगाक्रान्तास्तङ्गणा देशविशेषाः || २३ || पूर्वाब्धितटमाहेन्द्रसिद्धोक्तगगनापगम् | उत्तराब्धितटायातदूतवर्णितगुह्यकम् || २४ || महेन्द्रपर्वते भवो माहेन्द्रः सिद्धस्तपस्वी तेनोक्ता वर्णिता सहस्रमुखविस्तारादिविचित्रा गगनापगा गङ्गा यस्मै || २४ || पश्चिमाब्धितटालोकवर्णितास्तमयक्रमम् | असंख्यबद्धभूपालकलाकीर्णाखिलाजिरम् || २५ || अब्धितटमालोकितवानित्यब्धितटालोको दूतस्तेन वर्णितः | असंख्यानां श्रेणीबद्धानां भूपालानां कलाभिः कान्तिभिः || २५ || यज्ञवाटपठद्विप्रजिततूर्याग्रनिःस्वनम् | बन्दिकोलाहलोल्लासप्रतिश्रुद्वनकुञ्जरम् || २६ || तुर्याग्रं वाद्यश्रेष्ठम् | वन्दिकोलाहलोल्लासस्य प्रतिश्रुतः प्रतिध्वनिकरा वनकुञ्जरा यस्य || २६ || प्. १७२) गेयवाद्योतध्वानप्रध्वनद्गानान्तरम् | हयहस्तिरथाराजिरजोमेघघनाम्बरम् || २७ || गेयेभ्यो वाद्येभ्यश्चोद्यतैर्ध्वानैः प्रध्वनद्गगनमध्यं यस्य | हयादीनां आ सर्वतो राजयो यत्र || २७ || पुष्पकर्पूरधूपाढ्यं गन्धामोदितपर्वतम् | सर्वमण्डलसंभाररचितानेकशासनम् || २८ || पर्वतशब्देन पर्वतसदृशाः प्रासादा उच्यन्ते | सर्वेभ्यो मण्डलेभ्य आहृत्योपायनादि संभरन्ति पूरयन्ति गृहं ये मृत्यास्तेभ्योरचितानेकशासनम् || २८ || यशःकर्पूरजलदसुशुभ्राम्बरपर्वतम् | रोदसीस्तम्भभूतैकस्वप्रतापजितार्ककम् || २९ || स्वयशःकर्पूरराश्युपमाना जलदलक्षणाः सुशुभ्रा अम्बरोद्भूतपर्वता यस्य || २९ || आरम्भमन्थरोदारकार्यसंव्यग्रभूमिपम् | नानानगरनिर्माणसोद्योगस्थपतीश्वरम् || ३० || आरम्भमन्थरेषु गुरुतरारम्भेषूदारकार्येषु संव्यग्रा भूमिपाः सामन्ता यस्य | स्थपतयः शिल्पिकुलपतयः || ३० || पपाताथ महारम्भा सा तां नरपतेः सभाम् | व्योमात्मिका व्योममयीं मिहिकेवाम्बराटवीम् || ३१ || पपात प्रविवेश | सा लीला | वासनामात्ररूपत्वादुभयोर्व्योमरूपता | मिहिका नीहारपटली || ३१ || भ्रमन्तीं तत्र तामग्रे ददृशुस्ते न केचन | संकल्पमात्ररचितां पुरुषाः कामिनीमिव || ३२ || संकल्पमात्ररचितामित्युभयान्वयि || ३२ || तथा ते तां न ददृशुः संचरन्तीं पुरोगताम् | अन्यसंकल्परचितामन्येन नगरीं यथा || ३३ || प्राक्तनानेव तान्सर्वान्स्वान्ददर्श सभागतान् | भूभृतेव सुसंप्राप्तान्नगरान्नगरान्तरम् || ३४ || स्वान्स्वीयान् | भूमृता सहेति शेषः || ३४ || तद्देशांस्तत्समाचारांस्तथा तानेव बालकान् | ता एव बालवनितास्तांस्तानेव च मन्त्रिणः || ३५ || तैः स्वदेशीयैः सम आचारो येषां तन् || ३५ || तानेव भूमिपालांश्च तांस्तानेव च पण्डितान् | तानेव नर्मसचिवान्भृत्यांस्तानेव तादृशान् || ३६ || नभंसचिवान् रहस्यविचारसहायान् || ३६ || अथान्यानप्यपूर्वांश्च पण्डितान्सुहृदस्तथा | व्यवहारांस्तथान्यांश्च पौरानन्यांस्तथैव च || ३७ || वासनामये स्वाप्न इव न पूर्वसादृश्यनियम इत्याह - अथेति || ३७ || मध्याह्नकाले दिवसे घनदावाकुला दिशः | अन्तरिक्षं सचन्द्रार्कं साम्भोदपवनध्वनि || ३८ || घनैर्निबिडैर्दावैररण्यैः || ३८ || महीरुहनदीशैलपुरपत्तनमण्डितम् | नानानगरविन्यासजङ्गलग्रामसंकुलम् || ३९ || द्विरष्टवर्षं भूपालं प्राक्तन्या जरसोज्झितम् | प्राक्तनीं जनतां सर्वां समस्स्तान्ग्रामवासिनः || ४० || सा तानालोक्य ललना चिन्तापरवशाभवत् | तस्मिन्नगरवास्तव्याः किं ते सर्वे मृता [मृता अपि इति पाठः] इति || ४१ || तस्मिन्वासनानगरे आलोक्य नगरवास्तव्याः प्राक्तननगरस्थाः || ४१ || पुनः प्रज्ञप्तिबोधेन प्राक्तनान्तःपुरं गता | क्षणेन च ददर्शात्र सार्धरात्रे तथैव तान् || ४२ || प्रज्ञप्तिः सरस्वती तत्प्रसादजेन बोधेन समाधिव्युत्थानेन | तथैव पूर्ववदेव स्थितानिति शेषः || ४२ || अथ सोत्थापयामास निद्राक्रान्तं सखीजनम् | आह चातीव मे दुःखमास्थानं दीयतामिति || ४३ || आस्थानं सभायां संनिधानम् || ४३ || भर्तुः सिंहासनस्यास्य पार्श्वे तिष्ठाम्यहं यदि | पश्यामि [पश्यन्ती इति पाठः] स्वभ्यसंघातं तत्प्रजीवामि नान्यथा || ४४ || स राजपरिवारोऽथ तयेत्युक्ते [तयेत्युक्तो इति पाठः] यथाक्रमम् | आसीद्विनिद्रः संव्यग्रः [संविग्नः इति पाठः] सर्वः सर्वस्वकर्मणि || ४५ || यथाक्रमं यथोचितं सर्वस्मिन्स्वस्वोचितकर्मणि || ४५ || पौरान्सभ्यान्समानेतुं [सर्वान्सभ्यान् इति पाठः] ययुर्याष्टिकपङ्क्तयः | व्यवहारं कलयितुमुर्व्यामर्ककरा इव || ४६ || आस्थानभूमिं भृत्याश्च मार्जयामासुरादृताः | प्रावृटयोदमलिनं खं शरद्वासरा इव || ४७ || अङ्गणं प्रति दीपौघास्तस्थुः पीततमोम्भसः | आश्चर्यदर्शनायेव संप्राप्ता ऋक्षपङ्क्तयः || ४८ || ऋक्षपङ्क्तयो नक्षत्रसमूहाः || ४८ || जनताः पूरयामासुः पूरैरजिरभूमिकाः | अब्धीन्प्रलयसंशुष्कान्पुरासर्ग इवाम्भसा || ४९ || पूरैः पूरवत्प्रवृत्तैः सङ्घैः | पुरासर्गो जनसृष्टिप्राक्कालः || ४९ || आजग्मुर्मन्त्रिसामन्ताः स्वस्वं स्थानमनिन्दिताः | त्रैलोक्ये पुनरुत्पन्ने लोकपाला यथा दिशः || ५० || ववुराकीर्णकर्पूरसान्द्रावश्यायशीतलाः | उत्फुल्लकुसुमोद्वान्तमांसलामोदितानिलाः || ५१ || अवश्यायो हिमम् | धावल्यशैत्याभ्यां तत्सादृश्योपपादनायाकीर्णकर्पूरेति | कुसुमोद्वान्तर्मकरन्दैर्मासलः पुष्ट आमोदः संजातो येषाम् | तारकादित्वादितच् || ५१ || पर्यन्तेषु प्रतीहारास्तस्थुर्धवलवाससः | ऋष्यमूकार्कतापार्तमेघमाला इवाद्रिषु || ५२ || पर्यन्तेष्वास्थानप्रान्तेषु | ऋष्यमूकः सुग्रीवालयस्तत्र सुग्रीवानुग्रहायार्कस्य विशेषसंनिधानात्तत्तापार्ताः | अद्रिषु हिमवदादिषु || ५२ || प्रभापीततमःपुञ्जाः पेतुः पुष्पोत्करा भुवि | चण्डमारुतविध्वस्तास्तारकानिकरा इव || ५३ || चण्डमारुतोऽत्र प्रलयमारुतः || ५३ || प्. १७३) आस्थानं पूरयामासुर्महीपालानुयायिनः | उत्फुल्लकमलोत्कीर्णं हंसा इव सरोवरम् || ५४ || सोंहासनसमीपस्थे हैमचित्रासने नवे | उपाविशदसौ लीला लीलैव स्मरचेतसि || ५५ || स्मरस्य चेतसि लीला रतिरिव स्मरविकृते चेतसि लीला शृङ्गारचेष्टेव वा || ५५ || ददर्श तान्नृपान्सर्वान्पूर्वानेव यथास्थितान् | गुरूनार्यान्सखीन्सभ्यान्सुहृत्संबन्धिबान्धवान् || ५६ || आर्यान्मान्यान् || ५६ || सकलमेव हि पूर्ववदेव सा समवलोक्य मुदं परमां ययौ | नृपतिराष्ट्रजनं खलु जीवना- भ्युदितया च बभौ शशिवच्छ्रिया || ५७ || खलु जीवनं निश्चितं जीवनं तदभ्युदितया || ५७ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे लीलोपाख्याने संदेहराष्ट्रवर्णनं नाम सप्तदशः सर्गः || १७ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे सन्देहराष्ट्रवर्णनं नाम सप्तदशः सर्गः || १७ || अष्टादशः सर्गः १८ श्रीवसिष्ठ उवाच | इत्थं विनोदयामीदं दुःखदं चित्तमित्यलम् | बोधयित्वेङ्गितैर्भूपानास्थानादुत्थिताथ सा || १ || समाधिदृष्टसर्गस्य पूर्वसर्गस्य चाधुना | दृश्यत्वात्तुल्यमिथ्यात्वे चिन्मात्रस्थितिरुच्यते || १ || इत्थमास्थानदर्शनादिना विनोदयाम्याश्वासयामीतिङ्गितैरभिप्रायसूचकचेष्टाभिर्भूपान्बोध##- प्रविश्यान्तःपुरं भर्तुः पार्श्वेऽन्तःपुरमण्डपे | विवेश पुष्पगुप्तस्य चिन्तयामास चेतसा || २ || पुष्पैर्गुप्तस्य च्छन्नस्य भर्तुः पार्श्वे उपविश्येति शेषः || २ || अहो विचित्रा मायेयमेतेऽस्मत्पुरमानवाः | बहिरन्तरवद्देशे तत्र चेह च संस्थिताः || ३ || तत्र समाधिदृष्टेऽन्तरवत्यवकाशवति देशे इहास्मत्पुरे च || ३ || तालीतमालर्हितालमालिता गिरयोऽप्यमी | यथा तत्र तथेहापि वत मायेयमातता || ४ || तथेहापि संस्थिता इत्यनुषज्यते || ४ || आदर्शेऽन्तर्बहिश्चैव यथा शैलोऽनुभूयते | बहिरन्तश्चिदादर्शे तथा सर्गोऽनुभूयते || ५ || मायात्वमेव दृष्टान्तेन संभावयति - आदर्श इति || ५ || तत्र भ्रान्तिमयः सर्गः कः स्यात्कः पारमार्थिकः | इति पृच्छामि वागीशामभ्यर्च्योक्तमसंशयम् || ६ || तर्हि दृष्टान्तवदेवान्यतरस्यैव मिथ्यात्वं न द्वयोरपीति संभावनात्संदेहं दर्शयति - तत्रेति | वागीशामभ्यर्च्य तदग्रे स्वेनोक्तं संशयमसंशयं यथा स्यात्तथा पृच्छामि || ६ || इति निश्चित्य तां देवीं पूजयामास सा तदा | ददर्श च पुरः प्राप्तां कुमारीरूपधारिणीम् || ७ || भद्रासनगतां देवीमुपविश्य पुरोगता | परमार्थमहाशक्तिं लीलाऽपृच्छद्भुवि स्थिता || ८ || भुवि स्थिता लीला पुरोगता भूत्वोपविश्यापृच्छदित्यन्वयः || ८ || लीलोवाच | अनुकम्प्यस्य नो देवि भजन्त्युद्वेगमुत्तमाः | त्वयैवं किल सर्गादौ स्थापिता स्थितिरुत्तमा || ९ || अनुकम्प्यस्य दयोचितस्य विषये इति शेषः | स्थितिर्मर्यादा || ९ || तदिदं यत्पुरः प्रह्वा पृच्छामि परमेश्वरि | तद्ब्रूहि त्वत्कृतो नूनं सफलो मेऽस्त्वनुग्रहः || १० || तत्तस्मादिदं पृच्छामि तद्ब्रूहि || १० || अस्यादर्शो जगन्नाम्नः खादप्यधिकनिर्मलः | यस्य योजनकोटीनां कोटयोऽवयवो मनाक् || ११ || संशयबीजोद्घाटनायोपोद्घातेन समाध्यनुभूतमात्मस्वरूपं प्रथममनुवदति - अस्येत्यादित्रिभिः | मनाक् अल्पः || ११ || निःसंधितवचोज्योतिर्घनो मृदुसुशीतलः | अचेत्यचिदिति ख्यातो नाम्ना निर्भित्तिरग्रतः || १२ || निःसंधितानि संसर्गागोचराणि | अखण्डार्थानीति यावत् | वचांसि यस्मिंस्तथाविधः प्रज्ञानज्योतिर्घनः अमूर्तत्वान्मृदुरकठिनो निःशेषतापोपशमाच्छीतलो निर्भित्तिर्निरावरणो निर्भेदो वा सर्वव्यवहारेष्वग्रतः स्फुरन्निति शेषः || १२ || दिक्कालकलनाकाशप्रकाशनियतिक्रमाः | यत्रेमे प्रतिबिम्बन्ति परां परिणतिं गताः || १३ || यत्रात्मादर्शे दिक्कालौ तदन्तश्च सर्वकार्याणां कलना उत्पत्तिरुत्पन्नानामाकाशेऽवकाशप्राप्तिस्तेजोनयनादिभिः प्रकाशः प्रकाशितानां चार्थक्रियास्वनेनेदमित्थमेवोपपादितमीदृशव्यवहारोपयुक्तमिति नियतिक्रमाः परां देशकालविस्तीर्णा परिणतिं विकारवैचित्र्यं गताः प्राप्ताः प्रतिबिम्बवदन्तः स्फुरन्ति || १३ || त्रिजगत्प्रतिबिम्बश्रीर्बहिरन्तश्च संस्थिता | तत्र वै कृत्रिमा का स्यात्कासौ वा स्यादकृत्रिमा || १४ || औपोद्घातिकप्रसञ्जितं प्रस्तुतं पृच्छति - त्रिजगदिति | तत्र तयोर्मध्ये | कृत्रिमा काल्पनिकी | मिथ्येति यावत् || १४ || श्रीदेव्युवाच | अकृत्रिमत्वं सर्गस्य कीदृशं वद सुन्दरि | कीदृशं कृत्रिमत्वं स्याद्यथावत्कथयेति मे || १५ || तत्त्वदृशा जगत्यकृत्रिमत्वं नास्त्येवेत्याशयेन संशयबीजं निरसिष्यन्ती देवी पृच्छति - अकृत्रिमत्वमिति || १५ || प्. १७४) लीलोवाच | यथाहमिह तिष्ठामि त्वं च देवि स्थिताम्बिके | असावकृत्रिमः सर्ग इति देवेशि वेद्म्यहम् || १६ || विपुलत्वेन प्रमितस्य तदपर्याप्तदेशकालपरिच्छेदो मिथ्यात्वव्याप्यो गिरिप्रतिबिम्बादौ दृष्टः सच भर्तृप्रपञ्च एव दृश्यते नास्मिन्निति वैधर्म्यदर्शिनी लीलोवाच - यथेत्यादि द्वाभ्याम् वेद्मि संभावयामि || १६ || यत्राधुना स भर्ता मे स्थितः सर्गः स कृत्रिमः | अहं मन्ये यतः शून्यो देशकालाद्यपूरकः || १७ || शून्यो मिथ्याभूतो यतः स्वावस्थित्यपर्याप्तस्याल्पस्यापि देशकालव्यवहारादेरपूरकः प्रतिबिम्बस्वप्नपर्वतादिस्तथा दृष्ट इत्यर्थः || १७ || श्रीदेव्युवाच | कृत्रिमोऽकृत्रिमात्सर्गान्न कदाचन जायते | नहि कारणतः कार्यमुदेत्यसदृशं क्वच्ति || १८ || भर्तृसर्गो निर्हेतुकः सहेतुको वा | नाद्यः | अनुत्पत्तिप्रसङ्गात् | द्वितीये कृत्रिमहेतुकोऽकृत्रिमहेतुको वा | तदाऽद्येपि एतत्सर्गहेतुकोऽन्यहेतुको वा | तत्रान्यस्याप्रसिद्धेराद्यकल्पपरिशेषे कृत्रिमहेतोरस्यापि सर्गस्य कृत्रिमत्वप्रसङ्गः | भिन्नसत्तकयोर्हेतुफलभावादर्शनादिति न सर्गयोर्वैधर्म्यमित्याशयेन देव्युत्तरमाह - कृत्रिम इति || १८ || लीलोवाच | दृश्यते कारणात्कार्यं सुविलक्षणमम्बिके | अम्ब्वादातुमशक्ता मृद्घटस्तज्जस्तदास्पदम् || १९ || उक्तनियमे लीला व्यभिचारं शङ्कमानाह - दृश्यत इति | पिण्डभूता मृत् अम्बु जलमादातुमन्तर्धारयितुमशक्ता | तज्जो घटस्तु तस्याम्बुन आस्पदं धारणसमर्थो दृश्यते | तथाच समशक्तितानियमवन्न समसत्तानियमोऽपि संभवतीति भावः || १९ || श्रीदेव्युवाच | संपद्यते हि यत्कार्यं कारणैः सहकारिभिः | मुख्यकारणवैचित्र्यं किंचित्तत्रावलोक्यते || २० || उपादानवैचित्यात्सहकारिनिमित्तवैचित्र्याद्वा पिण्डघटयोर्वैचित्र्यमस्तु यत्खलु तुल्योपादाननिमित्तकं यथा दीपाद्दीपान्तरं न तत्र वैचित्र्यं दृश्यते | प्रकृतसर्गयोरपि तथात्वमेवेत्याशयेन देवी समाधत्ते - संपद्यत इति | मुख्यमसाधारणं दण्डचक्रादि || २० || वद तद्भर्तृसर्गस्य किं पृथ्व्यादिषु कारणम् | तद्भूमण्डलतो भ्हुतिर्जाता तत्र वरानने || २१ || त्वद्भर्तृसर्गस्य तु नासाधारणकारणवैचित्र्यं शक्यमुभयोर्मायाकामकर्मवासनामात्रमूलकत्वाविशेषादित्याशयेनाह - वदेति | एतत्सर्गान्तर्गतपृथ्व्यादिषु मध्ये त्वद्भर्तृसर्गस्य किं कारणं येन वैचित्र्यं स्यात् | भौतिकेष्वपि यथा एतद्भूमण्डलतो भूतिरुत्पत्तिर्जाता तथा तद्भूमण्डलतस्तत्रेति न वैषम्यमित्यर्थः || २१ || गतं [स्मृतेस्तत् इति पाठः] चेदित उड्डीय कुतः स्यादिह भूतलम् | सहकारीणि कानीव कारणान्यत्र कारणे || २२ || अत्रत्यभूम्यादेरेव तत्रत्यभूम्याद्युत्पत्तिरस्त्विति चेत्तत्राह - गतमिति | अगतेन तत्र कार्यजननायोगादिति भावः || २२ || कारणानामभावेऽपि योदेति सहकारिता | तत्पूर्वकारणान्नान्यत्सर्वेणेत्यनुभूयते || २३ || तस्मादत्रत्यसहकारिकारणानामभावेऽपि या सामग्रीलक्षणा सहकारिता उदेति कार्यान्यथानुपपत्त्या कल्प्यते सा तत्पूर्वसर्गकारणात्कामकर्मवासनाविद्यात्मकादन्यदन्या न | छान्दसी क्लीबता | तथाच न वैलक्षण्यसिद्धिरित्यर्थः || २३ || लीलोवाच | स्मृतिः सा देवि मद्भर्तुस्तथा स्फारत्वमागता | स्मृतिस्तत्कारणं वेद्मि सर्गोऽयमिति निश्चयः || २४ || सत्यैतत्सर्गानुभवजन्यसंस्कारजः प्रमुष्टसत्ताकस्मृतितुल्यः स्वप्न इव मद्भर्तुः सर्गोऽस्त्विति विधान्तरेण वैधर्म्यं लीला शङ्कते - स्मृतिरिति || २४ || श्रीदेव्युवाच | स्मृतिराकाशरूपा च यथा तज्जस्तथैव ते | भर्तुः सर्गोऽनुभूतोऽपि स व्योमैव तथाबले || २५ || तर्हि तज्जस्तस्मात्पूर्वदृष्तसर्गात्संस्कारद्वारा जातस्ते भर्तुः सर्गो यथा स्मृतिराकाशरूपा स्मृतिरिव पुरोवर्तिविषयशून्यत्वादाकाशरूपस्तथा अनुभूतः संस्कारहेत्वनुभवविषयः पूर्वसर्गोऽपि व्योमैव | यतः सोऽपि तथा तत्पूर्वसर्गसंस्कारज इत्यर्थः || २५ || लीलोवाच | स्मृत्याकाशमयः सर्गो यथा भर्तुर्ममोदितः | तथैवेममहं मन्ये स सर्गोऽत्र निदर्शनम् || २६ || उक्तमर्थं विमृश्याभ्युपगतवती लीला देव्याशयानुरूपमेवाह - स्मृतीति || २६ || श्रीदेव्युवाच | एवमेतदसत्सर्गो भर्तुस्तैर्भाति भासुरः | तथैवायमिहाभाति पश्याम्येतदहं सुते || २७ || लीलोक्तिमनुमोदमाना देव्युवाच - एवमिति | सर्वथा असन्सर्गो यस्मिन्स आत्मैव भर्तुस्तैस्तैः सर्गभावैर्भाति || २७ || लीलोवाच | यथा पत्युरमूर्तोऽस्मात्सर्गात्सर्गो भ्रमात्मकः | जातस्तथा कथय मे जगद्भ्रमनिवृत्तये || २८ || श्रीदेव्युवाच | प्राक्स्मृतेर्भ्रान्तिमात्रात्मा सर्गोऽयमुदितो यथा | स्वप्नभ्रमात्मको भाति तथेदं कथ्यते शृणु || २९ || अस्यापि सर्गस्य पूर्वसर्गगोचरसंस्कारजन्यभ्रान्तित्वमेवेत्युक्तार्थस्योपपादनाय मण्डपोपाख्यानारम्भं प्रतिजानीते - प्रागिति || २९ || प्. १७५) अस्ति क्वचिच्चिदाकाशे क्वचित्संसारमण्डपः | आकाशकाचदलवत्संस्थानाच्छादिताकृतिः || ३० || तदुपयोगितया संसारं जीर्णमण्डपत्वेन वर्णयति - अस्तीत्यादिना | क्वचिदज्ञानावृतांशे तत्रापि क्वचित्स्रष्ट्रन्तःकरणभागे | कश्चित् इति पाठे स्पष्टम् | आकाशरूपं यत्काचखण्डवन्नीलमूर्ध्वावयवसंस्थानं तेनाच्छादिताकृतिः || ३० || मेरुस्तम्भस्थलोकेशपुरन्ध्रीशालभञ्जिकः | चतुर्दशापवरकस्त्रिगर्तो भानुदीपकः || ३१ || लोकपालतत्पुरन्ध्रीलक्षणाः प्रतिमा यस्मिन् | चतुर्दशभुवनरूपा अपवरका अन्तर्गृहा यस्मिन् | त्रिभुवनान्तरालानि गर्ता यस्मिन् || ३१ || कोणस्थभूतवल्मीकव्याप्तपर्वतलोष्टकः | अनेकपुत्रजरठप्रजेशब्राह्मणास्पदम् || ३२ || भूतवम्रीणां वल्मीकप्रायनगरादिव्याप्ताः पर्वतमृत्खण्डा यस्मिन् | प्रजेशो ब्रह्मा स एव ब्राह्मणः || ३२ || जीवौघकोशकाराढ्यो व्योमोर्ध्वतलकालिमा | नभोनिवाससिद्धौघमशकाहितघुंगुमः || ३३ || कोशकाराः स्वबन्धनकोशनिर्मातृकृमिविशेषाः | घुंघुमेति द्वन्यनुकरणम् || ३३ || पयोदगृहधूमोग्रजालावलितकोणकः | वातमार्गमहावंशस्थितवैमानकीटकः || ३४ || वातमार्गौघः स एव महावंशः | मधुविद्यायां द्यौरेव तिरश्चीनवंश इत्युक्तेः || ३४ || सुरासुरादिदुर्बाललीलाकलकलाकुलः | लोकान्तरपुरग्रामभाण्डोपस्करनिर्भरः || ३५ || लोकानां भ्वादीनां आन्तराः पुरग्रामा एव मण्डपान्तर्गतभाण्डोपस्करातिशयाः || ३५ || सरःस्रोतोब्धिसरसीजलोक्षितमहीतलः | पातालभूतलस्वर्गभागभासुरकोटरः || ३६ || तत्र कस्मिंश्चिदेकस्मिन्कोणेष्वम्बरकोटरे | शैललोष्टतलेष्वेको गिरिग्रामकगर्तकः || ३७ || तत्र तस्मिन्मण्डपे | कोणलोष्टतलयोर्बहुत्वं पाशबहुत्ववदविवक्षितम् | अल्पो ग्रामो ग्रामकः स एव गर्तकः || ३७ || तस्मिन्नदीशैलवनोपगूढे साग्निः सदारः सुतवानरोगः | गोक्षीरवान् राजभयाद्विमुक्तः सर्वातिथिर्धर्मपरो द्विजोऽभूत् || ३८ || गोमत्त्वेनैव क्षीरवत्त्वलाभे पश्वन्तरसपत्तेरपि द्योतनाय क्षीरवानित्युक्तिः | सर्वेऽपि वर्णाश्रमा अतिथयः पूज्याः पोष्याश्च यस्य || ३८ || इत्यार्षे श्रीवासिष्ठमहारामायणे मोक्षोपाये उत्पत्तिप्रकरणे लीलो० जगद्भ्रान्तिप्रतिपादनं नामाष्टादशः सर्गः || १८ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे जगद्भ्रान्तिप्रतिपादनं नामाष्टादशः सर्गः || १८ || एकोनविंशः सर्गः १९ श्रीदेव्युवाच | वित्तवेषवयःकर्मविद्याविभवचेष्टितैः | वसिष्ठस्यैव सदृशो नतु वासिष्ठचेष्टितः || १ || राजदर्शनराज्येच्छादृढसंकल्पतो जनिः | पाद्मस्यास्यापि सर्गस्य प्राग्जन्मोक्त्यात्र वर्ण्यते || १ || वित्तं दैवं मानुषं च | वासिष्ठानि चेष्टितानीक्ष्वाकुवंशपौरोहित्यरामोपदेशादीनि तद्रहितः || १ || वसिष्ठ इति नाम्नासौ तस्याभूदिन्दुसुन्दरी | नाम्ना त्वरुन्धती भार्या भूमिव्योमन्यरुन्धती || २ || प्रसिद्धारुन्धतीस्वर्व्योमनि इयं तु भूमिव्योमनीति विशेषः || २ || वित्तवेषवयःकर्मविद्याविभवचेष्टितैः | समैव साप्यरुन्धत्या नतु चेतनसत्तया || ३ || चेतनो जीवस्तत्सत्तया तत्स्वरूपस्थित्या | प्रसिद्धारुन्धतीवसिष्ठयोस्तत्त्वज्ञतया जीवन्मुक्तत्वात्तयोस्तूत्तरजन्मभाविज्ञानत्वेन तदानीमज्ञतया बद्धत्वादित्यर्थः || ३ || अकृत्रिमप्रेमरसा विलासालसगामिनी | सास्य संसारसर्वस्वमासीत्कुमुदहासिनी || ४ || स विप्रस्तस्य शैलस्य सानौ सरलशाद्वले | कदाचिदुपविष्टः सन्ददर्शादो महीपतिम् || ५ || सानौ प्रस्थदेशे | सरलाः समाः शाद्वला हरिततृणभूमयो यस्मिन् || ५ || समग्रपरिवारेण यान्तमाखेटकेच्छया | महता सैन्यघोषेण मेरोरिव बिभित्सया || ६ || आखेटकं मृगया | बिभित्सया विदारणसंभावनया | आशङ्कायां सन्वक्तव्यः इति सन् || ६ || चामरैः कीर्णचन्द्रांशुपताकाभिर्लतावनम् | कुर्वाणं खं सितच्छत्रमण्डलै रूप्यकुट्टिमम् || ७ || लतावनं चामरैः पताकाभिश्च कीर्णचन्द्रांशु कुर्वाणं तथा खं सितच्छत्रमण्डलै रूप्यसौधं कुर्वाणम् | उभयत्र तत्सदृशमित्यर्थः || ७ || अश्वपादूस्वनत्क्ष्माजरेणुपूरावृताम्बरम् | हास्तिकोत्तम्भितकरवाताट्टालकगोपितम् || ८ || अश्वानां पादूभिः खुरत्राणलोहैः खनन्त्यां मृदुत्वात्खनने अनुकूलीभवन्त्यां क्ष्मायां जातै रेणुभिः पूरिताकाशम् | आरोहति हस्तीतिवत्कर्मणोऽप्यानुकूल्याचरणविवक्षया कर्तृत्वाच्छतृप्रत्ययः | तर्हि किं राजाऽपि रजोभिः कीर्णो नेत्याह - हास्तिकेति | हस्तिनां समूहो हास्तिकम् | अचित्तहस्तिधेनोष्ठक् इति ठक् | तत्पृष्ठस्थैरुत्तम्भिता निरुद्धाः कराः सूर्यरश्मयो वाताश्च यैस्तथाविधैरट्टालकैः स्वर्णरजतमुक्तामण्डपैर्गोपितं रक्षितम् || ८ || प्. १७६) महाकलकलावर्तद्रवद्दिग्भूतमण्डलम् | कचत्काञ्चनमाणिक्यहारकेयूरमण्डलम् || ९ || कलकलाः कोलाहलास्तैर्दिग्भ्रमादावर्तवत् द्रवन्ति दशदिशां मृगादिभूतमण्डलानि यस्य तम् || ९ || तमालोक्य महीपालमिदं चिन्तितवानसौ | अहो नु रम्या नृपता सर्वसौभाग्यभासिता || १० || चिन्तितवान् चिन्तापूर्वकं संकल्पितवान् || १० || पदातिरथहस्त्यश्वपताकाच्छत्रचामरैः | कदा स्यां दशदिक्कुञ्जपूरकोऽहं महीपतिः || ११ || कदा मे वायवः कुन्दमकरन्दसुगन्धयः | पास्यन्त्यन्तःपुरस्त्रीणां सुरतश्रमसीकरान् || १२ || कर्पूरेण पुरन्ध्रीणां पूर्णेन यशसा दिशाम् | इन्दूदयावदातानि कदा कुर्यां मुखान्यहम् || १३ || सुचरित्राचरणशिक्षणैः पुरं धारयन्तीति पुरन्ध्रयस्तासां दिशां च मुखानि कर्पूरमिश्रचन्दनेन यशसा च क्रमादिन्दूदयेनेवावदातानि सप्रकाशानि कदा कुर्याम् || १३ || इत्थं ततःप्रभृत्येष विप्रः संकल्पवानभूत् | स्वधर्मनिरतो नित्यं यावज्जीवमतन्द्रितः || १४ || एवमिच्छामुपवर्ण्येष्टविषये संकल्पमाह - इत्थमिति || १४ || हिमाशनिरिवाम्भोजं जर्जरीकर्तुमादृता | जले जर्जरितेवाथ जरा द्विजमुपाययौ || १५ || हिमात्मिका अशनिर्वज्रमम्भोजमिव सरोजले जर्जरः सेतुशैथिल्यं तद्वत्तेव चेत्यर्थः || १५ || आसन्नमरणस्याथ भार्या म्लानिमुपाययौ | तस्य शाम्यति पुष्पर्तौ लतेव ग्रीष्मभीतितः || १६ || पुष्पर्तौ वसन्ते || १६ || मामथाराधितवती सा ततस्त्वमिवाङ्गना | अमरत्वं सुदुष्प्रापं बुद्ध्वेमं सावृणोद्वरम् || १७ || देवि स्वमण्डपादेव जीवो भर्तुर्मृतस्य मे | मायासीदित्यतस्तस्याः स एवाङ्गीकृतो मया || १८ || स्वमण्डपाद्बहिरिति शेषः | मायासीदेवेत्यन्वयः | अतः प्रार्थनात्स प्रार्थितोऽर्थोङ्गीकृतो दत्त इति यावत् || १८ || अथ कालवशाद्विप्रः स पञ्चत्वमुपाययौ | तस्मिन्नेव गृहाकाशे जीवाकाशतया स्थितः || १९ || पञ्चत्वं मरणम् | अन्तःकरणवासनावच्छिन्नं ब्रह्म जीवाकाशस्तद्भावेन स्थितः || १९ || संपन्नः प्राक्तनानल्पसंकल्पवशतः स्वयम् | आकाशवपुरेवैष पतिः परमशक्तिमान् || २० || नृपः संपन्न इत्युत्तरत्रान्वयः | परमशक्तिमान् दैवमानुषशक्तिविशिष्टः || २० || प्रभावजितभूपीठः प्रतापाक्रान्तविष्टपः | कृपापालितपातालस्त्रिलोकविजयी नृपः || २१ || ते एव शक्ती प्रभावप्रतापशब्दाभ्यां विभज्योक्तेः | विष्टपोऽत्र त्रिविष्टपं भूपातालयोः पृथग्ग्रहणात् || २१ || कल्पाग्निररिवृक्षाणां स्त्रीणां मकरकेतनः | मेरुर्विषयवायूनां साध्वब्जानां दिवाकरः || २२ || दावाग्नौ पुनः प्ररोहसंभावनापि स्यान्नतु कल्पाग्नौ | विषया एव वायवश्चापलहेतुत्वात्तेषां मेरुरिवाप्रकम्प्यो विष्टम्भकश्च || २२ || आदर्शः सर्वशास्त्राणामर्थिनां कल्पपादपः | पादपीठं द्विजाग्र्याणां राकाधर्मामृतत्विषः || २३ || धर्मलक्षणस्यामृतत्विषश्चन्द्रस्य राका पौर्णिमा || २३ || स्वगृहाभ्यन्तराकाशे चित्ताकाशमयात्मनि | तस्मिन्द्विजे शवीभूते भूताकाशशरीरिणि || २४ || चित्तसंस्कारावच्छिन्नब्रह्माकाशप्रचुरात्मनि | अत एव आकाशशरीरिणि | शवीभूते मृते सति || २४ || सा तस्य ब्राह्मणी भार्या शोकेनात्यन्तकर्शिता | शुष्केव माषशिम्बीका हृदयेन द्विधाभवत् || २५ || भर्त्रा सह शवीभूता देहमुत्सृज्य दूरतः | आतिवाहिकदेहेन भर्तारं समुपाययौ || २६ || परलोकातिवहनयोग्येन मानसेन देहेन || २६ || नदीनिखातमिव तं भर्तारमनुसृत्य सा | आजगाम विशोकत्वं सा वासन्तीव मञ्जरी || २७ || निखातं निम्नदेशम् | सा प्रसिद्धा | वासन्ती वसन्तकालप्ररूढा || २७ || तत्रास्य विप्रस्य गृहाणि सन्ति भूस्थावरादीनि धनानि सन्ति | अद्याष्टमं वासरमाप्तमृत्यो- र्जीवो गिरिग्रामककन्दरस्थः || २८ || तत्र गिरिग्रामे | वासरं वर्तत इति शेषः | कंदरशब्देन गृहमण्डपो गौण्युओच्यते || २८ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे लीलो० ब्राह्मणमरणं नामैकोनविंशः सर्गः || १९ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे ब्राह्मणमरणं नामैकोनविंशः सर्गः || १९ || विंशः सर्गः २० श्रीदेव्युवाच | स ते भर्ताद्य संपन्नो द्विजो भूपत्वमागतः | या सावरुन्धती नाम ब्राह्मणी सा त्वमङ्गने || १ || श्रुते प्राग्जन्मचरितेऽप्यसंभावनकातरा | लीलात्र बोध्यते देव्या दृष्टान्तैश्चोपपत्तिभिः || १ || स द्विजोऽद्य भूपत्वमागतः संस्ते भर्ता संपन्नः || १ || इहेमौ कुरुतो राज्यं तौ भवन्तौ सुदम्पती | चक्रवाकाविव नवौ भुवि जातौ शिवाविव || २ || शिवश्च शिवा च शिवौ || २ || प्. १७७) एष ते कथितः सर्वः प्राक्तनः संसृतिक्रमः | भ्रान्तिमात्रकमाकाशमेवं जीवस्वरूपधृक् || ३ || उक्तां कथामुपसंहरन्ती सर्गद्वयवत्प्राक्तनोऽपि सर्गो भ्रम एवेत्याह - एष इति | तत्र ब्रह्माकाशस्य जीवभावभ्रम एव मूलमित्याह - भ्रान्तीति || ३ || भ्रमादस्माच्चिदाकाशे भ्रमोऽयं प्रतिबिम्बितः | असत्य एव वा सत्यो भवतोर्भवभङ्गदः || ४ || उत्तरोत्तरभ्रमे पूर्वपूर्वभ्रमो हेतुरिति दर्शयति - भ्रमादिति | स्वदृष्ट्या असत्य एव अधिष्ठानदृष्ट्या सत्यो वा || ४ || तस्माद्भ्रान्तिमयः कः स्यात्को वा भ्रान्त्युज्झितो भवेत् | सर्गो निरर्गलानर्थबोधान्नान्यो विजृम्भते || ५ || एवं च मिथ्यानर्थबोधत्वेन सर्वसर्गाणां तुल्यतैवेत्याह - तस्मादिति || ५ || श्रीवसिष्ठ उवाच | इत्याकर्ण्य चिरं चारु विस्मयोत्फुल्ललोचना | भूत्वोवाच वचो लीला लीलालसपदाक्षरम् || ६ || असंभावनया चिरं विस्मयोत्फुल्ललोचना भूत्वा || ६ || लीलोवाच | देवि भोस्त्वद्वचो मिथ्या कथं संपन्नमीदृशम् | क्व विप्रजीवः स्वगृहे क्वेमे वयमिह स्थिताः || ७ || मिथ्या अनृतमथवा त्वद्वचस्त्वमिथ्या ईदृशं विरुद्धमिदं कथं संपन्नमित्यर्थः | इहासिन्विपुले देशे || ७ || तादृग्लोकान्तरं सा भूस्ते शैलास्ता दिशो दश | कथं भान्ति गृहस्यान्तर्मद्भर्ता येष्ववस्थितः || ८ || समाधिदृष्टभर्तृसर्गोऽपि स्वगृहे असंभावित इत्याह - तादृगिति || ८ || मत्त ऐरावतो बद्धः सर्षपस्येव कोटरे | मशकेन कृतं युद्धं सिंहौघैरणुकोटरे || ९ || असंभावनापुष्टये देव्युक्तार्थे दृष्टान्तैरसमञ्जसतामुपपादयति - मत्त इत्यादित्रिभिः || ९ || पद्माक्षे स्थापितो मेरुर्निर्गिर्णो भृङ्गसूनुना | स्वप्नाब्दगर्जितं श्रुत्वा चित्रं नृत्यन्ति बर्हिणः || १० || असमंजसमेवैतद्यथा सर्वेश्वरेश्वरि | तथा गृहान्तः पृथ्वी शैलाश्चेत्यसमञ्जसम् || ११ || यथावदेतद्देवेशि कथयामलया धिया | प्रसादानुगृहीते हि नोद्विजन्ते महौजसः || १२ || यथावत् यथैतदुपपद्यते तथेत्यर्थः || १२ || श्रीदेव्युवाच | नाहं मिथ्या वदामीदं यथावच्छृणु सुन्दरि | भेदनं नियतीनां हि क्रियते नास्मदादिभिः || १३ || असामञ्जस्योपपादनसंभावितमनृतवदनं परिहरन्ती देव्याह - नाहमिति द्वाभ्याम् | नियतीनां नानृतं वदेत् इत्यादिश्रौतनियमानाम् || १३ || विभिद्यमानामन्येन स्थापयाम्यहमेव याम् | मर्यादां तां मया भिन्नां कोऽपरः पालयिष्यति || १४ || सग्रामद्विजजीवात्मा तस्मिन्नेव स्वसद्मनि | व्योम्न्येवेदं महाराष्ट्रं व्योमात्मैव प्रपश्यति || १५ || राजवासनोपहितचिद्व्योमात्मैव || १५ || प्राक्तनी सा स्मृतिर्लुप्ता [स्मृतिर्नष्टा इति पाठः] युवयोरुदितान्यथा | स्वप्ने जाग्रत्स्मृतिर्यद्वदेतन्मरणमङ्गने || १६ || तावेवावां चेत्कुतो न प्रत्यभिजानीवो मरणस्य वा किं रूपं तत्राह - प्राक्तनीति || १६ || यथा स्वप्ने त्रिभुवनं संकल्पे त्रिजगद्यथा | यथा कथार्यसंग्रामो मरुभूमौ जलं यथा || १७ || तस्य ब्राह्मणगेहस्य सशैलवनपत्तना | इयमन्तः स्थिताः भूमिः संकल्पादर्शयोरिव || १८ || अस्त्यैवेयमाभाति सत्येव घनसर्गता | तस्मात्सत्यावभासस्य चिद्व्योम्नः कोशकोटरे || १९ || असत्यस्यापि सत्यवद्भाने निमित्तमाह - तस्मादिति | पञ्चकोशान्तर्गतसत्यचिद्व्योम्नो निमितादित्यर्थः || १९ || असत्याद्यत्समुत्पन्नं स्मृत्या नाम तदप्यसत् | मृततृष्नातरङ्गिण्यां तरङ्गोऽपि न सद्यतः || २० || प्राक्सर्गस्यासत्यत्वेऽस्य सर्गस्य किं तत्राह - असत्यादिति || २० || इदं त्वदीयं सदनं तद्गेहाकाशकोशगम् | विद्धि मां त्वां च सर्वं च तच्चिद्व्योमैव केवलम् || २१ || स्वप्नसंभ्रमसंकल्पस्वानुभूतिपरम्पराः | प्रमाणान्यत्र मुख्यानि संबोधाय प्रदीपवत् || २२ || सर्वप्रपञ्चमिथ्यात्वे चिन्मात्रपरिशेषे चानुभवसिद्धदृष्टान्तमुखेनानुमानप्रमाणान्याह - स्वप्नेति || २२ || स्थितो ब्राह्मणगेहान्तर्द्विजजीवस्तदम्बरे | ससमुद्रवना पृथ्वी स्थिताब्ज इव षट्पदः || २३ || अनेन सर्गेण न केवलं गेहाकाश एव न पूर्यते किंतु तदेकदेशस्थजीवाकाशैकदेशोऽपि | अतो मिथ्यात्वमित्याह - स्थित इति द्वाभ्याम् || २३ || तस्याः कस्मिंश्चिदेकस्मिन्पेलवे कोणकोटरे | इदं पत्तनदेहादि केशोण्ड्रक इवाम्बरे || २४ || निर्मले नभसि कुण्डलितकेशाकारभ्रमः केशोण्ड्रकः || २४ || तस्मिन्नस्मिन्पुरे तन्वि तदेव सदनं स्थितम् | तस्मात्किं त्रसरेण्वन्तर्जगद्वृन्दमिव स्थितम् || २५ || एवंच विप्रसदनस्य विपुरलसर्गान्तःप्ररोहेणाश्वतरीकुक्षेर्गर्भेणेव न विनाशशङ्कापीत्याह - तस्मिन्निति | एवकारो भिन्नक्रमः | तस्मिन्सदनेऽस्मिन्सर्गे पुरे चान्तर्निरूढेऽपीति शेषः | तद्विप्रसदनं स्थितमेव न विदीर्णमित्यर्थः | एवं च तस्माद्विप्रसदनादुदाहृतात्किमाश्चर्यं यतस्त्रसरेण्वन्तरेऽपि जगद्वृन्दं स्थितम् | इवकारो मिथ्यात्वेनासामञ्जस्यपरिहारद्योतनार्थः || २५ || परमाणौ परमाणौ सन्ति वत्से चिदात्मनि | अन्तरन्तर्जगन्तीति किंत्वेतन्नाम शङ्क्यते || २६ || आकाशादिजगत्सर्गेण [सर्गे न इति पाठः] ण्ववच्छिन्नचिदात्मन्यपि तत्संभवे निरालम्बैवासंभवाशङ्केत्याह - परमाणाविति || २६ || प्. १७८) लीलोवाच | अष्टमे दिवसे विप्रः स मृतः परमेश्वरि | गतो वर्षगणोऽस्माकं मातः कथमिदं भवेत् || २७ || श्रीदेव्युवाच | देशदैर्घ्यं यथा नास्ति कालदैर्घ्यं तथाङ्गने | नास्त्येवेति यथान्यायं कथ्यमानं मया शृणु || २८ || यथैतत्प्रतिभामात्रं जगत्सर्गावभासनम् | तथैतत्प्रतिभामात्रं क्षणकल्पावभासनम् || २९ || क्षणकल्पं जगत्सर्वं त्वत्तामत्तात्मजन्मनाम् | यथावत्प्रतिभासस्य वक्ष्ये क्रममिमं शृणु || ३० || प्रतिभामात्रत्वं कुतस्तत्राह - क्षणेति | यतः क्षणकल्पादि सर्वं जगत्त्वत्तामत्ताध्यासाधीनात्मजन्मभ्रमवतामेव प्रतिभासते इति शेषः | तत्प्रतिभासक्रमं वक्तुं प्रतिजानीते - यथावदिति || ३० || अनुभूय क्षणं जीवो मिथ्यामरणमूर्च्छनम् | विस्मृत्य प्राक्तनं भावमन्यं पश्यति सुव्रते || ३१ || तदेवोन्मेषमात्रेण व्योम्न्येव व्योमरूप्यपि | आधेयोऽयमिहाधारे स्थितोऽहमिति चेतति [चेतसि इति सर्वत्र पाठः] || ३२ || व्योमेवाधारदेहादिशून्योऽपि चेतति [चेतसि इति सर्वत्र पाठः] स्मरति | संस्कार उद्भवतीति यावत् || ३२ || हस्तपादादिमान्देहो ममायमिति पश्यति | यदेव चेतति [चेतसि इति सर्वत्र पाठः] वपुस्तदेवेदं स पश्यति || ३३ || एतस्याहं पितुः पुत्रो वर्षाण्येतानि सन्ति मे | इमे मे बान्धवा रम्या ममेदं रम्यमास्पदम् || ३४ || आस्पदं गृहम् || ३४ || जातोऽहमभवं बालो वृद्धिं यातोऽहमीदृशः | बान्धवाश्चास्य मे सर्वे तथैव विचरन्त्यमी || ३५ || चित्ताकाशघनैकत्वात्स्वेऽप्यन्येऽपि भवन्ति ते | एवं नामोदितेऽप्यस्य चित्ते संसारखण्डके || ३६ || ननु बान्धवानां देहसंबन्धित्वेन कल्पनात्तदीयत्वेऽपि कथं स्वीयत्वं तत्राह - चित्तेति | देहभावापन्नचित्तस्यात्माकाशस्य च दृढतरैक्याध्यासात्ते वस्तुतोऽन्येऽपि स्वे स्वीया अपि भवन्तीत्यर्थः | एवं नामैवं सति देहभावापन्ने || ३६ || न किंचिदप्यभ्युदितं स्थितं व्योमैव निर्मलम् | स्वप्ने द्रष्टरि यद्वच्चित्तद्वद्दृश्ये चिदेव सा || ३७ || सर्वगैकतया यस्मात्सा स्वप्ने दृष्टदर्शना | यथा स्वप्ने तथोदेति परलोकदृगादिभिः || ३८ || स्वप्ने सर्वत्र सर्वेषु द्रष्टृदृश्यभावेन कल्पितभेदेष्वदर्शनानुगता चित्तदुभयबाधे एकतया दृष्टदर्शना भूयो दृष्टा यस्मात्तस्मान्न किंचिदप्यभ्युदितमिति पूर्वत्रान्वयः || ३८ || परलोके यथोदेति तथैवेहाभ्युदेति सा | तत्स्वप्नपरलोकेहलोकानामसतां सताम् || ३९ || असतामेव भ्रान्त्या सताम् || ३९ || न मनागपि भेदोऽस्ति वीचीनामिव वारिणि | अतो जातमिदं विश्वमजातत्वादनाशि च || ४० || स्वरूपत्वात्तु नास्त्येव यच्च भाति चिदेव सा | यथैव [तथैव इति पाठः] चेत्यनिर्हीणा परमव्योमरूपिणी || ४१ || स्वं आत्मैव पारमार्थिकं रूपं यस्य तत्त्वाज्जगद्रूपेण नास्त्येव | किं तर्हि प्रत्यक्षादिप्रमाणैर्भाति तत्राह - यच्चेति | अधिष्ठानचैतन्यमेव सर्वप्रमाणैर्भाति तस्यैवाज्ञातत्वेन अबाध्यत्वेन च प्रमाणयोग्यत्वान्नतु जडं तत्रावरणकृत्याभावेन प्रमाणप्रवृत्तिफलाभावादिति भावः || ४१ || सचेत्यापि तथैवैषा परमव्योमरूपिणी | तस्माच्चेत्यमतो नान्यद्वीचित्वादीव वारितः || ४२ || सचेत्येति | आरोपितचेत्येनाधिष्ठानादूषणादिति भावः | अतोऽस्याश्चितः || ४२ || वीचित्वं च रसे नास्ति शशशृङ्गवदेव हि | सैव चेत्यमिवापन्ना स्वभावादच्युताप्यलम् [स्वभावादत्त्युताप्यलम् इति पाठः] || ४३ || रसतन्मात्रमेव हि जलस्य तत्त्वं नच तत्र वीचित्वम् | रसनयानुपलम्भात् | यत्तु चक्षुषा तथा ग्रहणं तद्भूतान्तरसंसर्गोपाधिकमिति भावः || ४३ || तस्मान्नास्त्येव दृश्योऽर्थः कुतोऽतो द्रष्टृदृश्यधीः | निमिषेणैव जीवस्य मृतिमोहादनन्तरम् || ४४ || त्रिजगद्दृश्यसर्गश्रीः प्रतिभामुपगच्छति | यथादेशं यथाकालं यथारम्भं यथाक्रमम् || ४५ || वासनानां प्रतिनियतदेशकालादिविषयत्वात्तत्प्रयुक्तप्रतिभापि तथैवेत्याह ##- यथोत्पादं यथामातृ यथापितृ यथौरसम् | यथावयो यथासंविद्यथास्थानं यथेहितम् || ४६ || यथाबन्धु यथाभृत्यं यथेहास्तमयोदयम् | अजात एव जातोऽहमिति चेतति [चेतसि इति सर्वत्र पाठः] चिद्वपुः || ४७ || देशकालक्रियाद्रव्यमनोबुद्धीन्द्रियादि च | झटित्येव मृतेरन्ते वपुः पश्यति यौवने || ४८ || राक्षसयोनौ शंभोर्वरात् मातृसमानवयःप्राप्त्या प्रथमं यौवने प्राप्तेऽपि कल्पितबाल्यादिस्मृतिमयः क्रमः पश्चादुदेतीति परेण संबन्धः || ४८ || एषा माता पिता ह्येष बालोऽभूवमहं त्विति | नानुभूतोऽनुभूतो वा यः स्यात्स्मृतिमयः क्रमः || ४९ || पश्चादुदेत्यसौ तस्य पुष्पस्येव फलोदयः | निमिषेणैव मे कल्पो गत इत्यनुभूयते || ५० || रात्रिर्द्वादशवर्षाणि हरिश्चन्द्रे तथा ह्यभूत् | कान्ताविरहिणामेकं वासरं वत्सरायते || ५१ || प्रसिद्धं चेदं मार्कण्डेयादिपुराणेषु | लोके चेत्याह - रात्रिरिति || ५१ || मृतो जातोऽहमन्यो मे पितेति स्वप्नतास्विव | अभुक्तस्यैव भोगस्य भुक्तधीरुपजायते || ५२ || प्. १७९) भुक्तेऽप्यभुक्तधीर्दृष्टमित्यलङ्कितवादिषु | शून्यमाकीर्णतामेति तुल्यं व्यसनमुत्सवैः | विप्रलम्भोऽपि लाभश्च मदस्वप्नादिसंविदि || ५३ || लकि लक्षणे | अलङ्कितं प्रमाणैरलक्षितं वदन्ति तच्छीलेष्वलङ्कितवादिषु मुग्धजनेषु इति एतत्पूर्वोक्तं सर्वं दृष्टम् | अविद्यया न केवलमसद्भानं किंतु सद्विरुद्धभानमपि प्रसिद्धमित्याह - शून्यमिति | आकीर्णतां जनसमाजव्याप्तताम् || ५३ || तैक्ष्ण्यं यथा मरिचबीजकणे स्थितं स्वं स्तम्भेषु चारचितपुत्रकजालमन्तः | दृश्यं त्वनन्यदिदमेवमजेऽस्ति शान्तं तस्यास्तिबन्धनविमोक्षदृशः कुतः काः || ५४ || मरिचबीजकणे तैक्ष्ण्यं स्तम्भेषु अरचितप्रतिमाजालं च यथा स्थितमेवंयस्मिन्नजे इदं दृश्यमनन्यत्सत्तयैवास्ति | तस्यात्मनः अस्तिबन्धनविमोक्षदृशः | अस्तीति तिङन्तप्रतिरूपकमव्ययम् | सत्यबन्धमोक्षदृष्टय इत्यर्थः | कुतो निमित्तात्काः किंरूपाः स्युः | सर्वथाप्यसंभाविता इत्यर्थः || ५४ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे लीलोपाख्याने परमार्थवर्णनं नाम विंशः सर्गः || २० || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे परमार्थवर्णनं नाम विंशः सर्गः || २० || एकविंशः सर्गः २१ श्रीदेव्युवाच | प्रतिभान्ति जगन्त्याशु मृतिमोहादनन्तरम् | जीवस्योन्मीलनादक्ष्णो रूपाणीवाखिलान्यलम् || १ || स्थूलं विचारतः सूक्ष्मं तदविद्याविचारतः | सापि चिन्मात्रमेवेति देव्या लीलात्र बोध्यते || १ || उक्तमेवार्थ विशेषं वक्तुं पुनः प्रपञ्चयन्त्याह - प्रतिभान्तीति || १ || दिक्कालकलनाकाशधर्मकर्ममयानि च | परिस्फुरन्त्यनन्तानि कल्पान्तस्थैर्यवन्ति च || २ || धर्ममयानि स्वर्गादीनि | कर्ममयानि गृहादीनि | कल्पान्तपर्यन्तं स्थैर्यवन्ति पृथ्व्यादीनि || २ || नानुभूतं न यद्दृष्टं तन्मया कृतमित्यपि | तत्क्षणात्स्मृतितामेति स्वप्ने स्वमरणं यथा || ३ || मायिकस्मृत्यनुभवाभासयोः प्रसिद्धस्मृत्यनुभववैधर्म्यमाह ##- भ्रान्तिरेवमनन्तेयं चिद्व्योमव्योम्नि भासुरा | अपकुड्या जगन्नाम्नी नगरी कल्पनात्मिका || ४ || चिद्व्योम्नो व्योम्नि मायाकाशे || ४ || इदं जगदयं सर्गः स्मृतिरेवेति जृम्भते | दूरकल्पक्षणाभ्यासविपर्यासैकरूपिणी || ५ || षड्विधविकारेष्वाद्यत्रयप्राधान्येन सर्गः | अन्त्यत्रयप्राधान्येन जगत् | स्मृतिरिति तद्धेतुर्वासनोच्यते | सा हि संनिहिते सांप्रतिकेऽपि दूरकल्पश्चेति देशकालविप्रकर्षात्मना शाश्वते निष्क्रिये च क्षणतदभ्यासात्मकघटिकामुहूर्तदिनपक्षाद्यात्मना च यो विपर्यासो भ्रमस्तदेकरूपिणी || ५ || नानुभूतानुभूता च ज्ञप्तिरित्थं द्विरूपिणी | पूर्वकारणरिक्तैव चिद्रूपैव प्रवर्तते || ६ || उक्तमुपसंहरति - नानुभूतेति || ६ || नानुभूतेऽनुभूतत्वसंविदन्तरुदेत्यपि | स्वप्नभ्रमादावन्त्यस्मिन्पितरीव पितुः स्मृतिः || ७ || नन्वननुभूते अनुभूतत्वभ्रमः क्व दृष्टस्तत्राह - नानुभूत इति || ७ || कदाचित्स्मृतितां त्यक्त्वा प्रतिभामात्रमेव सत् | भाति प्रथमसर्गेषु रूपेण तदनुक्रमात् || ८ || नन्वनादौ संसारे सर्वमेवानुभूतमिति स्मृतिरैक्यं प्रमुष्टतत्ताकास्तु न भ्रान्तिस्तत्राह - कदाचिदिति | प्रतिभाऽनुभवः | प्रजापतेः प्रहमसर्गेष्वित्यर्थः | रूपेण स्मृतिरूपेण || ८ || दृश्यं त्रिभुवनादीदमनुभूतं स्मृतौ स्थितम् | केषांचित्तन्वि केषांचिन्नानुभूतं स्मृतौ स्थितम् || ९ || तथाच अनुभूतमेव प्रतिभासत इति न नियम इत्याह - दृश्यमिति || ९ || प्रतिभासत एवेदं केषांचित्स्मरणं विना | चिदणूनां प्रजेशत्वं काकतालीयवद्यतः || १० || प्रजेशत्वं प्राङ्नानुभूतमेव | सह सिद्धं चतुष्टयमिति स्मृत्या तत्र ज्ञानोदयावश्यंभावे पुनर्जन्मायोगादिति भावः || १० || अत्यन्तविस्मृतं विश्वं मोक्ष इत्यभिधीयते | ईप्सितानीप्सिते तत्र न स्तःकाचन कस्यचित् || ११ || यतो वासनापुञ्जात्मकचित्तमयः संसारस्ततस्तदुच्छेदादात्यन्तिकनिर्वासनात्मिका विस्मृतिरेव मोक्षः फलित इत्याह - अत्यन्तेति | ईप्सितानीप्सिते प्रियाप्रिये | अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः इति श्रुतेः | कुतो न स्तस्तत्राह - काचनेति | या मोक्षे काचन चित्परिशिष्यते सा कस्य विषयस्य भोक्तुर्वा यत्प्रयुक्ते प्रियाप्रिये स्यातामित्यर्थः || तथाच श्रुतिः यत्र त्वस्य सर्वमात्मैवाभूत् तत्केन कं पश्येत् इत्याद्या | केचन इति पाठे तु स्पष्टम् || ११ || अत्यन्ताभावसंपत्तिं विनाहन्ताजगत्स्थितेः | अनुत्पादमयी ह्येषा नोदेत्येव विमुक्तता || १२ || अहन्ताजगतोः स्थितिः प्रतिष्ठा अविद्या तस्या अत्यन्ताभावसंपतीर्बाधः || १२ || रज्ज्वां सर्पभ्रमः सर्पशब्दार्थासंभवं स्थितम् | अनुत्पादमयं त्यक्त्वा शान्तोऽपि हि न शाम्यति || १३ || सर्पशब्दार्थयोरसंभवमभावं रज्ज्वात्मना स्थितं त्यक्त्वा उपेक्ष्य | अबुद्ध्वेति यावत् || १३ || प्. १८०) अर्धशान्तो न शान्तोऽसौ समेत्यर्थतया पुनः | उदेत्येकपिशाचान्ते पिशाचोऽन्यो ह्यधीमतः || १४ || ननु योगेन मनोवृत्तिप्रशमादेव स शाम्यतु किं ज्ञानेन तत्राह - अर्धेति | तेन विक्षेपांशशान्त्या अर्धशान्तोऽप्यसौ न शान्तः यतो व्युत्थाने पुनर्विक्षेपार्थतया उदेति | अधीर्मूढता तद्वतः || १४ || संसारश्चायमाभोगी परमेवेति निश्चयः | कारणाभावतो भाति यदिहाभातमेव तत् || १५ || तथाच ज्ञानेनैव निस्तार इत्याह - संसार इति | कारणाभावतः अविद्याबाधाद्यद्यदि भाति तत्तर्हि आभातमेव न पुनरावरणादिशङ्कास्तीत्यर्थः || १५ || लीलोवाच | ब्राह्मणब्राह्मणीरूपे सर्गे कारणसंस्मृतिः | कथमभ्युत्थिता सास्य स्मरणीयमिदं विना || १६ || यत्प्रागुक्तमस्य सर्गस्य ब्राह्मणब्रह्मणीसर्गाभ्यस्तवासनाकार्यत्वं तत्रानुपपत्तिं लीला शङ्कते - ब्राह्मणेति | एतत्सर्गे कारणभूता संस्मृतिरत्र सर्वत्र संस्कारः | स्मरणीयं स्मरणयोग्यं प्रागनुभूतमिति यावत् | इदं एतत्कालदृश्यं विना | इदानींतनस्य प्रागसत्त्वेन तदनुभवाभावान्न संस्कारलक्षणवासना तदानीं संभवतीत्यर्थः || १६ || श्रीदेव्युवाच | पितामहस्मृतिस्तत्र कारणं तस्य न स्मृतिः | पूर्वं न संभवत्येव मुक्तत्वात्पूर्वजन्मनः [पद्मजन्मन इति पाठः] || १७ || न संस्कार एव वासना | द्वितीयाया अपि वक्ष्यामाणत्वात् | यदि तु संस्कारमपि तत्रावश्यकं मन्यसे तर्हि पितामहस्य सर्वज्ञतया भाव्यर्थेऽप्यनुभवसंभवात्तदीयसंस्कार एव तत्र कारणम् | तद्देहादिसर्गे तु तस्यापि संस्कारो न हेतुः | नच पूर्वपितामहसंस्कारो हेतुः तस्य पूर्वकल्पान्ते मुक्तत्वादित्यर्थः || १७ || पूर्वं न संभवत्येव स्मरणीयमिति स्वयम् | पद्मजादित्वमायाति चैतन्यस्य तथास्थितेः || १८ || स्मरणीयाभावप्रयुक्तोऽपि स्मृत्यसंभवस्तत्रास्तीत्याह - पूर्वमिति | तस्मात्पूर्वपद्मजदेहादिवासनाच्चितमायोपहितचैतन्यस्य तथास्थितेस्तदेव स्वयं इति एवंविधेन अपूर्वपद्मजात्मना विवर्तत इत्यर्थः || १८ || अभूवमहमित्यन्यः प्रजानाथः प्रजापतेः | काकतालीयवत्कश्चिद्भवति प्रतिभामयः || १९ || पूर्वपद्मजवासनाञ्चिताविद्यायास्तदीयतत्त्वज्ञानेन बाधालोचने त्वाह - अभूवमिति || १९ || एवमभ्युदिते लोके न किंचिन्न कदाचन | क्वचिदभ्युदितं नाम केवलं चिन्नभः स्थितम् || २० || प्रतिभामयत्वादेव हि तस्य तत्सर्गस्य च बाध उपपन्न इत्याशयेनाह - एवमिति || २० || द्विविधायाः स्मृतेरस्याः कारणं परमं पदम् | कार्यकारणभावोऽसावेक एव चिदम्बरे || २१ || द्विविधायाः पूर्वानुभवजन्यसंस्कारजाया अनाद्यविद्याशक्तिरूपवासनान्तरजायाश्च हैरण्यगर्भ्या अन्यदीयायाश्च वा | परमं पदमत्र मायाशबलं ब्रह्म | शुद्धे तु न कार्यकारणभावादिभेदगन्धोऽप्यस्तीत्याह - कार्येति || २१ || कार्यं च कारणं चैव कारणैः सहकारिभिः | कार्यकारणयोरैक्यात्तदभावान्न शाम्यति || २२ || अविमर्शात्मकमायाकृतः कार्यकारणविकल्पो विमर्शे बाध्यत इति दर्शयितुं विमृशति - कार्यमिति | पटः कार्यं तन्तवः कारणमिति तुरीवेमादिसहकारिभिः कारणैः स्यात्तत्रोपकारमकुर्वाणानां सहकारित्वायोगादुपकाररूपमपि कार्यं तथाविधैरेव वाच्यमित्यनवस्थापत्तेस्तस्योपकारस्याभावात्कार्यकारणभावभाधे तत्कल्पनाधिष्ठानतन्ताद्यैक्यं न शाम्यति भेदकारणाभावादित्यर्थः || २२ || महाचिद्रूपमेव त्वं स्मरणं विद्धि वेदनम् | कार्यकारणता तेन स शब्दो न च वास्तवः || २३ || नन्वस्तु युक्त्यैवं अनुभवारूढं त्विदं कथं स्यादिति तदर्थं प्रत्यग्दृष्टिं व्युत्पादयति - महाचिद्रूपमिति | स्मर्यते येन तत्स्मरणं चित्संवलितं व्यष्टिसमष्ट्यन्तःकरणं तदेव वेदनं तद्धि मायाशबलस्येश्वरस्य कार्यम् | तत्र मायोपाधेरन्तःकरणाकारोपाधेश्च भेदे परामृश्यमाने तदुपहिताधिष्ठानसन्मात्रेऽपि भेदकल्पनात्कार्यसत्ता कारणसताधीनजन्मेति भ्रान्त्या पूर्वावस्थं सत्कारणं उत्तरावस्थं सत्कार्यमिति वेत्सि तन्न तथा विद्याः किंतु मायातत्कार्याकारावुपेक्ष्य तदुभयानुगतसन्मात्रात्मकमहाचिद्रूपमेव स्मरणं विद्धि | तेन यथोक्तलक्षणेन प्रत्यग्दर्शनेन बाधिता कार्यकारणता स कार्यकारणशब्द एव परिशेक्ष्यते सोऽप्यनया दृशा दृष्टो न वास्तव इति | इयं प्रत्यग्दृष्टिः स्फुटतरमुपपादितास्माभिः स्वाराज्यसिद्धौ - पिण्डावस्था घटत्वे मनसि कलयतो हेतुकार्यत्वधीः स्यान्मृन्मात्रं यद्वदेकं स्फुटमभिमृशतो नैव हेतुर्न कार्यम् | तद्वन्मायिप्रपञ्चौ झटिति कलयतो ब्रह्म विश्वस्य हेतुः सन्मात्रं त्वेकरूपं पटु परिमृशतो नैव मायी न विश्वम् || इति वार्तिके चोक्तम् - तस्मात्संभावनामात्रः संसारः प्रत्यगात्मनि | उक्तेऽर्थे संशयश्चेत्स्यात्प्रत्यग्दृष्ट्या निरीक्ष्यताम् || इति || २३ || एवं न किंचिदुत्पन्नं दृश्यं चिज्जगदाद्यपि | चिदाकाशे चिदाकाशं केवलं स्वात्मनि स्थितम् || २४ || इत्थंच निष्प्रपञ्चत्वं प्रतिष्ठितमित्युपसंहरति - एवमिति | चिदाकाश इति | स्वे महिम्नि प्रतिष्ठितः इति श्रुतेरिति भावः || २४ || लीलोवाच | अहो नु परमा दृष्टिर्दर्शिता देवि मे त्वया | रूपश्रीर्जगती प्रातः प्रभयेवेक्षणद्युतिः || २५ || तया दृष्ट्या प्रतिबुद्धा लीलोवाच - अहो इति | ईक्षणेन द्योत्यते प्रकाश्यत इतीक्षणद्युतिः स्फुटेति यावत् || २५ || इदानीमहमेतस्यां यावत्परिणता दृशि | नाभ्यासेन विना तावद्भिन्धीदं देवि कौतुकम् || २६ || परिणतिर्व्युत्पत्तिदार्ढ्यम् | इदं वक्ष्यमाणं कौतुकमुत्कण्ठां भिन्धिनाशय || २६ || प्. १८१) यत्रासौ ब्राह्मणो गेहे ब्राह्मण्या सहितोऽभवत् | तं सर्गं तं गिरिग्रामं नय मां तं विलोकये || २७ || श्रीदेव्युवाच | अचेत्यचिद्रूपमयी परमां पावनीं दृशम् | अवलम्ब्येममाकारमवमुच्य भवामला || २८ || तदवलोकने पूर्ववत्समाधिनैतद्देहविस्मरणमावश्यकमित्याह - अचेत्येति | चिद्रूपमयीं | प्राचुर्ये मयट् | कारणब्रह्मरूपतामिति यावत् || २८ || ततः प्राप्स्यस्यसंदेहं व्योमात्मानं नभःस्थितम् | भूमिष्ठनरसंकल्पो गगनान्तः पुरं यथा || २९ || चिन्नभःस्थितं मायाव्योमात्मानं तं सर्गम् || २९ || एवं स्थिते तं पश्यावः सह सर्गमनर्गलम् | अयं तद्दर्शनद्वारे देहो हि परमार्गलम् || ३० || सह पश्यावो द्रक्ष्यावः | अर्गलं विष्कम्भः | प्रतिरोधक इति यावत् || ३० || लीलोवाच | अमुना देवि देहेन जगदन्यदवाप्यते | न कस्मादत्र मे युक्तिं कथयानुग्रहाग्रहात् || ३१ || अनुग्रहप्रयुक्तादाग्रहादभिनिवेशात् || ३१ || श्रीदेव्युवाच | जगन्तीमान्यमूर्तानि मूर्तिमन्ति मुधाग्रहात् | भवद्भिरवबुद्धानि हेमानीवोर्मिकाधिया || ३२ || मायामात्रत्वादमूर्तानि | मुधाग्रहान्मिथ्याज्ञानात् | ऊर्मिकाङ्गुलिमुद्रिका || ३२ || हेम्न्यूर्मिकारूपधरेऽप्यूर्मिकात्वं न विद्यते | यथा तथा जगद्रूपे जगन्नास्ति च ब्रह्मणि || ३३ || ऊर्मिकात्वमहेमरूपमित्यर्थः || ३३ || जगदाकाशमेवेदं ब्रह्मैवेह तु दृश्यते | दृश्यते काचिदप्यत्र धूलिरम्बुनिधाविव || ३४ || काचिन्माया | धूलिविरोधिन्यम्बुनिधौ प्रतिबिम्बधूलिरिव || ३४ || अयं प्रपञ्चो मिथ्यैव सत्यं ब्रह्माहमद्वयम् | अत्र प्रमाणं वेदान्ता गुरवोऽनुभवस्तथा || ३५ || उक्तेऽर्थे प्रमाणासंभावनामूलोच्छेदाय दृढतराणि प्रमाणानि दर्शयति - अयमिति | मुख्यं प्रमाणं वेदान्ताः तत्तत्पर्यांर्थस्यानुभवारोपणाय गुरवः | स्वानुभवस्तु फलीभूतं प्रमाणमित्यर्थः || ३५ || ब्रह्मैव पश्यति ब्रह्म नाब्रह्म ब्रह्म पश्यति | सर्गादिनाम्ना प्रथितः स्वभावोऽस्यैव चेदृशः || ३६ || स्वभाव आवृतसत्ता || ३६ || न ब्रह्मजगतामस्ति कार्यकारणतोदयः | कारणानामभावेन सर्वेषां सहकारिणाम् || ३७ || यावदभ्यासयोगेन न शान्ता भेदधीस्तव | नूनं तावदतद्रूपा न ब्रह्म परिपश्यसि || ३८ || अतद्रूपा अब्रह्मदेहाद्यात्मबुद्धित्वात्तद्रूपा | नूनमिति वितर्के || ३८ || तत्र रूढिमुपायाता य इमे त्वस्मदादयः | अभ्यासाद्ब्रह्मसंपत्तेः पश्यामस्ते हि तत्परम् || ३९ || ये रूढिं दृढव्युत्पत्तिम् | त इमे पश्यामः || ३९ || संकल्पनगरस्यैव ममाकाशमयं वपुः | ब्रह्मैव चान्तः पश्यामि देहेनानेन तत्पदम् || ४० || आकाशमयं शुद्धचित्ताकाशमयम् || ४० || विशुद्धाज्ञानदेहार्हास्तथैते पद्मजादयः | ब्रह्मात्मजगदादीनामंशे संस्थानमङ्गने || ४१ || ज्ञायतेऽनेनेति ज्ञानं चित्तं विशुद्धेन तेन अर्हाः सदा ब्रह्मदर्शनयोग्याः | वस्तुतो ब्रह्मात्मकानां जगत्तद्व्यवहाराणामंशे लेशे संस्थानमवस्थितिं पश्यन्तीति विपरिणमययानुषज्यते | पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि इत्यादिश्रुतेरित्यर्थः || ४१ || तवाभ्यासं विना बाले नाकारो ब्रह्मतां गतः | स्थितः कलनरूपात्मा तेन तन्नानुपश्यसि || ४२ || कलनमन्तःकरणे चिदाभासस्तद्रूपात्मा | तद्ब्रह्म प्रागनुक्रान्तं गिरिग्रामकं च || ४२ || यत्र स्वसंकल्पपुरं स्वदेहेन न लभ्यते | तत्रान्यसंकल्पपुरं देहोऽन्यो लभते कथम् || ४३ || अनेन देहेनानुपलम्भे सांकल्पिकत्वमेव हेतुरिति कैमुतिकन्यायेन द्रढयति - यत्रेति || ४३ || तस्मादेनं परित्यज्य देहं चिद्व्योमरूपिणी | यत्पश्यसि [तपश्यसि इति पाठः] तदेवाशु कुरु कार्यविदांवरे || ४४ || पश्यसि द्रक्ष्यसि | वर्तमानसामीप्याद्वर्तमानवन्निर्देशः || ४४ || संकल्पनगरं सत्यं यथासंकल्पितं प्रति | संदेहं वा विदेहं वा नेतरं प्रति किंचन || ४५ || सदेहं देहसाध्यं विदेहं वा संकल्पितं तन्नगरव्यवहारोपभोगं प्रति | सत्यमर्थक्रियासमर्थम् | इतरं व्यवहारं प्रति तु न किंचन तुच्छमिति यावत् || ४५ || आदिसर्गे जगद्भ्रान्तिर्यथेयं स्थितिमागता | तथा तदाप्रभृत्येवं नियतिः प्रौढिमागता || ४६ || धातृसांकल्पिकस्यास्य जगतोऽस्मत्सांकल्पिकस्य च सांकल्पिकत्वाविशेषेऽपि कुतोऽवान्तरवैलक्षण्यमिति चेदनादिनियतिरूपेश्वरेच्छालक्षणमायाशक्तिवशादेवेत्याह - आदिसर्ग इति || ४६ || लीलोवाच | त्वयोक्तं देवि गच्छावो ब्राह्मणब्राह्मणी जगत् | सहेतीदमिदं वच्मि कथं गन्तव्यमम्ब हे || ४७ || इमं देहमिहास्थाप्य शुद्धसत्वानुपातिना | चेतसा तं परं यामि लोकं त्वं कथमेषि तत् || ४८ || त्वं कथमेषि स्वेन देहेनेति शेषः || ४८ || श्रीदेव्युवाच | संकल्पव्योमवृक्षस्ते यथा सन्नपि स्वात्मकः | न कुड्यात्मा न कुड्येन रोध्यते नापि कुड्यहा || ४९ || सांकल्पिकसत्तया सन्नपि वास्तवसत्तया खात्मकः | न कुड्यात्मेव मूर्तः कुड्यहा कुड्यभेदकः || ४९ || प्. १८२) शुद्धैकसत्त्वनिर्माणं चिद्रूपस्यैव तत्किल | प्रतिभानमतस्तस्मात्परस्माद्भिद्यते मनाक् || ५० || यच्छुद्धस्यैव सत्त्वगुणस्य निर्माणं कार्यमस्मद्देहादि तच्चिद्रूपस्यैव किल तथा प्रतिभानमतो हेतोस्तस्मात् परस्माद्ब्रह्मणो मनागल्पमेव भिद्यते | यथा दग्धपटे पटाकारो वस्तुतस्तद्भस्मैव तद्वदिति भावः || ५० || सोऽयमेतादृशो देहो नैनं [नैवं इति पाठः] संत्यज्य याम्यहम् | अनेनैव तमाप्नोमि देशं गन्धमिवानिलः || ५१ || यथा जलं जलेनाग्निरग्निना वायुनानिलः | मिलत्येवमतो देहो देहैरन्यैर्मनोमयैः || ५२ || तर्ह्यस्मद्भर्तृसांकल्पिकसर्गेणास्य कथं योगस्तत्राह - यथेति | मनोमयैर्देहैरन्यैश्च वस्तुभिरित्यर्थः || ५२ || नहि पार्थिवतासंविदेत्य पार्थिवसंविदा | एकत्वं कल्पनाशैलशैलयोः क्वाहतिर्मिथः || ५३ || तर्हि मद्देहोऽपि वस्तुतो मनोमात्रत्वेन त्वद्देहसाजात्यात्त्वद्देहेनैकीभावेन संयोगेन वा मिलितः संस्तत्रैतु तत्राह - नहीति | पृथिव्या विकारः पार्थिवस्तद्भावेन संवेद्यत इति पार्थिवतासंवित्त्वद्देहस्तद्विरुद्धचिन्मात्रसंविदा मद्देहेनैकत्वं संयोगं वा नहि एति | आहतिरभिघातः || ५३ || आतिवाहिक एवायं त्वादृशैश्चित्तदेहकः | आधिभौतिकताबुद्ध्या गृहीतश्चिरभावनात् || ५४ || नन्वस्यापि मानसत्वे कथं पार्थिवत्वं तत्राह - आतिवाहिक इति || ५४ || यथा स्वप्ने यथा दीर्घकालध्याने यथा भ्रमे | यथाच सति संकल्पे यथ गन्धर्वपत्तने || ५५ || वासनातानवं नूनं यदा ते स्थितिमेष्यति | तदातिवाहिको भावः पुनरेष्यति देहके || ५६ || कदा तर्ह्यस्य पार्थिवभावनिवृत्तिस्तत्राह - वासनेति | तनोर्भावस्तानवमल्पता एष्यति | समाध्यभ्यासेनेति भावः || ५६ || लीलोवाच | आतिवाहिकदेहत्वप्रत्यये घनतां गते | तामवाप्नोत्ययं देहो दशामाहो विनश्यति || ५७ || अन्येषां स्थूलदेहस्य नाशदर्शनाज्जीवन्मुक्तयोगिदेहस्यापि नाश एव संभावितो नातिवाहिकभाव इति संभावयन्ती लीला पृच्छति - आतिवाहिकेति | घनतां दार्ढ्य गते | समाध्यभ्यासेनेति शेषः || ५७ || श्रीदेव्युवाच | यदस्ति नाम तत्रैव नाशानाशक्रमो भवेत् | वस्तुतो यच्च नास्त्येव नाशः स्यात्तस्य कीदृशः || ५८ || तत्त्वविद्देहो ज्ञानबाधितत्वाद्दग्धपटवन्नास्त्येव प्राग्वासनामात्राच्च पटाभासवत्प्रतिभासमानोऽपि वासनातानवे ततोऽपि सौक्ष्म्यादातिवाहिकभावमेवापद्यते | न नाशमित्याशयेन देव्युत्तरमाह - यदित्यादिना || ५८ || रज्ज्वां सर्पभ्रमे नष्टे सत्यबोधवशात्सुते [सुते इति लीलायाः संबोधनम्] | सर्पो न नष्ट उन्नष्टो वेत्येवं कैव सा कथा || ५९ || उत् अपि || ५९ || यथा सत्यपरिज्ञानाद्रज्ज्वां सर्पो न दृश्यते | तथातिवाहिकज्ञानाद्दृश्यते नाधिभौतिकः || ६० || आतिवाहिकत्वनिमित्तं ब्रह्मज्ञानमातिवाहिकज्ञानम् || ६० || कल्पनापि निवर्तेत कल्पिता यदि केनचित् | सा शिला समपास्तैव या नेहास्ति कदाचन || ६१ || कल्पितः प्रपञ्चः प्रागभूत् ज्ञानेन तु समूलं स निवर्तित इति व्यवहारकल्पनाप्यापातदृशैव | तत्त्वदृशा तु तस्या अपि संभावना नास्तीत्याह - कल्पनेति | कल्पिता समर्थिता | तथाचोक्तं गौडपादैः - प्रपञ्चो विनिवर्तेत कल्पितो यदि केनचित् | उपदेशादयं वादो ज्ञाते द्वैतं न विद्यते || इति || ६१ || परं परे परापूर्णमिदं देहादिकं स्थितम् | इति सत्यं वयं भद्रे पश्यामो नाभिपश्यसि || ६२ || कथं तर्हि यूयं स्वदेहादि पश्यथ तत्राह - परमिति | परेण ब्रह्मणा आपूर्णमिदं देहादिकोशपञ्चकं यदेकैकान्तःप्रवेशेन स्थितं तत्परं ब्रह्मैव स्वे महिम्नि परे स्थितमिति वयं सत्यमबाधितं पश्यामः | त्वं त्वप्ररूढबोधत्वान्नाभिपश्यसि || ६२ || आदिसर्गे भवेच्चित्त्वं कल्पनाकल्पितं यदा | तदा ततः प्रभृत्येकसत्त्वं दृश्यमवेक्षते || ६३ || नन्वदृश्या चित्कथं दृश्यसत्त्वात्मतामापन्ना तत्राह - आदीति | आदेर्लिङ्गात्मनः सर्गे तं गोचरयन्त्याश्चितश्चित्त्वं नाम धर्मो भवेत् | यदा तु पञ्चीकरणेन कल्पनया स्थूलं रूपं कल्पितं तदा ततःप्रभृत्येकमनुगतं सत्त्वं दृश्यानुरोधात्स्वयमपि दृश्यभूतं स्वयमवेक्षते भ्रान्त्येत्यर्थः || ६३ || लीलोवाच | एकस्मिन्नेव संशान्ते दिक्कालाद्यविभागिनि | विद्यमाने परे तत्त्वे कलनावसरः कुतः || ६४ || यत्प्रागुक्तं कलनाधीना सर्वकल्पनेति तत्र लीलानुपपत्तिं शङ्कते - एकस्मिन्निति | पौर्वकालिकं दुग्धमौत्तरकालिकदध्याद्याकारेण परिणमते | दधिभावे च दुग्धमविद्यमानं भवति | कालसंबन्धरहिते नित्यं विद्यमाने ब्रह्मणि कलनाख्यप्रथमविकारस्यैव नावसर इत्यर्थः || ६४ || श्रीदेव्युवाच | कटकत्वं यथा हेम्नि तरङ्गत्वं यथाम्भसि | सत्यत्वं च यथा स्वप्नसंकल्पनगरादिषु || ६५ || सत्ये हि विकारेऽभ्युपगते त्वदुक्तदोषः स्यान्न मिथ्याभूत इति देवी परिहरति ##- नास्त्येव सत्यनुभवे तथा नास्त्येव ब्रह्मणि | कल्पनाव्यतिरिक्तात्मतत्स्वभावादनामयात् || ६६ || यथा नास्त्यम्बरे पांसुः परे नास्ति तथा कला | अकलाकलनं शान्तमिदमेकमजं ततम् || ६७ || कलाकलनं विषयः || ६७ || प्. १८३) यदिदं भासते किंचित्तत्तस्येव निरामयम् | कचनं काचकस्येव कान्तस्याऽतिमणेरिव || ६८ || कचनं आपातप्रतिभासः | अतिशयितो मणिरतिमणिस्तस्येव || ६८ || लीलोवाच | एतावन्तं चिरं कालमेते देवि वयं वद | भ्रामिताः केन नामापि द्वैताद्वैतविकल्पनैः || ६९ || उक्तभ्रान्तेर्हेतुं लीला पृच्छति - एतावन्तमिति || ६९ || श्रीदेव्युवाच | अविचारेण तरले भ्रान्तासि चिरमाकुला | अविचारः स्वभावोत्थः स विचाराद्विनश्यति || ७० || विचारबाध्यत्वादविचारशब्दितो मोह एव तद्धेतुरिति देव्याह - अविचारेणेति || ७० || अविचारो विचारेण निमेषादेव नश्यति | एषा सत्तैव तेनान्तरविद्यैषा न विद्यते || ७१ || एषा अविचारलक्षणा अविद्या विचारबाधिता ब्रह्मसत्तैव संपद्यत इति शेषः || ७१ || तस्मान्नैवाविचारोऽस्ति नाविद्यास्ति न बन्धनम् | न मोक्षोऽस्ति निराबाधं शुद्धबोधमिदं जगत् || ७२ || तद्बाधस्य त्रैकालिकत्वमाह - तस्मादिति | बन्धाभावान्मोक्षोऽपि नास्ति || ७२ || एतावन्तं यदाकालं त्वयैतन्न विचारितम् | तदा न संप्रबुद्धा त्वं भ्रान्तैवाभव [भ्रान्तेवार्णव आकुला इति पाठः] आकुला || ७३ || अद्यप्रभृति बुद्धासि विमुक्तासि विवेकिनी | वासनातानवं बीजं पतितं तव चेतसि || ७४ || ज्ञानेन द्वैतवासनाबाधे तत्त्ववासनाशेषो वासनातानवं तदेव मुक्तिबीजम् || ७४ || आदावेव हि नोत्पन्नं दृश्यं संसारनामकम् | यदा तदा कथं तेन वास्यन्ते वासनापि का || ७५ || पुनर्द्वैतवासनाप्ररोहमाशङ्क्याह - आदावित्यादिना || ७५ || अत्यन्ताभावसंपत्तौ द्रष्टृदृश्यदृशां मनः | एकध्याने परे रूढे निर्विकल्पसमाधिनि || ७६ || मनः रूढे अधिरूढे सति || ७६ || वासनाक्षयबीजेऽस्मिन्किंचिदङ्कुरिते हृदि | क्रमान्नोदयमेष्यन्ति रागद्वेषादिका दृशः || ७७ || संसारसंभवश्चायं निर्मूलत्वमुपैष्यति | निर्विकल्पसमाधानं प्रतिष्ठामलमेष्यति || ७८ || विगतकलनकालिमाकलङ्का गगनकलान्तरनिर्मलाम्बनेन | सकलकलनकार्यकारणान्तः कतिपयकालवशाद्भविष्यसीति || ७९ || इति एवंविधया निर्विकल्पसमाधिप्रतिष्ठया कतिपयकालवशाद्गगनस्य मायाकाशस्य तत्कलानां तत्कार्याणां चान्तरस्याधिष्ठानभूतस्य निर्मलस्यात्मनः अम्बनेन अवलम्बनेन विगतो भ्रान्तिकलनलक्षणः कालिमा यस्या अत एवाकलङ्का तत्संस्कारकलङ्कनिर्मुक्ता सती सकलप्राणिनां कलनानां भ्रान्तीनां तत्कार्यवासनानां तत्कारणाविद्यायाश्च अन्तो बाधावधिभूतो यो मोक्षाख्यः परमपुरुषार्थः स त्वमेव भविष्यसीत्यर्थः || ७९ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे विश्रान्त्युपदेशो नामैकविंशः सर्गः || २१ || इति श्रीवासिष्ठमहारामायणे तात्पर्यप्रकाशे उत्पत्तिप्रकरणे विश्रान्त्युपदेशो नामैकविंशः सर्गः || २१ || द्वाविंशः सर्गः २२ श्रीदेव्युवाच | यथा स्वप्नपरिज्ञानात्स्वप्नदेहो न वास्तवः | अनुभूतोऽप्ययं तद्वद्वासनातानवादसन् || १ || अवस्थातुर्यलक्ष्मात्र जीवन्मुक्तस्थितिस्तथा | वासनातानवोपायस्तदभ्यासश्च कीर्त्यते || १ || प्रागुक्तां ज्ञानदार्ढ्यात्स्थूलदेहभावनिवृत्तिमातिवाहिकभावप्राप्तिं च दृष्टान्तैर्बोधयितुं देव्युपक्रमते - यथेति | अयं स्थूलदेहः || १ || यथा स्वप्नपरिज्ञानात्स्वप्नदेहः प्रशाम्यति | वासनातानवात्तद्वज्जाग्रद्देहोऽपि शाम्यति || २ || स्वप्नसंकल्प्लदेहान्ते देहोऽयं चेत्यते यथा | तथा जाग्रद्भावनान्ते उदेत्येवातिवाहिकः || ३ || जाग्रद्भावना स्थूलदेहाहंभावना तस्या अन्ते | मूलोच्छेदादुच्छेदे सतीत्यर्थः || ३ || स्वप्ने निर्वासनाबीजे यथोदेति सुषुप्तता | जाग्रत्यवासनाबीजे तथोदेति विमुक्तता || ४ || निर्वासनाबीजे अनुद्भूत वासनाबीजे नतृच्छिन्नवासनाबीज इत्यर्थः | पुनः स्वप्नानापत्तेः | अवासनाबीजे बाधितसर्ववासनाबीजे | विमुक्तता जीवन्मुक्तिः || ४ || येयं तु जीवन्मुक्तानां वासना सा न वासना | शुद्धसत्त्वाभिधानं तत्सत्तासामान्यमुच्यते || ५ || ननु जीवन्मुक्तानामपि वासनास्त्येव अन्यथा व्यवहारानुपपत्तेस्तत्राह - येयमिति | न वासना किंतु शुद्धसर्ववासनाबाधावधेरधिष्ठानसत्त्वस्यैव शुद्धवासनेत्यभिधानं यथा दग्धपट इति भस्मन एवाभिधानम् | तत्पूर्वतनं सर्ववासनानुगतसत्तासामान्यमेव तथोच्यत इत्यर्थः || ५ || प्. १८४) या सुप्तवासना निद्रा सा सुषुप्तिरिति स्मृता | यत्सुप्तवासनं जाग्रद्धनोऽसौ मोह उच्यते || ६ || मूर्च्छासुषुप्त्योरवान्तरभेदं दर्शयति - येति | वासनानां सुप्तिरमुद्भवोऽभिभवश्च | तथाचानु तद्भूवासनानिद्रासुषुप्तिरभिभूतवासनं जाग्रन्मोहो मूर्च्छेत्यर्थः | जाग्रति घनतरोद्भूतवासनानां सहसोत्पन्नदुःखातिशयेन प्रसह्याभिभवाद्घनत्वमपरित्यज्यैव मोहभावापत्तिस्तदेति सूचनाय घन इति मोहविशेषणम् || ६ || प्रक्षीणवासना निद्रा तुर्यशब्देन कथ्यते | जाग्रत्यपि भवत्येव विदिते [विहिते परमे इति पाठः] परमे पदे || ७ || निद्रेत्यविवक्षितं यतो जाग्रत्यपि ज्ञानात्समूलवासनाक्षये तुर्यं भवत्येवेत्यर्थः || ७ || प्रक्षीणवासना येह जीवतां जीवनस्थितिः | अमुक्तैरपरिज्ञाता सा जीवन्मुक्ततोच्यते || ८ || तदेव जीवतो जीवन्मुक्तिरित्याह - प्रक्षीणेति || ८ || शुद्धसत्वानुपतितं चेतः प्रतनुवासनम् | आतिवाहिकतामेति हिमं तापादिवाम्बुताम् || ९ || प्राग्व्याख्याते शुद्धसत्त्वे सनुपतितं समाधिपाटवाच्चिरप्रतिष्ठितम् || ९ || आतिवाहिकतां यातं बुद्धं चित्तान्तरैर्मनः | सर्गजन्मान्तरगतैः सिद्धैर्मिलति नेतरत् || १० || बुद्धं व्युत्थानव्यवहारकालेऽप्यात्मप्रबोधवन्मनः सर्गान्तरगतैर्जन्मान्तरगतैश्च चित्तान्तरैः सिद्धैश्च देवयोग्यादिशरीरैरेकिभावेन मिलति || १० || यदा तेऽयमहंभावः स्वभ्यासाच्छान्तिमेष्यति [स्वाभ्यासात् पाठः] | तदोदेष्यति ते स्फारा दृश्यान्ता [दृश्यान्ते बोधता इति पाठः] बोधता स्वयम् || ११ || दृश्यप्रपञ्चस्यान्ता चरमावधिभूता बोधता स्वाभाविकचिद्रूपता || ११ || आतिवाहिकताज्ञानं स्थितिमेष्यति शाश्वतीम् | यदा तदा ह्यसंकल्पांल्लोकान्द्रक्ष्यसि पावनान् || १२ || असंकल्पान्संकल्पादूषितानत एव पावनान् || १२ || वासनातानवे तस्मात्कुरु यत्नमनिन्दिते | तस्मिन्प्रौढिमुपायाते जीवन्मुक्ता भविष्यसि || १३ || यावन्न पूरितस्त्वेष शीतलो बोधचन्द्रमाः | तावद्देहमवस्थाप्य लोकान्तरमवेक्ष्यताम् || १४ || गिरिग्रामकदिदृक्षाप्रतिबद्धचेतसि बोधपूर्तिर्वासनातानवाभ्यासो वा न संभवतीत्याशयेनाह - यावदिति || १४ || मांसदेहो मांसदेहेनैव संश्लेषमेष्यति | नतु चित्तशरीरेण व्यवहारेषु कर्मसु || १५ || ननु किमर्थं मद्देहावस्थापनं त्वद्देहसंश्लेषादस्यापि गमनशक्तिः किं न स्यात्तत्राह - मांसदेह इति || १५ || यथानुभवमेवैतद्यथास्थितमुदाहृतम् | आबालसिद्धसंसिद्धं न नाम वरशापवत् || १६ || किं वरवच्छापवद्वा त्वद्वचनादेव संश्लेषमेष्यति नेत्याह - यथेति | मूढतमेषु बालानभिज्ञतमेषु सिद्धांश्च मर्यादीकृत्य सर्वानुभवसिद्धोऽर्थो मयानूदितो नापूर्वार्थो बलात्संपादित इत्यर्थः || १६ || अवबोधघनाभ्यासाद्देहस्यास्यैव जायते | संसारवासनाकार्श्ये नूनं चित्तशरीरता || १७ || यदि लोकसिद्धवस्तुस्वभावो न विपर्यस्यति तर्हि वासनातानवेऽप्यस्य देहस्यातिवाहिकभावो न संभावयितुं शक्य इत्याशङ्क्याह - अवबोधेति | चित्तशरीरता आतिवाहिकशरीरता || १७ || उदेष्यन्ती च सैवात्र केनचिन्नोपलक्ष्यते | केवलं तु जनैर्देहो म्रियमाणोऽवलोक्यते || १८ || ननु जीवानां परलोकगमनमप्यातिवाहिकदेहेन प्रसिद्धं स्थूलदेहस्य तु मृतस्यात्रैवावस्थानं दृश्यते तत्कथमेकस्यातिवाहिकभावेन जीवनं स्थूलभावेन मरणं चैकदेत्याशङ्क्याह - उदेष्यन्ती चेति | सा आतिवाहिकता च मरणकाले अत्रास्मिन्नेव शरीरे उदेष्यन्ती केनचिन्म्रियमाणेन जीवता वा नोपलक्ष्यते | तद्यथा पेशस्करी इत्यादिश्रुतेः | पारलौकिकदेहनिर्माणाय म्रियमाणस्य स्वाज्ञानकल्पितदेहारभकभूतमात्रांशसंवलितस्यैव परलोके गमनात्तासां मात्राणां तेनानुपलक्षितानामप्यातिवाहिकभावाविरोधात् | यस्त्वन्याज्ञानकल्पितभूतमात्रांशोऽज्ञानदेहः सोऽन्यैर्जनैर्म्रियमाणोऽवलोक्यत इत्यर्थः || १८ || देहस्त्वयं न म्रियते न च जीवति किंच ते | के किल [कोकिलस्वप्न पाठः] स्वप्नसंकल्पभ्रान्तौ मरणजीविते || १९ || किंचावास्तवोऽयं देहो न म्रियते न च जीवति ते जीवनमरणे च किं न किंचिद्वस्त्विति नात्र विरोधशङ्का युक्तेत्यर्थः || १९ || जीवितं मरणं चैव संकल्पपुरुषे यथा | असत्यमेव भात्येवं तस्मिन्पुत्रि शरीरके || २० || लीलोवाच | तदेतदुपदिष्टं मे ज्ञानं देवि त्वयाऽमलम् | यस्मिञ्श्रुतिगते शान्तिमेति दृश्यविषूचिका || २१ || लीलाप्रश्नश्लोकौ स्पष्टौ || २१ || अत्रोपकुरु मे ब्रूहि कोऽभ्यासः कीदृशोऽथवा | स कथं पोषमायाति पुष्टे तस्मिंश्च किं भवेत् || २२ || श्रीदेव्युवाच | यद्येन [यदैव क्रियते पाठः] क्रियते किंचिद्येन येन यदा यदा | विनाभ्यासेन तन्नेह सिद्धिमेति कदाचन || २३ || तच्चिन्तनं तत्कथनमन्योन्यं तत्प्रबोधनम् | एतदेकपरत्वं च तदभ्यासं विदुर्बुधाः || २४ || तत्रादावभ्यासस्वरूपमाह - तच्चिन्तनमिति | असंदिग्धं स्वबुद्ध्यारोहाय चिन्तनं अभिज्ञबुद्ध्यन्तरसंवादाय कथनं परस्पराज्ञातांशप्रबोधायान्योन्यप्रबोधनमित्येतैरुपायैरसंभावनानि वृत्तिरेतदेकपरत्वेन च विपरीतभावनानिवृत्तिरिति फलानि || २४ || ये विरक्ता महात्मानो भोगभावनतानवम् | भावयन्त्यभवायान्तर्भव्या भुवि जयन्ति ते || २५ || दृढवैराग्यादीन्येव तल्लक्षणानीति विरक्तस्तुतिमुखेन दर्शयति - ये इति | भोगभावनानि विषयवासनास्तेषां तानवमपक्षयं भावयन्ति यत्नेनोत्पादयन्ति || २५ || प्. १८५) उदितौदार्यसौन्दर्यवैराग्यरसरञ्जिता [रसगर्भिणी इति पाठः] | आनन्दस्पन्दिनी येषां मतिस्तेऽभ्यासिनः परे || २६ || औदार्यं सर्वपरिग्रहत्यागस्तल्लक्षणसौन्दर्येण वैराग्यरसेन च रञ्जिता | परे उत्कृष्टाः || २६ || अत्यन्ताभावसंपत्तौ ज्ञातृज्ञेयस्य वस्तुनः | युक्त्या शास्त्रैर्यतन्ते ये ते ब्रह्माभ्यासिनः स्थिताः || २७ || श्रवणादिपरत्वमपि तदभ्यासलक्षणमित्याह - अत्यन्तेति | युक्त्या प्रमाणतत्त्वावधारणानुकूलया प्रमेयतत्त्वावधारणानुकूलया च | शास्त्रैरध्यात्मशास्त्रैः || २७ || सर्गादावेव नोत्पन्नं दृश्यं नास्त्येव तत्सदा | इदं जगदहं चेति बोधाभ्यास [बोधाभ्यासं विदुः परे इति पाठः] उदाहृतः || २८ || त्रैकालिकदृश्यबाधदर्शनावृत्तिरपि तदभ्यास इत्याह - सर्गादाविति || २८ || दृश्यासंभवबोधेन रागद्वेषादितानवे | रतिर्बलोदिता यासौ ब्रह्माभ्यास उदाहृतः || २९ || बलं मननजन्यविद्यावासनादार्ढ्यं तदुदिता रतिरात्मरतिः || २९ || दृश्यासंभवबोधेन विना द्वेषादितानवम् | तप इत्युच्यते तस्मान्न ज्ञानं तच्च दुःखतत् || ३० || दृश्यमिथ्यात्वदार्ढ्यकृतरागाद्युच्छेदे एव प्राग्ज्ञानोपयोगीति तदा तदभ्यासलक्षणं नान्यादृशमित्याह - दृश्येति | तत्तपो वृथाद्वेषादिनिरोधदुःखं तनोति विस्तारयतीति दुःखतत् || ३० || दृश्यासंभवबोधो हि ज्ञानं ज्ञेयं च कथ्यते | तदभ्यासेन निर्वाणमित्यभ्यासो महोदयः || ३१ || तत्र हेतुमुक्त्वाभ्यासफलं दर्शयन्नुपसंहरति - दृश्येति द्वाभ्याम् | हि यस्माच्चरमसाक्षात्कारात्मकं ज्ञानं तज्ज्ञेयं ब्रह्म च दृश्यस्यासंभवो यस्माद्यस्मिन्वा तथाविधो बोध इति कथ्यते इत्यर्थः || ३१ || भवबहुलनिशानितान्तनिद्रा- सततविवेकविबोधवारिसेकैः | प्रगलति हिमशीतलैरशेषा [रशेषं शरदि इति पाठः] शरदि महामिहिकेव चेतसीति || ३२ || चेतसि चित्ते इत्येवमभ्यस्तैः सर्वतापोपशमहेतुत्वाद्धिमशीतलैः सततविवेकविबोधवारिसेकैर्भवः संसारस्तल्लक्षणायां बहुलनिशायां कृष्णपक्षरात्रौ प्रवृत्ता मोहलक्षणा नितान्तनिद्रा अशेषसंस्कारात्मनाप्यपरिशिष्यमाणा प्रगलति विशीर्यते | महती मिहिका नीहारपटली || ३२ || इत्युक्तवत्यथ मुनौ दिवसो जगाम सायंतनाय विधयेऽस्तमिनो जगाम | स्नातुं सभा कृतनमस्करणा जगाम श्यामाक्षये रविकरैश्च सहाजगाम || ३३ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे विज्ञानाभ्यासवर्णनं नाम द्वाविंशः सर्गः || २२ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे विज्ञानाभ्यासवर्णनं नाम द्वाविंशः सर्गः || २२ || चतुर्थो दिवसः | त्रयोविंशः सर्गः २३ श्रीवसिष्ठ उवाच | इति संकथनं कृत्वा तस्यां निशि वराङ्गने | सुप्ते परिजने नूनमथान्तःपुरमण्डपे || १ || योगात्स्थूलतनुं त्यक्त्वा गिरिग्रामदिदृक्षया | गृहे व्योम्नि गतिः स्फारे वर्ण्यते ज्ञप्तिलीलयोः || १ || परिजने अनूनमपरिशेषं सुप्ते सत्यथ वराङ्गने ज्ञप्तिलीले समाधिस्थानकं गत्वा तस्थतुरिति चतुर्थस्थेनान्वयः || १ || दृढाखिलार्गलद्वारगवाक्षे दक्षचेतसि | पुष्पप्रकरनिष्ठ्यूतमांसलामोदमन्थरे [पुष्पप्राकार इति पाठः] || २ || दक्षचेतसीति प्राक्तनपरिजनविशेषणं गौणं [मण्डपविशेषणत्वे एव गौणमित्यर्थः] वा | दृढाः अखिलाः सर्वाः | बहुविधा इति यावत् | अर्गलाः कपाटविष्कम्भा येषु तथाविधा द्वारगवाक्षा यस्मिन् | पुष्पप्रकरैर्निष्ठ्यूतैर्निरस्तैर्मांसलैः पुष्टैरामोदैर्मन्थरे | भरिते इति यावत् || २ || अम्लानमालावसनशवपार्श्वासनस्थिते | सकलामलपूर्णेन्दुवदनद्योतितास्पदे || ३ || सकलं समग्रममलमकलङ्कं च यथा स्यात्तथा पूर्ण इन्दुरिव ये वदने इति विग्रहो नतु सकलः कलासहितः पूर्णेन्दुरिवेति | व्यर्थविशेषणत्वापत्तेः || ३ || समाधिस्थानकं गत्वा तस्थतुर्निश्चलाङ्गिके | रत्नस्तम्भादिवोत्कीर्णे चित्रे भित्ताविवार्पिते || ४ || उत्कीर्णे पुत्रिके इति शेषः | चित्रे चित्रलिखितप्रतिमे || ४ || सर्वास्तत्यजतुश्चिन्ताः संकोचं समुपागते | दिवसान्त इवाब्जिन्यौ प्रसृतामोदलेखिके || ५ || संकोचं सर्वेन्द्रियप्रत्याहारलक्षणम् | परितः प्रसृता आमोदलेखाः परिमलभागा ययोस्ते || ५ || बभूवतुर्भृशं शान्ते शुद्धे स्पन्दविवर्जिते | गिरौ शरदि निर्वात इव भ्रष्टाभ्रमालिके || ६ || निर्वाते शरदि गिरौ भ्रष्टे अवतीर्णे अभ्रमालिके यथा शुद्धे शुभे शान्तशीतले स्पन्दविवर्जिते च तद्वत् || ६ || प्. १८६) निर्विकल्पसमाधानाज्जहतुर्बाह्यसंविदम् | यथा कल्पलते कान्ते पूर्वमृत्वन्तरे रसम् || ७ || बाह्यां देहाद्यनात्मवस्तुतद्गोचरां संविदं प्रतिसंधाअम् | यथा ऋत्वन्तरे वसन्तादावुपस्थिते पूर्वं रसं त्यजतः | पुराणपत्रशोषादिदर्शनादित्यर्थः || ७ || अहं जगदिति भ्रान्तिदृश्यस्यादावनुद्भवः | यदा ताभ्यामवगतस्त्वत्यन्ताभावनात्मकः || ८ || आत्यन्तिकदृश्योपशमेन निर्विकल्पसमाधिप्रतिष्ठायां तत्त्वसाक्षात्कारेण समूलत्रैकालिकदृश्यबाध एव परिनिष्ठितो हेतुरित्याह - अहमित्यादिसार्धेन || ८ || तदा दृश्यपिशाचोऽयमलमस्तं गतो द्वयोः | असत्त्वादेव चास्माकं शशशृङ्गमिवानघ || ९ || समाधाविव सर्वदापि त्रैकालिकदृश्यबाधोऽस्माकमनुभवसिद्ध इति वसिष्ठो रामं संबोध्याह - असत्त्वादित्यादिन सार्धेन | अस्माकं दृशा जगद्भातं मृगतृष्णाम्बुवदभातं शशशृङ्गमिव | यतो यदादावेव नास्ति तद्वर्तमानेऽपि तथेत्यन्वयः || ९ || आदावेव हि यन्नास्ति वर्तमानेऽपि तत्तथा | भातं वाऽभातमेवातो मृगतृष्णाम्बुवज्जगत् || १० || स्वभावकेवलं शान्तं स्त्रीद्वयं तद्वभूव ह | चन्द्रार्कापदार्थौघैर्दूरमुक्तमिवाम्बरम् || ११ || दृश्यास्तमये ते कथं बभूवतुस्तदाह - स्वभावेति | चन्द्रार्कादिभिः सर्वपदार्थौघैर्दूरे मुक्तमम्बरं सर्गादौ वायूत्पत्तेः प्राग्वायवन्तप्रलये च प्रसिद्धं तदिव || ११ || तेनैव ज्ञानदेहेन चचार ज्ञप्तिदेवता | मानुषी त्वितरेणाशु ध्यानज्ञानानुरूपिणा [ज्ञानाज्ञानानुरूपिणी] || १२ || वक्ष्यमाणव्योमगमने तयोर्देहवैलक्षण्यमाह - तेनेति || १२ || गेहान्तरेव प्रादेशमात्रमारुह्य संविदा | बभूवतुश्चिदाकाशरूपिण्यौ व्योमगाकृती || १३ || तच्च दूरनभोगमनकल्पनं स्वगृहमण्डपाकाशप्रादेशमात्र एव वृत्तं न बहिरित्याह - गेहान्तरिति | देहान्तः इति पाठे हृदयात्कण्ठपर्यन्तं प्रादेशमात्रं नाडीमार्गमारुह्येत्यर्थः | संविदा उद्भुद्धपूर्वसंकल्पसंस्कारसंविदा || १३ || अथ ते ललने लीलालोले ललितलोचने | स्वभावाच्चेत्यसंवित्तेर्नभो दूरमितो गते || १४ || चेत्या विषयास्तत्संवित्तेः स्वभावो विषयानुरूपव्यवहारकल्पना तद्वशादित्यर्थः || १४ || तत्रस्थे वाथ चिद्वृत्त्या पुप्लुवाते नभस्थलम् | कोटियोजनविस्तीर्णं दूराद्दूरतरान्तरम् || १५ || तत्रस्थे गेहस्थे | वाशब्दोऽवधारणे | चिद्वृत्त्या आकाशमावां प्लवावहे इत्येवंरूपया चित्प्रधानमानसकल्पनावृत्त्या || १५ || दृश्यानुसन्धाननिजस्वभावा- दाकाशदेहे अपि ते मिथोऽत्र | परस्पराकारविलोकनेन बभूवतुः स्नेहपरे वयस्ये || १६ || वस्तुतश्चिदाकाशदेहे अपि प्राक्संकल्पितदृश्यानुसंधानसहितचित्तात्मतापन्नान्निजस्वभावात् | वयस्ये सख्यौ || १६ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे लीलाप्रज्ञादेव्योर्ज्ञानदेहाकाशगमनं नाम त्रयोविंशः सर्गः || २३ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे लीलाप्रज्ञादेव्योर्ज्ञानदेहाकाशगमनं नाम त्रयोविंशः सर्गः || २३ || चतुर्विंशः सर्गः २४ श्रीवसिष्ठ उवाच | दूराद्दूरमभिप्लुत्य शनैरुच्चैः पदं गते | हस्तं हस्ते समालम्ब्य यान्त्यौ ददृशतुर्नभः || १ || अनन्तविश्ववैचित्र्यविलासैः संभृतान्तरम् | नभोऽत्र वर्ण्यते पन्थाः प्रयान्त्योर्ज्ञप्तिलीलयोः || १ || उच्चैः पदमूर्ध्वस्थानम् || १ || एकार्णवमिवोच्छूनं गम्भीरं निर्मलान्तरम् | कोमलं कोमलमरुदासङ्गसुखभोगदम् || २ || उच्छूनं विवृद्धम् | गम्भीरमेकार्णवमिव | कोमलमिव कोमलं स्निगधम् | कोमलमरुतांमन्दमारुतानामासङ्गेन संश्लेषेऽन सुखभोदम् || २ || आह्लादकमलं सौम्यं शून्यताम्भोनिमज्जनात् | अत्यन्तशुद्धं गम्भीरं प्रसन्नमपि सज्जनात् || ३ || शून्यतालक्षणे अम्भसि निमज्जनादवगाहनादलमत्यन्तमाह्लादकम् | अथवा जगच्छून्यतालक्षणे ब्रह्माम्भसि प्रथमं निमज्जनान्निर्गमनात्प्राणिभ्रमराणामाह्लादहेतुभूतं कमलम् | अत्र गम्भीरमिति साक्षाद्विशेषणं पूर्व तु दृष्टान्तस्येति न पौनरुक्त्यम् | सज्जनादपि प्रसन्नं प्रसन्नतरम् || ३ || शृङ्गस्थनिर्मलाम्भोदपीनोदरसुधालये | विशश्रमतुराशासु पूर्णचन्द्रोदरामले || ४ || आशासु दिक्षु मेर्वादिशृङ्गस्थे निर्मलाम्भोदपीनोदरलक्षणे पीनोदरान्तर्निविष्टे वा सुधालये सौधे || ४ || सिद्धगन्धर्वमन्दारमालामोदमनोहरे | चन्द्रमण्डलनिष्क्रान्ते रेमाते मधुरानिले || ५ || क्वचिच्चन्द्रमण्डलसंनिधौ चन्द्रमण्डलान्निष्क्रान्ते | शैत्यसौरभ्ययोः पूर्वविशेषणाभ्यां लाभान्मधुरशब्दो मान्द्यसुखस्पर्शपरः || ५ || सस्नतुर्भूरिघर्मान्ते तडिद्रक्ताब्जसंकुले | सरसीव जलापूरमन्थरे मेघमण्डले || ६ || घर्मोऽर्कतापस्तस्यान्ते अवसानभूते | तडितैव रक्ताब्जानि सरःपक्षे | तडितो रक्ताब्जानीव मेघमण्डलपक्षे || ६ || प्. १८७) भूतलौघमहाशैलमृणालाङ्कुरकोटिषु | दिक्षु बभ्रमतुः स्वैरं भ्रमर्यौ सरसीष्विव || ७ || तत्तद्भूतलौघस्था महाशैला हिमवत्कैलासादयो मृणालानामब्जकन्दानामङ्कुरकोटय इव यासु || ७ || धारागृहधिया धीरगङ्गानिर्झरघारिणि | भ्रेमतुर्वातविक्षुब्धमेघमण्डलमण्डपे || ८ || निर्झरशब्देन तच्छीकरा लक्ष्यन्ते || ८ || ततो मधुरगामिन्यौ विश्राम्यन्त्यौ स्वशक्तितः | शून्ये ददृशतुर्व्योम महारम्भातिमन्थरम् || ९ || महद्भिरारम्भैर्भुवनतज्जननिर्माणैरतिमन्थरं संक्लिष्टम् || ९ || अदृष्टपूर्वमन्योन्यं सर्वसंकटकोटरम् | अपूर्यमाणमाशून्यं जगत्कोटिशतैरपि || १० || यद्यपि प्रज्ञप्त्या प्राग्दृष्टमेव तथाप्यन्योन्यं परस्परसाहित्येन पूर्वमदृष्टम् | सर्वे संकटकोटरा गर्भच्छिद्रादयोंऽशा यस्य | सर्वप्राणिभवदुःखानामाश्रयभूतं छिद्रमिति वार्थः | आशून्यत्वमपूर्यमाणत्वे हेतुः || १० || उपर्युपर्युपर्युच्चैरन्यैरन्यैर्वृतं पृथक् | विचित्राभरणाकारैर्भूतलैः सुविमानकैः || ११ || विचित्राभरणप्रख्यैर्भूतलैर्लक्षणया भुवनतलैः | शोभनानि विमानानि येषु तैः || ११ || परितः पूरितव्योम्नां मेर्वादिकुलभूभृताम् | पद्मरागतटोद्द्योतैः कल्पज्वालोपमोदरम् || १२ || पद्मरागमणिमयानां तटानां पार्श्वानामुद्द्योतैः प्रकाशैः || १२ || मुक्ताशिखरभापूरैर्हिमवत्सानुसुन्दरम् | काञ्चनाद्रिस्थलार्चिर्भिः काञ्चनस्थलभासुरम् || १३ || तेषामेव भूभृतानं मुक्तामयशिखराणां भापूरैः प्रभाप्रवाहैर्हिमवतः सानुः प्रस्थदेशस्तद्वद्भासुरम् || १३ || महामरकताभाभिः शाद्वलस्थलनीलिमम् | द्रष्टृदृश्यक्षयासक्तजातध्वान्तोत्थकालिमम् || १४ || तथा तेषामेव भूभृतां महामरकतानां महार्हहरिन्मणीनां प्रभाभिर्घासहरितस्थलस्य नीलिमेव नीलिमा यस्य | तथा क्वचिद्रष्टॄणां सचक्षु.आं रूपभेदानां क्षये आसक्तस्तत्परः सन् जात उत्पन्नो ध्वान्तोत्थकालिमा यस्मिंस्तथाविधम् || १४ || पारिजातलतालोलविमानगणकेतनम् | अतो मञ्जरिकाकारमिव वैदूर्यभूतलम् || १५ || क्वचित्तु यतः पारिजातकल्पलतावनोपरि आलोलविमानगणानां केतनं स्थानमतः समीपस्थदृष्ट्या तद्वनमञ्जरिकाकारमिव दूरस्थदृष्ट्या तु वैदूर्यमयभूतलमिव स्थितमित्यर्थः || १५ || मनोवेगमहासिद्धजितवातगमागमम् | विमानगृहदेवस्त्रीगेयवाद्यसघुंघुमम् || १६ || मनोवेगैर्महासिद्धैर्वातगमागमो वायुसंचारवेगः स जितो यस्मिन् | घुंघुममिति ध्वन्यनुकरणम् || १६ || त्रैलोक्यवरभूतौघसंचाराविरलान्तरम् [संचारविरलां इति पाठः] | अन्योन्यादृष्टसंचारसुरासुरकुलाकुलम् || १७ || पर्यन्तस्थितकूष्माण्डरक्षःपैशाचमण्डलम् | वातस्कन्धमहावेगवहद्वैमानिकव्रजम् || १८ || वातस्कन्धा आवहप्रवहादयो वायुभेदाः || १८ || वहद्विमानसीत्कारमुष्टिग्राह्यघनध्वनि | ग्रहर्क्षघनसंचारात्प्रचलद्वातयन्त्रकम् || १९ || विमानसीत्कारो विमानवेगध्वनिस्तस्य मोषणं मुष्टिरभिभवस्तेन ग्राह्या घनध्वनयो मेघशब्दा यस्मिन् | वातयन्त्रकं वायुविष्टम्भमययन्त्ररूपं ज्योतिश्चक्रम् || १९ || निकटातपदग्धाल्पसिद्धसिद्धोज्झितास्पदम् | अर्काश्वमुखवातास्तदग्धमुग्धविमानकम् || २० || क्वचित्सूर्यसंनिहितदेशनिकटातपेन दग्धैः संतप्तैस्तपोयोगरसायनादिना अल्पसिद्धैः सिद्धाख्यदेवयोनिविशेषैश्चोज्झितावस्थानम् | अर्केण तदीयाश्वमुखवातैश्च यथायोगमस्ताः क्षिप्ता दग्धाश्चाल्पा विमाना विमानका यस्मिन् || २० || लोकपालाप्सरोवृन्दसंचाराचारचञ्चलम् | देव्यन्तःपुरिकादग्धधूपधूमाम्बुदाम्बरम् || २१ || पद्भ्यां संचारा इतरैरङ्गैस्तत्तदुचिताचरणान्याचारास्तैश्चञ्चलमिव चञ्चलम् | धूपधूमैरम्बुदव्याप्ताम्बरमिव स्थितम् | विष्णुना सदृशो वीर्य इति राम इव कल्पितभेदादुपमेयता || २१ || स्वस्वर्गाहूतदेवस्त्रीस्वाङ्गविभ्रष्टभूषणम् | सामान्यसिद्धसङ्घोग्रतेजःपुञ्जतमोबलम् || २२ || इन्द्रचन्द्रादिभिः स्वर्गशब्दितस्वस्वलोकायाहूतानामत एवान्यानुपेक्ष्याहंपूर्विकया धावन्तीनां देवस्त्रीणामप्सरसां स्वाङ्गेभ्यो विभ्रष्टानि भूषणानि यस्मिंस्तथाविधं यतः अतस्ताः समीहमानानां सामान्यसिद्धानामिन्द्रादिवदणिमादिविशेषसिद्धिशून्यानां स्वर्ग्यन्तराणां यः संघस्तदीयोग्रतेजःपुञ्जस्य क्रोधासूयादिना तिरोभावकं तमोबलं तमोगुणप्राबल्यमिव नीलं स्थितमित्यर्थः || २२ || बलवत्सिद्धसंघट्टगमागमविघट्टितैः | घनैः सांशुकपार्श्वस्थहिमवन्मेरुमन्दरम् || २३ || तथा बलवतां सिद्धानां देवयोनिविशेषाणां संघट्टः संमर्दस्तद्युक्तगमनाभ्यां विघट्टितैश्चूर्णितैर्घनैर्मेघैस्तद्भयादिव पार्श्वस्थहिमवदाद्यधित्यकाश्रयणात्सांशुकाः स्वस्त्रा इव संपन्ना हिमवन्मेरुमन्दरा यस्मिन् || २३ || काकोलूकैर्गृध्रभासै राशिभूतैश्चलैर्वृतम् | नृत्यद्भिर्डाकिनीसङ्घैस्तरङ्गैरिव वारिधिम् || २४ || उलूकादयः पक्षिभेदाः || २४ || प्रवृत्तैर्योगिनीसङ्घैः श्वकाकोष्ट्रस्वराननैः | निरर्थं योजनशतं गत्वागच्छद्भिरावृतम् || २५ || योगिनीनामणिमादिसिद्द्धिमत्त्वात्स्वस्थान एवेप्सितलाभेऽपि व्यर्थं दूरं गत्वा आगच्छद्भिरित्यर्थः || २५ || प्. १८८) लोकपालपुरोध्वान्तधूमधूम्रेऽभ्रमन्दिरे [धूग्राभ्रमन्दिरं इति पाठः] | सिद्धगन्धर्वमिथुनप्रारब्धसुरतोत्सवम् || २६ || दिगन्तविश्रान्तत्वात्तत्तद्दिगधिष्ठातृलोकपालानां पुरोग्रत इव स्थिते ध्वान्तवद्दृष्टिप्रसरनिरोधिनि धूमधूम्रेऽभ्ररूपे मन्दिरे || २६ || स्वर्गगीतस्तवोन्मत्तमदनाक्रान्तमार्गगम् | अनारतवहद्धिष्ण्यचक्रलक्षितपक्षकम् || २७ || स्वर्गे गीयमानैर्दिव्यगीतैर्दिव्यस्तवैश्चोद्दीपकैरुन्मत्ता मदनाक्रान्ताश्च नभोमार्गगा यस्मिन् | अनारतं वहति नक्षत्रधिष्ण्यभूते ज्योतिश्चक्रे सूर्यादिगत्या लक्षितः शुक्लकृष्णपक्षादिकालविभागो यस्मिन् || २७ || वातस्कन्धनिखातान्तर्वहत्त्रिपथगाजलम् | आश्चर्यालोकनव्यग्रसंचरत्त्रिदशार्भकम् || २८ || वातस्कन्धभेदरूपे तस्मिन्नेव चक्रे कल्पितो निखातो निम्नदेशस्तदन्तःप्रवहत्त्रिपथगाजलं यस्मिन् || २८ || सदेहसंचरद्वज्रचक्रशूलासिशक्तिमत् | क्वचिन्निर्भित्ति भवनं गायन्नारदतुम्बुरु || २९ || वज्रचक्रादिशब्दैस्तदधिष्ठात्र्यो देवता उच्यन्ते अतः सदेहत्वोपपत्तिः || २९ || मेघमार्गमहामेघमहारम्भाकुलं क्वचित् | चित्रन्यस्तसमाकारमूककल्पान्तवारिदम् || ३० || मेघमार्गप्रदेशे महामेघानां पुष्करावर्तकादीनां महता प्रलयवृष्ट्यारम्भेणाकुलं क्वचित्तु चित्रन्यस्तवन्निर्व्यापारा मूका निःशब्दाश्च कल्पान्तवारिदा यस्मिन् || ३० || उत्पतत्कज्जलाद्रीन्द्रसुन्दराम्भोधरं क्वचित् | क्वचित्कनकनिष्पन्दकान्ततापान्तवारिदम् || ३१ || कनकस्य निस्पन्दो द्रव इव कान्तस्तपो ग्रीष्मः स एव तापस्तदन्तः प्रावृडादिः || ३१ || क्वचिद्दिग्दाहतापाढ्यमृष्यमूकाम्बुदांशुकम् | क्वचिन्निष्पवनाम्भोधिसंरम्भं शून्यताजलम् || ३२ || ऋष्यमूके गिरौ पूर्वरामायणावर्णितप्रकारेणेव वर्षन्तोऽम्बुदा एवांशुकानि यस्य | विष्पवनो निश्चल इति यावत् || ३२ || क्वचिद्वातनदीप्रौढविमानतृणपल्लवम् | क्वचिच्चलदलिव्रातपृष्ठत्वक्कान्तिनिर्मलम् || ३३ || वातनद्यां वायुप्रवाहे प्रौढविमानान्येव प्रवाह्यमानतृणपल्लवस्थाने यस्मिन् || ३३ || क्वचिन्मेरुनदीकल्पवातधूलिविधूसरम् | क्वचिद्विमानगीर्वाणप्रभाचित्रब्लाङ्गकम् || ३४ || मेरुनद्यो लक्षणया वार्षिकगिरिणद्यस्तत्कल्पैस्तत्सवर्णैर्वातधूलिप्रवाहैर्विधृसरम् | चित्रेण बलं शबलमङ्गकं यस्य || ३४ || क्वचिन्निरम्बरोन्नृत्तमातृमण्डलमालितम् [निरन्तरोन्नृत्त इति पाठः] | क्वचिन्नित्यं नवक्षीबक्षुब्धयोगीश्वरीगणम् || ३५ || क्वचिच्छान्तसमाधिस्थविश्रान्तमुनिमालितम् | समं दूरास्तसंरम्भसाधुचित्तमनोहरम् || ३६ || दूरेऽस्ताः संरम्भाः क्रोधादयो येन साधुचित्तेन || ३६ || गायत्किन्नरगन्धर्वसुरस्त्रीमण्डलं क्वचित् | क्वचित्स्तब्धपुराकीर्णं वहत्पुरवरं क्वचित् || ३७ || स्तब्धैर्निश्चलैः पुरैराकीर्णम् | वहन्ति भ्रमन्ति त्रिपुरादिपुरवराणि यस्मिन् || ३७ || क्वचिद्रुद्रपुरापूर्णं क्वचिद्ब्रह्ममहापुरम् | क्वचिन्मायाकृतपुरं क्वचिदागामिपत्तनम् || ३८ || क्वचिद्भ्रमच्चन्द्रसरः क्वचित्स्तब्धमयंसरः | क्वचित्सरत्सिद्धगणं क्वचिदिन्दुकृतोदयम् || ३९ || भ्रमच्चन्द्र एवामृतपूर्णत्वाच्चन्द्रसदृशं वा मायासरो यस्मिन् | स्तब्धमयं देवशक्त्या घनीभूतं जलमयं सरो यस्मिन् | विभक्त्यलुक्छान्दसः || ३९ || क्वचित्सूर्योदयमयं क्वचिद्रात्रितमोमयम् | क्वचित्संध्यांशुकपिलं क्वचिन्नीहारधूसरम् || ४० || क्वचिद्धिमाभ्रधवलं क्वचिद्वर्षत्पयोधरम् | क्वचित्स्थल इवाकाश एव विश्रान्तलोकपम् || ४१ || आकाश एव विश्रान्तलोकपमिति विश्रान्तिक्रियाया अधिकरणसापेक्षतया नित्यत्वात्संबन्धिशब्दत्वाच्च न सापेक्षमसमर्थं भवतीत्यसमर्थसमासता | तथाचोक्तम् - संबन्धिशब्दः सापेक्षो नित्यं सर्वः समस्यते | वाक्यवत्सा व्यपेक्षा हि वृत्तावपि न हीयते || इति || ४१ || ऊर्ध्वाधोगमनव्यग्रसुरासुरगणं क्वचित् | पूर्वापरोत्तरायाम्यदिक्संचाराकुलं क्वचित् || ४२ || अपराशब्दः प्रतीचीपरः परिशेषात् | उत्तरा याम्येति सर्वनाम्नो वृत्तावपुंवद्भावश्छान्दसः | दिशः संचरन्तीति दिक्संचारास्तैराकुलम् || ४२ || अपि योजनलक्षाणि क्वचिद्दुष्प्रापभूधरम् | अविनाशितमःपूर्णं दृषद्गर्घोपमं क्वचित् || ४३ || क्वचिल्लोकालोकगिरेः परतः || ४३ || अविनाशिबृहत्तेजः क्वचिदर्कानलोपमम् | हिमानीजठराशीतं क्वचिच्चन्द्रादिसमसु || ४४ || हिमानी हिमसंहतिस्तज्जठरवदाशीतम् || ४४ || क्वचिद्वहत्पुरोवृत्तकल्पवृक्षलतावनम् | क्वचिद्दैत्यहतोत्तुङ्गप्रपतद्देवपत्तनम् || ४५ || क्वचिद्दैत्यभयादुत्पाट्य वहद्भिर्देवानुचरैः पुरोवृत्तं पुरस्कृतं कल्पवृक्षलतावनं यस्मिन् || ४५ || वैमानिकनिपातेन वह्निलेखाङ्कितं क्वचित् | क्वचित्केतुशतोत्पातमिथःसंघट्टपट्टितम् || ४६ || क्वचिद्वैमानिकानां स्वर्गिणां निपातेन दीर्घीभूततत्तेजसा पतदुल्कावह्निरेखयेवाङ्कितं चिह्नितम् | पट्टितं पट्टवन्निविडितम् || ४६ || क्वचिच्छुभग्रहगणप्रगृहीताग्र्यमण्डलम् | क्वचिद्रात्रितमोव्याप्तं क्वचिद्दिवसभास्वरम् || ४७ || अग्र्यं श्रेष्ठं ऊर्ध्वभागमण्डलं यस्य || ४७ || क्वचिदुद्गर्जदम्भोदं क्वचिन्मूकामलाम्बुदम् | वातावकीर्णशुक्लाभ्रखण्डपुष्पोत्तरं क्वचित् || ४८ || अभ्रखण्डा एव पुष्पोत्तराः पुष्पास्तरा यस्य || ४८ || प्. १८९) क्वचिदत्यन्तनिःशून्यमवदातमनन्तरम् | आनन्दमृदुशान्ताच्छं ज्ञस्येव हृदयं ततम् || ४९ || नितरां दृश्यपदार्थशून्यम् | अवदातं स्वच्छम् | अनन्तरमज्ञानमेघान्तरायरहितम् | अच्छं नीरजस्कम् || ४९ || शुक्रवाहनभेकौघैः क्वचिद्गलकृतारवम् | शून्यतावारिवलितं क्षेत्रमाकाशवासिनाम् || ५० || शुक्रोपलक्षितसर्वनभश्चरवाहनान्येव भेकौघास्तैः | शून्यतावारिणा वलितं पूर्णम् | क्षेत्रं केदारम् || ५० || मयूरहेमचूडादिपक्षिभिः क्वचिदावृतम् | विद्याधरीणां देवीनां वाहनैर्विहितास्पदैः || ५१ || क्वचिदभ्रान्तरोन्नृत्यद्गुहमायूरमण्डलम् | क्वचिदग्निशुकैः श्यामं शाद्वलानामिव स्थलम् || ५२ || गुहः स्कन्दः | अग्नेर्वाहनैः शुकैः | यद्यपि मेषवाहनत्वमग्नेः प्रसिद्धं तथाप्यत्रोक्तेः शुकवाहनत्वमपि बोध्यम् || ५२ || क्वचित्प्रेतेशमहिषमहिम्ना वामनाम्बुदम् | क्वचिदश्वैस्तृणग्रामशङ्काग्रस्तासिताम्बुदम् [ग्रस्तामिताम्बुदं इति पाठः] || ५३ || प्रेतेशो यमस्तन्महिषस्य महिम्ना बृहत्कायत्वेन | तृणग्रामशङ्का तृणराशिभ्रमः || ५३ || क्वचिद्देवपुरव्याप्तं क्वचिद्दैत्यपुरान्वितम् | अन्योन्याप्राप्यनगरं नगरन्ध्रकरानिलम् || ५४ || अन्योन्यैरप्राप्ये प्राप्तुमशक्ये नगरे यस्मिन् | तत्र हेतुः - अन्तराले नगानां पर्वतानामपि रन्ध्रकरणसमर्थो बलवत्तरोऽनिलो यस्मिन्निति || ५४ || क्वचित्कुलाचलाकारनृत्यद्भैरवभासुरम् | क्वचित्सपक्षशैलेन्द्रसमनृत्यद्विनायकम् || ५५ || क्वचिद्धर्घरवातौघपक्षप्रोड्डीनपर्वतम् | क्वचिद्गन्धर्वनगरसुरस्त्रीवृन्दबन्धुरम् || ५६ || घर्घरवातौघं यथा स्यात्तथा पक्षैः प्रोड्डीनाः पर्वता यस्मिन् || ५६ || क्वचिद्वहद्गिरिध्वस्तवृक्षलक्षोच्छ्रिताम्बुदम् | क्वचिन्मायाकृताकाशनलिनीजलशीतलम् || ५७ || वहद्भिरुड्डीय गच्छद्भिर्गिरिभिर्ध्वस्ताश्चूर्णिता वृक्षलक्षैश्छत्रवदुच्छ्रिताश्चाम्बुदा यस्मिन् | अम्बुधिम् इति पाठेऽप्यम्बूनि धीयन्ते येष्विति व्युत्पत्त्याट्राम्बुदा एवोच्यन्ते || ५७ || क्वचिदिन्दुकराकृष्टिशीतलाह्लादमारुतम् | क्वचित्तप्तानिलादग्धद्रुमपर्वतवारिदम् || ५८ || क्वचिदत्यन्तसंशान्तवातादेकान्तनिर्ध्वनि | क्वचित्पर्वततुल्याभ्रशिखाकूटशतोदयम् || ५९ || एकान्तं नितान्तं निर्ध्वनि || ५९ || क्वचित्प्रावृड्भवोन्मत्तघनाभ्ररवघर्घरम् | क्वचित्सुरासुरगणप्रवृत्तरणदुर्गमम् || ६० || क्वचिद्व्योमाब्जिनीहंसीस्वनाहूताब्जवाहनम् | क्वचिन्मन्दाकिनीतीरनलिनीलुण्ठकानिलम् || ६१ || अब्जवाहनपदे छन्दसो जलोपः | नलिनीनां लुण्ठकः सौरभ्यापहारी || ६१ || स्वशरीरेण गङ्गादिसरितां सन्निधानतः | प्रोड्डीनमत्स्यमकरकुलीराम्बुजकूर्मकम् || ६२ || स्वशरीरेण देवताशरीरेण | प्रोड्डीनेत्यादेरुत्प्रेक्षितोक्तिः || ६२ || पातालगार्कजनितभूच्छायाकाकचोपनैः | क्वचित्क्वचिन्मण्डलेषु ग्रस्तचन्द्रार्कमण्डलम् || ६३ || ज्यौतिषिकप्रक्रियामाश्रित्याह - पातालेति | भूगोलं परितो भ्रमत्यादित्ये भूच्छायामपि परितो भ्रमन्ती पातालगेऽर्के ऊर्ध्व प्रसरति सैव श्यामत्वात्काकस्तस्य चोपनैः | चुप मन्दगतौ | आक्रमणैरिति यावत् | सेयं चन्द्रग्रासे उपपत्तिः | अर्कग्रासे तु नेयमुपपत्तिरिति श्लेषादर्थान्तरमुच्यते | पातालशब्देन लक्षणया चन्द्रस्य व्यवहितः पश्चाद्भागस्तद्गतेऽर्के सति चन्द्रमण्डले जनिता या भुवश्छाय प्रतिबिम्बस्तेन श्यामत्वापादनात्काकवत् संपन्नश्चन्द्रस्तेन चोपनैरिति || ६३ || क्वचित्सर्गानिलाधूतमायाकुसुमकाननम् | पतत्पुष्पहिमासारत्रसद्वैमानिकाङ्गनम् || ६४ || वैमानिकैरेव स्वाङ्गनाविस्मयार्थनिर्मितमायासर्गानिलैराधूतं मायाकुसुमकाननं यस्मिन्नित्यर्थः || ६४ || उदुम्बरोदरमशकक्रमभ्रम- ज्जगत्त्रयान्तरगतभूतसंचयम् | विलङ्घ्य तद्वरललने खमुच्चकै- र्महीतलं पुनरपि गन्तुमुद्यते || ६५ || इत्थं नभसि वर्णिते नभश्चरवैभवे रागो मा भूदिति तांस्तुच्छीकुर्वन्नाह - उदुम्बरेति | मशकक्रमो मशकमर्यादा तद्वदिति यावत् || ६५ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मोक्षोपाये उत्पत्तिप्रकरणे लीलाप्रज्ञादेव्योर्गमनवर्णनं नाम चतुर्विंशः सर्गः || २४ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे लीलाप्रज्ञादेव्योर्गमनवर्णनं नाम चतुर्विंशः सर्गः || २४ || पञ्चविंशः सर्गः २५ श्रीवसिष्ठ उवाच | नभःस्थलाद्गिरिग्रामं गच्छन्त्यौ कंचिदेव ते | ज्ञप्तिचित्तस्थितं भूमितलं ददृशतुः स्त्रियौ || १ || सप्ताब्धिद्वीपसंवीतं ब्रह्माण्डावरणैर्युतम् | अपूर्वं भुवनं ताभ्यां दृष्टमत्रोपवर्ण्यते || १ || कंचित् अपूर्वं ज्ञप्तिचित्तस्थितं ज्ञप्त्या लीलायै प्रदर्शयितुमभि प्रेतमिति यावत् || १ || प्. १९०) ब्रह्माण्डनरहृत्पद्मं दिगष्टकदलं बृहत् | गिरिकेसरसंबाधं स्वामोदभरसुन्दरम् || २ || तदेव भूमितलं ब्रह्माण्डपुरुषस्य हृत्पद्मतया वर्णयति - ब्रह्माण्डेत्यादिना || २ || सरित्केसरिकानालमध्येऽवश्यायबिन्दुकम् | शर्वरिभ्रमरीभ्रान्तं भूतौघमशकाकुलम् || ३ || गिरिकेसरेभ्यः प्रवृत्तत्वात्सरितः केसरिकाः केसरावान्तरशाखाः | अवश्याया हिमकणा एव मकरन्दबिन्दवो यस्मिन् || ३ || अन्तर्गुणगणाकीर्णं सुरन्ध्रैः सुषिरैर्वृतम् | उह्यमानपयःपूरैर्दिवसालोककान्तिमत् || ४ || अन्तर्नालान्तर्गुणास्तन्तवो भोग्यवस्तुगुणाश्च | शोभननालरन्ध्रायमाणैः पातालादिसुषिरैः | उद्यमानपयःपूरैरिति सुषिराणां विशेषणम् | दिवसस्यालोकः प्रकाशस्तेन कान्तिमत् || ४ || रसार्द्रं खे भ्रमद्धंसं रात्रिसंकोचभाजनम् | पातालपङ्कनिर्मग्ननागनाथमृणालकम् [नागराज इति पाठः] || ५ || रसैर्मकरन्दैः शृङ्गारादिभिश्च | हंसः सूर्यः प्रसिद्धहंसाश्च || ५ || कदाचिदास्पदाम्भोधिकम्पकम्पितदिगदलम् | अधोनालगतानन्तदैत्यदानवकण्टकम् || ६ || तद्यदपां शर आसीत्तत्समहन्यत सा पृथिव्यभवत् इति श्रुतेः | पुराणेषु वराहेणोद्धृत्य जलोपरि स्थापितत्वप्रसिद्धेश्च भूमेरास्पदभूतो यो महाम्भोध्स्तत्कम्पे भूकम्पात्कम्पितदिग्दलम् || ६ || असुरस्त्रैणवल्लर्या संभोगसुकुमारया | प्राप्य भूभृन्महाबीजहृदयं भूतबीजया || ७ || अधस्ताद्भूतबीजया स्वसंततिभूतप्राणिबीजभूतया | असुराणां स्त्रीणां समूहः स्त्रैणं तल्लक्षणया मृणालकलिकादिवल्लर्या प्राप्यं प्राप्तुं शक्यं भूभृतां मेर्वादीनां महाबीजस्थानीयानां हृदयं हृदयवज्जीवननिमित्तं नालमूलं यस्य || ७ || जम्बुद्वीप इति ख्यातां विपुलां तत्र कर्णिकाम् | सरित्केसरिकानालां नगरग्रामकेसराम् || ८ || तत्र भूपद्मे कर्णिकां ददृशतुरित्यनुषज्यते || ८ || कुलशैलेश्वरोत्तुङ्गबीजसप्तकसुन्दरीम् | मध्यस्थोच्चमहामेरुबीजाक्रान्तनभस्थलीम् || ९ || सरःप्रालेयकणिकां वनजङ्गलधूलिकाम् | स्थलेष्वामण्डलान्तस्थजनजालालिमण्डलाम् [स्थलेषु मण्डलां इति पाठः] || १० || सरांस्येव प्रालेयकणिका हिमबिन्दवो यस्याम् | धूलिकाः परागाः | कर्णिकापर्यन्तस्थलेषु आसमन्तात् मण्डलान्तस्थानि जनजालान्यलिमण्डलानि यस्याः || १० || तां योजनशताकारैः प्रतिराकं प्रबोधिभिः | सागरैर्भ्रमरैर्व्याप्तां दिक्चतुष्टयशालिभिः || ११ || दिग्दलाष्टकविश्रान्तससुराम्भोधिषट्पदाम् | भ्रातृभिर्नवभिर्भूपैर्नवधा परिकल्पिताम् || १२ || सुरैर्दिक्पालैरष्टभिः सहिता अम्भोधयः षट्पदा यस्याम् | पूर्वमेकस्यैव समुद्रस्य दिक्चतुष्टयोपाधिभिश्चतुःसमुद्रभ्रमरकल्पना इह तु अष्टदिक्पालोपाधिभिर्दलेष्वष्टसमुद्रभ्रमरकल्पनेति भेदः | नवभिर्भद्राश्वकेतुमालादिभिः || १२ || लक्षयोजनविस्तीर्णामाकीर्णां च रजोलवैः | नानाजनपदव्यूहस्थिरावश्यायसीकराम् || १३ || द्वीपात्तु द्विगुणं मानं लवणार्णवलेखया | दधत्या वलितां बाह्ये प्रकोष्ठमिव कम्बुना || १४ || द्वीपाद्द्विगुणमित्यादिपौराणिकप्रक्रियाविरुद्धोक्तेर्ब्रह्माण्डान्तरविषयत्वान्म् आयिकत्वे तात्पर्याच्चदोषत्वं बोध्यम् | प्रकोष्ठं करमूलम् | कम्बुना शङ्खवलयेन || १४ || ततोऽपि द्विगुणं देहं दधत्या वलयाकृतिम् | जगद्भूतलताव्याप्तां शाकाख्यद्वीपलेखया || १५ || वलयाकृतिं देहं संस्थानं दधत्या शाकाख्यद्वीपलेखया जगद्भूतया पद्मलतयेव व्याप्ताम् || १५ || ततोऽपि द्विगुऽनाकारं धारयन्त्या च वेष्टिताम् | प्रत्यग्रक्षीरपूर्णाब्धिलेखया स्वादुशीतया || १६ || ततोऽपि द्विगुणाकारं धारयन्त्योपवेष्टिताम् | नानाजनालंकृतया कुशाख्यद्वीपलेखया || १७ || ततोऽपि द्विगुणाकारं धारयन्त्या च वेष्टिताम् | दध्यब्धिलेखया नित्यसंतर्पितसुरौघया || १८ || ततः क्रौञ्चाभिधद्वीपलेखयैवंप्रमाणया | वेष्टितां खातरचया नवां नृपपुरीमिव || १९ || एवंप्रमाणया पूर्ववद्द्विगुणप्रमाणया खातस्य रचनं खातरचा परिखा तया | भिदादित्वकल्पनादङ् || १९ || ततोऽपि च घृताम्भोधिलेखयिवंप्रमाणया | ततोऽपि शाल्मलीद्वीपलेखया मलपूर्णया || २० || मलपूर्णया सुराम्भोधिवेष्टत्वात्पापपूर्णया || २० || ततः सुरामहाम्भोधिलेखया पुष्पशुभ्रया | शेषस्य देहलतया हरिमूर्तिमिवावृताम् || २१ || ततो गोमेदकद्वीपलेखयैवंप्रमाणया | इक्ष्वब्धिलेखयाप्येवं हिमवत्सानुशुद्धया || २२ || इक्ष्वब्धिरिक्षुरसाब्धिः | गोमेदका मणिविशेषास्तत्प्रधानो द्वीपः परिशेषात्प्लक्षद्वीपः || २२ || ततोऽपि पुष्करद्वीपलेखया द्विगुणस्थया | अन्ते स्वादूदकाम्भोधिलेखयैवंप्रमाणया || २३ || ततो दशगुणेनाथ पातालतलगामिना | निखातवलयेनोच्चैः श्वभ्रसंभाररूपिणा || २४ || निखातो निम्नदेशस्तद्बलयेन | श्वभ्रं गर्तस्तस्य संभारः समूहस्तद्रूपिणा | पुराणेषु पूर्वद्विगुणविस्तारया काञ्चनभूम्येत्युक्तं तद्विरोधपरिहारः प्रागुक्तरीत्या बोध्यः | तथाचोक्तं श्रीधराचार्यैः - क्वचित्क्वचित्पुराणादौ विरोधो यदि लक्ष्यते | कल्पमेदादिभिस्तत्र व्यवस्था सद्भिरिष्यते || इति || २४ || प्. १९१) पातालगामिमार्गेण वलितां भयदात्मना | एतस्मात्खलु सर्वस्मात्ततो दशगुणोच्चया || २५ || आव्योमसुचतुर्दिक्षु श्वभ्रसंभारभीषया | अर्धोन्म्लानतमोरूपलग्ननीलोत्पलस्रजा || २६ || आव्योमसूर्ध्वं व्योममर्यादासु संनिहितेनोक्तश्वभ्रसंभारेण भीषया भीषणया | अर्धे परपार्श्वे उन्म्लाना ऊर्ध्वभागे सूर्यप्रकाशसंभेदादवतमसभावापत्त्या म्लानप्राया तमोरूपवलयाकारेण लग्ना नीलोत्पलस्रग्यस्यास्तया || २६ || नानामाणिक्यशिखरकह्लारकुमुदाब्जया | लोकालोकाचलोत्तालविपुलोद्दाममालया || २७ || नानाविधमाणिक्यशिखरसरोरूढकह्लारकुमुदान्येवाब्जानि यस्यास्तया लोकालोकाचललक्षणया औन्नत्येनोत्तालया परिणाहेन विपुलया गुणैश्चोद्दामया मालया वलितामिवेत्युत्तरेणान्वयः || २७ || वलितां त्रिजगल्लक्ष्मीधम्मिल्लवलनामिव | एतस्मादेव सर्वस्मात्ततो दशगुणात्मना || २८ || धम्मिल्लाः संयताः कचाः || २८ || अज्ञातभूतसंचारनाम्नारण्येन मालिताम् | एतस्मादेव सर्वस्मात्ततो दशगुणात्मना || २९ || सर्वपुराणानुरोधात्पाठक्रमादार्थक्रमस्य बलीयस्त्वाच्च अथ योजनकोटीनामित्यन्ते वक्ष्यमाणा ब्रह्माण्डकुड्यव्याप्तिरत्रैव बोध्या | तद्बहिर्जलाद्यावरणान्याह - एतस्मादेवेत्यादिना || २९ || नभसेव चतुर्दिक्कं व्याप्तामतुलवारिणा [ममलवारिणा इति पाठः] | एतस्मादेव सर्वस्मात्ततो दशगुणात्मना || ३० || मेर्वादिद्रावणोत्केन ज्वालाजालेन मालिताम् | एतस्मादथ सर्वस्मात्ततो दशगुणात्मना || ३१ || मेर्वादेर्द्रावणं द्रवीकरणम् | प्रलय इति यावत् | तत्रोत्केनोत्कण्ठितेनेव मलितं ब्रह्माण्डमिति विशेष्यमत्राग्रेऽप्यध्याहार्यम् || ३१ || मेर्वाद्यचलसङ्घातं नयता तृणपांसुवत् | वहताद्रीन्द्रविस्फोटकारिणा जवहारिणा || ३२ || नयतेत्यादिसामर्थ्योक्तिः | भूतान्तराणां जवहारिणां || ३२ || निःशून्यत्वादशब्देन मरुता परितो वृतम् | एतस्मादथ सर्वस्मात्ततो दशगुणात्मना || ३३ || नितरां मूर्तप्रतिघातशून्यत्वादशब्देन || ३३ || परितो वलितं व्योम्ना निःशून्येनैकरूपिणा | अथ योजनकोटीनां शतेन घनरूपिणा | व्याप्तं ब्रह्माण्डकुड्येन हैमेनापि द्विपर्वणा || ३४ || इति जलधिमहाद्रिलोकपाल- त्रिदशपुराम्बरभूतलैः परीतम् | जगदुदरमवेक्ष्य मानुषी द्राग्भुवि निजमन्दिरकोटरं ददर्श || ३५ || मानुषी लीला | निजमन्दिरकोटरं स्वमन्दिराधारं गिरिग्रामावकाशम् || ३५ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे लीलो० भूलोकवर्णनं नाम पञ्चविंशः सर्गः || २५ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे भूलोकवर्णनं नाम पञ्चविंशः सर्गः || २५ || षड्विंशः सर्गः २६ श्रीवसिष्ठ उवाच | इति ते वरवर्णिन्यौ ततो ब्रह्माण्डमण्डलात् | निर्गत्यान्यदनुप्राप्ते यत्र तद्ब्राह्मणास्पदम् || १ || स्वगृहे स्वजनान्दृष्ट्वा श्रुत्वैषां परिदेवितम् | अनुग्रहोऽत्र लीलाया जगत्तत्त्वं च वर्ण्यते || १ || वक्ष्यमाणकथासंबन्धप्रतिपत्तये उक्तमनुवदति - इतीति | तस्मात्पद्मभूपालाधारब्रह्माण्डमण्डलादन्यद्ब्रह्माण्डमण्डलं इति वर्णितप्रकारमनुप्राप्ते || १ || ततो ददृशतुः सद्म स्वमेवं सिद्धयोषितौ | अदृश्ये एव लोकस्य मण्डपं ब्राह्मणास्पदम् || २ || स्वं सद्म गृहम् || २ || चिन्ताविधुरदासीकं बाष्पक्लिन्नाङ्गनामुखम् | विध्वस्तप्रायवदनं शीर्णपर्णाम्बुजोपमम् || ३ || चिन्तया विधुरा विह्वला दास्यो यत्र | अश्रुधूल्यादिमलिनत्वात्परिहृतभूषणतिलकत्वाद्विध्वस्तप्रायाणि जनवदनानि यस्मिन् || ३ || नष्टोत्सवपुरप्रायमगस्त्यात्तमिवार्णवम् | ग्रीष्मदग्धमिवोद्यानं विद्युद्दग्धमिव द्रुमम् || ४ || अगस्त्येन आत्तं पीतम् | ग्रीष्मेण दग्धं शुष्कम् || ४ || वातच्छिन्नमिवाम्भोदं हिमदग्धमिवाम्बुजम् | अल्पस्नेहदशं दीपमिवालोकनभेदनम् || ५ || स्नेहस्तैलादिर्दशा वर्तिः | आलोक्यते येन तदालोकनं चक्षुस्तस्य भेदनम् | दुर्दर्शमिति यावत् || ५ || आसन्नमृत्युकरुणाकुलवक्त्रकान्ति- संशीर्णजीर्णतरुपर्णवनोपमानम् | वृष्टिव्यपायपरिधूसरदेशरूक्षं जातं गृहेश्वरवियोगहतं गृहं तत् || ६ || करुणाशोकोद्दीपको भावविशेषो रसो वा तया आकुला | निरस्तेति यावत् | वक्रकान्तिर्यस्य | अत एवासन्नमृत्यवव स्थितम् | संशीर्णानि जीर्णतरुपर्णानि यस्मिंस्तथाविधं वनमुपमानं यस्य | वृष्टिव्यापायोऽनावृष्टिः || ६ || प्. १९२) श्रीवसिष्ठ उवाच | अथ सा निर्मलज्ञानचिराभ्यासेन सुन्दरी | संपन्ना सत्यसंकल्पा सत्यकामा च देववत् || ७ || सा लीला || ७ || चिन्तयामास मामेते देवीं चेमां स्वबन्धवः | पश्यन्तु तावत्सामान्यललनारूपधारणीम् || ८ || ततो गृहजनस्तत्र स ददर्शाङ्गनाद्वयम् | लक्ष्मीगौर्योर्युगमिव समुद्भासितमन्दिरम् || ९ || आपादविविधाम्लानमालावसनसुन्दरम् | वसन्तलक्ष्म्योर्युगलमिवामोदितकाननम् || १० || आपादेत्याद्यष्टश्लोक्याङ्गनाद्वयं वर्णयति | आपादग्रहणमामस्तकत्वस्याप्युपलक्षणम् | विविधानामम्लानानां मालानां वलनैर्व्यापनैः || १० || सर्वौषधिवनग्रामं पूरयन्त्यौ रसायनैः | शीतलाह्लादसुखदं चन्द्रद्वयमिवोदितम् || ११ || ओषध्यः फलपाकान्ताः पूरयन्त्यौ पूरयत् | नपुंसकैकविशेष्योपक्रमाल्लिङ्गवचनव्यत्ययश्छान्दसः | रसायनैश्चन्द्रिकामृतैः || ११ || लम्बालकलतालोललोचनालिविलोकनैः | किरत्कुवलयोन्मिश्रमालतीकुसुमोत्करान् || १२ || अलकलतानां संनिधावालोलत्वादलित्वेन परिणतैर्लोचनैरिति यावत् | कटाक्षाणां नीलोन्मिश्रधवलच्छवित्वात्कुवलयोन्मिश्रमालतीकुसुमोच्चयत्वेनोत्प्रेक्षा || १२ || द्रुतहेमरसापूरसरित्सरणहारिणा | देहप्रभाप्रवाहेण [प्रभविन इति पाठः] कनकीकृतकाननम् || १३ || द्रवीकृतस्वर्णरसप्रवाहायाः सरितः सरणं वेग इव मनोहारिणा || १३ || सहजाया वपुर्लक्ष्म्या लीलादोलाविलासिनः | त एते च तरङ्गाढ्या निजलावण्यवारिधेः || १४ || वपुःकान्तिलक्षणाया लक्ष्म्या लीलार्थं कॢप्ता दोलाः प्रेङ्खोलिका इव विलासिनो विलसनशीला ये निजलावण्यस्य स्वभावसुन्दरब्रह्मात्मकस्य स्वसौन्दर्यलक्षणस्य वा वारिधेस्तरङ्गाढ्यास्तरङ्गश्रेष्ठाः प्रसिद्धास्ते एते अङ्गने एवेत्युत्प्रेक्षया प्रत्यभिज्ञायमानमिति शेषः || १४ || विलोलबाहुलतिकायुगेनारुणपाणिना | किरन्नवनवं हैमं कल्पवृक्षलतावनम् || १५ || प्रत्येकं बाहुलतिकयोररुणपाण्योश्च विलोलत्वेन विशेषणात्प्रतिक्षणं विन्यासभेदेन समुदाये कल्पितवनसंस्थानभेदान्नवान्नवं कल्पवृक्षलतावनं किरद्विक्षिपत् | कल्पयदिति यावत् || १५ || पादैरमृदिताम्लानपुष्पकोमलपल्लवैः [पुष्पपल्लवकोमलैः इति पाठः] | स्थलाब्जदलमालाभैरस्पृशद्भूतलं पुनः || १६ || अमृदितान्यम्लानानि च यानि पुष्पाणि कोमलपल्लवानि वा तद्रूपैः पादैः | पल्लवकोमलैः इति पाठे तु स्पष्टम् | अब्जसादृश्यस्य पुष्पत्वरूपकादेव लाभादपौनरुक्त्याय दलमालाभैरित्युक्तम् || १६ || तालीतमालखण्डानां शुष्काणां शुचिशोचिषाम् | आलोकनामृतासेकैर्जनयद्बालपल्लवान् || १७ || शुचिशोचिषां पाण्डुरवर्णानाम् || १७ || नमोऽस्तु वनदेवीभ्यामित्युक्त्वा कुसुमाञ्जलिम् | तत्याज ज्येष्ठशर्माथ सार्धं गृहजनेन सः || १८ || ज्येष्ठशर्माख्यो ज्येष्ठपुत्रः || १८ || पपात पादयोर्गेहे तयोर्वै कुसुमाञ्जलिः | प्रालेयसीकरासारः पद्मिन्या इव पद्मयोः || १९ || प्रालेयसीकरासारो हिम्म्बुकणवर्षः | पद्मिन्याः पद्मवल्ल्याः || १९ || जयतमिति लोण्मध्यमपुरुषद्विवचनम् || २० || ज्येष्ठशर्मादय ऊचुः | जयतं वनदेव्यौ नो दुःखनाशार्थमागते | प्रायः परपरित्राणमेव कर्म निजं सताम् || २० || इति तद्वचनान्ते ते देव्यावूचतुरादरात् | आख्यात दुःखं येनायं लक्ष्यते दुःखितो जनः || २१ || ज्येष्ठशर्मादयस्ते ते देव्यौ प्रति यथाक्रमम् | निजं तद्दुःखमाचख्युर्दम्पतिव्यसनात्मकम् || २२ || दम्पत्योर्व्यसनं विपत्तिस्तदात्मकम् || २२ || ज्येष्ठशर्मादय ऊचुः | देव्यावभवतां स्निग्धाविह ब्राह्मणदम्पती | सर्वातिथी कुलकरौ स्तम्भाभूतौ द्विजस्थितेः || २३ || हे देव्यौ कुलं संततिः द्विजानां स्थितेर्मर्यादायाः स्तम्भवदाधारभूतौ || २३ || तावद्य गृहमुत्सृज्य सपुत्रपशुबान्धवम् | स्वर्गं गतौ नः पितरौ तेन शून्यं जगत्त्रयम् || २४ || अद्येत्यचिरत्वलक्षणार्थम् | शून्यं शून्यमिव || २४ || पक्षिणो गृहमारुह्य विक्षिपन्तः प्रतिक्षणम् | देहं शून्ये मृतं भक्त्या शोचन्ति मधौरैः स्वरैः || २५ || पूर्णः पूर्णं जगत्पश्येत्कामुकः कामुकं जगत् | आर्तोप्यार्तिमयं विश्वं लुब्धो लुब्धं स्वचित्तवत् || इति न्यायेनाहुः - पक्षिण इत्यादिना | शून्ये आकाशे स्वदेहं विक्षिपन्तः || २५ || गुहागुरुगुरारावप्रलापलपनाकुलः | सरित्स्थूलाश्रुधाराभिः परिरोदिति पर्वतः || २६ || गुहारूपाणि यानि गुरुगुरारावप्रलापानि लपनानि मुखानि तैरकुलो व्याप्तो व्याकुलश्च || २६ || निर्जराक्रन्दकारिण्यो मुक्ताम्बरपयोधराः | तप्तनिःश्वासविध्वस्ताः परं कार्श्यमिता दिशः || २७ || मुक्ताम्बरास्त्यक्ताकाशास्त्यक्तवस्त्राश्च पयोधरा मेघाः स्तनाश्च यासाम् | दिवपक्षे वाष्पधूसरा वायवो निःश्वाससाम्यान्निःश्वासाः | कार्श्यमपुष्टिम् || २७ || क्षतविक्षतसर्वाङ्गः करुणाक्रन्दकर्कशः | उपवासरतो ग्रामो दीनो मृतिपरः स्थितः || २८ || भूपरिलुठनाभिहननादिना क्षतविक्षतसर्वाङ्गः | ग्रामशब्दो जनपरः मृतिपरो मर्तुकामः || २८ || प्. १९३) दिवसं प्रति वृक्षाणामवश्यायाश्रुबिन्दवः | गुच्छलोचनकोशेभ्यस्तापोष्णानि पतन्त्यधः || २९ || दिवसं प्रति लक्षणीकृत्य | लक्षणेत्थंभूत इति कर्मप्रवचनीययुक्ते द्वितीया | ताप आतपः शोकाग्निश्च || २९ || प्रशान्तजनसंचारा रथ्या क्षारविधूसरा | विधवाविगतानन्दा संशून्यहृदया स्थिता || ३० || क्षार ऊषरस्तेन विधूसरा रथ्या विधवेव विगतानन्दा स्थिता || ३० || कोकिलालिप्रलापिन्यो वृष्टिबाष्पहृता लताः | उष्णोष्णश्वसना देहं घन्ति पल्लवपाणिभिः || ३१ || कोकिलैरलिभिश्च प्रलापिन्यः || ३१ || आत्मानं शतधा कर्तुं बृहच्छ्वभ्रशिलातले | निर्झराः प्रपतन्त्येते तापतप्तशरीरकाः || ३२ || शतधा कर्तुम् | चूर्णयितुमिति यावत् | श्वभ्रं गर्तस्तत्रत्ये शिलातले | शुभ्रे इति पाठे स्फटिकशिलातले || ३२ || निःशङ्कया गतश्रीका मूका विलुलिताशयाः | अन्धेन तमसा पूर्णा गृहा गहनतां गताः || ३३ || मूकाः हर्षवार्ताविधुराः | विलुलिता आशया इवान्तरा भाण्डोपस्करादयो [भाण्डोपस्कारादयः इति पाठः] येषु | यत एवंरूपा अतो निःशङ्कया असंशयं गतश्रीकाः सन्तो गहनतामरण्यताम् || ३३ || उद्यानपुष्पखण्डेभ्यो रुदद्भ्यो भ्रमरारवैः | पूतिगन्धो विनिर्याति स्वामोदापरनामकः || ३४ || स्वामोदोऽपि शोकार्तैर्घ्राणपीडकत्वात्पूतिरिति निन्द्यते || ३४ || चैत्रद्रुमविलासिन्यो विरसाः प्रतिवासरम् | लताः कृशा विलीयन्ते संकुचद्गुच्छलोचनाः || ३५ || चैत्रद्रुमान्विलासयन्ति तच्छीलाः | चैत्य इति पाठे स्पष्टम् | विलीयन्ते विशीर्यन्ते || ३५ || प्रक्षेप्तुमम्बुधौ देहं प्रवृत्ता गन्तुमाकुलाः | कुल्याः कलकलालोलं दोलयन्त्यस्तनुं भुवि || ३६ || कुल्याग्रहणं सरिन्मात्रोपलक्षणम् || ३६ || अशङ्कमशकापातस्पन्दमप्यतिचापलम् | कलयन्त्यः स्थिता वाप्यो निस्पन्दानन्दमात्मनि || ३७ || प्राग्जनव्यवहारादतिचापलमपि कलयन्त्यो वाप्यः सांप्रतमशङ्कः असंभावितो मशकापातप्रयुक्तस्पन्दोऽपि यत्र तद्यथा स्यात्तथा आत्मनि स्वस्वरूपे समाधिनिष्ठा इव निस्पन्दानन्दं स्थिताः || ३७ || गायत्किन्नरगन्धर्वविद्याधरसुराङ्गनम् | नूनमद्य नभो जातमस्मत्ताताभ्यलंकृतम् || ३८ || तातग्रहणं मातुरप्युपलक्षणम् || ३८ || तद्देव्यौ क्रियतां तावदस्माकं शोकनाशनम् | महतां दर्शनं नाम न कदाचन निष्फलम् || ३९ || एवं शोकमुपवर्ण्य विवक्षितमर्थमाहुः - तदिति | तत्तस्माद्धेतोः || ३९ || इत्युक्तवन्तं सा पुत्रं मूर्ध्नि पस्पर्श पाणिना | पल्लवेनानता नम्रं मूलग्रन्थिमिवाब्जिनी || ४० || पल्लवेन स्वसंतानमूलग्रन्थिमिव अर्थाज्जलापाये इति लभ्यते || ४० || तस्याः स्पर्शेन तेनासौ दुःखदौर्भाग्यसंकटम् | जहौ प्रावृड्घनासङ्गाद्ग्रीष्मतापमिवाचलः || ४१ || सर्वो गृहजनः सोऽथ तयोर्देव्योर्विलोकनात् | लक्ष्मीवान्दुःखनिर्मुक्तो बभूवामृतपो यथा || ४२ || श्रीराम उवाच | तयास्य लीलया मात्रा पुत्रस्य ज्येष्ठशर्मणः | कस्मान्न दर्शनं दत्तं मोहं तावन्निराकुरु || ४३ || लीलायाः सत्यसंकल्पत्वात्पूर्वतनमातृशरीरेणैव पुत्रस्याश्वासनाय दर्शनं कुतो न दत्तमिति रामः शङ्कते - तयेति | मात्रा मातृशरीरेण | मोहमिति | मोहापगमे तत्कार्यसंशयः स्वयमेव गमिष्यतीत्याशयः || ४३ || श्रीवसिष्ठ उवाच | बुद्धः पृथ्व्यादिबोधेन येन पृथ्व्यादिसङ्घकः | तस्य पिण्डात्मतां धत्ते व्योमैवान्यस्य केवलम् || ४४ || लीलायाः पुत्रगेहागमनस्य प्रपञ्चमिथ्यात्वपरीक्षार्थत्वेन पुत्रस्नेहप्रयुक्तत्वाभावात्पुत्रादिप्रपञ्चे मिथ्यात्वनिश्चये च पुत्रस्नेहाभावात्तत्त्वज्ञानेन मूलबाधोत्तरं वर्तमानशरीरातिरिक्तभौतिकशरीरधारणायोगाच्च न पूर्वशरीरधारणमिति सोपपत्तिकमुत्तरयितुं वसिष्ठ उपक्रमते - बुद्ध इत्यादिना | येनाज्ञेन मिथ्यापृत्व्ह्यादिसंघको देहः सत्यपृथ्व्यादिबोधेन बुद्धस्तस्य वस्तुतः केवलमद्वितीयं चिद्व्योमैव भ्रान्त्या पिण्डात्मतां धत्ते | अन्यस्य तत्त्वज्ञस्य तु तद्धेत्वज्ञानाभावात्केवलमद्वितीयं चिद्व्योमैवावतिष्ठत इत्यर्थः || ४४ || असदेवाङ्ग सदिव भाति पृथ्व्यादिवेदनात् | यथा बालस्य वेतालो नाभाति तदवेदनात् || ४५ || बालस्य भ्रान्त्या ना पुरुषस्तदवेदनाद्वेतालो भाति || ४५ || यथा पृथ्व्यादिना भातमपृथ्व्यादि भवेत्क्षणात् | स्वप्ने स्वप्नपरिज्ञानात्तथा जाग्रत्यपि स्फुटम् || ४६ || स्वप्नपरिज्ञानात्स्वप्नत्वपरिज्ञानात् || ४६ || पृथ्व्यादि खतया बुद्धं खमित्येवानुभूयते | तथाहि क्षुब्धधातूनां कुड्येषु ख इवोद्यमः || ४७ || क्षुब्धपित्तादिधातूनाम् | विक्षिप्तानामिति यावत् | द्वाराभासस्फटिकादिकुड्येषु || ४७ || स्वप्ने नगरमुर्वीं [ऊर्वी इत्युभयत्र पाठः] वा शून्यं खातं च बुध्यते | स्वप्नाङ्गना च कुरुते शून्याप्यर्थक्रियां नृणाम् || ४८ || नगरं शून्यमूर्वी [ऊर्वी इत्युभयत्र पाठः] समभुवं खातं बुध्यते | पादसंवाहनाद्यर्थक्रियाम् || ४८ || खं पृथ्व्यादितया बुद्धं पृथ्व्यादि भवति क्षणात् | मूर्च्छायां परलोकोऽपि प्रत्यक्षमनुभूयते || ४९ || परमार्थवस्तु यथाबोधं विवर्तत इति सर्वानुभवसिद्धमित्याह - स्वमित्यादिना | अनुभूयते कैश्चिदिति शेषः || ४९ || बालो व्योमैव वेतालं म्रियमाणोऽम्बरे वनम् | केशोण्ड्रकं खमन्यस्तु खमन्यो वेत्ति मौक्तिकम् || ५० || त्रस्तक्षीबार्धनिद्राश्च नौयानाश्च सदैव खे | वेतालवनवृक्षादि पश्यन्त्यनुभवन्ति च || ५१ || त्रस्ता भीताः क्षिबा मत्ताः अर्धनिद्रा अर्धजागरूकाः | अनुभवन्ति तत्प्रयुक्तं पलायनादिकार्यमित्यर्थः || ५१ || प्. १९४) यथाभावितमेतेषां पदार्थानामतो वपुः | अभ्यासजनितं भाति नास्त्येकं परमार्थतः || ५२ || एकं नियतम् || ५२ || लीलया तु यथावस्तु बुद्धा पृथ्व्यादिनास्तिता | आकाशमेव संवित्त्या भाति भ्रान्तितयोदितम् || ५३ || कथं बुद्धा तदाह - आकाशमेवेति | भ्रान्तितया मिथ्याप्रपञ्चतया || ५३ || ब्रह्मात्मैकचिदाकाशमात्रबोधवतो मुनेः | पुत्रमित्रकलत्राणि कथं कानि कदा कुतः || ५४ || चतुर्भिः किंवृत्तैः प्रकारप्रकारिकालनिमित्तन्याक्षिप्यन्ते || ५४ || दृश्यमादावनुत्पन्नं यच्च भात्यजमेव तत् | सम्यग्ज्ञानवतामेवं रागद्वेषदृशो कुतः || ५५ || हस्तः शिरसि यद्दत्तो लीलया ज्येष्ठशर्मणः | तत्प्रभावस्थितारम्भसंबोधायाश्चितेः फलम् || ५६ || ननु पुत्रस्नेहाद्यभावे लीलया कुतः शिरसि हस्तो दत्तस्तत्राह - हस्त इति | हस्तः शिरसि दत्त इति यत्तन्न पुत्रस्नेहफलं किंतु तस्य ज्येष्ठशर्मणः प्रभावाय भाविशुभार्थं स्थितौ आरम्भसंबोधौ प्राक्तनसुकृतोपक्रमतत्फलप्रदेश्वरबोधौ यस्यां तथाविधायाः सर्वाधिष्ठानचितेरेव विवर्तरूपं फलमित्यर्थः || ५६ || बोधो हि चेतति यथैव तथा शुभानि सूक्ष्मस्तु खादपि तथातितरां विशुद्धः | सर्वत्र राघव स एव पदार्थजालं स्वप्नेषु कल्पितपुरेष्वनुभूतमेतत् || ५७ || सर्गसारार्थमनुवदन्नुपसंहरति - बोध इति | यथैव प्राक् चेतति चिन्तयति || ५७ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे लीलोपाख्याने सिद्धदर्शनहेतुकथनं नाम षड्विंशः सर्गः || २६ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे सिद्धदर्शनहेतुकथनं नाम षड्विंशः सर्गः || २६ || सप्तविंशः सर्गः २७ श्रीवसिष्ठ उवाच | तस्मिन् गिरितटे ग्रामे तस्य मण्डपकोटरे | अन्तर्धिमाश्वाययतुस्तत्रस्थे [अन्तर्धिमापतुर्दृङ्गा ततस्ते सिद्धयोषितौ इति पाठः] एव ते स्त्रियौ || १ || लीलात्र विस्मिता भूयो भर्तृदर्शनलालसा | ज्ञप्त्या प्रबोधिता स्मृत्वा स्वजन्मान्याह भूरिशः || १ || तस्य द्विजसद्मनो मण्डपकोटरे मण्डपाकाशे | तत्रस्थे ज्येष्ठशर्मादीनां पुरोदेशस्थे एवान्तर्धिमन्तर्धानं आययतुः प्रापतुः || १ || अस्माकं वनदेवीभ्यां प्रसादः कृत इत्यथ | शान्तदुःखे गृहजने स्वव्यापारपरे [परस्थिते इति पाठः] स्थिते || २ || स्वव्यापारः स्वगृहकृत्यं तत्परे || २ || मण्डपाकाशसंलीनां लीलामाह सरस्वती | व्योमरूपा व्योमरूपां स्मयात्तूष्णीमिव [तूष्णीं व्यवस्थिताम् इति पाठः] स्थिताम् || ३ || संलीनां इतरजनदृष्ट्या अन्तर्हिताम् | तर्हि ते किं वस्तुतः सदेहे नेत्याह - व्योमरूपेति | शून्यात्मकसंकल्पशरीरा | तादृशीमिति यावत् | स्मयाद्विस्मयात् || ३ || संकल्पस्वप्नयोर्येषां यत्र संकथनं मिथः | यथेहार्थक्रियां धत्ते तयोः सा संकथा तथा || ४ || ननु अन्योन्यसांकल्पिकस्यान्योन्यादृश्यत्वात्कथं तयोः संवादोपपत्तिरिति रामस्य शङ्कां लिङ्गैरुपलक्ष्य स्वयमेव वसिष्ठः समाधत्ते - संकल्पेति | लोके येषां देवतानुग्रहादिना उषानिरुद्धयोरिव तुल्य एव परस्परसंवादिसंकल्पः स्वप्नो वा जातस्तेषां तत्र मिथः संकथन यथा औत्तरकालिकीमर्थक्रियां धत्ते तयोर्ज्ञप्तिलीलयोः संकथा संवादोऽपि तथेत्यर्थः || ४ || पृथ्व्यादिनाडीप्राणादि-ऋतेऽप्यभ्युदिता तयोः | सा संकथनसंवित्तिः स्वप्नसंकल्पयोरिव || ५ || अधिभूतं पृथ्व्यादि अध्यात्मं नाडीप्राणाद्युपलक्षितशरीरमपि ऋते विना || ५ || श्रीसरस्वत्युवाच | ज्ञेयं ज्ञातमशेषेण दृष्टादृष्टार्थसंविदः [द्रष्टव्यसंविदः इति पाठः] | ईदृशीयं ब्रह्मसत्ता किमन्यद्वद पृच्छसि || ६ || इत्थमुक्ताशङ्कां समाधाय प्रस्तुतकथामनुसरति - श्रीसरस्वत्युवाचेति || ६ || लीलोवाच | मृतस्य भर्तुर्जीवोऽसौ यत्र राज्यं करोति मे | तत्राहं किं न तेर्दृष्टा दृष्टास्मीह सुतेन किम् || ७ || किंकारणं न दृष्टेत्यर्थः || ७ || श्रीसरस्वत्युवाच | अभ्यासेन विना वत्से तदा ते द्वैतनिश्चयः | नूनमस्तंगतो नाभून्निःशेषं वरवर्णिनि || ८ || अभ्यासेन विना अभ्यासाभावादित्यर्थः | द्वैतनिश्चयः प्रपञ्चसत्यतानिश्चयः || ८ || अद्वैतं यो न यातोऽसौ कथमद्वैतकर्मभिः | युज्यते तापसंस्थस्य च्छायाङ्गानुभवः कुतः || ९ || न यातो भेदकाऽविद्योच्छेदेन न प्राप्तः | अद्वैतकर्मभिः सत्यसंकल्पत्वाद्यर्थक्रियाभिः | छायाया अङ्गं गुणः शैत्यं तदनुभवः | छायोपविष्टाङ्गस्य पुंसो योऽनुभवः स वा || ९ || लीलास्मीति विनाभ्यासं तव नास्तगतोऽभवत् | यदा भावस्तदा सत्यसंकल्पत्वमभून्न ते || १० || लीलादेह एवाहमस्मीति भावो दृढसंस्कारः || १० || अद्यासि सत्यसंकल्पा संपन्ना तेन मां सुतः | संपश्यत्वित्यभिमतं फलितं तव सुन्दरि || ११ || अद्य सत्यसंक्लपा संपन्नासि | सुतो मां पश्यत्वित्यभिमतमीप्सितम् || ११ || प्. १९५) इदानीं तस्य भर्तुस्त्वं समीपं यदि गच्छसि | तत्तेन व्यवहारस्ते पूर्ववत्संप्रवर्तते || १२ || लीलोवाच | इहैव मन्दिराकाशे पतिर्विप्रो ममाभवत् | इहैव स मृतो भूत्वा संपन्नो वसुधाधिपः || १३ || एवं प्रत्यक्षमुपदर्शनेनोपदेशेन च प्रज्ञोक्तार्थे निवृत्तासंभवाशङ्का मण्डपाकाशान्तरेव भर्तृपरलोकद्वयस्य ब्रह्माण्डसहस्राणां च संभवमनुवदन्ती लीला पुनः स्वभर्तृमण्डलदर्शनं प्रार्थयते - इहेत्यादिना || १३ || इहैव तस्य संसारे तस्मिन्भूमण्डलान्तरे | राजधानीपुरे तस्मिन्पुरन्ध्र्यस्मि [पुरतोऽस्मिन्व्यवस्थिता इति पाठः] व्यवस्थिता || १४ || पुरन्ध्री राजमहिषी | व्यवस्थिता वसुधाधिपस्येत्यनुषज्यते || १४ || इहैवान्तःपुरे तस्मिन्स मृतो मम भूपतिः | इहैवान्तःपुराकाशे तस्मिन्नेव पुरे नृपः || १५ || संपन्नो वसुधापीठे नानाजनपदेश्वरः | सर्वार्जवजवीभाव इहैवैवं व्यवस्थितः || १६ || सर्ववस्तूनां आर्जवमकापट्यं कूटस्थं पारमार्थिकं ब्रह्म तस्मिन्कल्पितो जवीभावो मायिकचलनादिविकारः एवं उक्तदृष्टश्रुतलक्षण इहैव मण्डपाकाशे व्यवस्थितः || १६ || अस्मिन्नेव गृहाकाशे सर्वा ब्रह्माण्डभूमयः | स्थिताः समुद्रके मन्ये यथान्तः सर्षपोत्कराः || १७ || समुद्रके संपुटके || १७ || सदाऽदूरमहं मन्ये तद्भ्र्तुर्मम मण्डलम् | क्वचित्पार्श्वे स्थितमिह यथा पश्यामि तत्कुरु || १८ || अदूरमतिसंनिहितम् || १८ || श्रीदेव्युवाच | भूतलारुन्धतिसुते भर्तारस्तव संप्रति | त्रयो नामाथवाभूवन्बहवः शतसंमताः || १९ || न केवलं सांप्रतिकमेवैतन्मण्डपाकाशे अस्ति किंत्वतीतानागतं सर्वमपि तत्र तेऽनेकजन्मसंबन्धिष्वनेकभर्तृशब्दवाच्यशरीरेषु सर्वेषां दर्शनायोगात्संनिहितेषु त्रिषु कतममण्डलं प्रदर्श्यतामित्याशयेनाह ##- नेदीयसां त्रयाणां तु द्विजस्ते भस्मतां गतः | राजा माल्यान्तरगतः संस्थितोऽन्तःपुरे शवः || २० || नेदीयसामन्तिकतमानां मध्ये | इष्ठनो विषये ईयसुन् छान्दसः || २० || संसारमण्डले ह्यस्मिंस्तृतीयो वसुधाधिपः | महासंसारजलधिं पतितो भ्रममागतः || २१ || पतितः प्रविष्टः || २१ || भोगकल्लोलकलनाविकलो मलचेतनः | जाड्यजर्जरचिद्वृत्तिः संसाराम्भोधिकच्छपः || २२ || भोगलक्षणानां कल्लोलानां कलनाभिर्विकलो विक्षिप्तः | तत एव मलयुक्ता चेतना बुद्धिर्यस्य | अत एतदन्तः प्रतिफलिता चिद्वृत्तिरपि तज्जाड्येनैव जर्जरा शिथिलप्राया यस्य || २२ || चित्राणि राजकार्याणि कुर्वन्नप्याकुलान्यपि | सुप्तः स्थितो जडतया न जागर्ति भवभ्रमे || २३ || ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान्सुखी | इत्यनर्थमहारज्ज्वा वलितो वशतां गतः || २४ || अवशतामस्वतन्त्रताम् || २४ || तत्कस्य वद भर्तुस्त्वां समीपं वरवर्णिनि | वात्या वनान्तरं गन्धलेखामिव वनान्नये || २५ || वातसमूहो वात्या | पाशादिभ्यो यः || २५ || अन्य एव हि संसारः सोऽन्यो ब्रह्माण्डमण्डपः | अन्या एव तता वत्से व्यवहारपरम्पराः || २६ || तता विस्तृताः || २६ || संसारमण्डलानीह तानि पार्श्वे स्थितान्यपि | दूरं योजनकोटीनां कोटयस्तेष्विहान्तरम् || २७ || इहास्मिन्मण्डपाकाशे | अधिष्ठानचिद्दृष्ट्या पार्श्वे अन्तः | संनिधाविति यावत् | अपि यद्यपि तथापि | इह सांसारिकदृष्टौ | दूरमन्तरं | व्यवधानमित्यर्थः || २७ || आकाशमात्रमेतेषामिदं पश्य वपुः [पुनः पुनः इति पाठः] पुनः | मेरुमन्दरकोटीनां कोटयस्तेष्ववस्थिताः || २८ || परमार्थदृष्ट्या त्वाह - आकाशमात्रमिति | एतेषां संसारमण्डलानां इदं पारमार्थिकं वपुः स्वरूपं मण्डपान्तस्थचिदाकाशमात्रम् | तेष्वेतेषु || २८ || परमाणौ परमाणौ सर्ववर्गानिरर्गलम् | महाचितेः स्फुरन्त्यर्करुचीव त्रसरेणवः || २९ || अर्कस्य रुचिजालान्तरस्थमरीचौ || २९ || महारम्भगुरूण्येवमपि ब्रह्माण्डकानि हि | तुलया धानकामात्रमपि तानि भवन्ति नो || ३० || एवं दर्शितब्रह्माण्डवदेव तानि महद्भिर्द्वीपसमुद्रभुवनाद्यारम्भैर्गुरूणि महान्त्यपि चिद्दृष्टितुलया दृष्टानि [दृष्टाभिधानका इति पाठः] धानका वटबीजानि तावन्मात्रमपि न भवन्तीत्यर्थः || ३० || नानारत्नामलोद्द्योतो वनवद्भाति खे यथा | पृथ्व्यादिभूतरहिता जगच्चिद्भाति चिन्तया || ३१ || वस्तुतः पृथ्व्यादिभेदरहितैव चिज्जगद्भाति | चिन्तया आविद्यकदृढवासनया || ३१ || कचति ज्ञप्तिरेवेदं जगदित्यादि नात्मनि | नतु पृथ्व्यादि संपन्नं सर्गादावेव किंचन || ३२ || भ्रान्त्या जगद्भानेऽपि न वस्तुनि कदाचिदपि किंचित्संपन्नमित्याह - कचतीति || ३२ || यथा तरङ्गः सरसि भूत्वा भूत्वा पुनर्भवेत् | विचित्राकारकालाङ्गदेशाज्ञप्तावलं तथा || ३३ || विचित्राकाराः कालाः कालाङ्गानि दिनरात्र्यादीनि ब्रह्माण्डा भुवनादिदेशाश्च ज्ञप्तौ महाचिति भूत्वा भूत्वा भवन्तीत्यर्थः || ३३ || लीलोवाच | एवमेतज्जगन्मातर्मया स्मृतमिहाधुना | ममेदं राजसं जन्म न तमो न च सात्त्विकम् || ३४ || इदं लीलाजन्म राजसं रजःकार्यं दुःखसंतापबाहुल्यात् मध्ये तिष्थन्ति राजसाः इति मर्त्यजन्मनां राजसत्वस्मृतेश्चेत्यर्थः || ३४ || प्. १९६) ब्रह्मणस्त्ववतीर्णाया अष्टौ जन्मशतानि मे | नानायोनीन्वतीतानि पश्यामीवाधुना पुनः || ३५ || ब्रह्मणो हिरण्यगर्भादेतत्कल्पादावन्तःकरणोपाध्युत्पत्त्या प्रतिबिम्बतया तत्रावतीर्णायाः | पश्यामीव स्फुटं स्मरामीति यावत् || ३५ || संसारमण्डले देवि कस्मिंश्चिदभवं पुरा | लोकान्तराब्जभ्रमरी विद्याधरवराङ्गना || ३६ || लोकान्तरं विद्याधरलोकस्तदेवाब्जम् || ३६ || दुर्वासनाकलुषिता ततोऽहं मानुषी स्थिता | संसारमण्डलेऽन्यस्मिन्पन्नगेश्वरकामिनी || ३७ || मानुषी भूत्वा स्थिता | ततः पन्नगेश्वरकामिनी अभवमित्यनुषङ्गः || ३७ || कदम्बकुन्दजम्बीरकरञ्जवनवासिनी | पत्राम्बरधरा श्यामा शवर्यहमथाभवम् || ३८ || वनवासनया मुग्धा संपन्नाहमथोद्धता | गुलुच्छनयना पत्रहस्ता वनविलासिनी || ३९ || वासनया इति पाठे स्पष्टम् | वासतया इति पाठे तु वने वासो यस्यास्तद्भावेन मुग्धा मूढा | धर्ममर्यादानभिज्ञेति यावत् | अत एवोद्धता दुष्कर्मसंचयात् | गुलुच्छशब्दस्तत्पुष्पगुच्छपरः | वनविलासिनी लता जाता अर्थाद्गुलुच्छलतेति गम्यते || ३९ || पुण्याश्रमलता साहं मुनिसङ्गपवित्रिता | वनाग्निदग्धा तस्यैव कन्याभूवं महामुनेः || ४० || अस्त्रीत्वफलदातॄणां कर्मणां परिणामतः | राजाहमभवं श्रीमान्सुराष्ट्रेषु समा शतम् || ४१ || अस्त्रीत्वं पुंस्त्वं तत्प्रयुक्तस्य राज्यादिभोगफलस्य दातॄणां प्राक्संचितकर्मणाम् | समाः संवत्सरान् || ४१ || तालीनां तलकच्छेषु राजदुष्कृतदोषतः | नकुली नववर्षाणि कुष्ठनष्टाङ्गिकाभवम् || ४२ || कच्छा जलप्रायदेशाः | राजदुष्कृतदोषः परस्वापहारादिः || ४२ || वर्षाण्यष्टौ सुराष्ट्रेषु देवि गोत्वं कृतं मया | मोहाद्दुर्जनदुष्टाज्ञबालगोपाललीलया || ४३ || सुराष्ट्रा देशविशेषाः | गोत्वं कृतम् | गोजन्मानुभूतमिति यावत् | दुर्जना दुष्टा अज्ञा बालाश्च ये गोपालास्तेषां ताडनानुधावनादिलीलया || ४३ || विहंग्या वैरविन्यस्ता वागुरा विपिनावनौ | क्लेशेन महता च्छिन्ना अधमा वासना इव || ४४ || विहङ्ग्या विहङ्गीजन्मप्राप्तया मया निष्कारणवैरादेव व्याधैर्विन्यस्ता वागुराः | अधमा वासनाः द्वैतवासनाः || ४४ || कर्णिकाक्रोडशयासु विश्रान्तमलिना सह | पद्मकुड्मलकोशेषु भुक्तकिंजल्कया रहः || ४५ || कर्णिकाक्रोडाः किंजल्कमध्यानि त एव शययाः | कुड्मला मुकुलाः | अलिना सहेत्यर्थादलिनीजन्मप्राप्तयेति गम्यते || ४५ || भ्रान्तमुत्तुङ्गशृङ्गासु हरिण्या हारिनेत्रया | वनस्थलीषु रम्यासु किराताहतमर्मया || ४६ || हरिष्या मृग्या मया | हारिनेत्रया रम्येक्षणया || ४६ || दृष्टं नष्टासु दिक्ष्वब्धिकल्लोलैरुह्यमानया | मत्स्याम्बुकच्छपाच्छोडे मोघमाननताडनम् || ४७ || अब्धिकल्लोलैरुह्यमानया मत्स्या मया सूर्यतिष्यागस्त्यमत्स्यानां य उपधायाः इति यलोपः | दिक्षु नष्टासु दिग्भ्रमे सति भ्रान्त्या | कैवर्तसविधं प्राप्तयेति यावत् | कैवर्तैर्यष्ट्यादिना कृतमाननप्रदेशे ताडनं दवोपनीते अम्बुनि बृहत्तरङ्गजले कच्छपाच्छोडे कूर्मपृष्ठास्थनि च निपतनान्मोघं व्यर्थं जातं दृष्टमित्यर्थः || ४७ || पीतं चर्मण्वतीतीरे गायन्त्या मधुरस्वरम् | पुलिन्द्या [पुलिन्दसुरतान्तेषु इति पाठस्तत्र पुलिन्द्येत्यर्थः] सुरतान्तेषु नालिकेररसासवम् || ४८ || पीतं पुलिन्द्या मयेति शेषः || ४८ || सारसीसरसालिन्या [सरसी इति पाठः] सीत्कारमधुरस्वरम् | सारसः सुरतैः स्वैरं सामन्तश्चारुरञ्जितः || ४९ || सारस्यां पद्मिन्यां सरसा सप्रेमा अलिनी भ्रमरीव निश्चलं स्थितयेति यावत् | मया सीत्कारेण सुरतकूजितेन मधुरस्वरं यथा स्यात्तथा सामन्तः अधीश्वरः | पतिरिति यावत् | सारसो रञ्जितः प्रीणितः || ४९ || तालीतमालकुञ्जेषु तरलानननेत्रया | क्षीबप्रेक्षणविक्षोभैः कृतं कान्तावलोकनम् || ५० || क्षीबप्रेक्षणं समदनिरीक्षणं तत्कृतैर्मन्मथविक्षोभैः कान्तस्यावलोकनं मया कृतम् | अनेन तद्योग्यं जन्मान्तरमुक्तम् || ५० || कनकस्यन्दसंदोहसुन्दरैरङ्गपञ्जरैः | स्वर्गेऽप्सरोम्बुजिन्याशु तोषिताः सुरषट्पदाः || ५१ || स्यन्दो द्रवः | अप्सरोलक्षणया अम्बुजिन्या सुरा एव षट्पदा अधरमधुपानादिना तोषिताः || ५१ || मणिकाञ्चनमाणिक्यमुक्तानिकरभूतले | कल्पद्रुमवने मेरौ यूना सह रतं कृतम् || ५२ || तस्मिन्नेव जन्मनि देवयूना || ५२ || कल्लोलाकुलकच्छासु लसद्गुच्छलतासु च | वेलावनगुहास्वब्धेश्चिरं कूर्मतया स्थितम् || ५३ || कूर्मतया कच्छपीत्वेन || ५३ || तरत्तारतङ्गासु दोलनं सरसालिनाम् | चलच्छदपटालीषु राजहंस्यं मया कृतम् || ५४ || चलत्तारतरङ्गासु सरसीषु मया स्वीयेषु चलेषु च्छदेषु पटानां पटवत् शुभ्रपक्षाणां आलीषु पङ्क्तिषु पद्मभ्रान्त्योपविष्टानां सरसानामलिनां भ्रमराणां दोलनमान्दोलनसाधनं राजहंस्यं राजहंसीत्वं कृतम् | अनुभूतमिति यावत् | नलिनीनालदोलासु इति पाठे स्पष्टम् || ५४ || शाल्मलीदललोलानामान्दोलनदरिद्रताम् | मशकस्य मयालोक्य दीनं मशकया स्थितम् || ५५ || दोलायमाने एकस्मिञ्शाल्मलीदले लोलानां बहूनां मशकानां मध्ये ततः प्रच्युतस्य कस्यचिन्मशकस्य तत्रोपवेष्टुमसामर्थ्यादान्दोलनदरिद्रतामालोक्य तत्संस्कारेणैव मृतयाहंस्या मयापि मशकतया भूत्वा दीनं स्थितम् | यं यं वापि स्मरन्भावम् इति स्मृतेरिति भावः || ५५ || प्. १९७) तरत्तारतरङ्गासु चञ्चद्वीच्यग्रचिम्बनैः | भ्रान्तं शैलस्रवन्तीषु जलवञ्जुललीलया || ५६ || शैलस्रवन्तीषु गिरिणदीषु जलवञ्जुला वेतसास्तल्लीलया | तज्जन्मनेति यावत् || ५६ || गन्धमादनमन्दारमन्दिरे मदनातुराः | पातिताः पादयोः पूर्वं विद्याधरकुमारकाः || ५७ || स्थावरान्ताधमयोनिजन्मान्युक्त्वोत्तमजन्मान्यप्याह - गन्धमादनेति || ५७ || कीर्णकर्पूरपूरेषु तल्पेषु व्यसनातुरा | चिरं विलुलितास्मीन्दुबिम्बेष्विव शशिप्रभा || ५८ || तत्रापि दुःखबाहुल्यं दर्शयति - कीर्णेति | व्यसनं तद्वियोगदुःखं तेनातुरा || ५८ || योनिष्वनेकविधदुःखशतान्वितासु भ्रान्तं मयोन्नमनसन्नमनाकुलाङ्ग्या | संसारदीर्घसरितश्चलया लहर्या दुर्वारवातहरिणीसरणक्रमेण || ५९ || उक्तं संक्षिप्योपसंहरति - योनिष्विति | तुलाकोटेरिवोन्नमनमूर्ध्वगतिः सन्नमनमधोगतिस्ताभ्यामाकुलाङ्ग्या व्याकुलचित्तया | वातहरिणी वातप्रमीः | सा हि स्वभावाद्वायुप्रवाहानुसारिणी उच्चावचदेशान्सरतीति प्रसिद्धम् || ५९ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे जन्मान्तरवर्णनं नाम सप्तविंशः सर्गः || २७ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे जन्मान्तरवर्णनं नाम सप्तविंशः सर्गः || २७ || अष्टाविंशः सर्गः २८ श्रीराम उवाच | वज्राङ्गसाराद्ब्रह्माण्डकुड्यान्निबिडमण्डलात् | कोटियोजनसंपुष्टात्कथं ते निर्गतेऽबले || १ || दृष्टप्रपञ्चमिथ्यात्वाच्चिदाकाशस्य सत्यता | पर्वतो विस्तरेणात्र गिरिग्रामश्च वर्ण्यते || १ || वज्राङ्गमिव साराद्दृढात् | पूर्वोक्तरीत्यानेककोटियोजनं सम्यक् पुष्टं अन्तर्घनं यस्य तथाभूतात् | मिथ्याभूतकुड्यादेरपि स्वप्ने गतिनिरोधकत्वदर्शनान्निर्गमनानुपपत्तिरिति शङ्कितुराशयः || १ || श्रीवसिष्ठ उवाच | क्व ब्रह्माण्डं क्व तद्भित्तिः क्वात्रासौ वज्रसारता | किलावश्यं स्थिते देव्यावन्तःपुरवराम्बरे || २ || अबाधितावस्थमस्तु निरोधकं न बाधितं स्वप्नेऽपि तददर्शनादित्याशयेन वसिष्ठः परिहरति - क्व ब्रह्माण्डमित्यादिना | अवश्यं वस्तुतः | देव्याविति राजवाचकदेवशब्दनिष्पन्नदेवीशब्दस्यान्यस्य चैकशेषः || २ || तस्मिन्नेव गिरिग्रामे तस्मिन्नेवालयाम्बरे | ब्राह्मणः स वसिष्ठाख्य आस्वादयति राजताम् || ३ || आस्वादयत्यनुभवति विदूरथः सन् || ३ || तमेव मण्डपाकाशकोणकं शून्यमात्रकम् | चतुःसमुद्रपर्यन्तं भूतलं सोऽनुभूतवान् || ४ || अनुभूतवान् पद्मभूपालः सन् || ४ || आकाशात्मनि भूपीठं तस्मिंस्तद्राजपत्तनम् | राजसद्मानुभवति स च सा चाप्यरुन्धती || ५ || पत्तनं नगरं तस्मिन् राजसद्म | सा चानुभवतीति वर्तमानसामीप्ये वर्तमानवन्निर्देशः | विदूरथवासनाजन्यवक्ष्यमाणलीलान्तरात्मतां प्राप्ता वा सा अरुन्धती अनुभवतीति मुख्यवर्तमानोपपत्तिः || ५ || लीलाभिधाना स जाता तया च ज्ञप्तिरर्चिता | ज्ञप्त्या सह समुल्लङ्घ्य खमाश्चर्यमनोहरम् || ६ || प्रादेशमात्रे [प्रदेशमात्रे इति पाठः] नभसि सा तत्रैव गृहोदरे | ब्रह्माण्डान्तरमासाद्य गिरिग्रामकमन्दिरे || ७ || ब्रह्माण्डात्परिनिर्गत्य स्वगृहे स्थितिमाययौ | स्वप्नात्स्वप्नान्तरं प्राप्य यथा तल्पगतः पुमान् || ८ || प्रतिभामात्रमेवैतत्सर्वमाकाशमात्रकम् | न ब्रह्माण्डं न संसारो न कुड्यादि न दूरता || ९ || प्रतिभा भ्रान्तिस्तन्मात्रम् || ९ || स्वचित्तमेव कचति तयोस्तादृङ्मनोहरम् | वासनामात्रसोल्लेखं क्व ब्रह्माण्डं क्व संसृतिः || १० || वासनामात्रेण सोल्लेखं तत्तत्पदार्थव्यवहारोल्लेखसहितम् | तयोः स्वचित्तमेव तथा कचति प्रथते || १० || निरावरणमेवेदं ज्ञप्त्याकाशमनन्तकम् | किंचित्स्वचित्तेनोन्नीतं स्पन्दयुक्त्येव मारुतः || ११ || ज्ञप्त्याकाशं चिदाकाशमेव ताभ्यां स्वचित्ते न किंचिद्ब्रह्माण्डरूपमुन्नीतं कल्पितम् | यथा आकाशमेव स्पन्दयोगेन मारुत इति कल्प्यते तद्वत् || ११ || चिदाकाशमजं शान्तं सर्वत्रैव हि सर्वदा | चित्त्वाज्जगदिवाभाति स्वयमेवात्मनात्मनि || १२ || जगदिवाभाति | येन न बुद्धं तद्दृशेति शेषः || १२ || येन बुद्धं तु तस्यैतदाकाशादपि शून्यकम् | न बुद्धं येन तस्यैतद्वर्जसाराचलोपमम् || १३ || येन बुद्धं तस्य दृशा तु नास्त्येवेत्याह - येनेति | कथं तर्ह्यन्योऽपि ब्रह्माण्डकुड्याद्बहिर्न निःसरति तत्राह - न बुद्धमिति || १३ || गृह एव यथा स्वप्ने नगरं भाति भासुरम् | तथैतदसदेवान्तश्चिद्धातौ भाति भास्वरम् || १४ || प्. १९८) यथ मरौ जलं बुद्धं कटकत्वं च हेमनि | असत्सदिव भातीदं तथा दृश्यत्वमात्मनि || १५ || दृश्यत्वं दृश्यप्रपञ्चरूपत्वम् || १५ || एवमाकथयन्त्यौ ते ललने ललिताकृती | गृहान्निर्ययतुर्बाह्यं चारुचंक्रमणक्रमैः || १६ || बाह्यं देशम् | चंक्रमणं गतिः || १६ || आदृश्ये ग्रामलोकेन प्रेक्षमाणे पुरोगिरिम् | चुम्बिताकाशकुहरं संस्पृष्टादित्यमण्डलम् || १७ || आकाशस्य कुहरंमध्यच्छिद्रम् | राहोः शिर इतिवद्भेदकल्पना | संस्पृष्टादित्यमण्डलमित्यतिशयोक्तिः || १७ || नानावर्णाखिलोत्फुल्लविचित्रवननिर्मलम् | नानानिर्झरनिर्ह्रादकूजद्वनविहंगमम् || १८ || विचित्रमञ्जरीपुञ्जपिञ्जराम्बुदमण्डलम् | स्वभ्रमच्छगुलुच्छाग्रविश्रान्तखगसारसम् || १९ || मञ्जरीपुञ्जपिञ्जराणि अत एव विचित्राण्यम्बुदमण्डलानि यस्येति वृक्षौन्नत्योक्तिः | अत एव स्वभ्रं शोभनाभ्रयुक्तम् | गुलुच्छा लताविशेषाः || १९ || सारवञ्जुलविस्तारगुप्ताखिलसरित्तटम् | असमाप्तशिलाश्वभ्रलतावर्तनमारुतम् || २० || सारैर्बलवद्भिर्वञ्जुलानामतिमुक्तकानामम्बुवेतसानां वा मूलविस्तारैर्गुप्तानि पतनाद्रक्षितानि सरित्तटानि यत्र | न सम्यगाप्ताः प्राप्ता वृक्षावलम्बनं याः शिलाश्वभ्रोत्पन्नलतास्तासामावर्तनः परिवर्तनो मारुतो यस्मिन् || २० || पुष्पाग्रपिहिताकाशकोशकुड्यकवारिदम् | पतद्दीर्घसरित्स्रोतःस्फुरन्मुक्ताकलापकम् || २१ || पुष्पाण्यग्रे येषं तैः शिखरद्रुमैः पिहिता आकाशकोशस्य कुड्यकाः कुड्यप्रतिकृतिभूता वारिदा यस्य | सरित्स्रोतांस्येव स्फुरन्मुक्तामाला यस्य || २१ || चलद्वृक्षवनव्यूहवातवेल्लिसरित्तटम् | नानावनाकुलोपान्तच्छायासततशीतलम् || २२ || चलद्वृक्षा वनव्यूहा येषु अत एव वातेन वेल्लिनो वेष्टनशीलाः सरित्तटा यस्मिन् || २२ || अथ ते ललने तत्र तदा ददृशतुः स्वयम् | तं गिरिग्रामकं व्योम्नः स्वर्गखण्डमिव च्युतम् || २३ || गिरिमभिवर्ण्य गिरिग्रामं वर्णयितुमाह - अथेति || २३ || रटत्प्रणालीपटलं पूर्णपुष्करिणीगणम् | द्विजैः कुचकुचैः कूजत्स्वलीलाश्वभ्रकच्छकम् || २४ || रटदिति विशेषणाद्घटीयन्त्रादिप्रणाल्यो ग्राह्याः | कुचकुचैरिति शब्दानुकरणेन ताद्रूप्यारोपोक्तिः | तथाविधर्द्विजैः पक्षिभिः कूजन्तः स्वस्य ग्रामस्य लीलार्थाः श्वभ्रकच्छा यस्मिन् || २४ || गच्छद्गोवृन्दहुंकारकरालाखिलकुञ्जकम् | कुञ्जगुल्मकखण्डाढ्यं सच्छायघनशाद्वलम् || २५ || तत्र गोसंपत्तिमाह - गच्छदिति | गवां यवसच्छायादिसमृद्धिमाह - कुञ्जेति || २५ || दुष्प्रवेशार्ककिरणं दृशन्नीहारधूसरम् | उदग्रमञ्जरीपुञ्जजटालं विशिखान्तरम् || २६ || दृषद्भिः शिलाभिर्नीहारैश्च धूसरं भस्मोद्धूलितमिव | उन्नम्राग्रैर्मञ्जरीपुञ्जैर्जटा इव लम्बीनि शिखान्तराणि कतिपयशिखा यस्य || २६ || शिलाकुहरवाःस्फालप्रोच्चलन्मुक्तनिर्झरैः [रवाःस्फार इति पाठः] | स्मारिताचलनिर्धूतक्षीरोदकजलश्रियम् || २७ || शिलाच्छिद्रेषु वारां आस्फालात् प्रोच्चलन्तो मुक्तासदृशबिन्दवो येषां तथाविधैर्निर्झरैः स्मारिता मन्थाचलनिर्धूतक्षीरोदकजलश्रीर्यत्र || २७ || फलमाल्यमहाभारभासुरैरजिरद्रुमैः | आनीय पुष्पसंभारं तिष्ठद्भिरिव संकुलम् || २८ || अजिरमङ्गणम् || २८ || तरत्तरङ्गझांकारकारिमारुतकम्पितैः | कीर्णपु.पसमावृष्टं द्रुमैरपि रसाकुलैः || २९ || रसो मकरन्दः प्रेमातिशयश्च तेनाकुलितैर्द्रुमैरपि अर्थिषु सम्यगावृष्टं किं पुनर्नरैरित्यर्थः || २९ || अशङ्कितशिलाकूटस्रवदब्बिन्दुटंकृतैः | किंचित्कृतरवं गुप्तैरशङ्कैः शङ्कितैः खगैः || ३० || अशङ्कैः शङ्काऽयोग्यैरपि अशङ्कितं यथा स्यात्तथा शिलाकूटात्स्रवतां निपततामब्बिन्दूनां टकृतैर्हेतुभिर्गुटिकाधनुर्ध्वानसाम्याच्छङ्कितैरत एव गुप्तैर्निलीनैः खगैः || ३० || उत्फाललहरीश्रान्तसीकरास्वादनाकुअलैह् | नद्यामुडुपरावर्तवृत्तिभिर्विहगैर्वृतम् || ३१ || श्रान्तत्वं सीकरास्वादने हेतुः | उडूनां नक्षत्राणां परावर्तः परिवर्तनमिव वृत्तिः परिवृत्तिर्येषां तैर्विहङ्गैर्हसैः || ३१ || उत्तालतालविश्रान्तकाकालोकनशङ्कितैः | बालैः प्रगोपितामिक्षाखण्डं जीर्णस्वभुक्तकैः || ३२ || काकग्रहणं मार्जारादीनामप्युपलक्षणम् | जीर्णप्रातस्तनस्वभुक्तकैरस्माभिर्भक्षणीयमिति बुद्ध्या प्रगोपिताः संवृतदेशे रक्षिता आमिक्षाखण्डा यत्र | घनीकृतं पय आमिक्षा || ३२ || पुष्पशेखरसंभारवसनग्रामबालकम् | खर्जूरनिम्बजम्बीरगहनोपान्तशीतलम् || ३३ || पुष्पाण्येव शेखरसंभारः शिरोभूषणादिर्वसनानि च येषां तथाविधा ग्रामबालका यत्र || ३३ || क्षौमाग्रहस्ताम्बरया मञ्जरीपूर्णकर्णया | क्षुत्क्षीणयाक्रान्तरथ्यं ग्रामकीटककान्तया || ३४ || तत्र भिल्लादिदरिद्रवधूर्वर्णयति - क्षौमेति | क्षुमाऽतसी तस्या अवयवाः क्षौमाण्यग्राणि शाखास्तान्येव हस्तप्राप्याण्यम्बराणि यस्याः | ग्रामे कीटका इवोपेक्ष्या दरिद्रनीचालसास्तेषां कान्तया वधूजनेन || ३४ || सरित्तरङ्गसंघट्टसंरावाश्रुतसंकथम् | कर्मजाड्यघनत्रासवाञ्छितैकान्तसंस्थितम् || ३५ || संरावैस्तारध्वनिभिरभिभवादश्रुताः संकथाः संलापा यत्र | कर्मकरणे जाड्यादकौशलाद्धनस्त्रासो येषां मुग्धालसानां तैर्वाञ्छिता एकान्तसंस्थिर्यत्र || ३५ || दधिलिप्तास्यहस्तांसैः स्निघपुष्पलताधरैः | नग्नैर्गोमयपङ्काङ्कैर्बालैराकुलचत्वरम् || ३६ || प्. १९९) तीरशाद्वलवल्लीनां दोलान्दोलनकारिभिः | तरङ्गैर्वाह्यमानस्य लेखिकाङ्कितसैकतम् || ३७ || तीरशाद्वलेत्यादिपूर्वोक्तबालानां विशेषणं चेद्दोलास्वान्दोलनकारिभिः तरङ्गविशेषणत्वे तु दोलावदान्दोलनकारिभिः वाह्यमानस्य जलस्य लेखिका रेखास्ताभिरङ्कितसैकतम् || ३७ || दधिक्षीरघनामोदमत्तमन्थरमक्षिकम् | कामभुक्तार्थतोद्बाष्पजर्जराबलबालकम् || ३८ || कामभुक्तार्थतायै यथाभिलाषभक्षणाय रोदनादुद्गतबाष्पैर्जर्जरा अबलाः कृशा अस्वतन्त्रा वा बालका यत्र || ३८ || गोमयासिक्तवलयकरनारी कृतक्रुधम् | धम्मिल्लवलनाव्यग्रत्रस्तस्त्रीविहसज्जनम् || ३९ || गोमयासिक्तवलयकरत्वादितरनारीषु कृतक्रोधं यथा स्यात्तथा मुक्तधम्मिल्लवलनासु व्यग्रास्त्रास्ताश्च स्त्रियो दृष्ट्वा विहसन्तो जना यत्र || ३९ || दान्तपुष्पच्छदोत्सन्नपतत्ककुदवायसम् | गृहरथ्यागणद्वारकीर्णक्रूरकुरण्टकम् || ४० || दान्तैर्जितक्रोधैर्मुनिभिः पुष्पैश्छदैः पत्रैर्वा उत्सन्ना उत्सारिता नतु काष्ठलोष्टादिना कदाचिदभिघातो मा भूदिति | बलिकर्माक्षतादिभक्षणाय पतन्तः ककुदानां गिरिशिखराणां वायसा यत्र | सकण्टकत्वात्क्रूराः कुरण्टकाः प्रसिद्धा गुल्मभेदा यत्र || ४० || गृहपार्श्वस्थितश्वभ्रकुञ्जैः कुसुमितप्रभैः | प्रत्यहं प्रातरागुल्पमाकीर्णकुसुमाजिरम् || ४१ || चरच्चमरसारङ्गजालजङ्गलखण्डकम् [खण्डकैः इति पाठः] | गुञ्जानिकुञ्जसंजातशष्पसुप्तमृगार्भकम् || ४२ || चरन्तः शष्पादिभक्षयन्तश्चमरा मृगाः सारङ्गा मृगा पक्षिणश्च | निकुञ्जे लतागृहे संजातेषु शष्पेषु बालतृणेषु | ग्रामशब्दस्य ससीमके सस्थण्डिलकेऽपि वृत्तेर्महाभाष्यादौ प्रसिद्धत्वात्तदन्तर्जङ्गलकुञ्जादिवर्णनेऽपि न विरोधः || ४२ || एकान्तसुप्तवत्सैककर्णस्पन्दास्तमक्षिकम् | गोपोच्छिष्टीकृतदधिस्वसृक्किस्पन्दिमक्षिकम् || ४३ || गोपानामुच्छिष्टिकृतदधिषु सृक्किषु वक्रपार्श्वेषु || ४३ || समस्तसद्मसंक्षीणमक्षिकाक्षिप्तमाक्षिकम् | फुल्लाशोकद्रुमोद्यानकृतलाक्षिकमन्दिरम् || ४४ || समस्तेषु सद्मसु संक्षीणमधुमक्षिकं यथा स्यात्तथा आक्षिप्तं संचितं माक्षिकं मधु यस्मिन् | लाक्षिकानि लाक्षारञ्जितकाष्ठमयानि क्रीडामन्दिराणि यस्मिन् || ४४ || सीकरासारमरुता नित्यार्द्रविकचद्रुमम् | कदम्बमुकुलप्रोतसमस्तच्छादनतृणम् || ४५ || नित्यार्द्रत्वादेव विकचाः प्रोत्फुल्लाः | समस्तेति विशेषणमतिशयोक्त्यर्थम् || ४५ || प्रतिकृत्तलताफुल्लकेतकोत्करपाण्डुरम् | वहत्प्राणालपटलीरणद्गुरुगुरारवम् || ४६ || प्रतिकूलत्वादेव कृत्ताभिश्छिन्नाभिर्लताभिरप्रतिबन्धात्फुल्लैः || ४६ || वातायनगुहानिर्यत्सौधविश्रान्तवारिदम् | पूर्णपुष्करिणीपङ्किपूर्णराजपृथूत्तरम् || ४७ || पुष्करिणीपङ्क्तिषु पूर्णराजाः पूर्णचन्द्रा इव यानि फुल्लपद्मानि तैः पृथूत्तरं बहूत्कृष्टतरम् | पृथुभिः प्रांशुभिरुत्तीर्यत इति पृथूत्तरमिति वा || ४७ || नीरन्ध्रविटपिच्छायाशीतलामलशाद्वलम् | सर्वशष्पाग्रवार्बिन्दुप्रतिबिम्बिततारकम् || ४८ || अनारतपतत्फुल्लहिमवर्षसितालयम् | विचित्रमञ्जरीपुष्पपत्रसत्फलपादपम् || ४९ || फुल्लैः पुष्परिहिमवर्षैश्च सिताः शुभ्राः || ४९ || गृहकक्षान्तरालीनमेघसुप्तचिरण्टिकम् | सौधस्थमेघविद्युद्भिरनादेयप्रदीपकम् || ५० || सुप्ताश्चिरण्टिकाः सुवासिन्यो यत्र | अनादेयाः अन्यतः कार्यसिद्धेरनुपादेयाः || ५० || कन्दरानिलभांकारघनघुंघुममण्डपम् | चरच्चकोरहारीतहरिणीहारिमन्दिरम् || ५१ || घनाः प्रतिध्वनिभिर्निबिडिता घुंघुमा येषु तथाविधा मण्डपा यत्र | घना इव घुंघुमाः गर्जन्तो वा चकोरहारीतौ पक्षिभेदौ | हारीणि सुन्दराणि || ५१ || उन्निद्रकन्दलोद्वान्तमांसलामोदमन्थरैः | मरुद्भिर्मन्दमायातुमारब्धैर्लोलपल्लवम् || ५२ || कन्दलैः कन्दलीपुष्पैः | उद्वान्तैरिव निःसृतैरामोदैर्मन्थरैर्भरितैः || ५२ || लावकालापलीलायामालीनललनागणम् | कोककोकिलकाकोलकोलाहलसमाकुलम् || ५३ || लावकाग्रहणं शुकसारिकादीनामप्युपलक्षणम् | काकोला द्रोणकाकाः || ५३ || शालतालतमालाब्जनीलतत्फलमालिनम् | वल्लीवलयविन्यासविलासवलितद्रुमम् || ५४ || आलोलपल्लवलतावलितायनाना- मुत्फुल्लकन्दलशिलीन्ध्रसुगन्धितानाम् | तालीतमालदलताण्डवमण्डपाना- मारामफुल्लकुसुमद्रुमशीतलानाम् || ५५ || आलोलपल्लवलतानां वलयो वेष्टनान्यावलयः पङ्क्तयो वा तासां तायनानां संतानाधिकरणानाम् | लताभिर्वलितानि रुद्धान्ययनानि परितो मार्गा येषामिति वा | सर्वाणि सर्गान्त्यश्लोकस्थस्य गिरिमन्दिराणामित्यस्य विशेषणानि || ५५ || साराववारिचलनाकुलगोकुलाना- मानीलसस्यकुसुमस्थलशोभितानाम् | तीरद्रुमप्रकरगुप्तसरिद्रयाणां नीरन्ध्रपुष्पितलताग्रवितानकानाम् || ५६ || सारावाणि सहंभारवाणि वारिचलनेषु जलोत्तरणेष्वाकुलानि गोकुलानि येषाम् | गुप्त आच्छन्नः सरिद्रयो नदीप्रवाहो येषु || ५६ || प्. २००) उद्यानकुन्दमकरन्दसुगन्धितानां गन्धान्धषट्पदकुलान्तरिताम्बुजानाम् | सौन्दर्यतर्जितपुरन्दरमन्दिराणां राजीवराजिरजसारुणिताम्बराणाम् || ५७ || गन्धान्धैः षट्पदकुलैरन्तरितानि तिरोहितान्यम्बुजानि येषु | रजसा वायून्नीतेनेत्याशयः || ५७ || रंहोवहद्गिरिनदीरवघर्घराणां कुन्दावदातजलदद्युतिभासुराणाम् | सौधस्थितोल्लसितफुल्ललतालयानां लीलावलोलकलकण्ठविहङ्गमानाम् || ५८ || रंहसा वेगेन वहन्तीनाम् | कुन्दवदवदातैः शुभैर्जलदद्युतिभिर्भासुराणाम् | कलकण्ठा मधुरकण्ठाः | कण्ठशब्देन तद्ध्वनिर्लक्ष्यते || ५८ || उल्लासिकौसुमदलास्तरणस्थयूना-[दलातरणस्थ इति पाठः] मापादमावलितमाल्यविलासिनीनाम् | सर्वत्र सुन्दरनवाङ्कुरदन्तुराणां शोभोल्लसद्वरलताकुलमार्गणानाम् || ५९ || आपादमावलितानि माल्यानि याभिस्तथाविधा विलासिन्यः स्त्रियो येषु | वरलताभिराकुला व्याप्ता मार्गणाः शरस्तम्बा याचका वा येषु || ५९ || संजातकोमललतोत्पलसंकुलानां तिष्ठत्पयोदपटसंवलितालयानाम् | नीहारहारहरितस्थलविश्रुतानां सौधस्थमेघतडिदाकुलिताङ्गनानाम् || ६० || नीहारशब्देन तज्जलबिन्दुपङ्क्तयो लक्ष्यन्ते | ता एव हारा मुक्तावह्न्यो येषु तथाविधैर्हरितस्थलैर्विश्रुतानाम् || ६० || नीलोत्पलोल्लसितसौरभसुन्दराणां हुंकारहारिहरितोन्मुखगोकुलानाम् | विश्रब्धमुग्धमृगसारगृहाजिराणा- मुन्नृत्यबर्हिघनसीकरनिर्झराणाम् || ६१ || हुंकारैर्हारीणि मनोहराणि हरितोन्मुखानि हरिततृणोन्मुखानि गोकुलानि येषु | विस्रब्धा विश्वस्ता मुग्धा मृगाः सरन्त्यस्मिन्नित्यधिकरणे बाहुलकाद्धञ् | निर्झराणां घनसीकरत्वं वृष्टिभ्रान्त्या बर्हिणानामुन्नृत्ये हेतुः || ६१ || सौगन्ध्यमत्तपवनाहतविक्लवानां वप्रौषधिज्वलनविस्मृतदीपकानाम् | कोलाहलाकुलकुलायकुलाकुलानां कुल्याकुलाकलकलाश्रुतसंकथानाम् || ६२ || सौगन्ध्येन मत्तवद्भ्रान्तेन पवनेनाहता निरस्ताः | विक्लवशब्दो वैक्लव्यपरः | वप्रेष्वौषध्यो ज्योतिर्लता एव ज्वलनाः | कोलाहलोऽत्र पक्षिरवः | कुलायो नीडम् | कुल्याशब्देन गिरिनिर्झरा ग्राह्यास्तत्कुलानामासमन्तात्कलकलैर्ध्वनिभिरश्रुतास्तिरस्कृता इति यावत् | संकथाः संवादा येषु || ६२ || मुक्ताफलप्रकरसुन्दरबिन्दुपात- शीताखिलद्रुमलतातृणपल्लवानाम् | लक्ष्मीमनस्तमितपुष्पविकासभाजां शक्नोति कः कलयितुं गिरिमन्दिराणाम् || ६३ || लक्ष्मीं शोभां कलयितुं संख्यातुम् | गिरिमन्दिराणां गिरिग्रामस्येति यावत् || ६३ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पतीप्रकरणे लीलोपाख्याने गिरिग्रामवर्णनं नामाष्टविंशः सर्गः || २८ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे गिरिग्रामवर्णनं नामाष्टाविंशः सर्गः || २८ || एकोनत्रिंशः सर्गः २९ श्रीवसिष्ठ उवाच | तत्र ते तेततुर्देव्यौ ग्रामेऽन्तःशीतलात्मनि | भोगमोक्षश्रियौ शान्ते पुंसीव विदितात्मनि || १ || लीलायाः प्राक्चरित्राणां प्रत्यभिज्ञात्र वर्ण्यते | तथा प्रतिप्रयाणं च व्योम्नि लोकौघमण्डिते || १ || शान्ते शान्त्यादिसाधनसंपन्ने || १ || कालेनैतावता लीला तेनाभ्यासेन साभवत् | शुद्धज्ञानैकदेहत्वात्त्रिकालामलदर्शिनी || २ || अथ सस्मार सर्वास्ताः प्राक्तनीः संसृतेर्गतीः | सा स्वयं स्वरसेनैव प्राग्जन्ममरणादिकाः || ३ || स्वरसेन अप्रयत्नेनैवेति यावत् || ३ || लीलोवाच | देवि देशमिमं दृष्ट्वा त्वत्प्रसादात्स्मराम्यहम् | इह तत्प्राक्तनं सर्वं चेष्टितं चेष्टितान्तरम् || ४ || चेष्टितान्तरं तत्प्राक्तनजन्मपरम्पराचेष्टितमपि || ४ || इहाभूवमहं जीर्णा शिरालाङ्गी कृशा सिता | ब्राह्मणी शुष्कदर्भाग्रभेदरूक्षकरोदरा || ५ || जीर्णा वृद्धा | शुष्कदर्भाणामग्रैस्तीक्ष्णभागैर्भेदैर्विदरणै रूक्षं करोदरं यस्याः सा || ५ || भर्तुः कुलकरी भार्या दोहमन्थानशालिनी | माता सकलपुत्राणामतिथीनां प्रियंकरी || ६ || मन्थानो दधिमन्थदण्डः || ६ || देवद्विजसतां भक्ता सिक्ताङ्गी घृतगोरसैः | भर्जनी चरुकुम्भादिभाण्डोपस्करशोधिनी || ७ || भर्जनी भर्जनपिठरी चरुश्चरुश्रपणस्थाली | भाण्डानामुपस्करान्तराणां च मार्जनादिना शोधनशीला || ७ || प्. २०१) नित्यमन्नलवाक्तैककाचकम्बुप्रकोष्ठका | जामातृदुहितृभ्रातृपितृमातृप्रपूजनी || ८ || एकं काचकम्बु काचवलयं | बहूनां धारणे कर्मत्वरयाभिघाते भङ्गापत्तेः || ८ || आदेहं सद्मभृत्यैव प्रक्षीणदिनयाइनी | वाचं चिरं चिरमिति वादिन्यनिशमाकुला || ९ || देहपदेन तत्पातो लक्ष्यते | सद्मभृतिर्गृहपोषणम् | पुत्रस्नुषाभृत्यवर्गान्प्रति कर्मत्वरार्थं चिरं त्वया स्नातं चिरं त्वया विलम्बितं किं चिरायसे इत्यादिवदनशीला | आकुला व्यग्रा || ९ || काहं क इव संसार इति स्वप्नेऽप्यसंकथा | जाया श्रोत्रियमूढस्य तादृशस्यैव दुर्धियः || १० || तादृशस्य ममेवात्यन्तगृहकर्मासक्तस्येति यावत् | दुर्धियः अविशुद्धबुद्धः || १० || एकनिष्ठा समिच्छाकगोमयेन्धनसंचये | म्लानकम्बलसंवीतशिरालकृशगात्रिका || ११ || समिदादिसंचयविषये एकनिष्ठा एकाग्रचित्ता | सावधानेति यावत् || ११ || तर्णकीकर्णजाहस्थकृत्मिनिष्कासतत्परा | गृहशाकायनासेकसत्वराहूतकर्परा || १२ || तर्णकी वत्सा तस्याः कर्णजाहे कर्णमूले स्थितानां कृमीणां निष्कासनं निष्कासस्तत्र तत्परा | तस्य पाकमूले पील्वादिकर्णादिभ्यः कुणब्जाहचौ इति जाहच् | गृहे कृतं शाकायनं शाककेदारस्तस्यासेकायाहूतानि सेकसाधनकर्पराणि यया | कर्परपदेन तत्पाणयो भृत्या लक्षणयोच्यन्ते || १२ || नीलनीरतरङ्गान्ततृणतर्पिततर्णिका | प्रतिक्षणं गृहद्वारकृतलेपनवर्णका || १३ || नीलैर्नीरतरङ्गाणामन्तोऽवधिः कूलं तत्रत्यतृणैः स्नेहात्स्वयमाहृतैस्तर्पितास्तर्णिकाः बालवत्सा यया | गृहद्वारे कृतालेपनं तत्र वर्णका रङ्गवल्लीरचनाश्च यया || १३ || नीत्यर्थं गृहभृत्यानामादीनकृतवाच्यता | मर्यादानियमादब्धेर्वेलेवानिशमच्युता || १४ || नीतिर्विनयाचारादिशिक्षणं तदर्थम् | आदीनभीषद्दैन्ययुक्तं यथा स्यात्तथा कृताः प्रकाशिता वाच्यता जनवचनीयता ईदृशानां गृहे कथमेवंशीला अविनीता भृत्यास्तिष्ठन्तीत्येवं वक्ष्यन्ति जना-इत्येवमादिरूपा यया | स्वचरित्रेणापि तन्मर्यादाशिक्षकत्वमाह - मर्यादेति || १४ || जीर्णपर्णसवर्णैककर्णदोलाधिरूढया | काष्ठताड्यजराभीतजीववृत्त्येव चिह्निता || १५ || एवं चिरं स्थितायाः स्वस्या जराप्रकर्षेण वामकर्णबाधिर्ये शिरःप्रकम्पे कुब्जात्वे यष्ट्यवलम्बनाधीने च संचारे या जीवनदशा तां वर्णयति - जीर्णेति | जीर्णपर्णसमानवर्णस्य देहस्यैको दक्षिणो यः कर्णः स एव शिरःकम्पेन कम्पमानत्वाद्दोला तदधिरूढयेव तदधीनश्रवणव्यवहारया अत एवावलम्बनकाष्ठस्योन्नयने तत्ताडनार्हयेव जरायाः सकाशाद्भीतयेव चरमजीवनवृत्त्या चिह्नितेवात्रासमित्यर्थः || १५ || श्रीवसिष्ठ उवाच | इत्युक्त्वा संचरन्ती सा शिखरिग्रामकोटरे | संचरन्त्याः सरस्वत्या दर्शयामास सस्मयम् || १६ || संचरन्ती भ्रमन्ती | स्मयोऽत्र विस्मयः || १६ || इयं मे पाटलाखण्डमण्डिता पुष्पवाटिका | इयं मे पुष्पितोद्यानमण्डपाशोकवाटिका [शोकपेटिका इति पाठः] || १७ || पाटलैर्गुल्मैरखण्डमखण्डितं मण्डिता || १७ || इयं पुष्करिणीतीरद्रुमाऽग्रन्थिततर्णका | इयं सा कर्णिकानाम्नी तर्णिका मुक्तपर्णिका || १८ || आग्रन्थिता ईषद्ग्रन्थिनिबद्धास्वर्णका यस्याः मुक्तपर्णिका मद्वियोगदुःखादित्यार्थिकं लभ्यते || १८ || इयं सा मेऽलसाकीर्णा वराकी जलहारिका | अद्याष्टमं दिनं वाष्पक्लिन्नाक्षी परिरोदिति || १९ || अलसा दुःखात्स्वकार्याक्षमेति यावत् | कीर्णा रजोभिरिति शेषः || १९ || इह देवि मया भुक्तमिहोपितमिह स्थितम् | इह सुप्तमिहापीतमिह दत्तमिहाहृतम् || २० || आहृतमानीतं फलधान्यादि || २० || एष मे ज्येष्ठशर्माख्यः पुत्रो रोदिति मन्दिरे | एषा मे जङ्गले धेनुर्दोग्ध्री चरति शाद्बलम् || २१ || गृहे वसन्तदाहाय रूक्षक्षारविधूसरम् | स्वदेहमिव पञ्चाक्षं पश्येमं प्रघणं मम || २२ || वसन्तारम्भे होलिकादाहाय कृतमिति शेषः | क्षारेण भस्मना विधूसरम् | स्वदेहमिव मम प्रियमिति शेषः | पञ्चाक्षा गवाक्षा यस्मिन् देहपक्षे अक्षाणि ज्ञानेन्द्रियाणि | प्रपणं बहिर्द्वारप्रकोष्ठम् || २२ || तुम्बीलताभिरुग्राभिः पुष्टाभिरिव वेष्टितम् | महानसस्थानमिदं मम देहमिवापरम् || २३ || तुम्बीलताभिरलादुवल्लीभिः उग्राभिः कटुभिः पुष्टाभिः स्वेनारोप्य पोषिताभिरिव वेष्टितं योग्यतया छदिप्रदेशे इति गम्यते | महानसस्थानं पाकस्थानम् || २३ || एते रोदनताम्राक्स्.आ बन्धवो भुव बन्धनम् | अङ्गदार्पितरुद्राक्षा आहरन्त्यनलेन्धनम् || २४ || बन्धनं प्रत्यक्षबन्धनभूता बन्धवः || २४ || अनारतं शिलाकच्छे गुच्छाच्छोटनकारिभिः | तरङ्गैः स्थगिताकारं स्पृष्टतीरलतादलैः || २५ || शिलाप्रचुरे कच्छे आच्छोटनमास्फालनम् | उत्पलसीकरैरित्यन्तविशेषितैस्तरंगेः साधनैः स्थगिताकारं तिरस्कृतस्वरूपं यथा स्यात्तथा तुषारीकृताः मध्याह्नदिवाकरकरोत्करा यैस्तथाविधैस्तटद्रुमैर्व्याप्तया ग्रामकुल्यया वेष्टितोऽयं गृहमण्डप आलक्ष्यते इत्युत्तरैरन्वयः || २५ || सीकराकीर्णपर्यन्तशाद्बलस्थलसल्लतैः | शिलाफलहकास्फालफेनिलोत्पलसीकरैः || २६ || सीकरव्याप्ताग्राः शाद्वलस्थलस्थाः सङ्कता येषाम् | फलहकानि फलकानि तेष्वास्फालनमास्फालस्तेन फेनिला उत्पलवासितसीकरा येषाम् || २६ || प्. २०२) तुषारीकृतमध्याह्नदिवाकरकरोत्करैः | फुल्लपुष्पोत्करासारप्रनादोत्कतटद्रुमैः || २७ || फुल्लपुष्पोत्करानासरन्ति आगच्छन्तीति फुल्लपुष्पोत्करासारा भ्रमरास्तत्प्रणादैरुत्कैरुत्कण्ठितैरिव स्थितैस्तटद्रुमैः || २७ || विद्रुमैरिव संक्रान्तफुल्लकिंशुककान्तिभिः | व्याप्तया पुष्पराशीनां समुल्लासनकारिभिः || २८ || प्रतिबिम्बेन संक्रान्तानामन्तर्निविष्टानां फुल्लकिंशुकानां पलाशानां कान्तिभिर्विद्रुमैः प्रवालैरिव पुष्पराशीनां समुल्लासनं मण्डनं तत्कारिभिर्द्रुमैर्व्याप्तया || २८ || उह्यमानफलापूरसुव्यग्रग्रामबालया | महाकलकलावर्तमत्तया ग्रामकुल्यया || २९ || प्रवाहैरुह्यमाने आम्रादिफलानामापूरे तृष्णाभयाभ्यां सुव्यग्रा ग्रामबाला यस्याम् | महाकलकलैर्बहुकोलाहलैरावर्तैर्मत्तयेव || २९ || वेष्टितस्तरलास्फालजलधौततलोपलः | घनपत्रतरुच्छन्नच्छायासततशीतलः || ३० || अयमालक्ष्यते फूल्ललतावलनसुन्दरः | दलद्गुलुच्छकाच्छन्नगवाक्षो गृहमण्डपः || ३१ || वलनं वेष्टनं तेन सुन्दरः | गलद्भिर्विशीर्यमाणैर्गुलुच्छकैः फलपुष्पगुच्छैश्छन्नगवाक्षः || ३१ || अत्र मे संस्थितो भर्ता जीवाकाशतयाऽकृतिः | चतुःसमुद्रपर्यन्तमेखलाया भुवः पतिः || ३२ || जीवाकाशतया हेतुना अकृतिरक्रियोऽपि भुवः पतिर्भूत्वा संस्थितः || ३२ || आ स्मृतं पूर्वमेतेन किलासीदभिवाञ्छितम् | शीघ्रं स्यामेव राजेति तीव्रसंवेगधर्मिणा || ३३ || आ इति निपातो नत्वाङ् | स्मरणे ङित्वाभावात् | तीव्रसंवेगो दृढाध्यवसायः || ३३ || दिनैरष्टभिरेवासौ तेन राज्यं समृद्धिमत् | चिरकालप्रत्ययदं प्राप्तवान्परमेश्वरि || ३४ || अत्रासौ भर्तृजीवो मे स्थितो व्योम्नि गृहे नृपः | अदृश्यः खे यथा वायुरामोदो वानिले यथा || ३५ || इहैवाङ्गुष्ठमात्रान्ते तद्व्योम्न्येव पदं स्थितम् | मद्भर्तृराज्यं समवगतं योजनकोटिभाक् || ३६ || स्थितं पदं परमार्थवस्तुयोजनकोटिभाक् समधिगतं भ्रान्त्येत्यर्थः || ३६ || आवां खमेव खस्थं च भर्तृराज्यं ममेश्वरि | पूर्णं सहस्रैः शैलानां महामायेयमातता || ३७ || खमत्र चिदाकाशम् || ३७ || तद्देवि भर्तृनगरं पुनर्गन्तुं ममेप्सितम् | तदेहि तत्र गच्छावः किं दूरं व्यवसायिनाम् || ३८ || श्रीवसिष्ठ उवाच | इत्युक्त्वा प्रणता देवीं सा प्रविश्याशु मण्डपम् | विहंगीव तया साकं पुप्लुवे सिनिभं [सितिभं इति पाठः] नमः || ३९ || नभो मण्डपान्तःकल्पितं महाकाशं पुप्लुवे उदडीयत || ३९ || भिन्नाञ्जनचयप्रख्यं सौम्यैकार्णवसुन्दरम् | नारायणाङ्गसदृशं भृङ्गपृष्टामलच्छवि || ४० || सौम्येनाक्षुब्धेन | निश्चलेनेति यावत् | एकार्णवेन संनिभं तुल्यम् || ४० || मेघमार्गमतिक्रम्य वातस्कन्धावनिं तथा | सौरमार्गमथाक्रम्य चन्द्रमार्गमतीत्य च || ४१ || अवनिशब्दः प्रदेशपरः || ४१ || ध्रुवमार्गोत्तरं गत्वा साध्यानां मार्गमेत्य च | सिद्धानां समतीत्योर्वीमुल्लङ्घ्य स्वर्गमण्डलम् || ४२ || मार्गशब्दो लोकपरो ध्रुवस्य मार्गाभावात् | एवमुर्वीपदमपि || ४२ || ब्रह्मलोकोत्तरं गत्वा तुषितानां च मण्डलम् | गोलोकं शिवलोकं च पितृलोकमतीत्य च || ४३ || तुषितानां नित्यसंतुष्टानां मण्डलं वैकुण्ठम् | जगतः पितरौ शिवौ लोक्येते यत्रेति पितृभ्यां वालोक्यत इति पितृलोकोऽत्र शिवलोक एव | कव्यवाडादिपितृदेवाधिष्ठितलोकस्य दूरमध एवावस्थानादत्राप्रसक्तेः || ४३ || विदेहानां सदेहानां लोकानुत्तीर्य [लोकमुत्तिर्य इति पाठः] दूरगम् | दूराद्दूरमथो गत्वा किंचिद्बुद्धा बभूव सा || ४४ || पुराणेषु सदेहाश्च विदेहाश्च भवन्त्यात्मेच्छया पुनः इति शिवसारूप्यमुक्तिं प्राप्तानां द्वेधावस्थानोक्तेस्तेषां लोकम् | अपरिच्छिन्नस्वरूपविस्मरणात्किंचिद्बुद्धा || ४४ || पश्चादालोकयामास समतीतं नभस्थलम् | यावन्न किंचिच्चन्द्रार्कताराद्यालक्ष्यते ह्यधः || ४५ || यावत्कालं यावद्दूरं च न किंचिदालक्ष्यते तमश्च स्थितं तावत्पश्चादालोकयामासेति पूर्वेणान्वयः || ४५ || तमस्तिमितगम्भीरमाशाकुहरपूरकम् | एकार्णवोदरप्रख्यं शिलोदरघनं स्थितम् || ४६ || आशा दशदिशस्तत्कुहराणां छिद्राणां पूरकम् || ४६ || लीलोवाच | तद्देवि भास्करादीनां क्वाधस्तेजो गतं वद | शिलाजठरनिष्पन्दं मुष्टिग्राह्यं तमः कुतः || ४७ || तत्तत्र | घनत्वान्मुष्टिग्राहमिव मुष्टिग्राह्यम् | कुतः प्राप्तमिति शेषः || ४७ || श्रीदेव्युवाच | एतावतीमिमां व्योम्नः पदवीमागतासि भोः | अर्कादीन्यपि तेजांसि यतो दृश्यन्त एव नो || ४८ || यथा महान्धकूपाधः खद्योतो नावलोक्यते | पृष्ठगेन तथेहातो नाधः सूर्योऽवलोक्यते || ४९ || खं द्योतयति खे द्योतत इति वा खद्योतो ज्योतिरिङ्गणः पृष्ठगेन दूरोर्ध्वदेशस्थितेन नावलोक्यते तथेत्यर्थः || ४९ || लीलोवाच | अहो नु पदवीं दूरमावामेतामुपागते | सूर्योऽप्यधोणुकणवन्न मनागपि लक्ष्यते || ५० || पदवीं पन्थानम् | अणोस्त्र्यणुकस्य कणः परमाणुस्तद्वत् || ५० || प्. २०३) इत उत्तरमन्या स्यात्पदवी का नु कीदृशी | कथं च मातरेतव्या कथ्यतामिति देवि मे || ५१ || एतव्या गन्तव्या || ५१ || श्रीदेव्युवाच | इत उत्तरमग्रे ते ब्रह्माण्डपुटकर्परम् | यस्य चन्द्रादयो नाम धूलिलेशाः समुत्थिताः || ५२ || पुटस्य संपुटस्य कर्परमूर्ध्वखर्परम् | धूलिलेशा इव || ५२ || श्रीवसिष्ठ उवाच | इति प्रकथयन्त्यौ ते प्राप्ते ब्रह्माण्डकर्परम् | भ्रमर्याविव शैलस्य कुड्यं निबिडमण्डपम् || ५३ || निबिडमण्डपं निश्छिद्रगर्भमिति यावत् || ५३ || अक्लेशेनैव ते तस्मान्निर्गते गगनादिव | निश्चयस्थं हि यद्वस्तु तद्वज्रगुरु नेतरत् || ५४ || निश्चयः सत्यताध्यवसायस्तत्स्थम् | कल्पितकुड्यादिवस्तु | इतरन्मिथ्यात्वबुद्धिभाधितम् || ५४ || निरावरणविज्ञाना सा ददर्श ततस्ततम् | जलाद्यावरणं पारे ब्रह्माण्डस्यातिभासुरम् || ५५ || ब्रह्माण्डाद्दशगुणतस्तोयं तत्र व्यवस्थितम् | आस्थितं वेष्टयित्वा तु त्वगिवाक्षोटपृष्ठगा || ५६ || आक्षोटबीजकर्परपृष्ठगा || ५६ || तस्माद्दशगुणो वह्निस्तमाद्दशगुणोऽनिलः | ततो दशगुणं व्योम ततः परममम्बरम् || ५७ || परमं शुद्धम् | अम्बरं चिदाकाशः | अविद्याया नष्टत्वेनाव्याकृताकाशपरिशेषात् || ५७ || तस्मिन्परमके व्योम्नि मध्याद्यन्तविकल्पनाः | न काश्चन समुद्यन्ति वन्ध्यापुत्रकथा इव || ५८ || तस्यापरिच्छिन्नतामाह - तस्मिन्निति || ५८ || केवलं विततं शान्तं तदनादि गतभ्रमम् | आद्यन्तमध्यरहितं महत्यात्मनि तिष्ठति || ५९ || महत्यात्मनि तिष्ठति | स्वे महिम्नि प्रतिष्ठितः इति श्रुतेरित्यर्थः || ५९ || आकल्पमुत्तमबलेन शिला पतेच्चे- त्तस्मिन्बलात्पतगराडपि चोत्पतेच्चेत् | तद्योजनं न लभते विमलेऽम्बरेऽन्त- र्माकल्पमेकजवगोऽप्यथ मारुतोऽपि || ६० || तस्मिन्विमलेऽम्बरे | ऊर्ध्वदेशादाकल्पं शिला उत्तमवलेनातिजवेन पतेच्चेदधोदेशाद्गरुडराडप्याकल्पमुत्पतेच्चेत् अथ तयोरन्तः अन्तराले मानं मा तत्कल्पं तत्समर्थं यथा स्यात्तथा उभयत एकजवगोऽपि मारुतस्तयोर्योजनं मेलनं न लभते किं पुनः परितोऽन्तमिति सर्वतोऽप्यपरिच्छिन्नं तदित्यर्थः || ६० || इत्यार्षे श्रीवासिस्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे लीलो० परमाकाशवर्णनं नामैकोनत्रिंशः सर्गः || २९ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे परमाकाशवर्णनं नामैकोनत्रिंशः सर्गः || २९ || त्रिंशः सर्गः ३० श्रीवसिष्ठ उवाच | पृथिव्यप्तेजसां तत्र नभस्वन्नभसोरपि | यथोत्तरं दशगुणानतीत्यावरणान्क्षणात् || १ || तादृशास्तद्विचित्राश्च ब्रह्माण्डानन्तकोटयः | चिद्व्योम्नि रेणुवद्दृष्टा लीलयेत्यत्र वर्ण्यते || १ || नभस्वन्नभसोर्वायवाकाशयोः || १ || ददर्श परमाकाशं तत्प्रमाणविवर्जितम् | तथा ततं जगदिदं यथा तत्राण्डमात्रकम् || २ || तत् प्रागुक्तं प्रमाकाशं अविद्याशबलं चिदाकाशं यथा तत्राकाशे इदं वर्णितब्रह्माण्डलक्षणं जगत्ततं विस्तृतं तथा अण्डमात्रकं सर्व ब्रह्माण्डजातमपि ददर्शेत्यर्थः || २ || तादृशावरणान्सर्गान्ब्रह्माण्डेषु ददर्श सा | कोटिशः स्फुरितान्व्योम्नि त्रसरेणूनिवातपे || ३ || तदेव स्पष्टयति - तादृशेति | स्फुरितान् स्वप्राकाशाधिष्ठानचैतन्येन भासितान् || ३ || महाकाशमहाम्भोधौ महाशून्यत्ववारिणि | महाचिद्द्रवभावोत्थान्बुद्बुदानर्बुदप्रभान् || ४ || महाशून्यत्वमविद्या सैव वारि यत्र | अर्बुदग्रहणमसंख्यत्वपरम् || ४ || कांश्चिदापततोऽधस्तात्कांश्चिच्चोपरि गच्छतः | कांश्चित्तिर्यग्गतीनन्यान्स्थितांस्तब्धान्स्वसंविदा || ५ || इतीदृशानामण्डानां कोट्यो ज्ञेयाः सहस्रशः | सर्वगत्वात्प्रधानस्य तिर्यगूर्ध्वमधस्थिताः || इति पुराणोक्तिमनुरुध्याह - कांश्चिदिति | स्वसंविदा तत्तद्ब्रह्माण्डाभिमानिजीवसंविदनुसारेणेत्यर्थः || ५ || यत्र यत्रोदिता संविद्येषां येषां यथा यथा | तत्र तत्रोदितं रूपं तेषां तेषां तथा तथा || ६ || इदानींतनक्रियावैचित्र्याद्रूपवचित्र्येणोत्पत्तिरपि [वैचित्र्याद्भूपवत्वित्र्येण इति पाठः] प्राक्तनोपासनासंविदनुसारेणैवेत्याह - यत्रेति || ६ || नेहैव तत्र नामोर्ध्वं नाधो नच गमागमाः | अन्यदेव पदं किंचित्तस्माद्देहागमं हि तत् || ७ || इदं च तदनु भवितृदृष्ट्योक्तं परमार्थतस्तु तत्र चिदाकाशे इह एतद्ब्रह्माण्डदेशेऽपि नैव किंचिदस्ति ऊर्ध्वमपि नामेत्यत्यन्तनिवारणार्थम् | तेषामण्डानांगमनागमनान्यपि नच किंत्वन्यदेव किंचिदवाड्यानसगोचरं दिग्विभागादिसर्वद्वैतशून्यं पदं वस्त्वस्ति तस्माद्ब्रह्माण्डजातं वर्णितं तद्देहागमं देहप्राप्तिमज्ञदृशाभिप्रेत्य तत्तथोक्तमित्यर्थः || ७ || उत्पद्योत्पद्यते तत्र स्वयं संवित्स्वभावतः | स्वसंकल्पैः शमं याति बालसंकल्पजालवत् || ८ || यदि धर्म्येव नास्ति क्व तर्ह्युत्पत्त्यादिकल्पनेति चेत्तदधिष्ठानसंविद्येवेत्याह - उत्पद्येति | स्वभावोऽत्र स्वाविद्या ततस्तत्प्रभवैः स्वसंकल्पैरुत्पद्यत इव | शमं यातीवेत्यर्थः || ८ || प्. २०४) श्रीराम उवाच | किमधः स्यात्किमूर्ध्वं स्यात्किं तिर्यक्तत्र भूअसुरे | इति ब्रूहि मम ब्रह्मन्निहैव यदि न स्थितम् || ९ || ननु यद्यधिष्ठाने दिग्विभागो नास्ति तर्ह्यध्यस्तेऽपि न स्यात् | अध्यस्तस्याधिष्ठानदिङ्मात्रनिष्ठत्वनियमादित्याशयेन रामः शङ्कते - किमध इति | इहाधिष्ठान एव यदि प्राङ्न स्थितं तर्हि तत्र कल्पनया भासुरे जगति किमधः स्यादित्यर्थः || ९ || श्रीवसिष्ठ उवाच | ससर्वावरणा एते महत्यन्तविवर्जिते | ब्रह्माण्डा भान्ति दुर्दृष्टेर्व्योम्नि केशोण्ड्रको यथा || १० || मायिके प्रपञ्चे नैतादृशनियमव्यभिचारो दोषायेत्याशयेन प्रथम्मुत्तरमाह वसिष्ठः - ससर्वेति | दुर्दृष्टेस्तिमिरदूषितदृष्टेः || १० || अस्वातन्त्र्यात्प्रधावन्ति पदार्थाः सर्व एव यत् | ब्रह्माण्डे पार्थिवो भागस्तदधस्तूर्ध्वमन्यथा || ११ || सर्ववस्तूनामीश्वरेच्छापारतन्त्र्याद्वा नियमातिक्रमो न दोष इत्याशयेनाह -अस्वातन्त्र्यादिति | यथा कदम्बकेसराणामाधारकर्णिकागोलकमपेक्ष्यैव मूलदेशकल्पना तथा ब्रह्माण्डेषु सर्वभावनां पृथिवीमपेक्ष्याधोदेशकल्पना | नच वस्तवाधोदिगभावेवृन्तमुक्तस्यफलस्य गुरुत्वादधःपतने विनिगमनाविरहः स्यादिति वाच्यम् | गुरुत्वं हि विषयाणां स्वस्वेन्द्रियाकर्षणशक्तिरिव स्वशक्यसंबद्धपृथिव्यादेः स्वांशाकर्षणशक्तिरेव न गुणान्तरम् | अत एव हि बहिर्दिग्विभागाभावाद्गुरुतमानामपि ब्रह्माण्डानां न पतनादिप्रसक्तिर्न वा तदावरणजलादेस्तद्विश्लेषप्रसक्तिरिति नाधिष्ठानचिति दिग्विभागापेक्षेत्याशयेन समाध्यन्तरमाह - ब्रह्माण्डे इति | पार्थिवो महापृथ्वीरूपो ब्रह्माण्डभागस्तस्य सार्वभौतिकपदार्थस्याधः | अन्यथा तदन्यो नभोभाग ऊर्ध्वमिति कल्पनेत्यर्थः || ११ || पिपीलिकानां महतां व्योम्नि वर्तुललोष्टके | दशदिक्कमधः पादाः पृष्ठमूर्ध्वमुदाहृतम् || १२ || अयं प्रकारो भूगोलं सर्वतः खगोलेन ज्योतिश्चक्राधारेण वेष्टितमित्यभ्युपगच्छतां ज्योतिःशास्त्रकृतामपि संमत इत्याशयेन तदुदाहृतं दृष्टान्तमाह- पिपीलिकानामिति | लोष्टके मृत्पिण्डे | दशसु दिक्षु दशदिक्कं लग्नानां पादा अध एव पृष्ठं तु ऊर्ध्वमिति महतां सूर्यादीनामुदाहृतं तत्सिद्धान्ते प्रसिद्धमित्यर्थः || १२ || वृक्षवल्मीकजालेन केषांचिद्धृदि भूतलम् | ससुरानरदैत्येन वेष्टितं व्योम निर्मलम् || १३ || इत्थं शङ्कां समाधाय प्रस्तुतब्रह्माण्डानां वैचित्र्यं वर्णयितुं प्रक्रमते - वृक्षेत्यादिना | केषांचिद्ब्रह्माण्डानां हृदि अन्तर्भूतलं वृक्षवल्मीकजालेन वेष्टितं न मनुष्यैः | व्योम तु सुरैरनरैर्नरभिन्नैर्नरसदृशैः किंपुरुषैर्दैत्यैश्च सहितैस्तैस्तैर्लोकैर्वेष्टितमित्यर्थः || १३ || संभूतं सह भूतेन सग्रामपुरपर्वतम् | इदं कल्पनभूतेन पक्वाक्षोटमिवत्वचा || १४ || किंचित्तु ब्रह्माण्डजातं भूतेन इदं कल्पनभूतेन सद्यः कल्पनात्मकेन चतुर्विधप्राणिवर्गेण सहैव संभूतमुत्पन्नम् | आक्षोटं कंदरालद्रुमफलम् || १४ || यथा विन्ध्यवनाभोगे प्रस्फुरन्ति करेणवः | तथा तस्मिन्पराभोगे ब्रह्माण्डत्रसरेणवः || १५ || विन्ध्याचलस्य वनलक्षणे आभोगे कल्पितसंस्थाने करेणवः करिण्यः | परस्य परमात्मन आभोगे मायाशबलसंस्थाने | गजा इति वाच्ये करेणुग्रहणं यमकार्थम् || १५ || तस्मिन्सर्वं ततः सर्वं तत्सर्वं सर्वतश्च यत् | तच्च सर्वमयो नित्यं तथा तदणुकं प्रति || १६ || ननु यथा ब्रह्माण्डाश्चिदाकाशं प्रत्यणवस्तथा चिदाकाशमपि कंचित्पदार्थं प्रत्यणु किं न स्यात्तत्राह - तस्मिन्निति | स्थितौ तस्मिन्सर्वं उत्पत्तौ ततः सर्वं प्रलये तत्सर्वम् | यद्यस्मादेवं तस्मात्सर्वतः सर्वदिक्षु सर्वकालेषु सर्ववस्तुषु च तदेव | तच्च तद्यदिदंअमयोऽदोमयः सर्वमयः इति श्रुतिप्रसिद्ध आत्मैव तथाभूतं च तत्कं प्रत्यणु स्यान्न कंचित्प्रतीत्यर्थः || १६ || शुद्धबोधमये तस्मिन्परमालोकवार्दिधौ | अजस्रमेत्य गच्छन्ति ब्रह्माण्डाख्यास्तरङ्गकाः || १७ || शुद्धबोधमये | स्वार्थे मयट् || १७ || अन्तःशून्याः स्थिताः केचित्संकल्पक्षयरात्रयः | तरङ्गा इव तोयेऽब्धौ प्रोह्यन्ते शून्यतार्णवे || १८ || तत्र केचिद्ब्रह्माण्डा अव्याकृता एवान्तः सन्तीत्याह - अन्तरिति | पूर्वकल्पीयसर्वसंकल्पबीजलिङ्गोपाधिक्षये सति रात्रयस्तमोरूपाः सुषुप्त इवेति यावत् | असद्वा इदमग्र आसीत् इति श्रुतावसच्छब्देनेव शून्यताशब्देनाव्याकृतमुच्यते | तल्लक्षणे अर्णवे अम्बुधौ प्रकर्षेण ऊह्यन्ते तर्क्यन्ते | कथमसतः सज्जायेत इति श्रुत्यौक्तयुक्त्या सन्तीति तर्क्यन्त इत्यर्थः || १८ || केषांचिदन्तःकल्पान्तः प्रवृत्तो घर्घरारवः | न श्रुतोऽन्यैर्न च ज्ञातः स्वभावेन रसाकुलैः || १९ || स्वभावेन स्वाभाविकेन मोहेन रसो विषयरागस्तदाकुलैरन्यैर्नच ज्ञातो नैव ज्ञातः || १९ || अन्येषां प्रथमारम्भे शुद्धभूषु विजृम्भते | सर्गः संसिक्तबीजानां कोशेऽङ्कुरकला यथा || २० || अन्येषां ब्रह्माण्डानां प्रथमारम्भे प्राथमिककल्पयुगाद्यारम्भे पूर्वोत्पन्नप्राणिभिरदूषितत्वाच्छुद्धासु भूषु भुवनेषु सर्गः प्रवर्तत इत्यर्थः | कोशे बीजपुटे अङ्कुर एव शुभ्रत्वात्कला || २० || महाप्रलयसंपत्तौ सूर्यार्चिर्विद्युतोऽद्रयः | प्रवृत्ता गलितुं केचित्तापे हिमकणा इव || २१ || केषुचिद्ब्रह्माण्डेषु महाप्रलयस्य संपत्तौ विभवे | विजृम्भणकाल इति यावत् | सूर्यादयः प्रथमं भुवनं दग्ध्वा स्वयमपि गलितुं प्रवृत्ता इत्यर्थः || २१ || आकल्पं निपतन्त्येव केचिदप्राप्तभूमयः | यावद्विशीर्य जायन्ते तथा संविन्मयाः किल || २२ || केचिद्ब्रह्माण्डा अप्राप्ता भूमिराधारो यैः | ननु पतनासंभवः प्रागुक्तस्तस्य का गतिस्तत्राह - तथेति | पतनसंविन्मयेषु पतनं न विरुध्यत इत्यर्थः || २२ || प्. २०५) स्तब्धा इव स्थिताः केचित्केशोण्ड्रकमिवाम्बरे | वायोः स्पन्दा इवाभान्ति तथा प्रोदितसंविदः || २३ || स्तब्धा निश्चला अन्ये तथा प्रोदितसंविदः | स्पन्दात्मसंविद्वासनाप्रभवा इति यावत् || २३ || आचाराद्वेदशास्त्राणामाद्य एवान्यथोदिते | आरम्भोऽपि तथान्येषामनित्यः संस्थितः क्रमः || २४ || ननु धाता यथापूर्वमकल्पयत् इति श्रुत्या सर्गाणामैकरूप्यं प्रतिपादितं तद्विरुद्धमिदं कथं वैचित्र्यमुच्यते तत्राह - आचारादिति | तया श्रुत्या पूर्वकल्पे यादृशी धातुः सृष्टिस्तादृश्येव द्वितीयादिरिति प्रतिपाद्यते | तत्र वेदशास्त्राणां संबन्धिनः प्राग्भवीयकर्मज्ञानानुष्ठानलक्षणादाचाराद्धातृभावं प्राप्तस्य आद्ये प्राथमिके एव सर्गे अन्यथा इतरधातृसर्गवैलक्षण्येनोदिते सति अन्येषां तदुत्तरकल्पीयसर्गाणामारम्भोऽपि तथा पूर्ववदस्तु नाम तथापि धात्रन्तरसर्गापेक्षया अस्य क्रमोऽनित्योऽनियत एव संस्थित इति वैचित्र्यसिद्धिरित्यर्थः || २४ || केचिद्ब्रह्मादिपुरुषाः केचिद्विष्ण्वादिसर्गपाः | केचिच्चान्यप्रजानाथाः केचिन्निर्नाथजन्तवः || २५ || तपसा तोषयित्वा तु पितरं परमेश्वरम् | परस्परस्माज्जायन्ते परस्परजयैषिणः || इति पुराणेषु ब्रह्मविष्णुरुद्राणां कल्पभेदेन परस्परस्मादुत्पत्त्यभिधानादुत्पादकप्राधान्ये तेषां गुणभेदात्सर्गस्य सत्त्वादिगुणप्राधान्यप्रयुक्तवैचित्र्यमपि दुर्वारमित्याशयेनाह - केचिदित्यादिना | केचिद्ब्रह्माण्डा ब्रह्मा चतुर्मुख एवादिपुरुषो येषां तथाविधाः | विष्णुरेवादिः सर्गपः सर्गाधिनाथो येषां | अन्ये रुद्रभैरवदुर्गाविनायकादयः प्रजानाथा येषाम् | तत्तन्माहात्म्यप्रतिपादकपुराणादिषु तेषामपि ब्रह्मादिनियन्तृताश्रवणात् | निर्नाथा नियन्तृशून्या मृगपक्ष्यादिजन्तवो येषु || २५ || केचिद्विचित्रसर्गेशाः केचित्तिर्यङ्मयान्तराः | केचिदेकार्णवापूर्णा इतरे जनिवर्जिताः || २६ || ब्रह्मादीनां समप्राधान्ये विचित्रसर्गेशाः | इत्थं च प्राणिकर्मवासनावैचित्र्यात्स्रष्टॄणामिच्छाबोधादिवैचित्र्याच्च यथेच्छं ब्रह्माण्डवैचित्र्यं सुकल्पमित्याशयेनाह - तिर्यङ्मयान्तरा इत्यादिना || २६ || केचिच्छिलाङ्गनिष्पिण्डाः केचित्कृमिमयान्तराः | केचिद्देवमया एव केचिन्नरमयान्तराः || २७ || निष्पिण्डा नितरां पिण्डिता निबिडा इति यावत् || २७ || केचिन्नित्यान्धकाराढ्यास्तथा शीलितजन्तवः | केचिन्नित्यप्रकाशाढ्यास्तथा शीलितजन्तवः || २८ || तथा शीलितादृष्टाः जन्तवः प्राणिनो येषु | पेचकादीनामन्धकारेऽपि दर्शनदर्शनादिति भावः || २८ || केचिन्मशकसंपूर्णा उदुम्बरफलश्रियः | नित्यं शून्यान्तराः केचिच्छून्यस्पन्दात्मजन्तवः || २९ || सर्गेण तादृशेनान्ये पूर्णा येऽन्तर्धियामिह | कल्पनामपि नायान्ति व्योमपूर्णाचलो यथा || ३० || तादृशेन सर्गेण पूर्णा ये सर्गा अन्तर्धियां योगिनां केऽपि स्फुटव्यवहारकल्पनां सविकल्पकज्ञानविषयतां नायान्ति | अस्माद्धियाम् इति पाठेऽप्यस्माकं धीरिव धीर्येषां योगिनामित्येवार्थः || ३० || तादृगम्बरमेतेषां महाकाशं ततं स्थितम् | आजीवितं प्रगच्छद्भिर्विस्ंवाद्यैर्यन्न मीयते || ३१ || तादृगिति पदं देहलीदीपकन्यायेन पूर्वेणोत्तरेण च संबध्यते | तथाच व्योमपूर्णाचलो यथा यादृशस्तादृगम्बरमाकाशः | अशून्यस्वभाव इति यावत् | महाकाश महाप्रकाशं तु तादृक्तथा ततं विस्तृतं यथा आजीवितं स्वजीवनकालमभिव्याप्य प्रगच्छद्भिर्धावद्भिरपि विष्ण्वाद्यैर्यन्न मीयते | इयदिति न परिमीयत इत्यर्थः || ३१ || प्रत्येकस्याण्डगोलस्य स्थितः कटकरत्नवत् | भूताकृष्टिकरो भावः पार्थिवः स्वस्वभावतः || ३२ || नन्वस्तु ब्रह्माण्डानन्त्यं तद्वैचित्र्यं च तथापि बाह्यजलाद्यावरणानां विधारकाभावात्कथं न विश्लेष इत्याशङ्क्य प्रागस्मदुक्तामाकर्षणशक्तिमाश्रित्य समाधत्ते - प्रत्येकस्येति | भूतानामाकृष्टिराकर्षणं तत्करो भावः शक्तिविशेषः कटकरत्नवत्परितो व्याप्तः स्थितः || ३२ || यः सर्वविभवोऽस्माकं धियां न विषयं ततः | तज्जगत्कथने शक्तिर्न [शक्तिर्मम नास्ति इति पाठः] ममास्ति महामते || ३३ || जगद्विस्तारवर्णनं तदशक्तिख्यापनव्याजेनोपसंहरति - य इति | अस्माकं धियां जगद्वर्णनविषये यः सर्वविभवः स दर्शित इति शेषः | ततः परं यज्जगद्धियां न विषयं विषयः | विषयशब्दे क्लीबता छान्दसी | तत्कथने मम शक्तिर्नास्तीत्यर्थः || ३३ || भीमान्धकारगहने सुमहृत्यरण्ये नृत्यन्त्यदर्शितपरस्परमेव मत्ताः | यक्षा यथा प्रवितते परमाम्बरेऽन्त- रेवं स्फुरन्ति सुबहूनि महाजगन्ति || ३४ || न मदीयवर्णनाशक्त्या इयन्त्येव जगन्तीति मन्तव्यं किंतु परैरलक्षितान्यप्यनन्तानि सन्ति मायायां सर्गशक्त्यानन्त्यादिति सदृष्टान्तमाह - भीमेति | न दर्शितं परस्परं स्वरूपं यथा स्यात्तथा यक्षा भूतगणा यथा नृत्यन्ति एवं सुबहूनि जगन्त्यविद्यावृते ब्रह्मणि शुरन्तीत्यर्थः || ३४ || इत्यार्षे श्रीवासिष्ठमहारामायणे मोक्षोपाये उत्पत्तिप्रकरणे लीलो० विचित्रब्रह्माण्डकोटिवर्णनं नाम त्रिंशः सर्गः || ३० || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे विचित्रब्रह्माण्डकोटिवर्णनं नाम त्रिंशः सर्गः || ३० || प्. २०६) एकत्रिंशः सर्गः ३१ श्रीवसिष्ठ उवाच एवमाकलयन्त्यौ ते निर्गत्य जगतो निजात् | अन्तःपुरं ददृशतुर्झटित्येव विनिर्गते || १ || पुनरन्तःपुरप्रेक्षा ब्रह्माण्डान्तरदर्शनम् | शूरादिलक्ष्मसन्नद्धसैन्यप्रेक्षात्र वर्ण्यते || १ || निजात्प्राग्भवीयाज्जगतो निर्गत्यैवमुक्तप्रकारमनन्तकोटिब्रह्माण्डवैचित्र्यमाकलयन्त्यौ पश्यन्त्यौ ते तेषु किंचिद्ब्रह्माण्डं झटित्येव प्रविश्यान्तःपुरं ददृशतुस्तत्र च न चिरमूषतुः किंतु झटित्येव विनिर्गते इति वक्ष्यमाणानुवादः || १ || स्थितपुष्पभरापूर्णमहाराजमहाशवम् | शवपार्श्वोपविष्टान्तश्चित्तलीलाशरीरकम् || २ || स्थितेत्यादिबहुव्रीहयोऽन्तःपुरविशेषणानि | अन्तःसमाध्यारूढं चित्तं यस्मिंस्तथाविधं लीलाशरीरं यस्मिन् || २ || घनरात्रितयाल्पाल्पमहानिद्राजनाकुलम् | धूपचन्दनकर्पूरकुङ्कुमामोदमन्थरम् || ३ || घनशब्देन शोकप्रयुक्तदैर्घ्यं लक्ष्यते | अल्पाल्पया महानिद्रया सुषुप्त्या युक्तैर्जनैराकुलम् || ३ || तमालोक्यापरं भर्तुः संसारं गन्तुमादृता | पपात लीला संकल्पदेहेनात्रैव तन्नभः || ४ || अत्रैवान्तःपुर एव तन्नभः प्रागुक्तमण्डपाकाशम् || ४ || विवेश भर्तुः संकल्पसंसारं किंचिदाततम् | संसारावरणं भित्त्वा भित्त्वा ब्रह्माण्डकर्परम् || ५ || प्राप सार्धं तया देव्या पुनरावरणान्वितम् | ब्रह्माण्डमण्डपं स्फारं तं प्रविश्य तथा जवात् || ६ || स्फारं विस्तीर्णम् || ६ || ददर्श भर्तुः संकल्पजगज्जम्बालपल्वलम् | सिंहीव शैलकुहरं तमो जलदपङ्किलम् || ७ || जम्बालस्य पङ्कस्य पल्वलं वेशन्तमिव स्थितम् | तमोजलदाभ्यां पङ्किलं सपङ्कमिव स्थितम् || ७ || देव्यो विविशतुस्तत्ते व्योम व्योमात्मिके जगत् | ब्रह्माण्डेऽन्तर्यथा पक्वं मृदुबिल्वं पिपीलिके || ८ || तत्र लोकान्तराण्यद्रीनन्तरिक्षमतीत्य ते | प्रापतुर्भूतलं शैलमण्डलाम्भोधिसंकुलम् || ९ || मेरुणालंकृतं जम्बूद्वीपं नवदलोदरम् | गवाथ भारते वर्षे लीलानाथस्य मण्डलम् || १० || नवदलानि नवखण्डाः | लीलानाथस्य मण्डलं राज्यं ददर्शेत्यन्वयः || १० || एतस्मिन्नन्तरे तस्मिन्मण्डले मण्डितावनौ | चक्रेऽवस्कन्दनं कश्चित्सामन्तोद्रिक्तभूमिपः || ११ || अवस्कन्दनं सेनया आक्रमणम् | सामन्तैर्मण्डलेश्वरैः स्वसहायैरुद्रिक्तो विवृद्धो भूमिपः सिन्धुराजः || ११ || तेन संग्रामसंरम्भे प्रेक्षार्थं समुपागतैः | त्रैलोक्यभूतैस्तद्व्योम बभूवात्यन्तसंकटम् || १२ || तेन सह संग्रामसंरम्भे प्रसक्ते सतीति शेषः | त्रैलोक्यस्थैर्भूतैः प्राणिभिः संकटं निबिडितम् || १२ || अशङ्कितागते तत्ते देव्यौ ददृशतुर्नभः | नभश्चरगणाक्रान्तमम्बुदैरिव मालितम् || १३ || मिथ्यात्व निश्चयादन्तर्धानादिकुशलत्वाच्चाशङ्कितं भयशङ्कारहितं यथा स्यात्तथा आगते | नभश्चरेत्यादीन्यारामप्रश्नान्नभसो विशेषणानि || १३ || सिद्धचारणगन्धर्वगणविद्याधरान्वितम् | शूरग्रहणसंरब्धस्वर्गलोकाप्सरोवृतम् || १४ || रक्तमांसोन्मुखोन्मत्तभूतरक्षःपिशाचकम् | पुष्पवृष्टिभिरापूर्णहस्तविद्याधराङ्गनम् || १५ || इत आरभ्य यथायोगं बहवो बहुव्रीहिसमासाः || १५ || वेतालयक्षकुश्माण्डैर्द्वन्द्वालोकनसादरैः | आयुधापातरक्षार्थं गृहीताद्रितटैर्वृतम् || १६ || वेतालादयो भूतजातिभेदाः | द्वन्द्वपदेन तत्कार्यं युद्धं लक्ष्यते | आयुधानां आसमन्तात्पातेभ्य आत्मनो रक्षार्थं गृहीतान्याश्रितान्यद्रितटानि यैः || १६ || अस्त्रमार्गनभोभागविद्रवद्भूतमण्डलम् | आहोपुरुषिकाक्षुब्धप्रेक्षकामोदनोद्भटम् || १७ || अस्त्राणां मार्गभूतात् संनिहितान्नभोभागात् | अहो अहं पुरुष इत्यभिमान आहोपुरुषिका || १७ || आसन्नभीमसंग्रामकिंवदन्तीपरस्परम् | लीलाहासविलासोत्कसुन्दरीधृतचामरम् || १८ || किंवदन्ती जनश्रुतिः | लीलासु हासविलासयोश्चोत्काभिरुत्कण्ठिताभिः || १८ || धर्माप्रेक्ष्यप्रयुक्ताग्र्यमुनिस्वस्त्ययनस्तवम् | संपन्नानेकलोकेशवनितावसरस्तवम् || १९ || धर्मातिशयेनान्यैरप्रेक्ष्याणां प्रेक्षितुमशक्यानां प्रयुक्तेन योगबलेन चाग्र्याणां श्रेष्ठानां मुनीनां जगत्स्वस्त्ययनार्थं पठ्यमाना देवतास्तवा यस्मिन् | संपन्ना अनेकेषां गन्धर्वादिलोकपालानां वनिताविषयास्तदवसरोचिताः स्तवा यस्मिन् | अप्सरसः स्वानुपेक्ष्याभिनवान्कान्तान्नोपगच्छेयुरिति [स्वनुपेक्ष्याभिनवान् इति पाठः] लोकेशास्ताः स्तुवन्तीत्यर्थः || १९ || स्वर्गार्हशूरानयनव्यग्रेन्द्रभटभासुरम् | शूरार्थालंकृतोत्तुङ्गलोकपालाख्यवारणम् || २० || स्वर्गार्हाः स्वर्गालंकरणत्वात्स्वर्गयोग्याह् | लोकपालाख्या वारणा ऐरावतादयः || २० || आगच्छच्छूरसन्मानोन्मुखगन्धर्वचारणम् | शूरोन्मुखामरस्त्रैणकटाक्षेक्षितसद्भटम् || २१ || अमराणां स्त्रैणेन स्त्रीसमूहेन || २१ || वीरदोर्दण्डकाश्लेषलम्पटस्त्रीगणाकरम् | शुक्लेन शूरयशसा चन्द्रीकृतदिवाकरम् || २२ || यशःशैत्येनाभिभूतौष्ण्यत्वाच्चन्द्रीकृतः || २२ || प्. २०७) श्रीराम उवाच | भगवञ्छूरशब्देन कीदृशः प्रोच्यते भटः | स्वर्गालंकरणं कः स्यात्को वा डिम्भाहवो भवेत् || २३ || प्रसङ्गाच्छूरादिलक्षणं जिज्ञासू रामः पृच्छति - भगवन्निति | अनुक्तासूचितस्यापि डिम्भाहवस्यात्र लक्षणप्रशन्ः शूरस्वर्गालंकरणत्वव्यतिरेकात्मकत्वात्तत्प्रासङ्गिको बोध्यः || २३ || श्रीवसिष्ठ उवाच | शास्त्रोक्ताचारयुक्तस्य प्रभोरर्थेन यो रणे | मृतो वाथ जयी वा स्यात्स शूरः शूरलोकभाक् || २४ || रणे युधयत इति शेषः || २४ || अन्यथा प्राणिकृत्ताङ्गो रणे यो मृतिमाप्नुयात् | डिम्भाहवहतः प्रोक्तः स नरो नरकास्पदम् || २५ || अयथाशास्त्रसंचारवृत्तेरर्थेन युध्यते | यो नरस्तस्य संग्रामे मृतस्य निरयोऽक्षयः || २६ || पूर्वोक्तमेव स्पष्टीकुर्वन्नाह - अयथाशास्त्रेत्यादिना || २६ || यथासंभवशास्त्रार्थलोकाचारानुवृत्तिमान् | युध्यते तादृशश्चैव भक्तः शूरः स उच्यते || २७ || गोरर्थे ब्राह्मणस्यार्थे मित्रस्यार्थे च सन्मते | शरणागतयत्नेन स मृतः स्वर्गभूषणम् || २८ || शरणागतस्य रक्षणार्थेन युद्धप्रयत्नेन || २८ || परिपाल्यस्वदेशैकपालने यः स्थितः सदा | राजा मृतास्तदर्थं ये ते वीरा वीरलोकिनः || २९ || परिपाल्यस्यावश्यंपरिपालनार्हस्य स्वदेशस्य एकपालने मुख्यवृत्त्या रक्षणे | स्थित उद्युक्तः || २९ || प्रजोपद्रवनिष्ठस्य राज्ञोऽराज्ञोऽथ वा प्रभोः | अर्थेन ये मृता युद्धे ते वै निरयगामिनः || ३० || ये हि राज्ञामराज्ञां वाप्ययथाशास्त्रकारिणाम् | रणे म्रियन्ते छिन्नाङ्गास्ते वै निरयगामिनः || ३१ || अयथाशास्त्रकारिसमाश्रय एव नरकाय किंपुनः प्रजोपद्रवकारिसमाश्रय इत्याशयेन पुनराह - ये हीति | अयथाशास्त्रकारिणामर्थे इति शेषः || ३१ || धर्म्यं यथा तथा युद्धं यदि स्यात्तर्हि संस्थितिः | नाशयेयुरलं मत्तः परलोकभयोज्झिताः || ३२ || धार्मिकाश्रितस्याप्यधर्मेण युध्यतो हतस्य न स्वर्ग इत्याह - धर्म्यमिति | धर्मादनपेतं धर्म्यम् | संस्थितिः स्वर्गे [स्वर्गस्थितिः इति पाठः] स्थितिः | अधर्म्येणापि युद्धेन यदि हतस्य स्वर्गः स्यात्तर्हि परलोकस्य निर्भयाः सन्तः अलमत्यर्थं अधर्मयुद्धेनापि मत्ताः परान्नाशयेयुरित्यर्थः || ३२ || यत्र यत्र हतः शूरः स्वर्ग इत्यवशोक्तयः | धर्मे योद्धा भवेच्छूर इत्येवं शास्त्रनिश्चयः || ३३ || परप्राणान्निजप्राणैः पणिकृत्योद्यतायुधः | यत्र यत्र हतः शूरः स्वर्गस्तत्र पदे पदे || इत्यादिसामान्यप्रवादानां तर्हि का गतिस्तत्राह - यत्रेति || ३३ || सदाचारवतामर्थे खड्गधारां सहन्ति ये | ते शूरा इति कथ्यन्ते शेषा डिम्भाहवाहताः || ३४ || तेषामर्थे रणे व्योम्नि तिष्ठन्त्युत्कण्ठिताशयाः | शूरीभूतमहासत्त्वदयितोक्तिसुराङ्गनाः || ३५ || शूरीभूतानां महासत्त्वानां महाबलानां दयिता वयमित्युक्तिर्यस्मिन्कर्मणि तद्यथा स्यात्तथा तिष्ठन्ति | प्रतीक्षन्त इति यावत् || ३५ || विद्याधरीमधुरमन्थरगीतिगर्भं मन्दारमाल्यवलनाकुलकामिनीकम् | विश्रान्तकान्तसुरसिद्धविमानपङ्क्ति व्योमोत्सवोच्चरितशोभमिवोल्ललास || ३६ || मन्दारमाल्यानां बलना शूरोरसि प्रदानाय ग्रथनं स्वकबरीषु वेष्टनं वा तत्राकुला व्यग्राः कामिन्यो यस्मिन् | उत्सवार्थमुच्चरिता ऊर्ध्वगता शोभा यस्य तथाविधमिवेत्युत्प्रेक्षा || ३६ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे युद्धप्रेक्षिकास्थिताम्बरवर्णनं नामैकत्रिंशः सर्गः || ३१ || इति श्रीवासिष्ठमहारामायणे तात्पर्यप्रकाशे उत्पत्तिप्रकरणे युद्धप्रेक्षिकास्थिताम्बरवर्णनं नामैकत्रिंशः सर्गः || ३१ || द्वात्रिंशः सर्गः ३२ श्रीवसिष्ठ उवाच | अथ वीरवरोत्कण्ठनृत्यदप्सरसि [वरात्कण्ठा इति पाठः] स्थिता | लीलावलोकयामास व्योम्नि विद्यान्वितावनौ || १ || सांकल्पिकविमानस्थज्ञप्तिलीलावलोकितम् | संनद्धसेनाद्वितयं युयुत्स्वत्रोपवर्ण्यते || १ || विद्या सरस्वती तदन्विता लीला अवनौ सेनाद्वितयमवलोकयामासेति संबन्धः || १ || स्वराष्ट्रमण्डले भर्तृपालिते बलमालिते | कस्मिंश्चिद्विततारण्ये द्वितीयाकाशभीषणे || २ || बलेन चतुरङ्गसैन्येन मालिते वेष्टिते | सिंहवृश्चिकरक्षःपिशाचाधारत्वाद्द्वितीयाकाशभीषणे || २ || सेनाद्वितयमाक्षुब्धं सौम्याब्धिद्वितयोपमम् | महरम्भघनं मत्तं स्थितं राजद्वयान्वितम् || ३ || महद्भिरारम्भैः कार्योद्योगैः || ३ || युद्धसज्जं सुसंनद्धमिद्धमग्निमिवाद्भुतम् | पूर्वप्रहारसंपातप्रेक्षाक्षुब्धाक्षिलक्षितम् || ४ || उद्यतामलनिस्त्रिंशधारासारवहज्जनम् | कचत्परश्वधप्रासभिन्दिपालर्ष्टिमुद्गरम् || ५ || निस्त्रिंशानां खड्गानां धारा एवासारा जलधारास्तान्वहन्तो जना यत्र | परश्वधं परशुः | भिन्दिपालादय आयुधविशेषाः || ५ || प्. २०८) गरुत्मत्पक्षविक्षुब्धवनसंपातकम्पितम् | उद्यद्दिनकरालोकचञ्चत्कनककङ्कटम् || ६ || कङ्कटं वर्म || ६ || परस्परमुखालोककोपप्रोद्दामितायुधम् | अन्योन्यबद्धदृष्टित्वाच्चित्रं भित्ताविवार्पितम् || ७ || कोपात्प्रोद्दामितानि प्रोद्यतानि || ७ || लेखामर्यादया दीर्घबद्धया स्थापितस्थिति | अनिवार्यमहासैन्यझांकाराश्रुतसंकथम् || ८ || सर्पादिनिरोधाय मान्त्रिकोल्लिखितरेखासदृश्या सेनाद्वयमध्यकृतरेखालक्षणया वा मर्यादया | झांकारैर्ध्वनिभिरभिभूतत्वादश्रुताः संकथा मिथोवार्ता यत्र || ८ || पूर्वप्रहारस्मयतश्चिरं संशान्तदुन्दुभि | निबद्धयोधसंस्थाननिखिलानीकमन्थरम् || ९ || राजाज्ञातः पूर्वं प्रहारो मा भूदिति स्मयोऽत्र शङ्का ततो निमित्तान्निबद्धप्रायेण योधा एव संस्थानानि प्रधानावयवसंनिवेशा यस्य तथाविधेन निखिलानीकेन मन्थरम् || ९ || धनुर्द्वितयमात्रात्मशून्यमध्यैकसेतुना | विभक्तं कल्पवातेन मत्तमेकार्णवं यथा || १० || धनुर्द्वितयप्रमाणं जनशून्यात्मकं यन्मध्यं तल्लक्षणेनैकसेतुना || १० || काये [कार्यसंकर इति पाठः] संकटसंरम्भचिन्तापरवशेश्वरम् | विरटड्भेककण्ठत्वग्भङ्गुरातुरहृद्गुहम् || ११ || ईश्वरौ राजानौ | भयाद्भेककण्ठत्वगिव भङ्गुरा कम्पमाना आतुराणां भीरूणां हृद्गुहा यत्र || ११ || प्राणसर्वस्वसंत्यागसोद्योगासंख्यसैनिकम् | कर्णाकृष्टशरौघौघत्यागोन्मुखधनुर्धरम् || १२ || शरौघलक्षणस्यौघस्य प्रवाहस्य || १२ || प्रहारपातसंप्रेक्षानिष्पन्दासंख्यसैनिकम् | अन्योन्योत्कण्ठकाठिन्यभरभ्रुकुटिसंकटम् || १३ || युद्धोत्कण्ठया काठिन्यं निर्दयता | क्रोध इति यावत् | तद्भरप्रयुक्तभ्रुकुटिभिः संकटं दुष्प्रेक्ष्यम् || १३ || परस्परसुसंघट्टकटुटङ्कारकङ्कटम् | वीरयोधमुखादग्धभीरुप्रेप्सितकोटरम् || १४ || सुसंघट्टोऽभिघातस्तेन कटुटंकाराः कङ्कटा वारबाणा यत्र | वीरयोधमुखाग्निना आदग्धैरिव श्यामीकृतमुखैर्भीरुभिर्निलयनाय प्रेप्सिता गिरिकोटरा यत्र || १४ || मिथःसंस्थानकालोकमात्रासंदिग्धजीवितम् | समस्ताङ्गरुहासक्तप्रांशुवृद्धेभमानवम् || १५ || संस्थानकं युद्धं तदालोकनपर्यन्तं असंदिग्धं जीवितं यस्य | सम्यगस्तैरुदञ्चितैरङ्गरुहैरासक्ता अत एवोर्ध्वं प्रांशवस्तिर्यक्च वृद्धा उपचिता इभा मानवाश्च यत्र || १५ || पूर्वप्रहारसंप्रेक्षाव्यग्रप्राणतया तया | संशान्तकल्लोलरवं निद्रामुद्रपुरोपमम् || १६ || प्राणशब्देन तद्वशं चित्तं लक्ष्यते || १६ || संशान्तशङ्खसंघाततूर्यनिर्ह्राददुन्दुभि | भूतलाकाशसंलीनसर्वपांसुपयोधरम् || १७ || पांसुपयोधरयोर्यथाक्रमं संबन्धः || १७ || पलायनपरैः पश्चात्त्यक्तमङ्गुलमण्डलम् [मङ्गलमण्डलं इति पाठः] | विसारिमकरव्यूहमत्स्यसंख्याब्धिभासुरम् || १८ || मङ्गुलाः सेनामण्डनभूताः शूराः | मकरव्यूहानां मत्स्यानां च संख्यं युद्धं यस्मिंस्तथाविधाब्धिरिव भासुरम् || १८ || पताकामञ्जरीपुञ्जविजिताकाशतारकम् | हास्तिकोत्तम्भितकरकाननीकृतखान्तरम् || १९ || हास्तिकानां हस्त्यारोहाणामुत्तम्भितैरूर्घ्वीकृतैः करैः काननमिव संपद्यमानं कृतं खान्तरं नभोवकाशो यस्मिन् || १९ || तरत्तरलभापूरसपक्षसकलायुधम् | धमद्धमितिशब्दैश्च श्वासोत्थैर्घ्मातखान्तरम् || २० || तरद्भिः प्लवद्भिस्तरलैर्भापूरैः सपक्षाणीव संवृत्तानि सकलायुधानि यस्मिन् दुन्दुभ्यादीनां धमद्धमितिशब्दैः श्वासोत्थैः शङ्खकाहलादिशब्दैश्च ध्मातं शब्दायमानं कृतम् || २० || चक्रव्यूहकराक्रान्तदुर्वृत्तसुरभासुरम् | गरुडव्यूहसंरम्भविद्रवन्नागसंचयम् || २१ || सांप्रतं सेनयोः प्रदेशभेदेन व्यूहरचनाभेदं वर्णयन्विशिनष्टि - चक्रेति | क्वचिच्चक्रव्यूहस्य करैर्निर्मातृभिः पुरुषैराक्रान्ता दुर्वृत्ता दानवा यैस्तथाविधैः सुरैरिव भासुरम् | नागशब्दश्लेषभित्तिकाभेदारोपेण [श्लेषनिमित्तक इति पाठः] सर्पात्मतया गजा उच्यन्ते || २१ || श्येनव्यूहविभिन्नाग्रसंनिवेशोत्तमध्वनि | अन्योन्यास्फोटनिःशेषप्रपतद्भूरिवृन्दकम् || २२ || क्वचित्तु श्येनव्यूहेन विभिन्नो विभक्तो यः प्रतिसैन्यसंनिवेशस्तेन हेतुना उत्तमस्तारतमो ध्वनिर्यस्मिन् | क्वचित्तु अन्योन्यं प्रतिभुजास्फोटेन संरम्भान्निःशेषं कृत्स्नशः प्रपतन्तो भूरिवृन्दकाः समूहा यस्मिन् || २२ || विविधव्यूहविन्यासवान्तवीरवरारवम् | करप्रतोलनोल्लासमत्तमुद्गरमण्डलम् || २३ || व्यूहविन्यासाद्वान्तानां पुरोनिर्गतानां वीराणां वर आरवो यस्मिन् | करेण प्रतोलनमुद्यमनं तत्कृतेनोल्लासेन मत्तानीव भ्रमन्ति मुद्गरमण्डलानि यस्मिन् || २३ || कृष्णायुधांशुजलदश्यामीकृतदिवाकरम् | अनिलाधूतपल्यूलसूत्कृताभशरध्वनि || २४ || कृष्णानां श्यामानामायुधानामंशुभिरिवोत्थितैर्जलदैः श्यामीकृतस्तिरोहित इति यावत् | पल्यूलास्तृणविशेषास्तेषां सूत्कृतमिति वायुसंघट्टनजन्यशब्दानुकरणम् || २४ || अनेककल्पकल्पाग्रसवृन्दमिव संस्थितम् | प्रलयानिलसंक्षुब्धमेकार्णवमिवोत्थितम् || २५ || कल्पाय प्रलयाय कल्पन्ते समर्था भवन्तीति कल्पकल्पाः पुष्करावर्तकादिमेघाः | अनेकैस्तैरग्रे सवृन्दं संघीभूतमिव || २५ || सद्यश्छिन्नं महामेरोः पक्षद्वयमिव स्फुरत् | क्षुब्धमारुतनिर्धूतमिव कज्जलपर्वतम् || २६ || कज्जलपर्वतोऽञ्जनाद्रिः | श्यामतमगजादिबाहुल्यात्तत्साम्योक्तिः || २६ || प्. २०९) पातालकुहरात्क्षुब्धमन्धकारमिवोत्थितम् | लोकालोकमिवोन्मत्तनृत्यलोललसत्तटम् | महानरकसंघातं भित्त्वावनिमिवोत्थितम् || २७ || उन्मत्तनृत्येन लोला लसन्तश्च तटा वप्राणि यस्य || २७ || आलोलकुन्तमुसलासिपरश्वघांशु- श्यामायमानदिवसातपवारिपूरैः | एकार्णवं भुवनकोशमिवाचिरेण कर्तुं समुद्यतमगाधमनन्तपूरैः || २८ || कुन्ताद्यायुधानामंशवः किरणास्तल्लक्षणैः श्यामायमानो दिवसातपो येभ्यस्तथाविधैर्वारिभिः पूर्यन्त इति वा वारिभिः पूरयन्ति जगदिति वा वारिपूरा मेघास्तैर्भुवनकोशमनन्तैः पूरैः प्रवाहैरगाधमेकार्णवं कर्तुं समुद्यतमिवेत्यर्थः || २८ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे लीलोपाख्याने आहवारम्भणं नाम द्वात्रिंशः सर्गः || ३२ || इति श्रीवासिष्ठमहारामायणे तात्पर्यप्रकाशे उत्पत्तिप्रकरणे आहवारम्भणं नाम द्वात्रिंशः सर्गः || ३२ || त्रयस्त्रिंशः सर्गः ३३ श्रीराम उवाच | भगवन्युद्धमेतन्मे समासेन मनाग्वद | श्रुतिराह्लाद्यते श्रोतुर्यस्मादेताभिरुक्तिभिः || १ || सांकल्पिकविमानस्थप्रज्ञालीलासमीक्षितः | अथ प्रवृत्तः संग्रामः सेनयोरत्र वर्ण्यते || १ || श्रुतिः श्रोत्रमाह्लाद्यते तत्त्वोपदेशग्रहणप्रतिरोधिजामितादोषनिवारणेनेत्यर्थः || १ || श्रीवसिष्ठ उवाच | अथ तत्रैव ते देव्यौ संग्रामं तमवेक्षितुम् | विमाने कल्पिते कान्ते रुद्धे रुरुहतुः स्थिरे || २ || सत्यसंकल्पेन कल्पिते कान्ते रमणीये नभसि रुद्धे निश्चलीकृते अत एव स्थिरे विमाने आरुरुहतुः || २ || एतस्मिन्नन्तरे तत्र लीलेशः प्रतिपक्षतः | तमुत्सोढुमशक्तः सन्मुखव्यतिकरे रणे || ३ || तत्र तयोः सेनयोर्मुखव्यतिकरे परस्परमुखसंघट्टने प्रसक्ते सति प्रतिपक्षतः शत्रुसैन्यात्प्रलयार्णवकल्लोल इवोत्पत्त्य निर्गत्य उद्भये निर्भये कस्मिंश्चिद्भटे प्रहर्तुकामे सति लीलेशो विदूरथस्तमुत्सोढुं क्षान्तुमशक्तः संस्तस्य भटस्योरसि मुद्गरं जहौ प्रहृतवानिति परेणान्वयः || ३ || प्रलयार्णवकल्लोल इवोत्पत्त्योद्भये भटे | जहौ सानाविव शिलां भटस्योरसि मुद्गरम् || ४ || अथ प्रवृत्तः प्रसभं प्रलयार्णवरंहसा | सेनयोः शस्त्रसंपातः किरन्ननलविद्युतः || ५ || अथ राजप्रवृत्त्यनन्तरम् | अनलपदेन तत्सदृशानि शस्त्राणि विद्युत्पदेन तत्प्रभाश्च लक्ष्यन्ते || ५ || तरत्तरलधाराग्ररेखाङ्कितनभस्तलः | ध्वनत्कणकणाशब्दमध्यलक्षितटांकृतिः || ६ || इतः प्रभृति सर्वाणि सर्गान्त्यश्लोकस्थरणसंभ्रमविशेषणानि | तरतां प्लवमानानां शस्त्राणां तरलधाराग्रै रेखाङ्कितमित्यौत्प्रेक्षिकम् || ६ || धीरहुंकारमिश्रिष्मघर्घरारवघस्मरः | प्रवृत्तशरधाराग्रभास्करार्चिर्वितानकः || ७ || हुंकारमिश्रत्वेन तरतमत्वादुष्मणो ग्रीष्मान्तस्य घनघर्घरारावाणां घस्मरो भक्षकः | तिरस्कर्तेति यावत् | शरधाराप्रतिफलितभास्करार्चीष्येव वितानं यस्य || ७ || नदत्कङ्कटटङ्कारप्रोड्डीनकणपावकः | परस्पराहतिच्छिन्नहेतिखण्डखगाम्बरः || ८ || शरखड्गादिप्रहरान्नदद्भ्यः कङ्कटेभ्यो वर्मभ्यष्टङ्कारेण प्रोड्डीनाः कणपावकाः स्फुलिङ्गा यस्मिन् | हेतिखण्डाः खड्गशकलान्येव प्रोड्डीयमानत्वात्खगा यस्मिंस्तथाविधमम्बरमाकाशं यत्र || ८ || वीरदोर्द्रुमसंचारवहद्वननभस्थलः | कोदण्डचक्रक्रेङ्कारद्रवद्वैमानिकाङ्गनः || ९ || दोर्द्रुमाणां संचारैर्वहत्संचरद्वनं यस्मिंस्तथाविधं नभस्थलं यत्र || ९ || महाहलहलारावभृङ्गीकृतघनध्वनिः | निर्विकल्पसमाधिस्थ इवैकघनतावशात् || १० || भृङ्गपदेन ध्वनिर्लक्ष्यते | हलहलारावैरभिभवाद्भृङ्गध्वनिवदल्पीकृतो मेघध्वनिर्यत्र | तद्यथा सैन्धवघनोऽनन्तरो बाह्यः कृत्स्नो रसघन एवं वा अरेऽयमात्मा विज्ञानघन एव इति श्रुतिदर्शित एकघनः परमात्मा तद्भाववशाद्यथा निर्विकल्पसमाधिस्थो बाह्यशब्दादीन्नानुभवति तद्वदित्यर्थः | तथाचोक्तम् ##- स्यान्निर्विकल्पस्ततः परः || इति || १० || नाराचासारधाराग्रलूनशूरशिरस्करः | परस्परांससंघट्टरणत्कङ्कटसंकटः || ११ || हुंकारहतहेत्युग्रसंघट्टकटुटांकृतः | तरद्धारातरङ्गाभ्रदन्तुराशेषदिङ्मुखः || १२ || खड्गधारातरङ्गैरभ्रैर्दन्तुराण्युन्नतदन्तानीव दिङ्मुखानि यत्र || १२ || हेतिसंघट्टविक्षोभमुष्टिग्राह्यझणज्झणः | चिरमास्फोटकास्फोटलुठच्चटचटारवः || १३ || खड्गप्रहारेण शत्रोर्विक्षोभे तच्छिरोग्रहणाय प्रवृत्तस्य हस्तस्य तदलाभाज्झणज्झणशब्द एव मुष्टिग्राह्य इव संपन्नो यत्र | बाह्वास्फोटकानां शूराणामास्फोटैर्लुठन्त इव चटचटारवा यत्र || १३ || प्. २१०) प्रवहत्खड्गसीत्कारज्वलत्कणसणध्वनिः | सरच्छरभराध्वान्तशरत्खखरारवः || १४ || त्वरया कोशात्प्रवहृतां निर्गच्छतां खड्गानां लोहसंघर्षसीत्कारसहितो ज्वलत्कणानां सणसण इति ध्वनिर्यत्र | सरतां शरभराणामध्वान्ते मार्गावधौ | लक्ष्यदेश इति यावत् | शरतां विशरारूणां खरखरारवो यत्र || १४ || धगद्धगितिविच्छिन्नकण्ठोत्थप्राणलोहितः | छिन्नबाहुशिरःखड्गखण्डनिर्विवराम्बरः || १५ || धगद्धगिति शब्देन सह विच्छिन्नकण्ठादुत्थाः प्राणा लोहितानि च यत्र || १५ || कङ्कटोत्थस्फुरद्वह्निसटास्पृष्टशिरोरुहः | रणत्पतदसिव्रातमत्तपीनझणज्झणः || १६ || वह्नेः सटाभिर्जटासदृशज्वालाभिः स्पृष्टाः शिरोरुहाः केशा यत्र | असिव्रातानां मत्ता हर्षपरवशचित्ताः संपन्नाः पीना रणोत्साहोत्फुल्लदेहाः शूरा येन तथाविधो झणज्झणरवो यत्र || १६ || कुन्तकुण्ठितमातङ्गतरङ्गोत्तुङ्गलोहितः | दन्तिदन्तविनिष्पेषतारचीत्कारकर्कशः || १७ || कुन्तैरायुधभेदैः कुण्ठितानां मातङ्गानां तरङ्गोत्तुङ्गो लोहितप्रवाहो यत्र || १७ || महामुसलसंपातपिष्टकष्टोद्धुरस्वरः | तरच्छूरशिरःपद्मप्रकराच्छादिताम्बरः || १८ || व्योमन्यस्तभुजाहीन्द्रः पूर्णधूलिमयाम्बुदः | छिन्नहेतिनरारब्धकेशाकेशिप्रतिक्रियः || १९ || केशेषु केशेषु गृहीत्वा प्रवृत्तं युद्धं केशाकेशि तदेव हेतिच्छेदनापराधप्रतीकारो यत्र || १९ || नखानखिनिकृत्ताक्षिकर्णनासोष्ठकन्धरः | छिन्नायुधमहामल्लहेलोल्लालनलब्धभूः || २० || छिन्नायुधैर्महामल्लानां हेलया तिरस्कारेण उल्लालनेन उत्कृष्टबाहुयुद्धक्रीडया लब्धा भूर्ययस्थानं यत्र || २० || पतत्समदमातङ्गकम्पितोर्वीलुठद्रयः | रणद्रथरयोत्पन्नक्षरद्रक्तसरित्पथः || २१ || मातङ्गेन कम्पितानां अत एव धावितुमशक्त्या उर्व्या लुठतां रयो यत्र || २१ || रजोरचितनीहारः कचत्प्रवहदायुधः | एकीकृतघनक्षोभसैन्यसागरगर्जितः || २२ || मत्तहासविलासेन मृत्युना परिचर्वितः | गर्विताद्रीन्द्रनागेन्द्रखर्विताम्भोदगर्जितः || २३ || चर्वितो भक्षितः | चर्चितः इति पाठे हिंसितो भर्त्सितो वा | नागेन्द्रैर्गजश्रेष्ठैः खर्वितानि औन्नत्येन गर्जितेन चाल्पीकृतान्यम्भोदास्तद्गर्जितानि च यत्र || २३ || वृक्षश्वभ्रतटीच्छन्नचक्रशक्त्यृष्टिमुद्गरः | शरोर्णातन्तुनीरन्ध्रघृष्टियोधाद्रिमेखलः || २४ || वृक्षश्वभ्राद्याश्रयेण प्रहरतां वधाय क्षिप्तास्तत्र च्छन्नाश्चक्रादयो यत्र | शरलक्षणोर्णातन्तुभिर्नीरन्ध्रधृष्टयो निरन्तरानुस्यूता नानावर्णा योधलक्षणा अद्रिमेखलाः पर्वतनितम्बा यत्र || २४ || मेघविश्रान्तविच्छिन्नपताकापटचामरः | यन्त्रपाषाणचक्रौघदूरविद्रुतखेचरः || २५ || मेघानां विश्रान्तैराक्रमणैर्मेघेषु वा विश्रान्तैर्विद्युदादिभिर्विच्छिन्नाः क्षेपणाख्ययन्त्रनिर्मुक्तपाषाणैश्चक्रौघैश्च दूरं विद्रुताः खेचराः पक्ष्यादयो यत्र || २५ || मरणव्यग्रकृत्ताङ्गयोधाक्रन्दातिघर्घरः | कुठाराघातसंघातविदलन्मस्तकव्रजः || २६ || दूरोड्डीनकचत्खड्गखण्डतारकिताम्बरः | शक्तिनिर्मुक्तशक्त्यौघविभिन्नेभावृतावनिः || २७ || खड्गखण्डैस्तारकितं संजाततारकमिवाम्बरं यत्र | शक्त्या बलेन निर्मुक्तैः शक्त्यायुधौघैः || २७ || सैन्यव्याकुलवेतालललनोन्मुक्तमुद्गरः [द्धूतमुद्गरः इति पाठः] | गगनोत्तम्भितोत्तुङ्गशूरतोमरतोरणः || २८ || गगने उत्तम्भितान्युत्तुङ्गानि शूरतोमराण्येव तोरणस्रगिव यत्र || २८ || भुशुण्डीभग्नखड्गौघखण्डालीव्योमकुन्तलः | कुन्तवेणुवनन्यस्ततापाम्बरकचच्छविः || २९ || खड्गखण्डालिरेव व्योम्नः कुन्तलाः केशा यत्र | कुन्तसमूहलक्षणे वेणुवने न्यस्तः क्षिप्तस्तापो दावाग्निरिवाम्बरे कचन्ती छविः कुन्तकान्तिर्यत्र || २९ || खड्गर्ष्टिवृष्टिसंपुष्टराजपूजितसैनिकः | शूलोत्तम्भितसच्छूरग्रहणोद्यमिताप्सराः || ३० || संपुष्टैः संतोषितैस्तत्स्वामिराजैः || ३० || गदातुषारविगलत्स्फुरिताङ्गददिङ्मुखः | प्रासप्रसभसंपिष्टकष्टचेष्टतयोत्कटः || ३१ || गदालक्षणैस्तुषारैर्हिमैर्विगलन्ति पद्मानीव स्फुरिताङ्गददिशां भटानां मुखानि यत्र || ३१ || चक्रक्रकचसंचारच्छिन्नाश्वनरवारणः | परशुव्रातसंपातपतत्समदवारणः || ३२ || लकुटोल्लोडनोड्डीनप्रोड्डामरचटद्भटः | यन्त्रपाषाणसंपातपिष्टकेतुरथद्रुमः || ३३ || तटाकश्च तडागः स्यान्मञ्चको मञ्जकस्तथा | मण्डपो मण्टपश्च स्याल्लकुटो लगुटोऽपि च || इति द्विरूपोक्तेर्लकुटैर्बृहद्यष्टिभिरुल्लोडनं गवामिव प्रकालनं तेनोड्डीना इवादर्शनं गताः प्रोड्डामरा उत्पतनशीलाश्चटन्तो वृक्षकुड्यचर्मादिनात्मानमावृण्वानाश्च भटा यत्र चटे आवरणे || ३३ || करवालविलूनाग्रच्छत्रपङ्कजपाण्डुरः | क्षेपणक्षोभसंक्षीणसैन्यक्षोभोऽप्यलक्षणः || ३४ || पङ्कजैरुत्तंसपद्मैः पाण्डुरः | न लक्षयतीत्यलक्षणः सैन्यक्षोभं न गणयतीति यावत् || ३४ || कबन्धबन्धसंनेतृपातसंपिष्टपार्श्वगः | साङ्कुशाङ्क्तसंख्यस्थवीरवारितवारणः || ३५ || उत्प्लुत्य रथिकान् जीवग्राहं जिघृक्षतामन्तरा शिरश्छेदे कबन्धानां छिन्नशिरस्कदेहानां बन्धैराश्लेषबन्धनैः सन्नेतॄणां जीवद्रथनायकानां पातेनोत्पथप्रवृत्तरथादिभिः संपिष्टाः पार्श्वगा यत्र | साङ्कुशानां हस्तिपकानामङ्कुशाघातेनाङ्कितैरपि संख्यस्थैर्युद्धे प्रहारिभिः शूरैर्वारिता निरस्ता वारणा यत्र || ३५ || प्. २११) परशुव्रातसंपातपतत्समदवारणः | पाशापाशिविशेषज्ञवीरातिपरिदेवनः || ३६ || वीराणामतिशयितं परितो देवनं प्राणद्यूतं यत्र || ३६ || क्षुरिकाकुक्षिनिर्भेदगलत्पद्मपतज्जनः | त्रिशूलवलनोन्मत्तशूरसंकरनर्ततः || ३७ || पद्मं हृदयपद्मम् | शूरसंकराः शूरबहुला योधास्तेषां नर्ततो गात्रविक्षेपात् || ३७ || धावद्धानुष्कसंपूर्णकुलकूजितकाकलिः [कृतकूजित इति पाठः] | भिन्दिपालसटाटोपहुंकारारभटीनटः || ३८ || धनुः प्रहरणं येषां ते धानुष्काः | काकलिर्मधुरास्फुटध्वनिः | सटाटोपः केसराडम्बरः आरभटीसाहंकारनादः ताभ्यां नृसिंहवेषनटा इव भटा यत्र || ३८ || वज्रमुष्टिविनिष्पिष्टपिष्टसद्भटसंकटः | श्येनवद्व्योमपदवीप्रोत्पतत्पटुपट्टिशः || ३९ || वज्रमुष्टिर्मल्लानां प्रसिद्धा तद्विनिष्पिष्टैः पिष्टा येऽन्ये सद्भटास्तैः संकटः | प्रोत्पतत्पटुपट्टिश इत्यसमर्थसमासश्छान्दसः || ३९ || अङ्कुशाकृष्टशूरेशरथेभहयकेतनः | हलाहलिहतालूनहेलाकुलकुलाचलः || ४० || शूरादिद्वन्द्वगर्भो बहुव्रीहिः | केतनानि पताकाः | हलप्रहरणं युद्धं हलाहलि तत्र हतालूनानां हेलावहेलनं तत्राकुलाः कुलाचलवदुन्नताः शत्रुकुले अचला निष्कम्पा वा शूरा यत्र || ४० || सुतालोत्तालकुद्दालनिखातवनभूतलः | धनुर्द्विगुणमात्रास्तलूनलोकशिलावलिः || ४१ || सुतालवदुन्नतपुरुषैरुत्तालकुद्दालैरुद्यतखनित्रैः करणैर्निखातान्युन्मूलितानि समीकृतानि च | धनुःशब्देनेषुप्रक्षेपदेशो लक्ष्यते | तद्द्विगुणमात्रदेशे युद्धसंचारसौकर्याय अस्ता लूनाश्छिन्ना लोका जनाः शिलावलयश्च यत्र || ४१ || क्रकचोभयपार्श्वेभच्छिन्नमत्तमतङ्गजः | संग्रामोलूखलक्षुण्णलोकतण्डुलमौसली || ४२ || अत्रोलूखलादिरूपकोपपादितं मौसलं श्लेषादवघाताभेदेन विवक्षितं मुसलयुद्धं तदत्रास्तीति मौसली || ४२ || अस्त्राभाशृङ्खलाजालबद्धसेनाविहङ्गमः | लोलासिवीरनिस्त्रिंशनीतवादिगृहाङ्गणः || ४३ || युद्धे लोलासयो ये वीरास्तदीयनिस्त्रिंशैः खड्गविशेषैः | वादिरत्र वकारादिनामा वैवस्वतः | अर्थात्स एव व्याधादिपतिरिति कल्प्यते | अन्यथा बद्धसेनाविहंगमानां तदङ्गणे नीतत्वायोगात् || ४३ || गणशो नीयमानाग्र्यश्वापदारावनिर्भरः | नखाङ्गुष्ठखनत्पुङ्खप्रेङ्कारणरणारवैः || ४४ || नीयमाना अग्र्याः युद्धनिपतितभटश्रेष्ठा यैस्तथाविधानां श्वापदानां व्याघ्रवृकादीनाम् | नखप्रधानैरङ्गुष्ठैः खनन्त उद्ध्रियमाणाः | आरोहति हस्तीतिवत्कर्मव्यापारांशे कर्मणः स्वातन्त्र्यविवक्षणाच्छतृप्रत्ययः | ये पुङ्खोपलक्षितशरास्तेषां Pरेङ्खा वेगः || ४४ || मरिचैर्व्यञ्जनानीव रञ्जयन्सकलारवान् | सैन्यनिक्षिप्तकुम्भाग्निदग्धयोधेरितायुधः [सैनिकक्षिप्त इति पाठः] | सैन्यनिक्षिप्तकुम्भाग्निदग्धयोधोज्झितायुधः [ग्निमृतयोधो जितायुधः मृतयाधेरितायुधः इति पाठौ] || ४५ || रञ्जयन् मिश्रणेन रोचयन् | कुम्भाग्निः प्रसिद्धः || ४५ || सैन्यनिक्षिप्तकुम्भस्ततप्ताङ्गारहतेक्षणः | सैन्यनिक्षिप्तकुम्भस्थविषवारिदलज्जनः || ४६ || विषवारिभ्र्दलन्तो विशीर्णाः || ४६ || नाराचवर्षवरवारिदवीरपूर- मत्ताभ्रसंभ्रमसनृत्तकबन्धवर्ही | कल्पान्तकाल इव वेगविवर्तमान- मातङ्गशैलवलितो रणसंभ्रमोऽभूत् || ४७ || नाराचवर्षलक्षणं वरवारि ददति तथाविधानि वीरपूरलक्षणमत्ताभ्राणि तेषां संभ्रमेणविलासेन प्रनृत्तः कबन्धलक्षणा बर्हिणो यत्र | वेगेन विवर्तमानैर्भ्रमद्भिर्मातङ्गलक्षणैः शैलैर्वलितो वेष्टितः || ४७ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे सेनयोः प्रथमपातवर्णनं नाम त्रयस्त्रिंशः सर्गः || ३३ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे प्रथमपातवर्णनं नाम त्रयस्त्रिंशत्तमः सर्गः || ३३ || चतुस्त्रिंशः सर्गः ३४ श्रीवसिष्ठ उवाच | अथ राज्ञां युयुत्सूनां भटानां मन्त्रिणामपि | नभसः प्रेक्षकाणां च तत्रेमाः प्रोदगुर्गिरः || १ || वर्ण्यतेऽत्र विशेषेण विचित्रार्थनिबन्धनैः | रणप्रेक्षकवक्रेण युद्धस्यैव चमत्कृतिः || १ || नभसः सकाशात्प्रेक्षकाणां देवगन्धर्वादीनाम् | प्रोदगुः प्रादुर्बभूवुः || १ || चलत्पद्मं सर इव वहद्विहगमेव च | नभः शूरशिरःकीर्णं भाति तारकिताकृति || २ || वहद्विहगमिति नभःसरसोः साधारणं विशेषणम् | तारकितस्याकृतिरिवाकृतिर्यस्येति विशेषणभेदाद्भेदकल्पनयोपमानता || २ || पश्य रक्तपृषत्पूरसिन्दूरारुणमारुतैः | सांध्या इव विभान्त्येते मध्याह्नेऽम्बुदभानवः || ३ || रक्तपृषतां रुधिरसीकराणां पूरैर्निकरैः सिन्दूरेणेवारुणैर्मारुतैर्हेतुभिः | सांध्याः संध्यासंबन्धिनः | अम्बुदा भानवः सूर्यकराश्च || ३ || प्. २१२) किमिदं भगवन्व्योम पलालभरितं स्थितम् | नेदं पलालं वीराणामेते शरभराम्बुदाः || ४ || दूराच्छरोत्करेषु पलालभ्रान्त्या कश्चित्स्वमान्यं पृच्छति - किमिदमिति | स प्रत्याह - नेदमिति || ४ || यावन्तो भुवि सिच्यन्ते रुधिरै रणरेणवः | तावन्त्यब्दसहस्राणि भटानामास्पदं दिवि || ५ || मा भैष्ट नैते निस्त्रिंशा नीलत्पलदलत्विषः | अमी वीरावलोकिन्या लक्ष्म्या नयनविभ्रमाः || ६ || लक्ष्म्याः स्वर्गलक्ष्म्या जयलक्ष्म्या वा || ६ || वीरालिङ्गनलोलानां नितम्बे सुरयोषिताम् | मेखलाः शिथिलीकर्तुं प्रवृत्तः कुसुमायुधः || ७ || नभश्चरोक्तिर्वीरेति || ७ || लसद्भुजलतालोला रक्तपल्लवपाणयः | मञ्जरीमत्तनयना मध्वामोदसुगन्धयः || ८ || वीरस्य वीरान्तरं प्रत्युक्तिर्लसद्गुजेति द्वाभ्याम् || ८ || गायन्त्यो मधुरालापैर्नन्दनोद्यानदेवताः | तवागमनमाशङ्क्य प्रवृत्तः परिनर्तितुम् || ९ || प्रत्यनीकं भिनत्त्यन्तः कुठारैः कठिनैरियम् | सेना ग्राम्येव वनिता दयितं दृष्टिचेष्टितैः || १० || दृष्टिचेष्टितैर्दृग्विलासैः || १० || हा पितुर्मम भल्लेन शिरो ज्वलितकुण्डलम् | सूर्यस्य निकटं नीतं कालेनेवाष्टमो ग्रहः || ११ || कालेन सूर्योपरागकालेनेव | अष्टमो ग्रहो राहुः || ११ || आपादशृङ्खलाप्रोतभ्रमत्स्थूलोपलद्वयम् | भ्रामयंश्चित्रदण्डाख्यं चक्रमूर्ध्वभुजो जवात् || १२ || भीरोर्भीरुं प्रत्युक्तिरापादेति द्वाभ्याम् | आपादलम्बिन्यां यन्त्रशृङ्खलायां प्रोतं चक्रं चक्रोपलयन्त्रम् || १२ || योधो यम इवाभाति याम्यादायाति दिक्तटात् | सर्वतः संहरन्सेनामेहि यामो यथागतम् || १३ || याम्याद्दक्षिणात् | संहरन्निति योधयमयोर्विशेषणम् || १३ || सद्यश्छिन्नशिरःश्वभ्रमज्जत्कङ्ककुलाकुलाः | कबन्धाः परिनृत्यन्ति तालोत्ताला रणाङ्गणे || १४ || श्वभ्रेषु कण्ठच्छिद्रेषु मज्जद्भिः कङ्ककुलैराकुलाः | तालैर्युद्धवादित्रतालैरुत्ताला उच्छलन्तः || १४ || गीर्वाणगणगोष्ठीषु प्रवृत्ताः संकथा मिथः | कदा लोकान्तरं धीराः कथं यास्यन्ति के कुतः || १५ || चतुर्भिः किंवृत्तैः कालप्रकारपुरुषनिमित्तानि पृच्छ्यन्ते || १५ || निगिरत्यागताः सेनाः स्रवन्तीरिव सागरः | समत्स्यमकरव्यूहा अहो नु विषमो भटः || १६ || स्रवन्तीर्न्ददीः | समत्स्यमकरव्यूहा इति स्रवन्तीसेनयोर्विशेषणम् || १६ || कटेषु करिणां कीर्णा धारानाराचराजयः | पतिता इव संपूर्णाः शृङ्गसंघेषु वृष्टयः || १७ || गिरिशृङ्गसङ्घेषु पतिताः संपूर्णवृष्टय इव राजन्त इति शेषः || १७ || हा कुन्तेन शिरो नीतं ममेत्येवं विवक्षतः | शिरसाऽजीवमित्येवं खे खगेनेव वाशितम् || १८ || शिरश्छेदस्य दुःखताबुद्ध्या तथा विवक्षतश्छिन्नेनोड्डीनेन शिरसा स्वर्गारोहणोत्सवदर्शनादजीवमहं नतु मृत इति हर्षेण खे यद्भाषितं तत्खगेन पक्षिणा वाशितमिव जनैः श्रुतमिति शेषः | तिरश्चां कूजितं वाशितम् || १८ || यन्त्रपाषाणवर्षेण यैषास्मान्परिषिञ्चति | सेनानुशृङ्खलाजालवलना क्रियतां बलात् || १९ || या सेना सिञ्चति एषा अनुशृङ्खलाजालेन वलिता वेष्टिता क्रियतामिति सैनिकोक्तिः || १९ || वलीपलितनिर्मुक्तं पूर्वभार्याप्सराः सती | अङ्गीकरोति भर्तारं परिज्ञाय रणे हतम् || २० || पूर्वभार्या प्रागेव मृता अप्सराः सती स्थिता युद्धे मृतं स्वभर्तारं वलीपलितनिर्मुक्तं देवभूतं परिज्ञायाङ्गीकरोतीति देवोप्क्तिः || २० || आदिवं रचिताकाराः कुन्तकाननकान्तयः | वीराणां स्वर्गमारोढुमिव सोपानपङ्क्तयः || २१ || कुन्तायुधानां काननं समूहस्तेषां कान्तय आदिवं स्वर्गपर्यन्तं रचितवत्प्रसृताः सोपानपङ्क्तय इत्युत्प्रेक्ष्यन्ते || २१ || कान्तकाञ्चनकान्ताङ्गे भटस्योरसि कामिनी | दृष्टा देवपुरन्ध्रीयं भर्तुरन्वेषणान्विता || २२ || या भटस्य कामिनी स्वतः काञ्चनैश्च कान्तान्यङ्गानि करचरणादीनि यस्य तथाविधे भटस्योरसि मृता दृष्टा सेयं देवपुरन्ध्री भूत्वा भर्तुरन्वेषणान्विता दृश्यत इति शेषः || २२ || हा हतं सैन्यमस्माकं भटरुद्धतमुष्टिभिः | महाप्रलयकल्लोलैः सुरशैलस्थलं यथा || २३ || हा हतमिति कातरस्योक्तिः || २३ || युध्यध्वमग्रतो मूढा नयतार्धमृतान्नरान् | निजान्पादप्रहारेण मैतान्दारयताधमाः || २४ || निजान्स्वीयान् || २४ || धम्मिल्लवलनाव्यग्रे घनोत्कण्ठेऽप्सरोगणे | भटो दिव्यशरीरेण पार्श्वप्राप्तो निरीक्ष्यताम् || २५ || धम्मिल्लवलना केशसंग्रथनम् || २५ || फुल्लहेमारविन्दासु च्छायाशीतजलानिलैः | स्वर्गनद्यास्तटीष्वेनं दूरायातं विनोदय || २६ || स्वर्गनद्या गङ्गायाः विनोदय विश्रामयेत्यप्सरःसख्युक्तिः || २६ || विविधायुधसंघट्टखण्डितोग्रास्थिकोटयः | खे कवन्त्यः कण्ट्कारैः प्रसृतास्तारका इव || २७ || कोटिशब्दोऽसंख्येयपरः | कणत्कारैः कवन्त्यो रणन्त्यः || २७ || व्योम्नि जीवनदीवाहे वहत्सायकवारिणि | चक्रावर्तिनि गच्छन्ति गिरयोऽप्यणुपङ्कताम् || २८ || चक्रैरावर्तिन्यावर्तवति | अणवो रेणवस्तल्लक्षणां पङ्कताम् | कल्पितपूरानुरूपः कल्पित एव पङ्कः || २८ || भ्रमद्भिर्ग्रहमार्गेषु शिरोभिर्वीरभूभृताम् | आयुधांशुलतानाललग्नासिदलकण्टकैः || २९ || ग्रहमार्गेषु भ्रमद्भिर्वीरभूभृतां शिरोभिर्नभः पद्मसरः कृतमित्युत्तरेणान्वयः | तदुपपत्तये विशिनष्टि - आयुधांश्वित्यादिना | आयुधानामंशवः किरणा एव पद्मलतानालानि तेषु लग्ना असयः दलानि विदलनसाधनशूलकुन्तादीनि च कण्टका येषाम् || २९ || प्. २१३) केतुपट्टमृणालाङ्गदलैर्लब्धशिलीमुखैः | अवहद्वातचलत्पद्मं नभः पद्मसरः कृतम् || ३० || केतुपट्टाः पताकापटास्त एव मृणालस्यावयवभूतपर्णानि येषाम् | लब्धाः शिलीमुखाः श्लेषाद्बाणलक्षणभ्रमरा यैः || ३० || मृतमातङ्गसंघाते गिराविव पिपीलिकाः | भीरवः परिलीयन्ते [परिहीयन्ते इति पाठः] स्त्रियः पुंवक्षसीव च || ३१ || चकार उपमानद्वयसमुच्चयार्थः || ३१ || अपूर्वोत्तमसौन्दर्यकान्तसंगमशंसिनः | वान्ति विद्याधरस्त्रीणामलकोल्लासिनोऽनिलाः || ३२ || गृहादागच्छन्तीनामलकोल्लासितयानुकूलत्वेन शकुनरूपत्वान्मनोरथसिद्धिशंसिन इति भावः || ३२ || छत्रेषूड्डियमानेषु स्थितेषु व्योम्नि चन्द्रता | इन्दुनेव यशोमूर्त्या कृता शुभ्रातपत्रता || ३३ || इवकारः पूर्वत्रापि संबध्यते | तेन च्छत्रेषु व्योम्नि स्थितेषु तैश्चन्द्रता कृतेव | यशोमूर्त्या इन्दुना भुवि शुभ्रातपत्रता कृतेवेत्युप्रेक्षाद्वयं लभ्यते || ३३ || भटो मरणमूर्च्छान्ते निमेषेणामरं वपुः | स्वकर्मशिल्पिरचितं प्राप्तः स्वप्नपुरं यथा || ३४ || शूलशक्त्यृष्टिचक्राणां वृष्टयो मुक्ततुष्टयः | व्योमाब्धौ मत्स्यमकरसंकुलावयवाः स्थिताः || ३५ || मुक्ततुष्टयः असंतोषशीला इव व्यग्रा मत्स्यमकररूपाः [शेफा इति पाठः] संकुलावयवा इव स्थिताः | अब्धिस्थमत्स्यादीनामब्ध्यवयवत्वं काल्पनिकम् || ३५ || शरोत्कृत्तसितच्छत्रकलहंसैर्नभःस्थलम् | भाति संचितपूर्णेन्दुबिम्बलक्षैरिवावृतम् || ३६ || क्रियते गगनोड्डीनैश्चामरैश्चारुघर्घरैः | वातावधूतसंरोधतरङ्गनिकरद्युतिः || ३७ || वातेनावधूतः संरोधः स्थैर्यं येषां तरङ्गाणाम् || ३७ || दृश्यन्ते हेतिदलिताश्छत्रचामरकेतवः | आकाशक्षेत्रविक्षिप्ता यशःशालिलता इव || ३८ || वहद्भिर्व्योम्नि सक्षेम पश्य नीता क्षयं शरैः | शक्तिवृष्टिरुपायान्ती सस्यश्रीः शलभैरिव || ३९ || सक्षेमेति श्रोतृसंबोधनम् | उपायान्ती समुपसर्पन्ती आसन्नफला च || ३९ || एषा प्रसृतदोर्दण्डभटखड्गच्छटात्कृतिः | कठिनात्कंकटाज्जाता मृत्योरेवोग्रहुंकृतिः || ४० || छटात्कृतिरिति खड्गपातध्वन्यनुकरणम् | सैव मृत्योर्हुंकृतिरित्युत्प्रेक्षा || ४० || हेतिकल्पानिलक्षुण्णा दन्तनिर्झरवारयः | जनताक्षयकालेऽस्मिन्भग्ना नागा नगा इव || ४१ || हेतयः खड्गाद्यायुधान्येव कल्पानिलास्तैः क्षुण्णाः | दन्ता एव निर्झरवारीणि शुभ्रत्वबहिर्निःसृतत्वसाम्याद्येषां ते | नागा गजा नगा गिरय इव || ४१ || सचक्रनाथसूताश्वं व्यूढं रक्तमहाह्रदे | हाहाभिभूतगतिकं [महाभिभूत इति पाठः] चेष्टते रथपत्तनम् || ४२ || व्यूढं संनद्धम् | रक्तमहाह्रदे अभिभूता चक्रविष्टम्भात्तिरोभूतागतिर्यस्य तथाभूतं सच्चेष्टते स्पन्दते | हाहेति खेदे || ४२ || करकंकटकुट्यङ्कखड्गसंघट्टटांकृतैः | कालरात्र्या प्रनृत्यन्त्या रणवीणेव वाद्यते || ४३ || वीरहस्त्यादिकराः कंकटानि च कुट्यङ्कास्तन्त्रीपदानि तेषु खड्गसंघट्टकृतैष्टाकृतैर्वादनशब्दैः || ४३ || नरेभखरवाजिभ्यो ये च्युता रक्तनिर्झराः | पश्य तद्बिन्दुसिक्तेन वायुनारुणिता दिशः || ४४ || शस्त्रांशुजलदे व्योम्नि कालीचिकुरमेचके | शरकोरकभारस्रङ्मेघे विद्युदिवोदिता || ४५ || चिकुराः केशा इव मेचके श्यामे | शरा एव कोरकाः कलिकास्तेषां भारः प्रचयस्तल्लक्षणा स्रक् | जलदे इति जातिशब्दः | मेघे मिह सेचने तत्प्रधाने इति तद्विशेषणम् || ४५ || अनन्तरक्तसंसक्तसन्नावनितलायुधैः | भुवनं भात्यभिज्वालमग्निलोक इवाकुलम् || ४६ || अनन्तैः रक्तसंसक्तैः सन्नैर्विशीर्णैरवनितलैरायुधैश्च आकुलं भुवनं अग्नेर्लोक इव भातीति शेषः | अग्निशोक इव इति पाठे अग्निप्रयुक्ते नगरादिदाहशोके आकुलमिवेति व्याख्येयम् || ४६ || भुशुण्डीशक्तिशूलासिमुसलप्रासवृष्टयः | अन्योन्यच्छेदभेदाभ्यां करप्रकरतोऽपतन् || ४७ || अक्षोभैकप्रहरणाद्यातुधान्योऽन्यचेष्टितम् | संरम्भावेक्षणप्रज्ञं रणं स्वप्नमिव स्थितम् || ४८ || अक्षोभेषु संचलितुमसमर्थेष्वनकेष्वेकेन शूरतमेन स्वलाघवातिशयेन प्रहरणात् | यातुधानानां रक्षसां माया यातुधानी तया उन्यं उन्नेयं उपमेयं शूरचेष्टितं यत्र | नयतेष्टिलोपश्छान्दसः | संरम्भेण क्रोधेनावेक्ष्यते यया सा संरम्भावेक्षणि तथाविधा प्रज्ञा योद्धृबुद्धिर्यत्र | स्वप्नपक्षे अक्षोभेषु विनाशानुकूलच्छेदभेदादिसंचलनशून्येषु स्वाप्नपदार्थेष्वेकेन जागरमात्रेण प्रहरणाद्बाधाद्यातुधानमायोपमेयमिथ्याचेष्टितम् | संरम्भेण आवेशेनावेक्षणी प्रज्ञा स्वयंज्योतिरात्मप्रज्ञा यत्र | स्वप्नमिव स्थितं रणं पुरःस्थितं स्वप्नमिव पश्यामीति शेषः || ४८ || अनन्यशब्दाविरतहताहतिरणज्झणैः | गायतीव क्षतक्षोभमुदितो रणभैरवः || ४९ || अविरतं निरन्तरं या हताहतिरन्योन्यप्रहारस्तदुद्भवै रणज्झणैर्ध्वनिविशेषैः || ४९ || अन्योन्यरणहेत्युग्रचूर्णपूर्णो रणार्णवः | वालुकामय एवाभूच्छिन्नच्छत्रतरङ्गकः || ५० || वालुकामयः सैकतप्रचुरः || ५० || सरभसरसवद्विसारितूर्य- प्रतिरवपूरितलोकपाललोकः | रणगिरिरयमुग्रपक्षदक्ष- [रवमुग्र इति पाठः] प्रतिसृतिवृत्त इवाम्बरे युगान्ते || ५१ || सरभसं रसवद्भिर्मधुरैर्विसारिभिः प्रसृमरैस्तूर्याणां वाद्यानां प्रतिरवैः प्रतिध्वनिभिः पूरिता लोकपालानां दिक्पतीनां लोका येन | तूर्यरवैरुड्डयनोद्योगेन गर्जन्निवेति यावत् | अयं दृश्यमानो रणलक्षणो रणसंनिहितो वा गिरिः पर्वतो युगान्ते अम्बरे नभसि उग्रयोर्युद्धकर्कशयोः सैन्यद्वयलक्षणयोः पक्षयोर्दक्षया समर्थया प्रतिसृत्या परस्परप्रतिकूलचलनेन वृत्त उड्डयने प्रवृत्त इवावभतीत्यर्थः || ५१ || प्. २१४) हा हा धिक्प्रविकटकङ्कटाननोद्य- त्प्रोड्डीनप्रकटतडिच्छटाप्रतप्ताः | क्रेङ्कारस्फुरितगुणेरिता रणन्तो नाराचाः शिखरिशिलागणं वहन्ति || ५२ || समर्थानपि कठनकङ्कटेषु मोघान्स्वशराननुशोचन्तो वीरा आहुर्हाहेति | प्रविकटानतिकठिनान्कङ्कटान् अनोद्याभित्त्वैव तदभिघातप्रोड्डीनाभिः प्रकटतडिच्छटासदृशीभिर्ज्वालाभिः प्रतप्तानाराचाः शराः शिखरिणः सन्निहितपर्वतस्य शिलागणं छित्त्वा वहन्ति | हाहेति खेदे | अभिमतकार्ये प्रेरितस्य तदकृत्वा अनभिमतमहाकार्यकारिणोऽपि धिक्कार्यतैवेति भावः | अरणीतः इति पाठे स्फुरितगुणं यद्धनुस्तल्लक्षणाया ईरितायाः कर्षणोन्मथिताया अरणीतः अरण्याः सकाशात् नाराचाः शराग्नय इति व्याख्येयम् || ५२ || छिन्नेच्छाच्छमिति न यावदङ्गभङ्गं कुर्वन्तो ज्वलदनलोज्ज्वलाः पृषत्काः | तावद्राग्द्रुतमित एहि मित्र यामो यामोऽयं प्रवहति वासरश्चतुर्थः || ५३ || अथ युद्धश्रान्तस्य तादृशं कंचित्प्रत्युक्तिः | हे छिन्नेच्छ श्रमविच्छिन्ना युद्धेच्छा यस्य तथाविध हे मित्र अच्छं स्वच्छं निर्दोषं इति वक्ष्यामाणं हितं शृण्विति शेषः | ज्वलदनलोज्ज्वलाः पृषत्का बाणा अस्माकमङ्गानां हस्तपादादीनां भङ्गं विच्छेदं कुर्वन्तो यावन्न भवन्ति तावदेव द्राक् शीघ्रमेव द्रुतं पलायितं यथा स्यात्तथा इति यामः अपगच्छामः | यतोऽयं चतुर्थो यामः प्रहरः यामो यमसंबन्धी वासरः | नियताशनदिनमिव जनक्षयाय प्रवहति | परिवर्तत इत्यर्थः | छिन्नेच्छाछृं इति पाठे तु छिन्नवर्मादौ छाछृं इति शब्देन नाङ्गभङ्गं कुर्वन्त इति योज्यम् || ५३ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे लीलोपाख्याने रणप्रेक्षकजनोक्तिवर्णनं नाम चतुस्त्रिंशः सर्गः || ३४ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे रणप्रेक्षकजनोक्तिवर्णनं नाम चतुस्त्रिंशः सर्गः || ३४ || पञ्चत्रिंशः सर्गः ३५ श्रीवसिष्ठ उवाच | अथ प्रोड्डयनोद्युक्ततुरङ्गमतरङ्गकः | उत्ताण्डव इवोन्मत्तो बभूव स रणार्णवः || १ || समुद्रवनकल्पान्तनानारूपकविस्तरैः | संग्रामश्चतुरङ्गाणां विस्तरेणात्र वर्ण्यते || १ || तत्रादौ त्रयोदशश्लोकैरर्णवात्मना निरूपयिष्यन्नाह - अथेत्यादिना || १ || छत्रडिण्डीरविश्रान्तसितेषुशफरोत्करः | अश्वसैन्योल्लसल्लोलकल्लोलाकुलकोटरः || २ || डिण्डीरेषु फेनकूटेषु विश्रान्ताः सिता इषवः शफराः क्षुद्रमत्स्यजातिभेदाः अश्वसादिसैन्यान्येवोच्छलनशीलत्वात्कल्लोलाः || २ || नानायुधनदीनीतसैन्यावर्तविवृत्तिमान् | मत्तहस्तिघटापीठचलाचलकुलाचलः || ३ || विवृत्तिर्भ्रमणं तद्वान् | घटा समूहस्तल्लक्षणा आपीठमामूलाच्चलाचलाश्चञ्चलाः कुलाचला मन्दरादयो यत्र | बलाबल इति पाठे बलाबलपरीक्षार्थ युध्यन्तः कुलाचला इवेति क्लेशेन योज्यम् || ३ || कचच्चक्रशतावर्तवृत्तिभ्रान्तशिरस्तृणः | धूलीजलधरापीतभ्रमत्खड्गप्रभाजलः || ४ || आवर्तानां वृत्तिः परिभ्रमस्तेन भ्रान्तानि तच्छिन्नशिरस्तृणानि यत्र | खड्गप्रभाणां धूलिभिराच्छादनं पानत्वेन कल्प्यते || ४ || मकरव्यूहविस्तारभग्नाभग्नभटौघनौ | महागुडुगुडावर्तप्रतिश्रुद्धनकन्दरः || ५ || सेनापक्षे मकराकारस्य व्यूहस्य सेनासंनिवेशस्य | प्रतिश्रुतः प्रतिध्वनन्त्यो घनानां मेघानां कन्दराश्छिद्राणि घनाः कन्दराः पर्वतगुहा वा यत्र || ५ || मीनव्यूहविनिष्क्रान्तशरबीजौघसर्षपः | हेतिवीचीवरालूनपताकावीचिमण्डलः || ६ || मीनाः प्रमीणा मृतजनास्तद्व्यूहेभ्यो विभिद्य निष्क्रान्ताः शरा एव क्षेत्रे फलिताः बीजौघशिम्बीशिरस्काः सर्षपा इव यत्र | अर्णवपक्षे मीनानां मत्स्यानां व्यूहेभ्यो निष्क्रान्ताः प्रसूताः काशबीजौघा इव शुभ्रा अण्डसर्षपा यत्र | वीचीवरैः प्रबलवीचिभिः || ६ || शस्त्रवारिकृताम्भोदसदृशावर्तकुण्डलः | संरम्भघनसंचारसेनातिमितिमिङ्गिलः || ७ || अम्भोदसदृशा मेघवदस्थिरा आवर्ता एव कुण्डलानीव यस्य | संरम्भः क्रोधस्तेन घनसंचारा सेनैव तिमयस्तिमिङ्गिलाश्च महामत्स्यजातिभेदा यत्र || ७ || कृष्णायसपरिधानवलत्सेनाम्बुभीषणः | कबन्धावर्तलेखान्तर्बद्धसैन्यादिभूषणः || ८ || कृष्णायसमयः सारस्तन्मयानि परीधानानि कवचानि यस्य तथाविधेन वलता परिवर्तमानेन सैन्याम्बुना | कबन्धं जलममूर्धकायश्च तदावर्तरेखाया अन्तर्मध्ये बद्धानि निविष्टानि सैन्यादीनां भूषणानि यत्र | समुद्रपक्षे सैन्यान्यदन्ति भक्षयन्तीति सैन्यादीनि रक्षांसि तान्येव भूषणानीव यस्य || ८ || प्. २१५) शरसीकरनीहारसान्धकारककुब्गणः | निर्घोषाशोषिताशेषशब्दैकघनभुंघुमः || ९ || निर्घोषेण आशोषिता इवासंवेद्याः कृता अशेषशब्दा येन | अत एवैकघनघुंघुमः || ९ || पतनोत्पतनव्यग्रशिरःशकलसीकरः | आवर्तचक्रव्यूहेषु प्रभ्रमद्भटकाष्ठकः || १० || कष्टटाङ्कारकोदण्डकुण्डलोन्मथनोद्भटः | अशङ्कमेव पातालादिवोद्यत्सैनिकोर्मिमान् || ११ || कोदण्डान्येव कुण्डलानि सर्पशरीराणि तेषामुन्मथने च्छेदने || ११ || गमागमपरानन्तपताकाच्छत्रफेनिलः | वहद्रक्तनदीरंहःप्रोह्यमानरथद्रुमः || १२ || गजप्रतिमसंपन्नमहारुधिरबुद्बुदः | सैन्यप्रवाहविचलद्धयहस्तिजलेचरः || १३ || हयहस्तिन एव जलेचरा यादांसि यत्र || १३ || ससंग्रामोऽम्बरग्राम इवाश्चर्यकरो नृणाम् | अभूत्प्रलयभूकम्पकम्पिताचलचञ्चलः || १४ || अम्बरग्रामो गन्धर्वनगरम् | सांप्रतं तमेव समरं कल्पान्तत्वेन वर्णयति - अभूदित्यादिना || १४ || तरत्तरङ्गविहगः पतत्करिघटातटः | त्रस्तभीरुमृगानीकस्फूर्जद्घुरुघुरारवः || १५ || तरत्तरङ्गा इव विहगा यत्र || १५ || सरच्छरालीशलभशतभङ्गुरसैनिकः | तरत्तुरङ्गशरभः शरभारवनावनिः || १६ || तुरङ्गा एव शरभा यत्र | शराणां भाराः शरान् बिभ्रति ये ते वा वनावनिर्वनभूमिर्यत्र || १६ || चलद्द्विरेफनिर्ह्रादो [जलद्विरेफ इति पाठः] रसत्तूर्यगुहागुरुः | चिरात्स सैन्यजलदो लुठद्भटमृगाधिपः || १७ || चिरादित्यस्योत्तरत्राभूदित्यनेनान्वयः [विंशतितमश्लोकगतेनेत्यर्थः] | ससैन्या गजादयो जलदा इव यत्र || १७ || प्रसरद्धूलिजलदो विगलत्सैन्यसानुमान् | पतद्रथवराढ्याङ्गः प्रतपत्खड्गमण्डलः || १८ || पतन्ति रथवराढ्यानां महारथानामङ्गानि यत्र | खड्गा मृगविशेषा निस्त्रिंशाश्च || १८ || प्रोत्पतत्पदपुष्पौघः पताकाच्छत्रवारिदः | वहद्रक्तनदीपूरपतत्साराववारणः || १९ || पदान्यङ्घ्र्यङ्का एव पुष्पौघाः || १९ || सोऽभूत्समरकल्पान्तो जगत्कवलनाकुलः | पर्यस्तसध्वजच्छत्रपताकारथपत्तनः || २० || पतद्विमलहेत्यौघभूरिभास्वरभास्करः | कठिनप्राणसंतापतापिताखिलमानसः || २१ || कठिनेन प्राणसंतापेन || २१ || कोदण्डपुष्करावर्तशरधारानिरन्तरः | वहत्खड्गशिलालेखाविद्युद्वलयिताम्बरः || २२ || कोदण्डा धनूंषि तल्लक्षणानां पुष्करावर्ताख्यप्रलयाम्बुदानां खड्गानां शिलालेखाः शिलासंस्कृतधारा एव विद्युतः || २२ || उच्छिन्नरक्तजलधिपतितेभकुलाचलः | नभोविकीर्णनिपतद्युत्तारकणतारकः || २३ || नभसि विकीर्णाः प्रसृताः निपतद्भिश्च युवन्ति मिश्रीभवन्ति अत एव ताराः स्थूला ये रुधिरकणास्त एव तारका इव यत्र || २३ || चक्रकुल्याम्बुदावर्तपूर्णव्योमशिराम्बुदः | अस्त्रकल्पाग्निनिर्दग्धसैन्यलोकान्तरक्रमः || २४ || चक्रकुल्याभिश्चक्रपरम्परासरिद्भिरम्बुदप्रदेशे भ्रमणे तदावर्तप्रायाभिः पूर्णा व्योमशिरा नभोनाड्योऽम्बुदाश्च यत्र | लोकान्तरक्रमः परलोकाक्रमणम् || २४ || हेतिवर्षाशनिच्छन्नभूतलामलभूधरः | गजराजगिरिव्रातपातपिष्टजनव्रजः || २५ || शरधाराघनानीकमेघच्छन्नमहीनभाः | महानीकार्णवक्षोभसंघट्टघटिताद्रवः || २६ || शरधाराभिर्घनैर्निबिडैरनीकमेघैः || २६ || व्याप्त उग्रानिलोद्धूतैर्जलव्यालैरिवाचलः | अन्योन्यदलनव्यग्रैः शस्त्रोत्पात इवोत्थितैः || २७ || जलव्यालैर्लडुण्डुभैः | अचलः अर्थात्समुद्रान्तर्गत इति लभ्यते | अन्योन्यदलने व्यग्रैः शस्त्रैरिति शेषः | शस्त्रवर्षिणि संवर्तोत्पाते उत्थितैरिवेत्युत्प्रेक्षा || २७ || शूलासिचक्रशरशक्तिगदाभुशुण्डी- प्रासादयो विदलनेन मिथो ध्वनन्तः | दीप्ता अधुर्दशदिशः शतशो भ्रमन्तः कल्पान्तवातपरिवृत्तपदार्थलीलाम् || २८ || दीप्ताः शूलादयो मिथो विदलनेन ध्वनन्तो दिशो भ्रमन्तः सन्तः कल्पान्तवातेन परिवृत्तानां भ्राम्यमाणानां शिलावृक्षशस्त्रादीनां पदार्थानां लीलां विलासं अधुः | अधारयन्नित्यर्थः || २८ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे रणवर्णनं नाम पञ्चत्रिंशः सर्गः || ३५ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे रणवर्णनं नाम पञ्चत्रिंशः सर्गः || ३५ || प्. २१६) षट्त्रिंशः सर्गः ३६ श्रीवसिष्ठ उवाच | अथ शृङ्गोपमानेषु स्थितेषु शरराशिषु | सर्वभीरुषु भग्नेषु विद्रुतेषु दिशो दश || १ || समायुधद्वन्द्वयुद्धं सहायाश्चात्र वर्णिताः | प्राच्यादिभिर्जनपदैः समं जनपदेश्वराः || १ || मातङ्गशवशैलेषु स्थितेषु शरराशिषु शृङ्गोपमानेषु सत्स्विति परेण सहान्वयः || १ || मातङ्गशवशैलेषु विश्रान्ताम्बुदपङ्क्तिषु | यक्षरक्षःपिशाचेषु क्रीडत्सु रुधिरार्णवे || २ || महतां धर्मनिष्ठानां शीलौजःसत्त्वशालिनाम् | शुद्धानां कुलपद्मानां वीराणामनिवर्तिनाम् || ३ || शीलं सुचारित्र्यम् | सत्त्वं बलम् | कुलपद्मानां स्वकुलं पद्मवत्स्वयशःसौरभैः सुरभीकुर्वाणानामित्यर्थः || ३ || द्वन्द्वयुद्धानि जातानि मेघानामिव गर्जताम् | मिथोनिगरणोत्कानि मिलन्त्यापगपूरवत् || ४ || मिथोऽन्योन्ययुद्धतो निगरणं ग्रसनं तत्रोत्कान्युत्कण्ठितानीवेति द्वन्द्वयुद्धविशेषणम् | मिलन्ति वीरा इति शेषः || ४ || पञ्जरः पञ्जरेणेव गजौघेन गजोच्चयः | सवनः सवनेनाद्रिरद्रिणेवामिलद्बलात् || ५ || वनेन सह वर्तमानः सवनोऽद्रिस्तदृशेनाद्रिणेव || ५ || अश्वौघो मिलदश्वानां वृन्देनाराविरंहसा | तरङ्गौघेन घोषेण तरङ्गौघ इवार्णवे || ६ || नरानीकं नरानीकः समायुधमयोधयत् | वेण्वोघमिव वेण्वोघो मरुल्लोलो मरुद्वलम् || ७ || मरुता वलति चलतीति मरुद्वलस्तम् || ७ || रथौघश्च रथौघेन निष्पिपेषाखिलं वपुः | नगरं नगरेणेव दैवेनोड्डीनमासुरम् || ८ || वपुः परस्परसंस्थानम् || ८ || सरच्छरभरासाररचितापूर्ववारिदम् | युयुधे स्थगिताकाशा धनुर्धरपताकिनी || ९ || रचितः संपादितः अपूर्वोऽभिनवो वारिदो यस्मिन्कर्मणि यथा युयुधे | स्थगिताकाशा आच्छादिताकाशा || ९ || विषमायुधयुद्धेषु योद्धारः पेलवाशयाः | यदा युक्त्या पलायन्ते रणकल्पानले तदा || १० || पेलवाशया भीरुचित्ताः || १० || मिलिताश्चक्रिणश्चक्रैर्धनुर्धारैर्धनुर्धराः | खड्गिभिः खड्गयोद्धारो भुशुण्डीभिर्भुशुण्डयः || ११ || अत्र प्रकरणे तृतीयान्तायुधनामभिः सर्वत्र तद्धारिणो लक्ष्यन्ते | भुशुण्डीशब्देन भुशुण्डीधरा लक्षणयोच्यन्ते || ११ || मुसलैर्मुसलोदाराः कुन्तिनः कुन्तिधारिभिः | ऋष्ट्यायुधा ऋष्टिधरैः प्रासिभिः प्रासपाणयः || १२ || समुद्गरा मुद्गरिभिः सगदैर्विलसद्गदाः | शाक्तिकैः शक्तियोद्धारः शूलैः शूलविशारदाः || १३ || प्रासासनविदः प्रासैः परशूक्ताः परश्वधैः | लकुटोद्यैर्लकुटिनश्चोपलैरुपलायुधाः || १४ || प्रासानामसनं क्षेपणं तद्विदः | परशुभिरुक्ताः | विख्याता इति यावत् | लकुटा वेणुदण्डा उद्या उद्यता येषां ते लकुटोद्यास्तैः || १४ || पाशिभिः पाशधारिण्यः शङ्कुभिः शङ्कुधारिणः | क्षुरिकाभिस्तु क्षुरिका भिन्दिपालैश्च तद्गताः || १५ || पाशधारिण्यः सेनाः | शङ्कुक्षुरिके क्षुद्रायुधविशेषौ | तद्गतास्तत्संगताः || १५ || वज्रमुष्टिधरा वज्रैरङ्कुशैरङ्कुशोद्धताः | हलैर्हलनिकाषज्ञास्त्रिशूलैश्च त्रिशूलिनः || १६ || वज्रैर्मुष्टिगतैः वज्रमुष्टिभिरिति यावत् | वज्रमुष्टिशब्देन मल्लानां सलोहकीला मुष्टिबन्धा उच्यन्ते | निकाषो निघर्षः || १६ || शृङ्खलाजालिनि जालैः शृङ्खलैरलिकोमलैः | क्षुभिताकल्पविक्षुब्धसागरोर्मिघटा इव || १७ || शृङ्खलाजालमिति कङ्कटजातिभेदस्तद्वन्तः सादिनः शृङ्खलाजालिनः | कोमलशब्दः स्निग्धश्यामपरः | मिलिता इति सर्वत्रानुषङ्गः | दृष्टान्तोऽपि प्राक्तनसर्वसाधारणः || १७ || क्षुब्धचक्रदलावर्तः शरसीकरमारुतः | प्रभ्रमद्धेतिमकरो व्योमैकार्णव आबभौ || १८ || क्षुब्धानि भ्रमन्ति दलानीव चक्राणि चक्रदलानि तान्यावर्ता यस्मिन् || १८ || उत्फुल्लायुधकल्लोलशिराकुलजलेचरः | रोदोरन्ध्रसमुद्रोऽसौ बभूवामरदुस्तरः || १९ || उत्फुल्ला आयुधलक्षणाः कल्लोलशिरास्तरङ्गनाड्यः | रोदस्योर्द्यावापृथिव्यो रन्ध्रमन्तरालं स एव समुद्रः | अमरैर्जीवद्भिर्दुस्तरः || १९ || दिव्याष्टकजनानीकं पक्षद्वयतया तया | अर्धानार्धेन कुपितं भूपालाभ्यां तथा स्थितम् || २० || विद्या बुद्धिर्बलं शौर्यमस्त्राण्यश्वा रथो धनुरिति प्रसिद्धं दिव्यमप्रतिहतमष्टकं यस्य तथाविधं योधनानीकं तया प्रागुक्तया द्वन्द्वशो मिलितया पक्षद्वयतया सैन्यद्वयेऽप्यर्धेनार्थेन कुपितं स्थितम् | तत्कुतः | यतो भूपालाभ्यां सिन्धुराजविदूरथाभ्यां तथा तदनुकूलतया स्थितमित्यर्थः | अथवा यक्षा रक्षांसि पिशाचा असुरा इत्येकतो देवा गन्धर्वाः किन्नरा विद्याधरा इत्येकत इति दिव्याष्टकजनानीकं तया भाविजयपराजयानुसारिण्या पक्षद्वयतया सैन्यस्यार्धेनार्धेन कुपितं स्थितं यतो भूपालाभ्यामपि तथा तदनुरूपादृष्टशालितया स्थितमित्यर्थः || २० || मध्यदेशादिसंख्याने प्राग्दिभ्योऽभ्यागतानिमान् | लीलानाथस्य पद्मस्य पक्षे जनपदाञ्छृणु || २१ || इदानीं पद्मसिन्धुराजयोः सहायभूतान् जनान् प्राच्यादिदिग्भेदतत्तद्देशभेदैः क्रमेण वर्णयितुं वसिष्ठः प्रतिजानीते ##- प्. २१७) पूर्वस्यां कोसलाः काशिमागधा मिथिलोत्कलाः | मेखलाः कर्करा मुद्रास्तथा संग्रामशौण्डकाः || २२ || देशनामानि स्पष्टानि | मार्कण्डेयादिपुराणोक्तदेशनाम्नामत्रत्यानां च क्वचिद्यद्यपि वैलक्षण्यं व्यत्यासश्च दृश्यते तथापि ब्रह्माण्डान्तरत्वान्न दोषः | प्राच्यां देशाः २४ पर्वताः ७ || २२ || मुख्या हिमा रुद्रमुख्यास्ताम्रलिप्तास्तथैव च | प्राग्ज्योतिषा वाजिमुखा अम्बष्ठाः पुरुषादकाः || २३ || वर्णकोष्ठाः सविश्वोत्रा आममीनाशनास्तथा | व्याघ्रवक्राः किराताश्च सौवीरा एकपादकाः || २४ || माल्यवान्नाम शैलोऽत्र शिबिराञ्जन एव च | वृषलध्वजपद्माद्यास्तथोदयकरो गिरिः || २५ || अथ प्राग्दक्षिणायां तु इमे विन्ध्यादिवासिनः | चेदयो वत्सदाशार्णा अङ्गवङ्गोपवङ्गकाः || २६ || प्राची च दक्षिणा चानयोरन्तरालं दिक्प्राग्दक्षिणा | दिङ्नामान्यन्तराले इति बहुव्रीहिः | अत्रापि देशाः २७ || २६ || कलिङ्गपुण्ड्रजठरा विदर्भा मेखलास्तथा | शबराननवर्णाश्च कर्णात्रिपुरपूरकाः || २७ || कण्टकस्थलनामानः पृथग्दीपककोमलाः | कर्णान्ध्राश्चौलिकाश्चैव तथा चार्मण्वता अपि || २८ || काकका हेमकुड्याश्च तथा श्मश्रुधरा अपि | बलिग्रीवमहाग्रीवाः किष्किन्धा नालिकेरिणः || २९ || अथ लीलापतेरस्य दक्षिणस्यामिमे नृपाः | विन्ध्योऽथ कुसुमापीडो महेन्द्रो दर्दुरस्तथा || ३० || दक्षिणस्यां पर्वताः ६ देशाः ६३ || ३० || मलयः सूर्यवांश्चैव गणा राज्यसमृद्धकाः | अवन्तीरिति विख्यातास्तथा शाम्बवतीति च || ३१ || दशपूरकथाचक्रारेषिकातुरकच्छपाः | वनवासोपगिरयस्ते भद्रगिरयस्तथा || ३२ || नागरा दण्डकाश्चैव गणराष्ट्रनृराष्ट्रकाः | साहा शैवार्ष्यमूकाश्च कर्कोटा वनबिम्बलाः || ३३ || पम्पानिवासिनश्चैव कैरकाः कर्कवीरकाः | स्वेरिका यासिकाश्चैव धर्मपत्तनपञ्जिकाः || ३४ || काशिकास्तृष्णखल्लूला यादास्ते ताम्रपर्णकाः | गोनर्दाः कनकाश्चैव दीनपत्तनमामकाः || ३५ || ताम्रीका [ताम्रीकदंभराकीर्णा इति पाठः] दम्भराकीर्णाः सहकारैणकास्तथा | वैतुण्डकास्तुम्बवनालाजिनद्वीपकर्णिकाः || ३६ || कर्णिकाभाश्च शिवयः कौङ्कणाश्चित्रकूटकाः | कर्णाटमण्टवटका महाकटकिकास्तथा || ३७ || आन्द्राश्च कोलगिरयश्चावन्तिकविचेरिकाः | चण्डायत्ता देवनकाः क्रौञ्चा वाहास्तथैव च || ३८ || शिलाक्षारोदभोनन्दमर्दना मलयाभिधाः | ते चित्रकूटशिखरा लङ्कारक्षोगणाः स्मृताः || ३९ || अथ प्रत्यग्दक्षिणस्यां महाराज्यसुराष्ट्रकाः | सिन्धुसौवीरशूद्राख्या आभीरा द्रविडास्तथा || ४० || प्रत्यग्दक्षिणस्यां पर्वताः ४ देशाः १९ || ४० || कीकटाः सिद्धखण्डाख्यास्तथा कालिरुहा अपि | अत्र हेमगिरिः शैलस्तथा रैवतको गिरिः || ४१ || जयकच्छो मयवरो यवनास्तत्र [पटनास्तत्र इति पाठः] जन्तवः | बाह्लीका मार्गणावन्ता धूम्रास्तुम्बकनामकाः || ४२ || तथा लाजगणाश्चैव तथात्र गिरिवासिनः | ततोऽब्धितोकनियुता एते लीलापतेर्जनाः || ४३ || अथ तत्प्रतिपक्षस्थानिमाञ्जनपदाञ्शृणु | पश्चिमायां दिशि प्रौढा इमे तावन्महाद्रयः || ४४ || पश्चिमायां पर्वताः ९ देशाः १८ || ४४ || मणिमान्नाम शैलेन्द्रः कुरार्पणगिरिस्तथा | वनोऽर्कहो मेघभवश्चक्रवानस्तपर्वतः || ४५ || जनाः पञ्चजना नाम काशब्रह्मचयान्तकाः | तथैव भारक्षतथाः पारकाः शान्तिकास्तथा || ४६ || काशानां ब्रह्मणचयानां चान्तका इति पञ्चजनानां विशेषणम् || ४६ || शैब्यारमरकायाच्छा [करछायामहुला नियमास्तथा] गुहुत्वा नियमास्तथा | हैहयाः सुह्मगायाश्च ताजिका हूणकास्तथा || ४७ || पार्श्वेकतकयोः कर्का गिरिपर्णावमास्तथा | संत्यक्तधर्ममर्यादास्ते वर्णा म्लेच्छजातयः || ४८ || दक्षिणोत्तरकतकदेशयोः पार्श्वे कर्काः || ४८ || ततोऽजनपदा भूमिर्योजनानां शतद्वयम् | ततो महेन्द्रशिखरी मुक्तामणिमयावनिः || ४९ || अजनपदेति च्छेदः || ४९ || युते महीधरशतैरथाश्वो नाम पर्वतः | ततो महार्णवो भीमः पारियात्रगिरिस्तटे || ५० || तटे अर्थान्महार्णवतटे || ५० || पश्चिमोत्तरदिग्भागे देशो गिरिमति स्थितः | तथा वेणुपतिश्चैव ततो नरपतिर्मही || ५१ || पश्चिमोत्तरस्यां देशाः १९ वेणुपतिर्नरपतिरिति देशः स्थितः | मही नित्योत्सववान् || ५१ || तथा फल्गुणकाश्चैव माण्डव्यानेकनेत्रकाः | पुरुकुन्दाश्च पाराश्च भानुमण्डलभावनाः || ५२ || वन्मिला नलिना दीर्घा दीर्घकेशाङ्गबाहवः | रङ्गाश्च स्तनिकाश्चान्या गुरुहाश्चलुहास्तथा [च्लहास्तथा इति पाठः] || ५३ || यतो दीर्घकेशाङ्गबाहवः अतो दीर्घाख्या इत्यर्थः || ५३ || प्. २१८) ततः स्त्रीराष्ट्रमतुलं गोवृषापत्यभोजनम् | अथोत्तरस्यां हिमवान्क्रौञ्चोऽथ मधुमान्गिरिः || ५४ || उत्तरस्यां पर्वताः ६ पादेषु प्रत्यन्तपर्वतेषु देशाः ४४ || ५४ || कैलासो वसुमान्मेरुस्तत्पादेषु जना उभे | मद्रावारेवयौधेया मालवाः शूरसेनिकाः || ५५ || राजन्याश्च तथा ज्ञेया अर्जुनातनयस्तथा | त्रिगर्त एकपात्क्षुद्रामबलास्वस्तवासिनः || ५६ || अबलाः प्रखलाः शाकाः क्षेमधूर्तय एव च | दशदानागावसन्यदण्डाहन्यसनास्तथा || ५७ || धानदाः सरकाश्चैव वाटधानास्तथैव च | अन्तरद्वीपगान्धारास्तथावन्तिसुरास्तथा || ५८ || अथ तक्षशिला नाम ततो वीलवगोधनी | पुष्करावर्तदेशस्य यशोवतिमही ततः || ५९ || ततो नाभिमतिर्भूमिस्तिक्षा कालवरास्तथा | काहकं नगरं चैव सुरभूतिपुरं तथा || ६० || तथैव रतिकादर्शा अन्तरादर्श एव च | ततः पिङ्गलपाण्डव्यं यामुने यातुधानकाः || ६१ || मानवा नांगना हेमतालाः स्वस्वमुखास्तथा | हिमवान्वसुमान्क्रौञ्चकैलासावित्यगास्तथा || ६२ || ततोऽजनपदा भूमिरशीतिशतयोजना | अथ प्रागुत्तरस्यां तु क्रमाज्जनपदाञ्छृणु || ६३ || प्रागुत्तरस्यां देशाः २४ पर्वतः १ || ६३ || कालुता ब्रह्मपुत्राश्च कुणिदाः खदिनास्तथा | मालवा रन्ध्रराज्याश्च वना राष्ट्रास्तथैव च || ६४ || केडवस्ताः सिंहपुत्रास्तथा वामनतां गताः | सावाकच्चापलवहाः कामिरा दरदास्तथा || ६५ || अभिसासदजार्वाकाः पलोलकुविकौतुकाः | किरातायामुपाताश्च दीनाः स्वर्णमही ततः || ६६ || देवस्थलोपवनभूस्तदनूदितश्री- र्विश्वावसोस्तदनु मन्दिरमुत्तमं च | कैलासभूस्तदनु मञ्जुवनश्चशैलो विद्याधरामरविमानसमानभूमिः || ६७ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे लीलो० जनपदवर्णनं नाम षट्त्रिंशः सर्गः || ३६ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे जनपदवर्णनं नाम षट्त्रिंशः सर्गः || ३६ || सप्तत्रिंशः सर्गः ३७ श्रीवसिष्ठ उवाच | रणे रभसनिर्लूननरवारणदारुणे | अहंपूर्वमहंपूर्वमिति वृन्दानुपातिनि || १ || कीर्त्यन्ते मध्यदेशीया जना जनपदाख्यया | तथा जानपदानां च द्वन्द्वयुद्धजयाजयाः || १ || वृन्दशो वृन्देषु वा अनुपातिनि अनुसृत्य पतनशीले || १ || एते चान्ये च बहवस्तत्र भस्मत्वमागताः | प्रविशन्तः प्रयत्नेन शलभा इव पावके || २ || अत्रान्ये मध्यदेशीया जना नोदाहृता मया | तानिमाञ्छृणु वक्ष्यामि पक्षांल्लीलामहीभृतः || ३ || मध्यदेशजनपदाः २९ || ३ || तद्देहिकाः शूरसेना गुडा अश्वघनायकाः | उत्तमज्योतिभद्राणि मदमध्यमिकादयः || ४ || सालूकाकोद्यमालास्या [सालूसाकेद्य इति पाठः] दौर्ज्ञेयाः पिप्पलायनाः | माण्डव्याः पाण्डुनगराः सौग्रीवाद्या गुरुग्रहाः || ५ || पारियात्राः कुराष्ट्राश्च यामुनोदुम्बरा अपि | राज्याह्वा उज्जिहानाश्च कालकोटिकमाथुराः || ६ || पाञ्चाला धर्मारण्याश्च तथैवोत्तरदक्षिणाः | पाञ्चालकाः कुरुक्षेत्रास्तथा सारस्वता जनाः || ७ || अवन्तीस्यन्दनश्रेणीकुन्तिपाञ्चनदेरितैः | स्पन्दमाना विद्रवन्ती निपपात महाभृगौ || ८ || एते चान्ये च रणे भस्मत्वमागता इति यदुक्तं तत्प्रकारमेव जनपदनामभिर्विभज्यासर्गसमाप्तेराचष्टे - अवन्तीत्यादिना | अवन्ती उज्जयिनी मालवेषु प्रसिद्धा तत्रत्यानां स्यन्दनश्रेणी रथपङ्क्तिः कुन्तिदेशस्थानां पाञ्चनदानां च ईरितैह् प्रेरणैः | युद्धरभसैरिति यावत् | ईरितैः क्षिप्तैः शस्त्रैरिति वा | स्पन्दमाना भयात्कम्पमाना द्रवन्ती पलायमाना महति भृगौ गिरिप्रपाते निपपात | एवमुत्तरत्रापि प्रथमान्तदेशवाचिवाच्यानां तृतीयान्तदेशवाचिवाच्यैः पराजयो बोध्यः || ८ || कोशब्रह्मावसानाश्च च्छिन्ना [छिन्नाः शस्त्र इति पाठः] वस्त्रवतीजनैः | भूमौ निपतिताः सन्तो मिलिता मत्तवारणैः || ९ || मिलिताः संगताः | विमर्दिता इति यावत् || ९ || शूरा दाशपुराः शस्त्रनिकृत्तोदरकन्धराः | बाणक्षितिभिराक्रम्य योजिता योजने ह्रदे || १० || बाणक्षितिभिर्बाणभूमिष्ठैः | तद्देश्यैरिति यावत् | आक्रम्य पराजित्यानुधाव्य योजने पलायिता दैवात्प्राप्ते ह्रदे योजिता निमज्जिताः || १० || प्. २१९) दीर्णोदरविनिर्यातस्वान्त्रतन्त्रीनियन्त्रिताः | शान्तिकाः शान्तसंचाराः पिशाच्चैश्चर्विता निशि || ११ || नियन्त्रिता निरुद्धा अत एव शान्तसंचाराः || ११ || उद्रवैर्भद्रगिरिभिः संग्रामाध्वरदीक्षितैः | क्षोणिगर्तेषु निक्षिप्ता मरगाः कमठा इव || १२ || उत् उत्कृष्टो द्रवो वेगो रवो ध्वनिर्वा येषां तैः | क्षोणिगर्तेषु पल्वलादिषु || १२ || प्रद्रुता विद्रवद्रक्ता विद्रावितमहारयः | दण्डिकास्थानिलोद्धूता हैहयैर्हरिणा इव || १३ || दण्डिका नगरी तत्स्थाः | अनिलोद्धूता इति हरिणविशेषणम् | संधिरार्षः | हैहयैर्विद्राविता इत्यर्थाद्गम्यते | हरिणा वातप्रम्यः || १३ || दन्तिदन्तविनिर्भिन्ना ददा दलितारयः | नीता रक्तमहानद्या द्रुमाणां पल्लवा इव || १४ || नाराचैश्चर्विताश्चीना जीर्णा जर्जरजीविताः | जहुर्जलनिधौ देहान्भारभूतानिव स्थितान् || १५ || कर्णाटसुभटोड्डीनकुन्ताकलितकन्धराः | भग्ना नलदशूराश्च तारकानिकरा इव || १६ || उड्डीनकुन्तैराकलिता आच्छिन्नाः कंधराः कण्ठा येषाम् | भग्ना विशीर्णाः || १६ || करीन्द्रमकरव्यूहरंहःसंहतहेतयः | केशाकेशिकृतारम्भा विनेदुर्दाशकाः शकाः || १७ || दाशकाः शकाश्च युध्यमाना दैवात्करीन्द्रैर्मकरव्यूहेनेव रंहसा संहतहेतयो विनाशितायुधाः केशेषु केशेषु गृहीत्वा प्रवृत्तं युद्धं केशाकेशि तदर्थं कृतारम्भाः सन्तो विनेदुः || १७ || दशार्णाः पाशनिर्मुक्तशृङ्खला जालभीरवः | निलीना रक्तजम्बाले वैतसास्तिमयो यथा || १८ || पाशदेशीयैर्निर्मुक्तेभ्यः शृङ्खलाजालेभ्यो भीरवः | जम्बाले पङ्के | वैतसा वेतसमूलाश्रयास्तिमयो मत्स्यभेदाः || १८ || गुर्जरानीकनाशेन गुर्जरीकेशलुञ्चनम् | विहितं तङ्गणोत्तुङ्गनासिशङ्कुशतै रणे || १९ || तङ्गणानां उत् ऊर्ध्व तुङ्गनमुच्छलनं येषां तथाविधैरसिभिः शङ्कुशतैश्च विहितं कारितम् || १९ || सिषिचुः शस्त्रकर्णौघाद्बिन्दुभ्यो निगडा गुहान् | शरधारावनानीव वीरहेतिप्रभाम्बुदाः || २० || शस्त्रकर्णानां कर्णवदूर्ध्वीकृतशस्त्रत्वात्तथा प्रसिद्धानामोघात्संघान्निर्गता वीरहेतिप्रभाविद्युद्भिरम्बुदायमाना निगडा जानपदा गुहान् जानपदान्प्रति शरधाराः सिषुचुरक्षरन् | यथा वीरहेतिसदृशप्रभा अम्बुदाः स्वबिन्दुभ्यो हेतुभ्यो वनानि सिंचन्ति तद्वत् || २० || भुशुण्डीमण्डलोद्द्योतश्यामार्कोत्पातभीरुषु | आभीरेष्वरयः पेतुर्गोगणा हरितेष्विव || २१ || भुशुण्डीमण्डलानामुद्द्योतैः श्यामो नीलीकृतौ योऽर्कः सूर्यः भुशुण्डीमण्डललक्षणो वा उद्द्योतेन श्यामोऽर्कस्तल्लक्षणेनोत्पातेन | उक्तंच - यदि चन्द्र इवादित्यः सच्छिद्रो रश्मिमण्डलः | कृष्णरक्तान्तपर्यन्तस्तज्जनक्षयलक्षणम् || इति || २१ || कान्तकाञ्चनकान्तासीत्ताम्रसंग्रामवाहिनी | भुता गौडभटेनाङ्ग नखकेशनिकर्षणैः || २२ || ताम्रा यवनभेदास्तेषां संग्रामोद्युक्ता वाहिनी सैव नायिका गौडभटेन नायकेन भुक्ता उपभुक्ता | अङ्गेति रामसंबोधनम् || २२ || रणे नगनयासंख्यकवच्चक्रनिकृन्तनैः | तङ्गणाः कणशः कीर्णाः कङ्कगृध्रेषुभासकैः || २३ || नगान्वृक्षशैलानपि नयन्त्यपाकुर्वन्ति तथाविधैरनन्तैह् कवद्भिर्ध्वनद्भिश्चक्रैर्निकृन्तनैश्छेदनैः | भासकैर्जानपदैः || २३ || लगुडालोडनोड्डीनं गौडं गुडुगुडारवम् | श्रुत्वा गान्धारगावोऽग्रे दुद्रुवुर्द्रविडा इव || २४ || लगुडानामालोडनेन भ्रमणेनोपलक्षितमुड्डीनमुद्गतं गौडभटसंबन्धि गुडुगुडारवमव्यक्तभाषणध्वनिम् | गान्धारा गाव इवेत्युपमितसमासः | टजभावश्छान्दसः || २४ || आकाशगार्णवप्रख्यो वहच्छककदम्बकः | अकरोत्पारसीकानां घननैशतमोभ्रमम् || २५ || वहतां नदीवत्पर्वतेभ्योऽवतरतां शकानां कदम्बकः स्तोमः | प्रायः शका नीलाम्बरा इति गम्यते | पारसीकास्तु धवलाम्बरा इति || २५ || मन्दराहननोड्डीनस्वच्छक्षीरार्णवोदरे | वनानीवायुधान्यासञ्छत्रुप्रालेयसानुनि || २६ || अत एवाह - मन्दरेति | तत्र युध्यतामायुधानि क्षीरार्णवोदरे मन्दरस्य वनानीव प्रेक्षकाणां तु प्रालेयाचलसानुनि तद्वनानीवेति बोध्यम् || २६ || यदम्बुदैरिवोड्डीनं शस्त्रवृन्दैर्नभोङ्गणे | तद्दृष्टं वीचिवलनैर्लोलैः प्लुतमिवार्णवे || २७ || उड्डीनमिति भावे क्तः | ल्वादिभ्य इति नत्वम् | वलनैः संवलनैर्वीच्यन्तरसंवलितवीचिभिरिति यावत् | भूमिष्ठदृष्ट्याम्बुदोड्डीनमिव दृष्टमपि नभश्चरैर्वीचिप्लवनमिव दृष्टमिति भावः || २७ || शतचन्द्रं सितच्छत्रैः शरैः शलभनिर्भरम् | शक्तिभिः किल नीरन्ध्रं दृष्टमाकाशकाननम् || २८ || शलभैः पतङ्गैर्निर्भरं भृशं व्याप्तम् | नीरन्ध्रं निरवकाशम् || २८ || वीरासवसमाक्रन्दकारिणः केकयैः कृताः | कङ्कैः कङ्ककुलाक्रान्तव्योमोद्धूलितमस्तकाः || २९ || कृताः शत्रव इति देहलीदीपन्यायेनोभयत्र शेषः || २९ || किरातसैन्यकन्यानां कामं कलकलारवैः | अङ्गैरनङ्गतां नीत्वा भैरवैरिव गर्जितम् [गर्जितैः इति पाठः] || ३० || किरातसैन्यान्येव कन्यास्तासाम् | अङ्गैर्जानपदैः | अनङ्गतां विदेहतां मन्मथोद्रेकं च || ३० || काशैस्तद्देहकाः क्रांता अदृश्यैर्मायया खगैः | निर्धूतपक्षैः क्षुभितैः पवनैरिव पांसवः || ३१ || काशैः सामुद्रैर्नरभेदैः | मायया खगैः पक्षिभूतैः || ३१ || उन्मत्ताः सुविनिर्धूतास्त्यक्तहेतिरणाम्बराः | नार्मदा नर्मनिर्मातृ ननृतुर्जहसुर्जगुः || ३२ || उन्मत्ता युद्धोन्मत्ताः | नर्म लीला तन्निर्मातृ इति क्रियाविशेषणम् || ३२ || प्. २२०) प्रक्कणत्किंकिणीजालं शक्तिवर्षमुपागतम् | साल्वबाणानिलोद्भूतमगमत्पृषदाकृति || ३३ || पृषदाकृतिं बिन्द्वाकारम् | विशीर्णतामिति यावत् || ३३ || शैब्यास्तु खण्डिताः कौन्तैर्भ्रमत्कुन्तैर्विघट्टिताः | शवीभूता दिवं नीता दृष्टा विद्याधरा इव || ३४ || कौन्तैः कुन्तिदेशजैः || ३४ || धराधरणधर्मिण्या धीरया हीनसेनया | लुण्ठिताः पाण्दुनगराश्चलनोल्लासमात्रतः || ३५ || धराया युद्धभूमेर्धरणमाक्रमणं तद्धर्मिण्या अहीना जानपदास्तेषां सेनया || ३५ || तं देहकाः पाञ्चनदैर्दलिता मत्तकाशिभिः | कुन्तदन्तद्रुमोद्दामा नगा इव मतङ्गजैः || ३६ || कुन्तैर्गजदन्तैर्द्रुमैश्च प्रहरणैरुद्दामा युद्धदक्षाः | नगा वृक्षाः || ३६ || ब्रह्मावत्सनका नीपैश्चक्रैः कृत्ता गता महीम् | सहयाः क्रकचोत्कृत्ता वृक्षाः कुसुमिता इव || ३७ || ब्रह्मावत्सनका जानपदा नीपैर्जानपदैः || ३७ || श्वेतकाकाननं लूनं कुठारैर्जठरेरितैः | एतद्ददाह पार्श्वस्थो भद्रेशः शरवह्निना || ३८ || श्वेतकाकानां जानपदानामाननं मुखं शिर इति यावत् | जठरैर्जानपदैः | एतज्जठरबलम् || ३८ || काष्ठयोधे निरालानं मग्ना जीर्णा मतङ्गजाः | लयमाजग्मुरायुद्धमिद्धेग्नाविन्धनं यथा || ३९ || काष्ठयोधलक्षणपङ्केषु निरालनं विनैव बन्धनस्तम्भं मग्नाः सन्तो जीर्णा मतङ्गदेशजा एव श्लेषाद्गजाः || ३९ || मित्रगर्तास्त्रिगर्तात्ता भ्रमित्वोर्ध्वं तृणोपमम् | विविशुर्व्यस्तमूर्धानः पातालान्तं पलायितुम् || ४० || त्रिगर्तैरात्ता गृहीताः || ४० || मन्दानिलचलाम्भोधिभासुरे मागधे बले | निर्मग्ना वनिला मन्दाः पङ्के जीर्णगजा इव || ४१ || वनिला जानपदाः || ४१ || चेदयश्चेतनां जह्नुस्तङ्गणानां रणाङ्गणे | पुष्पाणां पथि शीर्णानां सौकुमार्यमिवातपाः || ४२ || चेतनां विवेकबुद्धिं जीवं वा || ४२ || कौसलाः पौरवारावमसहन्तोऽन्तका इव | तैरुन्मुक्तगदाप्रासशरशक्त्यतिवृष्टयः || ४३ || कौसलाः कोसलदेशजा अन्तका इव निघ्नन्त इति शेषः | तैः पौरवैरुन्मुक्ता गदादिवृष्टयो येषु तथाविधा बभूवुरित्यपकृष्यते || ४३ || बभूवुर्भल्लकृत्ताङ्गाऽविस्मया विद्रुमद्रुमाः | इवाद्रौ विद्रवन्त्यार्द्रसान्द्रासृक्सूर्यमूर्तयः || ४४ || तेषु ये भल्लकृताङ्गा अप्यविस्मयाः परपराक्रमे आश्चर्यबुद्धिरहिताः अत एवार्द्रसान्द्रासृग्भिर्बालसूर्यसदृशमूर्तयः सन्तः अद्रौ पर्वते विद्रुमद्रुमाः प्रवालवृक्षा एव विद्रवन्ति परिधावन्तीव बभूवुः || ४४ || नाराचौघमहाहेतिमारुताधूतमूर्तयः | बभ्रमुर्भ्रमरानीकभासुरा जलदा इव || ४५ || शरधाराधरा मेघाः शरोर्णापूर्णमेषकाः | शरपत्रावृता वृक्षा भ्रेमुस्तद्गर्जनागजाः || ४६ || तेषां कोसलानां गर्जनोपलक्षिता गजाः शराणां धारोर्णा यत्र | सदृशकाण्डगरुच्छल्यभागाकीर्णत्वात्क्रमान्मेघमेषवृक्षात्मना उत्प्रेक्ष्यन्ते || ४६ || वनराज्यजराजीर्णाः कन्दाकस्थलजन्तवः [कण्टकस्थल इति पाठः] | अत्रुटन्परमाकृष्टाः पेलवा इव तन्तवः || ४७ || कन्दाकस्थलोद्भवा जन्तवो मनुष्यहस्त्यादयो वनराज्या जानपदास्तल्लक्षणया जरया जीर्णा निर्बलीकृताः सन्तः परमाकृष्टाः पेलवास्तन्तव इवात्रुटन् छिन्नाः || ४७ || रथेषु ध्वस्तचक्रेषु निखातेऽमुत्र मूर्धसु | निपेतुर्जनसंघाता मेघा इव वनाद्रिषु || ४८ || निखातगर्ते निरोधाद्रथेषु ध्वस्तचक्रेषु सत्सु अमुत्र अमीषु रथमूर्धसु प्रहरिष्यन्तः शत्रुजनसंघाता निपेतुः || ४८ || शालतालवनं प्राप्य जनतावलनं वनम् | भुजावकर्तनं चासीदुत्तालं स्थाणुकाननम् || ४९ || शालवनं तालवनं च युद्धे परस्परं जनतयोर्जनसमूहयोर्वलनं मेलनं अत एव वनं महावनत्वेन संपन्नं युद्धस्थानं प्राप्य तत्र भुजावकर्तनं चकाराच्छिरोवकर्तनं च प्राप्य यथाक्रममुत्तालमूर्ध्वीभूततालवृक्षप्रायं स्थाणुकाननं चासीत् | शालानां परितः शाखाच्छेदने तालप्रायता तालानां तु शिरःकर्तने स्थाणुतैव परिशिष्यत इति युक्तमेव संपन्नमिति भावः || ४९ || ननर्दुर्नन्दनोद्यानसुन्दर्यो मत्तयौवनाः | वनोपवनदेशेषु मेरोर्वीरवराश्रिताः || ५० || तावत्तारारवं रेजे सैन्यकाननमुत्तमम् | यावन्न परपक्षेण प्राप्तं कल्पानलार्चिषा || ५१ || तारः आरवो यस्मिन् | सैन्यमेव काननम् || ५१ || छिन्नाः पिशाचसंयुक्ता भूतापहृतहेतयः | पातयित्वा ययुः कर्णान्दशार्णास्तर्णका इव || ५२ || पिशाचैः पिशाचप्रधानैः कामरूपादिजानपदैः सह युद्धाय संयुक्ता दशार्णा भूतैरपहृतायुधाः सन्तस्तर्णका इव पलायमानाः पथि कर्णान्पातयित्वा ययुः | तर्णकपक्षे कर्णपदेन कर्णवदुद्भूतद्वित्रिपत्राणि गुल्मान्युच्यन्ते || ५२ || जहुर्भग्नेश्वराः कान्तिं तां जिगीषवनौजसा | कासयः [काशयः इति पाठः] कमलानीव शुष्कस्रोतस्विनौजसा || ५३ || भग्नेश्वरा हतस्वामिकाः | तां जिगीषवनानां जानपदानाम् | शुष्काः स्रोतस्विनः सरःपूरकनिर्झरा येन तथाविधेन ग्रीष्मौजसा || ५३ || तुषाका मेसलैः [मेखलैः इति पाठः] कीर्णाः शरशक्त्यसिमुद्गरैः | विद्रुता नरकैः क्षिप्ताः कटकच्छलना अपि || ५४ || नरकैर्जानपदैः | क्षिप्ता निरस्ताः कटकच्छलना अपि विद्रुताः पलायिताः || ५४ || प्. २२१) कौन्तक्षेत्राः प्रस्थवासैः स्थित्वा योधिभिरावृताः | गुणा इव खलाक्रान्ता गता व्यक्तमशक्तताम् || ५५ || स्वस्थान एव स्थित्वा योधिभिर्युद्धशीलैर्धीरैरित्यर्थः | आवृताः परिक्षिप्ताः || ५५ || द्विपयो बाहुधानानां क्षणेनादाय मस्तकम् | भल्लैः पलाययाशु गता विलूनकमला इव || ५६ || विलूनानि कमलानि यैस्ते विलूनकमलाः पुरुषा इव || ५६ || मिथः सारस्वता नीत्वा आदिनान्तं कृताजयः | पण्डिता इव वादेषु नोद्विग्ना न पराजिताः || ५७ || सारस्वताः सरस्वतीतीरोद्भवा मिथः कृताजयः कृतयुद्धः सन्त आदिनान्तं दिनावसानावधिं नीत्वा नोद्विग्नाः || ५७ || खर्वगाः खदिताः क्षुद्रा यातुधानैः परावृताः | तेजः परममाजग्मुः शान्ताग्नय इवेन्धनैः || ५८ || खदिता विद्राविता अपि यातुधानैर्लङ्कास्थैः सहायैः परावृताः परावर्तिताः || ५८ || कियदाख्यायत एत- ज्जिह्वानिचयैः किलालमाकुलितः | वासुकिरपि वर्णयितुं न समर्थो रणवरं राम || ५९ || प्रकृतं रणवर्णनमुपसंहरति - क्रियदिति | जिह्वानिचयैर्द्विसहस्रजिह्वाभिरलमत्यर्थं वर्णयितुमाकुलितो व्यग्रो वासुकिः शेषोऽपि || ५९ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे मो० लीलो० जनपदवर्णनं नाम सप्तत्रिंशः सर्गः || ३७ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे जनपदवर्णनं नाम सप्तत्रिंशः सर्गः || ३७ || अष्टत्रिंशः सर्गः ३८ श्रीवसिष्ठ उवाच | एवमत्याकुले युद्धे सास्फोटभयसंकुले | आदित्ये तमसा वृद्धे चटत्कठिनकङ्कटे || १ || दिनान्ते सेनयोर्युद्धात्परावृत्तौ रणक्षितिः | पिशाचभीमबीभत्सा विस्तरेणात्र वर्ण्यते || १ || जितकाशिभिः सास्फोटैः पराजितानां भयेन च संकुले | चटति रुधिरोद्गममावृणोति तथाविधे कठिनकङ्कटे अम्बु तद्रुधिरक्लेदजलं वहति प्रक्षरति सतीति परेणान्वयः || १ || वहत्यम्बूत्पतन्तीषु पतन्तीष्वश्मवृष्टिषु | नदीषु क्षेपणाच्छासु वरकेष्वब्जपङ्क्तिषु || २ || क्षेपणपाषाणकरकैरच्छासु शुभ्रास्वश्मवृष्टिष्वेकत्रोत्पतन्तीष्वन्यत्र पतन्तीषु | नदीष्वब्जपङ्क्तिषु वरकेषु संवरकेषु संकुचन्तीषु सतीषु | लिङ्गव्यत्ययश्छान्दसः || २ || मिथः फलाग्रकाटोत्थवह्विसीकरिणीषु च | आयान्तीषु प्रयान्तीषु दूरं शरनदीषु च || ३ || शरफलाग्रयोर्मिथः काटेन संघट्टनेनोत्थैर्वह्निकणैः सीकरिणीषु शरनदीषु || ३ || वहल्लूनशिरःपद्मचक्रावर्तैस्तरङ्गितैः | खार्णवे पूरिते हेतिवृन्दमन्दाकिनीगणैः || ४ || वहन्ति प्रवहन्ति लूनशिरांस्येव पद्मानि येषु तथाविधाश्चक्राण्येवावर्ता येषु तथाविधैर्हेतिवृन्दमन्दाकिनीगणैः खार्णवे आकाशलक्षणे समुद्रे पूरिते सति || ४ || समीरणरणत्क्वाणशस्त्रपूर्णघनैर्घनैः | संदेहान्तेषु सिद्धेषु कपिकच्छव्यथाप्रदैः || ५ || समीरणवद्रणत्क्वाणैः शस्त्रैः पूर्णत्वादेव घनैर्निबिडैर्घनैर्मेघैरत एव वर्षर्त्वारम्भशङ्कया कपीनां कच्छप्रदेशे शोणतोपचयात्कामव्यथाप्रदैः | मेघान्तरितेषु सिद्धेषु संदिह्यते इति संदेहः अन्तः प्रलयो यैस्तथाविधेषु सत्सु || ५ || अष्टभागदशाशेषप्रतापमधुराकृति | शस्त्रघातौजसा वीर इवाहस्तनुतां ययौ || ६ || शस्त्राघातप्रयुक्तेनौजसा शोणकान्त्या वीरः शूर इव || ६ || श्रान्ताश्वेभाः प्रभग्नाश्च हेतिसंघातदीप्तयः | दिवसेन समं सेना ययुर्मन्दप्रतापताम् || ७ || अथसेनाधिनाथाभ्यां विचार्य सहमन्त्रिभिः | दूताः परस्परं वृत्ता युद्धं संह्रियतामिति || ८ || वृत्ताः प्रवर्तिताः || ८ || तत्र श्रमवशान्मन्दयन्त्रशस्त्रपराक्रमैः | रणसंहरणं काले सर्वैरेवोररीकृतम् || ९ || मन्दैर्मन्दीकृतैर्यन्त्रशस्त्रपराक्रमैः | बहुव्रीहिर्वा | संहरणमुपसंहारः || ९ || ततो महारथोत्तुङ्गकेतुप्रान्तकृतास्पदम् | बलयोरारुहोहैक एको योधो ध्रुवो यथा || १० || महतो रथस्योत्तुङ्गे केतुप्रान्ते कृतास्पदं कृताधारं दीर्घवंशस्तम्भद्वयमिति शेषः | नन्वेक एक इति द्विर्वचनं चेद्वीप्साविवक्षायाम् | एकं बहुव्रीहिवदिति बहुव्रीहिवद्भावे एकैक इति स्यात् तदविवक्षायां तु सरूपैकशेषः स्यादिति चेन्नात्र वीप्सा | व्याप्यानेकविवक्षाभावात् | नाप्येकशेषः | सह विवक्षाभावात् | संख्यावाच्येकशब्दस्य द्विवचनानर्हत्वादेकवचनेन सेनयोः पुरुषभेदप्रत्यायनायोगाच्च | तस्मात्परस्परानपेक्षयोरेव पुरुषयोस्तन्त्रेणारोहणक्रियासंबन्धविवक्षणान्न कश्चिद्दोष इति || १० || सोंऽशुकं भ्रामयामास सर्वदिङ्मण्डले सितम् | श्यामेव दीर्घशुद्धांशुं युद्धं संह्रियतामिति || ११ || श्यामा रात्रिरंशुभिर्दीर्घशुद्धांशुं चन्द्रमिव || ११ || ततो दुन्दुभयो नेदुः प्रतिध्वनितदिङ्मुखाः | महाप्रलयसंशान्तौ पुष्करावर्तका इव || १२ || शरादिहेतिसरितो विस्तीर्णे गगने स्थिते | प्रवृत्तः सुखमागन्तुं सरसः सरितो यथा || १३ || सुखमप्रतिबन्धमागन्तुं पतितुम् | सरसो मानसादेः सरितः सरयवादयो यथा || १३ || प्. २२२) योधदोर्द्रुमसंचारस्तनुतामाययौ शनैः | भूकम्पान्ते वनस्पन्द इवाभ्रान्त इवार्णवः || १४ || अभ्रान्ते शरदि || १४ || विनिर्गन्तुं प्रववृते रणादथ बलद्वय | वारिपूरश्चतुर्दिक्षु प्रलयैकार्णवादिव || १४ || वारिपूर इति | अर्थात्प्रलयान्ते इति गम्यते || १५ || उत्क्षिप्तमन्दरक्षीरसमुद्रवदनाकुलम् | सैन्यं प्रशाम्यदावर्तं शनैः साम्यमुपाययौ || १६ || उत्क्षिप्तो बहिर्निष्कासितो मन्दरो यस्मात्तथाविधक्षीरसमुद्रवत् | साम्यमव्याकुलताम् || १६ || क्रमेणासीन्मुहूर्तेन विकटोदरभीषणम् | अगस्त्यपीतार्णववच्छून्यमेव रणाङ्गणम् || १७ || जननिर्गमनक्रमेण | विकटा पूतनेश्वरी तस्या उदरमिव भीषणम् || १७ || शवसन्ततिसंपूर्णं वहद्रक्तनदाकुलम् | परिकूजनझङ्कारपूर्णझिल्लिवनोपमम् [झिल्ली इति पाठः] || १८ || झिल्लयो वनपतङ्गभेदाः || १८ || बहद्रक्तसरित्स्रोतस्तरङ्गारवघर्घरम् | साक्रन्दार्धमृताहूतसप्राणव्यग्रमानवम् || १९ || मृतार्धमृतदेहौघसृतासृक्प्लुतनिर्झरम् | सजीवनरपृष्ठस्थशवस्पन्दनभ्रान्तिदम् || २० || शवानां स्पन्दनेन जीवनभ्रान्तिदम् || २० || करीन्द्रशवराश्यग्रविश्रान्ताम्बुदखण्डकम् | विशीर्णरथसंघातं वातच्छिन्नमहावनम् || २१ || शवराशीनामग्रेषु शिखरेषु विश्रान्ता अम्बुदखण्डा यत्रेत्यतिशयोक्तिः | वातच्छिन्नमहावनमिवेति शेषः || २१ || वहद्रक्तनदीरंहःप्रोह्यमानहयद्विपम् | शरशक्त्यृष्टिमुसलगदाप्रासासिसंकुलम् || २२ || पर्याणावनसंनाहकवचावृतभूतलम् | केतुचामरपट्टौघगुप्तं शवशरीरकम् || २३ || पर्याणैः पल्याणैरवनैरङ्गरक्षकैश्चर्मादिभिः सन्नाहैः कवचैश्चावृतं भूतलं यत्र गुप्तमाच्छन्नं शवशरीरकं यत्र || २३ || फणास्फुटकतूणीरकुञ्जकूजत्समीरणम् | शवराशिपलालौघतल्पसुप्तपिशाचकम् || २४ || फणावदुच्छ्रिताग्रेष्वास्फुटकेषु छिद्रीकृतेषु तूणीरेषु कीचककुञ्जेष्विव कूजन्समीरणो वायुर्यत्र || २४ || मौलिहाराङ्गदद्योतशक्रचापवनावृतम् | श्वशृगालकराकृष्टसान्द्रान्त्रादीर्घरज्जुअकम् || २५ || मौलिना ह्र्यन्त इति मौलिहाराश्चूडामणयः अङ्गदानि च तेषां द्योतैः शक्रचापानां वनेन समूहेनेवावृतं व्याप्तम् || २५ || रक्तक्षेत्रक्वणत्किंचिच्छेषजीवनृदन्तुरम् | रक्तकर्दमनिर्मग्नसजीवनरदर्दुरम् || २६ || रक्तपूर्णे क्षेत्रे क्वणन्तो घर्घरस्वरेण कूजन्तो नृदन्तुरा उद्घाटितदन्ताः पुरुषा यत्र | सजीवनरा एव दर्दुरा भेका यत्र || २६ || वराङ्गकवचप्रख्यनिर्गताक्षिशतोच्चयम् | वहद्भुजोरुकाष्ठौघघोररक्तसरिच्छतम् || २७ || वराङ्गकवचं चित्रकञ्चुकम् || २७ || साक्रन्दबन्धुवलितं मृतार्धमृतमानवम् | शरायुधरथाश्वेभपर्याणासंवरान्तरम् || २८ || पर्याणान्तैरासंवरमाच्छन्नमन्तरं मध्यं यस्य || २८ || नृत्यत्कबन्धदोर्दण्डमण्डलानमिताम्बरम् | मदमेदोवसागन्धपीडार्द्रघ्राणकोटरम् || २९ || आनमितमुच्छ्रयादधरीकृतमिति यावत् || २९ || उत्ताल्वर्धमृतेभाश्ववार्यमाणाल्पजीवितम् [मार्थमाण इति पाठः] | वहद्रक्तनदीवीचिप्रहारहतदुन्दुभि || ३० || उत्तालुभिरूर्ध्वीकृततालुभिः || ३० || उह्यमानमृतेभाश्वमकरासृक्सरिच्छतम् | म्रियमाणनरानीकफूत्कृतासृक्प्रणालिकम् || ३१ || फुत्कृता फुत्कारेण निरस्यमाना मुखप्रदेशप्रसृता असृक्प्रणालिका यत्र || ३१ || स्वल्पजीवशरापूर्णमुखदृक्कान्तितस्वनम् | पिण्डभार्यावसागन्धवातान्तोत्पीठलोहितम् || ३२ || स्वल्पजीवैः शरापूर्णमुखदृक्कैश्च नरैरन्तिता निबद्धा आक्रन्दस्वना यत्र | अति अदि बन्धने | वामकुक्षिस्थो मांसग्रन्थिविशेषः पिण्डभार्येत्युच्यते | तस्या वसायाश्च गन्धेनोपलक्षितं वातान्तेन वायुसंस्पर्शेन उत्पीठमिव घनीभूतं लोहितं यत्र || ३२ || उन्नासार्धमृतेभेन्द्रकराक्रान्तकबन्धकम् | निरधिष्ठितहस्त्यश्वपातितोच्चकबन्धकम् || ३३ || सादिमरणान्निरधिष्ठितैरनियन्त्रितैः || ३३ || रुदत्क्रन्दत्परिभ्रष्टश्वक्षुब्धासृगुद्धति | मृतभर्तृगले शस्त्रत्यक्तप्राणकुलाङ्गनम् || ३४ || रुदद्भिः क्रन्दद्भिः परिभ्रष्टैः पतद्भिः शवैश्च क्षुब्धा असृगुद्धतिर्लोहितोच्छलनं यत्र | मृतस्य भर्तुर्गले आलिङ्ग्येति शेषः | दैवोपनीतेन शस्त्राघातेन त्यक्तप्राणा कुलाङ्गना यत्र | बुद्धिपूर्वकं शस्त्रघातेन भर्तृसहगमनं तु न शास्त्रार्थः || ३४ || सेनोत्क्रान्तततक्.इप्रबहुपान्थपरीक्षणम् | शवहारकराकृष्टसप्राणानुचराकुलम् || ३५ || संस्कार्यशवानयनाय स्वाम्याज्ञप्तायाः शिबिरनिविष्टसेनायाः सकाशादुत्क्रान्तैर्निर्गतैः प्रत्येकं रणभूप्रवेशभीरुत्वात्ततैः संततैः क्षिप्रैः शीघ्रप्रवृत्तैर्बहुभिः पान्थैः कृतंस्वस्वजनशवपरीक्षणं यत्र | शवान् हरन्तीति शवहारास्तेषां स्वाभिलषितशवान्वेषणत्वरया कराकुष्टसप्राणनरैरनुचरैर्भृत्यैराकुलम् || ३५ || केशशैवालवक्राब्जचक्रावर्तनदीशतम् | तरत्तुङ्गतरङ्गाढ्यवहद्रक्तमहानदम् || ३६ || केशाः शैवालानि वक्राण्यब्जानि चक्राण्यावर्ता येषु तथाविधं रक्तनदीशतं यत्र || ३६ || अङ्गलग्नायुधोद्धारव्यग्रार्धमृतमानवम् | विदेशमृतसाक्रन्दहुताङ्गगजवाजिनम् || ३७ || विदेशे मृतानां शोकात्साक्रन्दं हुता दत्तास्तदङ्गभूषणादयो गजा वाजिनश्च यत्र | क्लीबे सुब्लुक् छान्दसः || ३७ || प्. २२३) प्राणान्तस्मृतपुत्रेष्टमातृदेवपराभिधम् | हाहाहीहीतिकथितमर्मच्छेदनवेदनम् || ३८ || परोऽन्यः परमेश्वरो वा | तेषां अभिधा नामानि || ३८ || म्रियमाणमथौजिष्ठद्विष्टप्रारब्धसंचयम् | दन्तियुद्धासमर्थाग्रमृतदेहेष्टदैवतम् || ३९ || पराक्रममकृत्वैव म्रियमाणैर्मथैर्देवोन्मथितैरोजिष्ठैर्बलवत्तरैर्द्विष्टो निन्दितः स्वप्रारब्धकर्मसंचयो यत्र | दन्तियुद्धेष्वसमर्थैर्दन्त्यग्रे मृतप्रायदेहैर्विमर्दभयादिष्टानि प्रार्थितानि दैवतानि यत्र || ३९ || म्रियमाणमहावज्ञाशूराश्रितपलायनम् | अशङ्कितासृगावर्तभीमास्पदगमोत्सुकम् || ४० || म्रियमाणेषु महत्या पादाघाताद्यवज्ञया अपराधेन अशूरैराश्रितं पलायनं यत्र | अत एवाशङ्किता निःशङ्का असृगावर्तभयानकस्थानेष्वपि गमनोत्सुका गमनोन्मुखा यत्र || ४० || मर्मच्छेदशराघातव्यथाविदितदुष्कृति | कबन्धबन्धप्रारब्धवेतालवदनाक्रमम् || ४१ || मर्मच्छेदिन्या शराघातव्यथया विदितानुमिता जन्मान्तरस्वदुष्कृतिर्यत्र | पलायमानकबन्धानां बन्धनेन रुधिरपानाय प्रारब्धा वेतालवदनाक्रमा यत्र || ४१ || उह्यमानध्वजच्छत्रचारुचामरपङ्कजम् | किरत्संध्यारुणं दिक्षु तेजस्कं रक्तपङ्कजम् || ४२ || रक्तह्रदेषूह्यमानानि ध्वजच्छत्रचामराणि पङ्कजानि सिताम्भोजानि यत्र | रक्तह्रदेषु संध्यारागप्रतिफलनादरुणं तजस्कं तेजःसमूहलक्षणं रक्तपङ्कजं कोकनदं दिक्षु किरत् विक्षिपत् || ४२ || रथचक्रधरावर्तं रक्तार्णवमिवाष्टमम् | पताकाफेनपुञ्जाढ्यं चारुचामरबुद्बुदम् || ४३ || रथास्तच्चक्राणि च क्रमाद्धराः पर्वता आवर्ताश्च यत्र तथाविधाम् | प्रसिद्धार्णवसप्तकाधिक्यादष्टमं रक्तार्णवमिव स्थितम् || ४३ || विपर्यस्तरथं भूमिपङ्कमग्नपुरोपमम् | उत्पातवातनिर्धूतद्रुमं वनमिवाततम् || ४४ || कल्पदग्धजगत्प्रख्यं मुनिपीतार्णवोपमम् | अतिवृष्टिहतं देशमिव प्रोज्झितमानवम् || ४५ || हतो देश इति प्रथमान्तपाठश्छान्दसः || ४५ || कलापकुन्तवलितं भुशुण्डीमण्डलाकुलम् | मत्तनागशताकारशवतोमरमुद्गरम् || ४६ || कलापैर्भूषणैः शरैश्च वलितं व्याप्तम् | नागा गजास्तदाकाराः शवाः नागा सर्पास्तदाकारास्तोमरमुद्गराश्च यत्र || ४६ || शिलाशिखरसंजाततालजालमिवाततम् | तरद्रक्तनदीतीरजातकुन्तोन्नतद्रुमम् || ४७ || पूर्वार्धोक्तार्थे उत्तरार्धोक्तोऽर्थो हेतुः || ४७ || नागांसस्यूतहेत्योघवृक्षांशुकुसुमाकुलम् | कङ्ककृष्टान्त्ररसनावृन्दजालकिताम्बरम् || ४८ || नागानां गजानामङ्गेषु स्यूताः प्रोता हेत्योघा एव वृक्षास्तेषामंशवः किरणास्तल्लक्षणैः कुसुमैराकुलम् | जालकितं संजातजालकमिव कृतम् || ४८ || असृक्सरित्तीरजातकुन्तोन्नतवनद्रुमम् | असृक्सरोवरोर्ध्वस्थपताकानलिनीगणम् || ४९ || रक्तकर्दमनिर्मग्ननराहूतसुहृज्जनम् | करीन्द्रकुणपापातनिर्यद्भग्नजनेक्षितम् [तिर्थग्भग्न इति पाठः] || ५० || करीन्द्राणां कुणपेभ्यः शवेभ्य आपातनिर्यद्भिरीषन्निर्गतैर्भग्नकट्यादिजनैरीक्षितम् || ५० || हेतिलूनलतैर्वृक्षैः संदिग्धार्धकबन्धकम् | असृङ्नदीवहद्धस्तिकटकर्पटनौगणम् || ५१ || असृङ्नदीषु वहन्तः प्लवमाना हस्तिनां कटा गण्डाः कर्पटानि पल्याणवस्त्राणि च नौगाणा औकासमूहा यत्र || ५१ || रक्तस्रोतःस्फुरच्छुक्लवस्त्रण्डिण्डीरपिण्डकम् | संचारनियतक्षिप्रभृत्यविच्छिन्नमानवम् || ५२ || डिण्डीरः फेनः | संचाराय नियतैराज्ञप्तैः क्षिप्रैः शीघ्रकारिभिर्भृत्यैर्विच्छिन्ना विवेचिताः || ५२ || इतश्चेतश्च निपतत्कबन्धरवदानवम् [नवदानवं इति पाठः] | ऊर्ध्वस्थूलाक्षचक्रौघच्छिन्नसैन्यद्रवज्जनम् || ५३ || ऊर्ध्वीभूतैः स्थूलाक्षैर्बृहच्छिद्रैश्चक्रौघैः || ५३ || रक्तनिःस्वनभाङ्कारफेत्कारार्धमृतारवम् | शिलामुखललद्रक्तधाराधूतरजःखगम् || ५४ || रक्तनिःस्वनसहिता भाङ्कारफेत्काररूपा अर्धमृतप्राण्यारवा यत्र | शिलामुखेषु ललन्त्याः स्रवन्त्या रक्तधारायाः पानाय निरालम्बेन पक्षविधूननेनोद्धूतरजसः कङ्कादिखगा यत्र || ५४ || सुतालोत्तालवेतालतालताण्डवसंकटम् | पर्यस्तरथदार्वन्तरर्धान्तरितसद्भटम् || ५५ || सद्भटा जीवद्भटाः || ५५ || अन्तस्थसज्जीवभटस्पन्दिस्पन्दनभीतिदम् | रक्तकर्दमपूर्णास्यकिंचिज्जीवकृपाच्छवम् || ५६ || किंचिज्जीवत्वात्कृपां अन्ततः प्राप्नुवन्तः शवा यत्र || ५६ || किंचिज्जिवनरोद्ग्रीवदुःखदृष्टश्ववायसम् | एकामिषोत्कक्रव्यादयुद्धकोलाहलाकुलम् | एकामिषार्थयुद्धेहामृतक्रव्यादसंकुलम् || ५७ || युद्धेहाभिर्युद्धचेष्टाभिः || ५७ || विवृत्तासंख्याश्वद्विरदपुरुषाधीश्वररथ- प्रकृत्तोष्ट्रग्रीवाप्रसृतरुधिरोद्गारसुसरित् | रणोद्यानं मृत्योस्तदभवदशुष्कायुधलतं सशैलं कल्पान्ते जगदिव विपर्यस्तमखिलम् || ५८ || विशेषेण वृत्तानां मृतानां परिवर्तितानां चासंख्यानामश्वादीनां प्रकृत्ताभ्यश्छिन्नाभ्य उष्ट्रग्रीवाभ्यश्च प्रसृता रुधिरोद्गारैः शोभनाः सरितो यत्र | अशुष्का रक्तसेकपल्लविता आयुधलता यत्र तथाविधं रणभूमिलक्षणं मृत्योरुद्यानमुपवनमासीत् || ५८ || इत्यार्षे श्रीवासिष्ठमहारामायणे मोक्षोपाये उत्पत्तिप्रकरणे लीलो० आहववर्णनं नामाष्टत्रिंशः सर्गः || ३८ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे आहववर्णनं नामाष्टत्रिंशः सर्गः || ३८ || एकोनचत्वारिंशः सर्गः ३९ श्रीवसिष्ठ उवाच | अथ वीर इवारक्तः कालेनास्तमितो रविः | अस्त्रतेजःपरिम्लानप्रतापोऽब्धौ समुज्झितः || १ || सूर्यस्यास्तमयः संध्या रक्षोवेतालसंकुला | बीभत्सबहलं रात्रौ रणस्थानं च वर्ण्यते || १ || सूर्यपक्षे अस्त्रतेजसि स्वच्छे नभसि परिम्लानप्रतापो मन्दरश्मिः | समुज्झितस्त्यक्तः पातित इति यावत् || १ || रणरक्तरुचिर्व्योमदर्पणप्रतिबिम्बिता | जहौ सूर्यशिरश्छेदे संध्यालेखोदभूत्क्षणम् || २ || सूर्यलक्षणस्य सादिनः शिरसश्छेदे पातने सति प्राग्व्योमदर्पणे प्रतिबिम्बिता रक्तरुचिर्व्योम जहौ | क्षणमल्पकालम् || २ || भूपातालनभोदिग्भ्यः प्रलयाब्धिजलौघवत् | समाजग्मुस्तनत्ताला वेताला वलया इव || ३ || सर्वदिग्वलयनाद्वलयाकाराः स्तनन्तो ध्वनन्तस्तालाः करताला येषां स्तनन्तो ध्वनन्तस्ताला इव दीर्घा वा वेतालाः || ३ || मृष्टध्वान्तासिवलिते दिननागेन्द्रमस्तके | संध्यारागारुणं कीर्णं तारानिकरमौक्तिकम् || ४ || दिनलक्षणस्य नागेन्द्रस्य गजश्रेष्ठस्य मस्तके मृष्टेन शाणनिघृष्टेन ध्वान्तासिना वलिते खण्डिते सति रागो रक्तं तेनारुणं तारानिकरलक्षणं गजमौक्तिकं विकीर्णमित्युत्प्रेक्षा || ४ || निःसत्त्वेषु तमोन्धेषु रसनारसशालिषु | संकोचमाययुः पद्मामृतानां हृदयेष्विव || ५ || निह्सत्त्वेषु निर्गतहंसादिजन्तुषु निष्प्राणेषु च | तमसान्धकारेण मोहेन चान्धेषु | रसशालिषु सरःसु प्राग्जीवनप्रेमवत्सु च | रसनाः प्राग्भ्रमरादिभिः प्राणैश्च ध्वनन्तः || ५ || मीलत्पक्षाः क्षणात्सुप्ताः कृच्छ्रप्रोच्छ्रितकन्धराः | कुलायेषु खगा आसञ्छवाङ्गेष्विव हेतयः || ६ || हेतिपक्षे कृच्छ्रेण मरणदुःखेन प्रोच्छ्रिता उन्नामिताः कन्धराः कण्ठा यैः || ६ || आसन्नचन्द्रसुभगा लोकाः कुसुमपङ्क्तयः | उल्लसद्धृदया जाता वीरपक्षेष्विव श्रियः || ७ || आसन्नस्य चन्द्रस्य सुभगालोकलक्षणास्तत्सदृशाश्च कुमुदादिकुसुमपङ्क्तयः || ७ || रक्तवारिमयी सायमङ्गगुप्तशिलीमुखा | संकुचद्वक्रपद्माभूद्रणभूमिरिवाब्जिनी || ८ || अब्जिनीपक्षे संध्यारागप्रतिफलाद्रक्तसदृशवारिप्रचुराः | शिलीमुखा बाणा भ्रमराश्च | वक्राण्येव वक्राणीव वा पद्मानि यस्याः || ८ || उपर्यभूद्व्योमसरस्ताराकुमुदमण्डितम् | अधस्त्वभूद्वारिसरः स्फुरत्कुमुदतारकम् || ९ || तमस्यपेतभीतानि भूतानि मिलितान्यलम् | पयांसीव विसेतूनि प्रसृतानि दिशं प्रति || १० || प्रागपेतानि वियुक्तानि पश्चान्मिलितान्यप्यपरिचयात्परस्परस्माद्भीतानीत्यर्थः || १० || आसीद्रणाङ्गणं गायद्वेतालकुलसंकुलम् | क्वणत्कङ्कालकाङ्कस्थकङ्ककाकोलकेलिमत् || ११ || कङ्कालकानां शवानामङ्के उत्सङ्गे || ११ || अथ काष्ठचिताज्वालसताराम्बरभास्वरम् | पचत्पचपचाशब्दिमेदोमांसमयानलम् || १२ || अथ रणाङ्गणं वक्ष्यमाणविशेषणमासीदित्यासर्गान्तमनुवर्तते || १२ || सर्वाङ्गास्थिस्फुटास्फोटस्फुटच्चितिचयोन्मुखम् | वेतालललनारब्धजललीलातिरोहितम् || १३ || अस्थ्नां स्फुटैरासमन्तात्स्फोटैः स्फुटन्तश्चितिचया एव वीरवदुन्मुखाः प्राधान्येन प्रकाशमाना यत्र | वेतालललनाभिरारब्धं जललीला जलक्रीडा तस्यामिव चिताग्निषु तिरोहितमन्तर्धानं यत्र || १३ || श्वकाकयक्षवेतालतालकोलाहलोल्बणम् | गमागमेन भूतानां समुड्डीनवनोपमम् || १४ || रक्तमांसवसामेदोहरणव्यग्रडाकिनि | चर्वितासृग्वसामांसस्रवत्सृक्किपिशाचकम् || १५ || स्रवन्त्यौ सृक्किणी ओष्ठप्रान्तौ येषां तथाविधाः पिशाचका यत्र || १५ || मध्यमध्यचितालोकप्रकटासृक्शवव्रजम् | विरूपिकानीयमानस्वांसन्यस्तमहाशवम् || १६ || मध्यमध्यचितासु आलोकाः पिशाचैरालोक्यमानाः प्रकटासृजः शवव्रजा यत्र | विरूपिकाः पूतनाः || १६ || उत्ताण्डवोग्रकुम्भाण्डमण्डलोड्डामरोदरम् | छमिच्छमित्प्रलापान्तं मेदोसृग्बाष्पसाम्बुदम् || १७ || कुम्भाण्डाः पिचण्डिलाः पिशाचजातिभेदाः | छमिच्छमिदिति प्रलापा इव शववक्रान्ते ज्वालाशब्दा यत्र | मेदोसृजां वाष्पैः सार्द्रधूमैः साम्बुदमिव || १७ || वहद्रक्तनदीरंहोरूढभूचररूपिकम् | वेतालकुलकङ्कालकर्षणाकुलकाकलम् || १८ || रक्तनदीरंहसि रूढा निखातपादा अत एव भूचरीव लक्ष्यमाणा रूपिका यत्र | वेतालकुलानां कङ्कालानां शवानां कर्षणासु कुलोचितानि काकलानि हर्षकलकूजितानि यत्र || १८ || मृतेभोदरमञ्जूषासुप्तवेतालबालकम् | विविक्तैकरणोद्देशपानक्रीडास्थराक्षसम् || १९ || मत्तवेतालकलहचितालातरणोज्ज्वलम् | वहद्रक्तवसामिश्रगन्धबन्धुरमारुतम् || २० || चितानामलातैर्ज्वलदुल्मुकैर्यो रणस्तेनोज्ज्वलं दीप्रम् || २० || प्. २२५) रूपिकापेटिकावान्तारणद्रटरटारवम् | अर्धपक्वशवास्वादलुब्धयक्षोल्लसत्कलि || २१ || रूपिकाणां पूतनाभेदानां पेटिका करण्डास्तासामेव प्रसिद्धाः | यक्षाणां उल्लसन्कलिः कलहो यत्र || २१ || तुङ्गवङ्गकलिङ्गाङ्गतङ्गणाङ्गलगत्खगम् | तारापातोपमहसत्संमुखज्वालरूपिकम् || २२ || तुङ्गेषु वङ्गादिवेशजानामङ्गेषु लगन्तो निशाचरखगा यत्र | तारापातोपमैर्दशनैर्हसन्त्यः संमुखीकृतज्वालारूपिका यत्र || २२ || पतद्वेतालसोल्लासमध्यस्थासृग्विरूपिकम् | पिशाचाकर्णिताभ्यर्णयोगिनीगणनायकम् || २३ || असृक्पिच्छिले पतत्सु वेतालेषु हासादिसोल्लासा असृक्प्रधाना विरूपिका यत्र || २३ || प्रसृतान्त्रमहातन्त्रीप्रायसंपन्नवादनम् | पिशाचवासनोत्क्रान्तपिशाचीभूतमानवम् || २४ || आन्त्रमहातन्त्रीभिः प्रायेण संपन्नानि वादनानि यत्र || २४ || रूपिकालोकनापूर्वत्रासार्धमृतसद्भटम् | क्वचिद्वेतालरक्षोभिरपरीपूर्णमद्रकम् || २५ || रूपिकाणामालोकनादपूर्वत्रास आकस्मिकं भयं तस्मात् | मद्रकं कल्याणोत्सवः || २५ || स्वरूपिकास्कन्धपतच्छवत्रस्तनिशाचरम् | नभःसंघट्टितापूर्वभूतपेटकसंकटम् || २६ || नभसि संघट्टितैरपूर्वैः प्रसिद्धविलक्षणैर्भूतपेटकैः संकटं निरन्तरम् || २६ || अतिप्रयत्नापहृतम्रियमाणनरामिषम् | स्वभक्स्यापेक्षपक्षेषु विक्षिप्तशवराशिवत् || २७ || स्वेषु स्वीयेषु भक्ष्यापेक्षेषु पक्षेषु || २७ || शिवामुखानलशिखाखण्डोत्थमितिरक्तगैः | समुड्डीननवाशोकपुष्पगुच्छमिवाभितः || २८ || शिवा जम्बुकास्तन्मुखानलज्वालाभिरखण्डमनुच्छेदमुत्थमितिभिर्मूर्च्छान्तःप् राप्तसंज्ञैः रक्तगै रक्तव्याप्तैर्नरैश्च || २८ || कबन्धकन्धराबन्धव्यग्रवेतालबालकम् | यक्षरक्षःपिशाचादिकचदाकाशगोल्मुकम् || २९ || कबन्धकन्धरासु च्छिन्नशिरोबन्धनक्रीडासु व्यग्रा वेतालबालका यत्र | यक्षादीनां कचन्तो दीप्यमाना आकाशगा उल्मुका ज्वलदलातानि यत्र || २९ || आकाशभूधरनिकुञ्जगुहान्तराल- पिण्डोपमण्डिततमोम्बुदपीठपूरम् | व्यालोलभूतरभसाकुलकल्पवात- व्याधूतलोककरकाण्डकपेटकल्पम् || ३० || आकाशभूधरेषु तदीयनिकुञ्जानां गुहानां चान्तरालेषु च पिण्डवन्निबिडतया उपमण्डितस्तमोलक्षणः अम्बुदपीठानां पीठवत्प्रतिष्ठिताम्बुदानां पूरः समूहो यत्र | व्यालोलानां भूतानां रभसेन वेगेन आकुलं कल्पवातैर्व्याधूता लोका जनास्तदीय करकादिसंभाराश्च यत्र तथाविधं यदण्डकपेटं ब्रह्माण्डोदरं तत्कल्पं रणाङ्गणमासीदित्यर्थः || ३० || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे ली० निशाचराकुलरात्रिरणाङ्गणवर्णनं नामैकोनचत्वारिंशः सर्गः || ३९ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे निशाचराकुलरात्रिरणाङ्गणवर्णनं नामैकोनचत्वारिंशः सर्गः || ३९ || चत्वारिंशः सर्गः ४० श्रीवसिष्ठ उवाच | एवं निशाचराचारचिरघोरे रणाङ्गणे | अहनीव जनाचारे स्थिते यामावरेहिते || १ || सुप्ते विदूरथे वेश्मप्रवेशो ज्ञप्तिलीलयोः | आतिवाहिकदेहस्य तत्त्वं चात्र निरूप्यते || १ || निशाचराणामाचारेण चिरं घोरे भयानके रणाङ्गणे | यामानां यमसंबन्धिनां दूतानामवराणां निकृष्टानां पिशाचादीनां च ईहिते चेष्टिते | अहनि जनानां यथोचिताचारवत् एवं वर्णितप्रकारेण स्थिते सतीत्यर्थः || १ || हस्तहार्यतमःपिण्डस्फुटकुड्ये निशागृहे | लाभोच्छदोच्चलचते भूतसङ्घे प्रवल्गति || २ || हस्तेन हर्तुं शक्यैरिव निबिडैस्तमःपिण्डैः स्फुटानि प्रकटीभूतानि कुड्यानि यत्र तथाविधे निशालक्षणे गृहे भक्ष्यसमृद्धिलाभे उच्छदं उद्गतवस्त्रं उच्चलं पलायमानं च तं याल्वादैन्यं यस्मात्तथाविधे भूतसङ्घे प्रवल्गति क्रीडति सति | चते याचने | घञर्थे कविधानमिति भावे कः || २ || निःशब्दे ध्वान्तसंचारे निद्रारुद्धककुब्गणे | लीलापतिरुदारात्मा किंचित्खिन्नमना इव || ३ || रणाङ्गणस्थितिमुक्त्वा नगरस्थितिमाह - निःशब्द इति | ककुब्गणशब्देन दिक्समूहस्थितप्राणिनो लक्ष्यन्ते || ३ || प्रातःकार्यं विचार्याशु मन्त्रिभिर्मन्त्रकोविदैः | दीर्घचन्द्रसमाकारे शयने हिमशीतले || ४ || चन्द्रोदरनिभे चारुगृहे शिशिरकोटरे | निद्रां मुहूर्तमगमन्मुद्रितेक्षणपुष्करः || ५ || अगमत्प्राप || ५ || अथ ते ललने व्योम तत्परित्यज्य तद्गृहम् | रन्ध्रैर्विविशतुर्वातलेखेऽब्जमुकुलं यथा || ६ || ते ललने ज्ञप्तिलीले || ६ || श्रीराम उवाच | कियन्मात्रमिदं स्थूलं शरीरं वाग्विदांवर | रन्ध्रेण तन्तुतनुना कथमाश्वाविशत्प्रभो || ७ || सूक्ष्मतमब्रह्माण्डच्छिद्रान्निर्गमने प्राक्पृष्टमेवार्थं रामः पुनर्दृढीकारायाधिक जिज्ञासया पृच्छति - कियदिति | कियन्मात्रं चतुर्हस्तप्रमाणदैर्घ्यमिति यावत् || ७ || प्. २२६) श्रीवसिष्ठ उवाच | आधिभौतिकदेहोऽहमिति यस्य मतिभ्रमः | तस्यासावणुरन्ध्रेण गन्तुं शक्नोति नानघ || ८ || असौ स्थूलदेहः | अणुरन्ध्रेण सूक्ष्मच्छिद्रेण || ८ || रोधितोऽहमनेनेति न माम्यत्रेति यस्य धीः | अनुभूतानुभवति भवतीत्यनुभूयते || ९ || तत्कुतस्तत्राह - रोधित इति | रोधितो निरुद्धः अत्रास्मिञ्छिद्रे न मामि मातुं न शक्नोमि नरदेहस्वभावत्वादिति यस्य धीः पूर्वं शतशोऽनुभूतमेव स्थूलदेहस्वरूपत्वमात्मनोऽनुभवति भवति | शप्श्यनोर्नित्यवचनान्नुमभावश्छान्दसः | तेन इति एवंरीत्या अगमनमेवानुभूयते इत्यर्थः || ९ || येनानुभूतं पूर्वार्धं गच्छामीति स तत्क्रियः | कथं भवति पश्चार्धं गमनोन्मुखचेतनः || १० || येन तु स्थूलनरदेहतादात्म्यबुद्ध्यभावादातिवाहिकदेहमात्रत्वनिश्चयाच्च पूर्वार्धपौर्वकालिकदृढवासनासमृद्धं सूक्ष्मतमेऽपि च्छिद्रे गच्छामि गमनसमर्थोऽस्मीत्येवं शतशोऽनुभूतं स तादृशगमनस्वभावोन्मुखात्मचेतनांशस्वभावः पुरुषः पश्चार्धं उत्तरकाले तत्क्रियः स्थूलदेहानुरूपनिरोधादिक्रियाविशिष्टः कथं भवति | प्रागाविर्भूतशक्तिस्वभावस्यान्यथात्वायोगादिति भावः || १० || नहि वार्यूर्ध्वमायाति नाधो गच्छति पावकः | या यथैव प्रवृत्ता चित्सा तथैव प्रतिष्ठिता || ११ || बहिरपि वस्तुशक्तिस्वभावस्तथैव नियतो दृष्ट इत्याह - नहीति | प्रवृत्ता प्रागाविर्भूतशक्तिः || ११ || छायायामुपविष्टस्य कुतस्तापानुभूतयः | यस्य संवेदनेऽन्योऽर्थः केनचिन्नानुभूयते || १२ || स्थूलदेहात्मबुद्धिरहितयोगिपिशाचादीनामपि निरोधदुःखाभावे द्वैतमात्राध्यासरहितानां तत्त्वज्ञानां तद्दुःखं नास्तीति किं वक्तव्यमित्याशयेनाह - छायायामिति | यस्य परमात्मनः सम्यग्वेदने साक्षात्कारे सति || १२ || यथा संवित्तथा चित्तं सा तथावस्थितिं गता | परमेण प्रयत्नेन नीयतेऽन्यदशां पुनः || १३ || नन्वधिष्ठाने संविदि स्थौल्यसौक्ष्म्यादिशक्त्याविर्भावेऽपि चित्तस्य तदनुविधायित्वं कुतस्तत्राह - यथेति | कथं तर्ह्यन्यथाभावस्तत्राह - परमेणेति | योगज्ञानाभ्यासादिप्रयत्नेनेत्यर्थः || १३ || सर्पैकप्रत्ययो रज्ज्वामसर्पप्रत्यये बलात् | निवर्ततेऽन्यथा त्वेष तिष्ठत्येव यथास्थितः || १४ || तत्र ज्ञानप्रयत्नेनान्यथाभावमुदाहरति - सर्पेति | असर्पप्रत्यये रज्जुतत्त्वनिर्णये सति || १४ || यथा संवित्तथा चित्तं यथा चित्तं तथेहितम् | बालं प्रत्यपि संसिद्धमेतत्को नानुभूतवान् || १५ || चित्तस्य संविच्छक्त्यनुसारित्वमिव चेष्टायाश्चित्तानुसारित्वमपि प्रसिद्धतरमित्याह - यथेति || १५ || यः पुनः स्वप्नसंकल्पपुरुषः प्रतिमाकृतिः | आकाशमात्रकाकारः स कथं केन रोध्यते || १६ || ननु स्थूलदेहवदातिवाहिकं चित्तशरीरमपि कुतो न रोध्यते तत्राह - य इति || १६ || चित्तमात्रं शरीरं तु सर्वस्यैव हि सर्वतः | विद्यते वेदनाच्चैतत्क्वचिदेतीव हृद्गतात् || १७ || ननु भौतिकस्यास्य देहस्य ज्ञानबलाद्वा कथं चित्तशरीरत्वप्राप्तिस्तत्राह ##- तथाच न भूतानि चित्तात्पृथक्सन्तीति भावः || १७ || यथाभिमतमेवास्य भवत्यस्तमयोदयम् | आदिसर्गे स्वभावोत्थं पश्चाद्द्वैतैक्यकारणम् || १८ || भूतानां चित्तादपृथक्सत्तामुपपादयति - यथाभिमतमिति | अस्य परमात्मनः अभिमतं चित्तवृत्तिस्तदनतिक्रम्येति यथाभिमतम् | अस्य भूतजातस्य | अस्तमयोदयमिति समाहारद्वन्द्वः | स्वभावः स्वाभाविकमज्ञानं कर्म वा तदुत्थम् | स्थूलानि भूतानि भौतिकानि च द्वैतं तेषां मेलनेनैकदेहभावेनैक्यं च तत्र कारणं पञ्चीकरणं पश्चाद्भवतीत्यर्थः || १८ || चित्ताकाशं चिदाकाशमाकाशं च तृतीयकम् | विद्ध्येतन्त्रयमेकं त्वमविनाभावनावशात् || १९ || एवं चित्ताव्यक्तयोरपि न शुद्धचितः पृथक्सत्तेत्याह - चित्ताकाशमिति | अविनाभावना अधिष्ठानसत्ताव्यतिरेकेणास्फुरणं तद्वशात् || १९ || एतच्चित्तशरीरत्वं विद्धि सर्वगतोदयम् | यथासंवेदनेच्छत्वाद्यथासंवेदनोदयम् || २० || एवमधिष्ठानसत्ताधीनसत्तासाम्येऽपि स्थूलात्सूक्ष्मे अनिरोधहेतुर्विशेषोऽस्तीत्याह - एतदिति | सर्ववस्तुषु गतः प्राप्त उदयः स्वैरमाविर्भावशक्तिर्यस्य तत्तथाविधं विद्धि | तत्कुतः | यतो यथासंवेदनोदयं संवेदनं पूर्ववासनाकर्मानुसारिपदार्थस्फूर्तिस्तदनतिक्रम्योदयो यस्य तथास्वभावं न बाह्यवस्तुशक्त्यनुसारिस्वभावम् | तदपि कुतः | यथासंवेदनेच्छत्वात् | यतः शुक्तिमपि रजतात्मना संविदितामिच्छति न शुक्तिशक्तिमनुसृत्योपेक्षते | तथाच स्थूलस्य बाह्यवस्त्वनुसारित्वान्निरोधेऽपि न संवेदनेच्छामात्रानुसारिणश्चित्तशरीरस्य निरोध इति भावः || २० || वसति त्रसरेण्वन्तर्ध्रियते गगनोदरे | लीयतेऽङ्कुरकोशेषु रसीभवति पल्लवे || २१ || सर्वगतोदयत्वं प्रपञ्चयति - वसतीत्यादिना || २१ || उल्लसत्यम्बुवीचित्वे प्रनृत्यति शिलोदरे | प्रवर्षत्यम्बुदो भूत्वा शिलीभूयावतिष्ठते || २२ || यथेच्छमम्बरे याति जठरेऽपि च भूभृताम् | अनन्तराकाशवपुर्धत्तेऽथ परमाणुताम् || २३ || न विद्यतेऽन्तः आकाशवपुरवकाशस्वरूपं यत्र तथाविधं सत्परमाणुतां धत्ते || २३ || भवत्यद्रिर्धराधारो बद्धपीठो नभः शिराः | देहस्यान्तर्बहिरपि दधद्वनतनूरुहम् || २४ || वनलक्षणं तनूरुहं दधत् सत् अद्रिर्भवति | बद्धपीठो दृढमूलः | देहस्यान्तरद्र्यादिभावः स्वप्ने प्रसिद्धो बहिस्त्विन्द्रजालादौ || २४ || प्. २२७) भवत्याकाशमाधत्ते कोटीः पद्मजसद्मनाम् | अनन्याः स्वात्मनोऽम्भोधिरावर्तरचना इव || २५ || स्वात्मनाश्चित्तस्वरूपादनन्या अभिन्नाः पद्मजसद्मनां ब्रह्माण्डानां कोटीः आसमन्ताद्धत्ते || २५ || अनुद्विग्नप्रबोधोऽसौ सर्गादौ चित्तदेहकः | आकाशात्मा महान्भूत्वा वेत्ति प्रकृततां ततः || २६ || अनुद्विग्नः उद्वेगादविपर्यस्तः कर्मानुसारी प्रबोधो यस्य | आकाशात्मा आकाशादिक्रमेण महान् ब्रह्माण्डात्मा भूत्वा प्रकृततां प्रस्तुततां प्रारब्धकर्मानुसारिप्रवृत्तिम् || २६ || असत्यमेव वारित्वं बुद्ध्योदेतीव तत्तथा | वन्ध्यापुत्रोऽयमस्तीति यथा स्वप्ने भ्रमो नरः || २७ || वारित्वं मृतगृष्णादौ यथेति शेषः | वन्ध्यापुत्रोऽयं नरोऽस्तीति यथा स्वप्ने भ्रम उदेतीत्यन्वयः || २७ || श्रीराम उवाच | किं चित्तमेतद्भवति किंवा भवति नो कथम् | कथमेव न सद्रूपं नान्यद्भवति वीक्षणात् || २८ || सूक्ष्मतमं चित्तमेव सर्वजगत्सर्वशक्तिमत् तदेवापरिज्ञाततत्त्वं स्थूलमिव भूत्वा परतन्त्रं भवति | परिज्ञाततत्त्वं तु व्यवहारे सर्वत्राप्रतिहतं स्वतन्त्रमित्युक्तं तत्र किमस्मादिचित्तं प्रत्येकमेवंशक्तिकं भवत्युत न | आद्ये प्रतिचित्तं विचित्रसर्वभेदसत्त्वप्रसङ्गः | द्वितीये तु चित्ताजन्यं चित्तादन्यदेव जगद्रूपं स्यात्तथैव सर्वैर्वीक्षणात्तथा च ज्ञानेन चित्तनाशेऽपि जगदनुवृत्तिरेव स्यादित्याशयेन श्रीरामः पृच्छति - किमिति | एतदस्मदादिसंबन्धि चित्तं एतदुक्तशक्तिकं भवति किंवा नो भवति | आद्ये प्रतिचित्तं भिन्नं जगत्सद्रूपं कथं न | द्वितीये तु अन्यत्कथं न भवतीति कथंशब्दद्वयस्य प्रत्येकमन्वयः || २८ || श्रीवसिष्ठ उवाच | प्रत्येकमेव यच्चित्तं तदेवंरूपशक्तिकम् | पृथक्प्रत्येकमुदितः प्रतिचित्तं जगद्भ्रमः || २९ || तत्राद्यकल्पमेवाभ्युपगम्य वसिष्ठ उत्तरमाह - प्रत्येकमिति || २९ || क्षणकल्पजगत्सङ्घाः समुद्यन्ति गलन्ति च | निमेषात्कस्यचित्कल्पात्कस्यचिच्च क्रमं शृणु || ३० || मरणादिमयी मूर्च्छा प्रत्येकेनानुभूयते | यैषा तां विद्धि सुमते महाप्रलययामिनीम् || ३१ || कथं तर्हि महाप्रलयानन्तरं सृष्टिप्रवादस्तत्राह - मरणेति | व्यष्टिकृतसर्गे प्राक्तनमरणमेव महाप्रलय इत्यर्थः || ३१ || तदन्ते तनुते सर्गं सर्व एव पृथक्पृथक् | सहजस्वप्नसंकल्पान्संभ्रमाचलनृत्यवत् || ३२ || सहजान्स्वाभाविकाविद्योत्थानवस्थात्रयस्वप्नसंकल्पान् | तस्य त्रय आवसथास्त्रयः स्वप्नाः इति श्रुतेः | संभ्रमश्चित्तमोहः || ३२ || महाप्रलयरात्र्यन्ते चिरादात्ममनोवपुः | यथेदं तनुते तद्वत्प्रत्येकं मृत्यनन्तरम् || ३३ || आत्मनः परब्रह्मणः समष्टिमनोवपुर्हिरण्यगर्भः सत्यसंकल्पात्तनुते तथैव न तदतिक्रम्येति न प्रतिचित्तं जाग्रत्प्रपञ्चवैचित्र्यप्रसक्तिः | स्वप्नादौ तु वैचित्र्यं दृष्टत्वादिष्टमेवेति भावः | अथवायं दृष्टान्तः - यथा समष्टिमनोवपुर्हिरण्यगर्भः समष्टिभोग्यं प्रपञ्चं तनुते तथा व्यष्टिमनोमात्रो जीवोऽपि स्वस्वभोग्यं स्वप्नादिव्यष्टिप्रपञ्चमिति || ३३ || श्रीराम उवाच | मृतेरनन्तरं सर्गो यथा स्मृत्यानुभूयते | चिरात्तथानुभवति नातो विश्वमकारणम् || ३४ || ननु यद्धि मनसा ध्यायति तद्वाचा वदति तत्कर्मणा करोति इति श्रुत्या सर्वानुभवाच्च स्मृतिवत्क्रियाणामेकवस्तुविषयत्वं निश्चितं स्मृतिश्च स्वकारणानुभवस्य सत्यार्थत्वे यथार्था असत्यार्थत्वे त्वयथार्था | तत्रास्माकं भ्रान्तिबहुलत्वादसत्यसंकल्पत्वाच्चास्मत्स्मृतेरयथार्थत्वे तज्जन्यकतिपयस्वप्नादिप्रपञ्चस्यासत्यतास्तु | हिरण्यगर्भस्य तु सर्वज्ञत्वेनाभ्रान्तत्वात्सत्यसंकल्पत्वाच्च तत्स्मृतेरयथार्थत्वायोगेन तत्सृष्टप्रपञ्चस्य न मिथ्यात्वप्रसक्तिरित्याशयेन रामः शङ्कते - मृतेरिति | यथा व्यष्टिजीवैर्मृतेरव्यवहितोत्तरकाले स्मृत्या स्वकृतसर्गोऽनुभूयते तथा समष्टिरपि चिरान्महाप्रलयादनन्तरं स्वकीयया यथार्थस्मृत्या सृष्टं प्रपञ्चमनुभवति अतस्तत्स्मृत्या रूढप्राक्तनसत्यार्थानामेवैतत्कल्पीयसत्यविश्वकारणत्वसंभवाद्विश्वम् अकारणं ब्रह्मातिरिक्तसत्यकारणताशून्यमिति यत्प्राक्प्रतिज्ञातं तन्मतव्याघात इत्यर्थः || ३४ || श्रीवसिष्ठ उवाच | महति प्रलये राम सर्वे हरिहरादयः | विदेहमुक्ततां यान्ति स्मृतेः क इव संभवः || ३५ || भवेदेवं यद्यादिसर्गे यथार्थानुभवजन्या सर्गहेतुः स्मृतिस्तस्य संभवेत् | नहि सा प्रथमं हिरण्यगर्भपदप्राप्तस्योपासकस्य संभवति तस्य हि स्मृतिरुपासनोपनीतसंस्कारजन्या न यथार्थानुभवजन्या | उपासना च प्राक्तनी व्यष्टेरेव समष्टिभावचिन्तनं न यथार्थानुभव इत्ययथार्थोपासनासंस्कारजस्मृतिजन्यत्वान्नादिसर्गस्य सत्यताप्रसक्तिः | नहि प्राक्तनाः केचिदन्ये सर्वज्ञास्तदानीं सन्ति | सर्वेषां प्रागेव मुक्तत्वात् | द्वितीयकल्पादिसर्गहेतुस्मृतेस्तु पूर्वसर्गानुभूतमिथ्यार्थविषयतैवेति न क्वापि सर्गसत्यताप्रसक्तिरित्याशयेन वसिष्ठः समाधत्ते - महतीत्यादिना || ३५ || अस्मदादिः प्रबुद्धात्मा किलावश्यं विमुच्यते | कथं भवन्तु नो मुक्ता विदेहाः पद्मजादयः || ३६ || प्रबुद्धात्मा तत्त्ववित् || ३६ || अन्ये त्वमिव [त्वपि च इति पाठः] ये जीवास्तेषां मरणजन्मसु | स्मृतिः कारणतामेति मोक्षाभाववशादिह || ३७ || मरणजन्मसु मरणजन्मप्रयोजकसर्गेषु स्मृतिः प्राक्तनमिथ्यार्थानुभववासनाजन्यैवेत्याशयः || ३७ || प्. २२८) जीवो हि मृतिमूर्च्छान्ते यदन्तः प्रोन्मिषन्निव | अनुन्मिषित एवास्ते तत्प्रधानमुदाहृतम् || ३८ || ननु हैरण्यगर्भी सृष्टिः प्रधानान्महदहंकारादिक्रमेण पुराणादिषु श्रूयते जैवी तु सा सहसैव जायते तत्र कथं तत्सृष्टिसाम्यं जैवसृष्टेरित्याशङ्क्य तत्रापि प्रधानमहदादिक्रममुपपादयति - जीवो हीत्यादिना | अनुन्मिषितो बहिरिति शेषः | तत्तादवस्थ्यं प्रधानं मूलप्रकृतिरित्युदाहृतं पुराणादावित्यर्थः || ३८ || तद्व्योमप्रकृतिः प्रोक्ता तदव्यक्तं जडाजडम् | संस्मृतेरस्मृतेश्चैव क्रम एष भवोदये || ३९ || आकाश इव तदोतं च प्रोतं च इत्यादिश्रुतेर्व्योमादिशब्दानामपि तत्र प्रसिद्धिमाह - तदिति | चित्प्रतिबिम्बग्रहाज्जडाजडम् | संस्मृतेः सर्गस्य अस्मृतेः प्रलयस्य च क्रमः आद्यन्तावधिरेष इत्यर्थः || ३९ || बोधोन्मुखत्वे हि महत्तत्प्रबुद्धं यदा भवेत् | तदा तन्मात्रदिक्कालक्रिया भूताद्युदेति खात् || ४० || तदेव बोधोन्मुखत्वे महत्तत्त्वं प्रबुद्धं सदहंकाराख्यं यदा भवेत्तदा तदवस्थात् खात् प्रागुक्तावकाशात्तन्मात्रादिभूतभौतिकान्तमुदेतीत्यन्वयः || ४० || तदेवोच्छूनमाबुद्धं भवतीन्द्रियपञ्चकम् | तदेव बुध्यते देहः स एषोऽस्यातिवाहिकः || ४१ || आ उच्छूनमीषदुच्छूनं सूक्ष्मावस्थमित्यर्थः | बुध्यते स्वप्नजागरयोः || ४१ || चिरकालप्रत्ययतः कल्पनापरिपीवरः | आधिभौतिकताबोधमाधत्ते चैष बालवत् || ४२ || आधिभौतिकताबोधं भौतिकस्थूलदेहाहंभावम् || ४२ || ततो दिक्कालकलनास्तदाधारतया स्थिताः | उद्यन्त्यनुदिता एव वायोः स्पन्दक्रिया इव || ४३ || दिक्कालपदेन तदाश्रितपदार्था लक्ष्यन्ते | तदाधारतया स्थूलदेहाश्रितचक्षुराद्यधीनतया स्थितास्तत्तद्देशकालगतपदार्थकलनाः उद्यन्ति प्रादुर्भवन्तीत्यर्थः || ४३ || वृद्धिमित्थमयं यातो मुधैव भुवनभ्रमः | स्वप्नाङ्गनासङ्गसमस्त्वनुभूतोऽप्यसन्मयः || ४४ || यत्रैव म्रियते जन्तुः पश्यत्याशु तदेव सः | तत्रैव भुवनाभोगमिममित्थमिव स्थितम् || ४५ || व्योमैवानुभवत्यच्छमहं जगदिति भ्रमम् | व्योमरूपं व्योमरूपी जीवो जात इवात्मवान् || ४६ || आगन्तुकदेहाद्यात्मना आत्मवान् जात इव सन् अहमिति जगदिति च भ्रममनुभवतीत्यर्थः || ४६ || [पूर्वत्र व्योमैवानुभवतीति षट्चत्वारिंशत्तमश्लोके इति भावः] सुरपत्तनशैलार्कतारानिकरसुन्दरम् | जरामरणवैक्लव्यव्याधिसंकटकोटरम् || ४७ || जगद्भ्रममेव विशेषणैः प्रपञ्चयति - सुरेत्यादिना | इन्द्रादयः सुराः अमरावत्यादीनि तत्पत्तनानि मेर्वादयस्तदाधारशैलास्तान्प्रदक्षिणीकुर्वाणा अर्कतारानिकरास्तैः सुन्दरम् | कोटरमत्र मर्त्यलोकादिच्छिद्रम् || ४७ || स्वभावाभावसंरम्भस्थूलसूक्ष्मचराचरम् | साब्ध्यद्र्युर्वीनदीशाहोरात्रिकल्पक्षणक्षयम् || ४८ || स्वानुकूलानां भावः संपादनं प्रतिकूलानां चाभावो निवारणं तद्विषये संरम्भेणोद्योगेन युक्ताः स्थूलाः सूक्ष्माश्चरा अचराश्च प्राणिनो यत्र | अचराणामपि लतानां सालम्बनदेशे प्रसरस्य निरालम्बनप्रदेशपरिहारस्य च दर्शनादचरसाधारण्योक्तिः | अब्धयश्च अद्रयश्च उर्वी च नद्यश्च ईशास्तत्तदधिपतयश्च तैः सहिता अहोरात्र्यादयो यत्र || ४८ || अहं जातोऽमुना पित्रा किलात्रेत्याप्तनिश्चयम् | इयं माता धनमिदं ममेत्युदितवासनम् || ४९ || सुकृतं दुष्कृतं चेदं ममेति कृतकल्पनम् | बालोऽभूवमहं त्वद्य युवेति विलसद्धृदि || ५० || हृदि विलसत् स्फुरन्तं जगद्भ्रमं पश्यतीति पूर्वत्र संबन्धः | पुंलिङ्गविशेषणस्य क्लीबता पदसंस्कारपक्षाश्रयणात् || ५० || प्रत्येकमेवमुदितः संसारवनखण्डकः | ताराकुसुमितो नीलमेघचञ्चलपल्लवः || ५१ || इदानीं तमेव प्रत्येकं जीवसंसारं वनखण्डत्वेन वर्णयति - प्रत्येकमित्यादिना | ताराभिः कुसुमितः संजातपुष्पः || ५१ || चरन्नरमृगानीकः सुरासुरविहंगमः | आलोककौसुमरजाः श्यामागहनकुञ्जकः || ५२ || नरा एव मृगानीकानि यत्र | आलोकप्रधानान्यहानि कौसुमरजांसि यत्र | श्यामा रात्रय एव गहना दुष्प्रवेशाः कुञ्जका लतागृहाणि यत्र || ५२ || अब्धिपुष्करिणीपूर्णो मेवाद्यचललोष्टकः | चित्तपुष्करबीजान्तर्निलीनानुभवाङ्कुरः || ५३ || निलीनाः संस्कारात्मना स्थिता अनुभवाश्चित्तवृत्तयोऽङ्कुरा यत्र || ५३ || यत्रैष म्रियते जीवस्तत्रैवं पश्यति क्षणात् | प्रत्येकमुदितेष्वेवं जगत्खण्डेषु भूरिशः || ५४ || पश्यति वर्णितवनखण्डकमिति शेषः || ५४ || कोटयो ब्रह्मरुद्रेन्द्रमरुद्विष्णुविवस्वताम् | गिर्यब्धिमण्डलद्वीपलोकान्तरदृशां गताः || ५५ || मरुतो देवाः | लोकान्तान्यान्तराणि ब्रह्माण्डगर्भस्थानि पश्यन्तीति तद्दृशस्तेषां ब्रह्मादीनां कोटयो गताः || ५५ || याता यास्यन्ति यान्त्येता दृष्टयो नष्टरूपिणीः | या ब्रह्मण्युपबृंहाढ्यास्ताः के गणयितुं क्षमाः || ५६ || नष्टरूपिणीः असत्स्वरूपाः | छान्दसो विभक्तिव्यत्ययः | उपबृहणमुपबृंह आविर्भावस्तदाढ्याः | घञर्थे कः || ५६ || एवं कुड्यमयं विश्वं नास्त्येव मननादृते | मनने चलमेवान्तस्तदिदानीं विचारय || ५७ || एवं प्रपञ्चस्यारोपक्रममुपवर्ण्यापवादं क्रमेणाह - एवमित्यादिना | कुड्यमयं भित्तिवत्स्थूलं विश्वं मननान्मनःसंकल्पलक्षणात्सूक्ष्मादृते तद्व्यतिरेकेण नास्त्येव | त्रीणि रूपाणीत्येव सत्यम् इत्यादिश्रुतेः | ननु स्थूलं स्थिरस्वभावं मनस्तु चलस्वभावं तत्कथमस्य मनोमात्रता तत्राह - मनने इति | यद्यपि बहिर्विश्वं स्थिरं भाति तथापि मननेन मनसा यथेच्छं विभाव्यमानं चलमस्थिरस्वभावमेवानुभूयते | भ्राम्यति मनसि भ्रमदिव प्रसन्ने प्रसन्नमिव मलिने मलिनमिव मनोरथादौ उत्पाद्यान्यत्रारोप्यमाणमिव सर्वैरनुभूयते तदिदानीं त्वं स्वानुभवेनैव विचारयेत्यर्थः || ५७ || प्. २२९) यदेव तच्चिदाकाशं तदेव मननं स्मृतम् | यदेव च चिदाकाशं तदेव परमं पदम् || ५८ || मनसश्च विमर्शे तत्साक्षिमात्रत्वं साक्षिणश्च ब्रह्ममात्रतेति पूर्णैकचिन्मात्रपरिशेष इत्याह - यदेवेति | मननं यच्चिदाकाशं तदेवेति संबन्धः || ५८ || यदेवाम्बु स आवर्तो नत्वस्यावर्त वस्तु सन् | द्रष्टैवास्ते दृश्यमिव दृश्यं नत्वस्ति वस्तु सत् || ५९ || उक्तमर्थं दृष्टान्तेनोपपादयति - यदेवेति | आवर्त इति विभक्तिलोपश्छान्दसः || ५९ || चिद्व्योम्नो भूतनभसि कचनं यन्मणेरिव | तज्जगद्भाविनानासत्तत्त्वं श्वभ्रमिवाम्बरे || ६० || अभूते असत्ये अनादौ वा मायानभसि सूक्ष्मभूतकार्यचित्तनभसि वा कचनं जीवभावेन स्फुरणं यत्तदेव नामरूपात्मना भावि नानाभवनशीलं सज्जगदित्युच्यते | यथा ऐन्द्रजालिकमणेरम्बरे कचनं बहुविधगन्धर्वनगरच्छिद्रमिव भवति तच्चिद्व्योमैव तत्त्वं परमार्थ इत्यर्थः || ६० || मद्बुद्धार्थो जगच्छब्दो विद्यते परमामृतम् | त्वद्बुद्धार्थस्तु नास्त्येव त्वमहंशब्दकादपि [त्वमहंशब्दौ कायतीति विचारणीयोंऽशः] || ६१ || मद्बुद्धार्थोऽधिष्ठानसन्मात्रम् | त्वद्बुद्धार्थ आरोपितसत्ता | एवं त्वमहंशब्दौ कायति अभिलपति यः स त्वमहंशब्दकात् जगत्प्रमाता सोऽपि मद्बुद्धः साक्षिचिन्मात्रस्वभाव एवास्ति न त्वद्बुद्धजीवस्वभाव इत्यर्थः || ६१ || तस्माल्लीलासरस्वत्यावाकाशवपुषौ स्थिते | सर्वगे परमात्माच्छे सर्वत्राप्रतिघेऽनघे || ६२ || उक्तमुपसंहृत्य प्रस्तुते योजयति - तस्मादिति | आकाशवपुषौ सत्यसंकल्पचित्ताकाशमात्रशरीरे | अप्रतिघे सूक्ष्मतमेऽपि च्छिद्रे प्रवेशप्रतिघातरहिते || ६२ || यत्र यत्र सदा [महाव्योम्नि इति पाठः] व्योम्नि यथाकामं यथेप्सितम् | उदयं कुरुतस्तेन तद्गेहेऽस्ति गतिस्तयोः || ६३ || अप्राप्तप्राप्तीच्छा ईप्सा | प्राप्तोपभोगेच्छा काम इति भेदः | उदयमाविर्भावम् | तेन हेतुना | तद्गेहे विदूरथगृहे || ६३ || सर्वत्र संभवति चिद्गगनं तदत्र सद्वेदनं कलनमामननं [वलनं इति कतिपयपुस्तकेषु पठ्यते] विसारि | तच्चातिवाहिकमिहाहुरकुड्यमेव देहं कथं क इव तं वद किं रुणद्धि || ६४ || चिद्गगनं सर्वत्र संभवति | न प्रतिहन्यत इति यावत् | तदेव कलनं सत् आमननं मानसविषयावधारणपर्यन्तं विसारि बहिःप्रसरणस्वभावं सद्वेदनं यथार्थज्ञानं भवति | अकुड्यमस्थूलं सूक्ष्ममेवाहुः | को रुणद्धि किं निमित्तं कथं केन प्रकारेण वा | न कथंचिदपि तस्य रोधसंभावनेत्यर्थः || ६४ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे लीलोपाख्याने समरसमनन्तरसंस्मृत्यनुभववर्णनं नाम चत्वारिंशः सर्गः || ४० || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे समरसमनन्तरसंस्मृत्यनुभववर्णनं नाम चत्वारिंशः सर्गः || ४० || एकचत्वारिंशः सर्गः ४१ श्रीवसिष्ठ उवाच | तयोः प्रविष्टयोर्देव्योः पद्मसद्म बभूव तत् | चन्द्रद्वयोदयोद्योतधवलोदरसुन्दरम् || १ || प्रविष्टयोस्तयो राज्ञा सुप्तबुद्धेन पूजनम् | राज्ञोऽन्वयः स्मृतिर्ज्ञप्त्यात्मोपदेशश्च वर्ण्यते || १ || चन्द्रद्वयोदय इव उद्द्योतधवलेनोदरेण सुन्दरं शोभमानम् || १ || कोमलामलसौगन्ध्यमृदुमन्दारमारुतम् | तत्प्रभावेन निद्रालुनृपेतरनराङ्गनम् || २ || कोमलाः सुखस्पर्शा अमलसौगन्ध्या मृदवः सांकल्पिकमन्दारपुष्पमारुता यत्र | तयोर्देव्योः प्रभावेन कारणेन | संबन्धिशब्दस्य नित्यसापेक्षत्वेन सामर्थ्याविघातात्समासः || २ || सौभाग्यनन्दनोद्यानं विद्रुतव्याधिवेदनम् | सवसन्तं वनमिव फुल्लं प्रातरिवाम्बुजम् || ३ || सौभाग्येन नन्दनोद्यानमिव || ३ || तयोर्देहप्रभापूरैः शशिनिस्यन्दशीतलैः | आह्लादितोऽसौ बुबुधे राजोक्षित इवामृतैः || ४ || उक्षितः सिक्त इव || ४ || आसनद्वयविश्रान्तं स ददर्शाप्सरोद्वयम् | मेरुशृङ्गद्वये चन्द्रबिम्बद्वयमिवोदितम् || ५ || सांकल्पिके आसनद्वये विश्रान्तमुपविष्टम् | अप्सरोद्वयं दिव्यस्त्रीद्वयम् || ५ || निमेषमिव संचिन्त्य स विस्मितमना नृपः | उत्तस्थौ शयनाच्छेषादिव चक्रगदाधरः || ६ || निमेषमल्पकालं संचिन्त्यान्तर्विमृश्य | चिरं विमर्शे पूजादिविलम्बेनापराधापत्तेः | अत एवाल्पविमर्शस्यापि निगूहनद्योतनायेवकारः || ६ || परिसंयमितालम्बिमाल्यहाराधराम्बरः | पुष्पाहार इवोत्फुल्लं जग्राह कुसुमाञ्जलिम् || ७ || निद्राकाले व्यत्यस्तानि परितः संयमितानि स्वस्वोचितस्थानं प्रापितानि अत एव कण्ठाद्यालम्बीनि माल्यादीनि यस्य तथाविधः सन् | पुष्पाण्याहरतीति पुष्पाहारो भृत्य इव || ७ || प्. २३०) उपधानप्रदेशस्थात्स्वयं पटलकोटरात् | बद्धपद्मासनो भूमौ भूत्वोवाचेदमानतः || ८ || पटलं पुष्पकरण्डम् || ८ || जयतां जन्मदौस्थित्यदाहदोषशशिप्रभे | देव्यौ वाह्यान्तरतमोविद्रावणरविप्रभे || ९ || दौस्थित्यं दुःखजीवनम् | दाहस्त्रिविधसंतापः || ९ || तयोरुक्त्वेति तत्याज पादयोः कुसुमाञ्जलिम् | तीरद्रुमो विकसितः पद्मिन्योः पद्मयोरिव || १० || इत्युक्त्वा तयोः पादयोः कुसुमाञ्जलिं तत्याजेत्यन्वयः || १० || लीलायै भूपजन्माथ वक्तुं मन्त्रिणमीश्वरी | बोधयामास पार्श्वस्थं संकल्पेन सरस्वती || ११ || प्रबुद्धोप्सरसौ दृष्ट्वा प्रणम्य कुसुमाञ्जलिम् | तयोः पादेषु संत्यज्य विवेश पुरतो नतः || १२ || उवाच देवी हे राजन्कस्त्वं कस्य सुतः कदा | इह जात इति श्रुत्वा स मन्त्री वाक्यमब्रवीत् || १३ || इति प्रश्नं स मन्त्री श्रुत्वा || १३ || देव्यौ युष्मत्प्रसादोऽयं भवत्योरपि यत्पुरः | वक्तुं शक्नोमि तद्देव्यौ [तदिदं इति पाठः] श्रूयेतां जन्म मत्प्रभोः || १४ || आसीदिक्ष्वाकुवंशोत्थो राजा राजीवलोचनः | श्रीमान्कुन्दरथो नाम दोश्छायाच्छादितावनिः || १५ || दोश्छायया आच्छादितेव शत्रुदारिद्र्यादिसंतापनिवारणेन पालिता अवनिर्येन || १५ || तस्याभूदिन्दुवदनः पुत्रो भद्ररथाभिधः | तस्य विश्वरथः पुत्रस्तस्य पुत्रो बृहद्रथः || १६ || तस्य सिन्धुरथः पुत्रस्तस्य शैलरथः सुतः | तस्य कामरथः पुत्रस्तस्य पुत्रो महारथः || १७ || तस्य विष्णुरथः पुत्रस्तस्य पुत्रो नभोरथः | अयमस्म्त्प्रभुस्तस्य पुत्रः पूर्णामलाकृतिः || १८ || तस्य नभोरथस्य पुण्यसंभारैर्जातः || १८ || अमृतापूरितजनः क्षीरोदस्येव चन्द्रमाः | महद्भिः पुण्यसंभारैर्विदूरथ इति श्रुतः || १९ || अमृतसदृशैः स्नेहमाधुर्यौदार्यादिगुणैरापूरिता जना येन | पुण्यसंभारैरित्येतद्देहलीदीपकन्यायेन मात्रापि संबध्यते || १९ || जातो मातुः सुमित्राया गौर्या गुह इवापरः | पितास्य दशवर्षस्य दत्त्वा राज्यं वनं गतः || २० || अस्य दशवर्षस्येति षष्ठी चानादरे इति भावलक्षणे षष्ठी वैराग्यातिशयाद्राज्ये पुत्रे चानादरद्योतनार्था || २० || पालयत्येष भूपीठं ततः प्रभृति धर्मतः | भवत्यावद्यसंप्राप्ते फलिते सुकृतद्रुमे || २१ || अस्माकं सुकृतद्रुमे फलिते सति अद्य संप्राप्ते || २१ || देव्यौ दीर्घतपःक्लेशशतैर्दुष्प्रापदर्शने | इत्ययं वसुधाधीशो विदूरथ इति श्रुतः || २२ || अद्य युष्मत्प्रसादेन परां पावनतां गतः | इत्युक्त्वा संस्थिते तूष्णीं मन्त्रिण्यवनिपे तथा || २३ || कृताञ्जलौ नतमुखे बद्धपद्मासनेऽवनौ | राजन्स्मर विवेकेन पूर्वजातिमिति स्वयम् || २४ || इति वदन्ती सरस्वती मूर्ध्नि पस्पर्शेति परेणान्वयः || २४ || वदन्ती मूर्ध्नि पस्पर्श तं करेण सरस्वती | अथ हार्दं तमो मायापद्मस्य क्षयमाययौ || २५ || हार्दं हृदयाकाशस्थजीवावरकम् || २५ || सुविकासं च हृदयं ज्ञप्तिस्पर्शोदयेऽभवत् | सस्मार पूर्ववृत्तान्तमन्तः स्फुरदिव स्थितम् || २६ || हृदयं मनः सुविकासं सान्तःप्रकाशम् || २६ || त्यक्तदेहैकराज्यत्वं लीलाविलसितान्वितम् | ज्ञात्वा प्रज्ञप्तिवृत्तान्तं लीलायास्तु विजृम्भितम् || २७ || एक एव राजा यस्य भुवनस्य तदेकराट् तद्भाव ऐकराज्यं देहश्च ऐकराज्यं च देहैकराज्ये त्यक्ते देहैकराज्ये येन स त्यक्तदेहैकराज्यस्तस्य भावस्त्यक्तदेहैकराज्यत्वम् | ज्ञप्त्यनुग्रहबलादननुभूतमपि ज्ञातवानित्याह - ज्ञात्वेति || २७ || आत्मोदन्तं बभूवासावुह्यमान इवार्णवे | उवाचात्मनि संसारे बत मायेयमातता || २८ || आत्मोदन्तं स्वपूर्ववृत्तान्तम् | आत्मनि स्वमनसि || २८ || परिज्ञाता प्रसादेन देव्योरिह मयाधुना | राजोवाच | हे देव्यौ किमिदं नाम दिनमेकं मृतस्य मे || २९ || गतमद्येह जातानि वयो वर्षाणि सप्ततिः | स्मराम्यनेककार्याणि स्मरामि प्रपितामहम् || ३० || स्मरामि बाल्यं तारुण्यं मित्रं बन्धुपरिच्छदम् | ज्ञप्तिरुवाच | राजन्मृतिमहामोहमूर्च्छायाः समनन्तरम् || ३१ || परिच्छदं परीवारम् | यत्स्मरामि तदिदं किमिति तत्तत्त्वजिज्ञासया प्रश्नः | स्वरूपत्वमधिष्ठानचिन्मात्रमेव सर्वप्रपञ्चतत्त्वमितरत्तु मायामात्रमिति तत्त्वमुपदेष्टुं प्रथमं विप्रकृष्टदेशकालस्थितं लोकान्तरागमनभ्रमं वारयन्ती ज्ञप्तिरुवाच - राजन्नित्यादिना || ३१ || तस्मिंल्लोकान्तरेऽतीते तस्मिन्नेव मुहूर्तके | तस्मिन्नेव गृहे चास्मिन्नेव व्योम्न्यपि सद्मनि || ३२ || अस्मिन्नेव त्वत्सद्मनि तदधिष्ठानचिद्व्योमनि अतीते मायावरणतिरोहिते गिरिग्रामकविप्रस्य गृहेऽन्तःस्थिते तस्मिन्पाद्मे लोकान्तरे तस्मिन्नेव राजगृहे तत्रापि प्रधानगृहस्यान्तर्व्योमन्येवायं ब्रह्माण्डमण्डपः किलास्तीति प्राक्तनकथाक्रमानुरोधादन्वयः || ३२ || अयं तस्य गृहस्यान्तर्व्योमन्येव किल स्थिते | गिरिग्रामकविप्रस्य गृहेऽन्तर्भूप मण्डपः || ३३ || तस्यान्तरेऽयमाभाति प्रत्येकं च जगद्गृहम् | किल ब्राह्मणगेहान्तर्जीवस्ते मदुपास्थितः || ३४ || तस्य ब्रह्माण्डमण्डपस्यान्तरे अयं परिदृश्यमानस्त्वदीयजन्मादिराभाति आपाततः प्रथते तर्हि किं तदेव ब्राह्मणजगदित्थं भाति नेत्याह - प्रत्येकमिति | भिन्नभिन्नमित्यर्थः | प्रत्येकतामेवोपपादयन्त्याह - किलेत्यादिना | मां उपास्थितो मदुपास्थितः मद्भक्त इत्यर्थः || ३४ || प्. २३१) तत्रैव तस्य भूपीठं तस्मिंश्च किल मण्डपे | तस्यैव च गृहस्यान्तरिदं संसारमण्डलम् || ३५ || इदं संनिहितं पाद्मसंसारमण्डलम् || ३५ || तत्रैवेदं तव गृहं स्थितमारम्भमन्थरम् | तत्रैव चेतसि तव निर्मलाकाशनिर्मले || ३६ || तत्र पाद्मगृहमण्डपे एव | प्रपञ्चत्रयस्यापि चित्तविकारमात्रत्वमित्याशयेनाह - तत्रैव चेतसीति | नैर्मल्योक्तिश्चित्प्रतिबिम्बोपपत्त्यर्था || ३६ || प्रतिभामागतम्दं व्यवहारभ्रमाततम् | यथेदं नाम मे जन्म तथेक्ष्वाकुकुलं मम || ३७ || व्यवहारभ्रमाततत्वमनुभूतमुल्लिख्य प्रपञ्चयति - यथेत्यादिना | नामेति किलार्थे || ३७ || एवंनामान एते मे पुराभूवन्पितामहाः | जातोऽहमभवं बालो दशवर्षस्य मे पिता || ३८ || परिव्राड्विपिनं यात इह राज्येऽभिषिच्य माम् | ततो दिग्विजयं कृत्वा कृत्वा राज्यमकण्टकम् || ३९ || अमीभिर्मन्त्रिभिः पौरैः पालयामि वसुन्धराम् | यज्ञक्रियाक्रमवतो धर्मे पालयतः प्रजाः || ४० || मन्त्रिभिः पौरैः सहेति शेषः || ४० || वयसः समतीतानि मम वर्षाणि सप्ततिः | इदं परबलं प्राप्तं मम दारुणविग्रहः || ४१ || दारुणो विग्रहः संग्रामः प्राप्त इति विपरिणामेनानुषज्यते || ४१ || युद्धं कृत्वेदमायातो गृहमस्मिन्यथास्थितम् | इमे देव्यौ गृहे प्राप्ते ममैते पूजयाम्यहम् || ४२ || अस्मिन्गृहे यथापूर्वं स्थितं मयेति शेषः || ४२ || पूजिता हि प्रयच्छन्ति देवताः स्वसमीहितम् | ममेयमेतयोरेका ज्ञानं जातिस्मृतिप्रदम् || ४३ || एतयोर्देव्योर्मध्ये एका || ४३ || इह दत्तवती देवी भाब्जस्येव विकासनम् | इदानीं कृतकृत्योऽस्मि जातोऽस्मि गतसंशयः || ४४ || शाम्यामि परिनिर्वामि सुखमासे च केवलम् | इतीयमातता भ्रान्तिर्भवतो भूरिसंभ्रमा || ४५ || सर्वदुःखोपशमाच्छाम्यामि | निरतिशयसुखसमृद्ध्या परिनिर्वामि | केवलं एकरसं सुखमेवाहं भूत्वा आसे तिष्ठामि || ४५ || नानाचारविहाराढ्या सलोकान्तरसंचरा | यस्मिन्नेव मुहूर्ते त्वं मृतिमभ्यागतः पुरा || ४६ || लोकान्तरसंचराः सिद्धा अस्मदादयस्तत्सहिता || ४६ || तदैव प्रतिभैषा ते स्वयमेवोदिता हृदि | एकामावर्तचलनां त्यक्त्वा दत्ते यथाऽपराम् [यथा पुरा इति पाठः] || ४७ || क्षिप्रमेव नदीवाहो वित्प्रवाहस्तथैव च | आवर्तान्तरसंमिश्रो [संसिद्धो इति पाठः] यथावर्तः प्रवर्तते || ४८ || वेत्तीति विच्चितं तत्प्रवाहः || ४८ || कदाचिदेवं सर्गश्रीर्मिश्राऽमिश्रा च वर्धते | तस्मिन्म्र्तिमुहूर्ते ते प्रतिभानमुपागतम् || ४९ || मिश्रा जीवान्तरसर्गसंवलिता जाग्रति | अमिश्रा स्वप्ने | चिद्भानोस्ते प्रतिभानमुपागतमिति संबन्धः || ४९ || एतज्जालमसद्रूपं चिद्भानोः समुपस्थितम् | यथा स्वप्नमुहूर्तेऽन्तः संवत्सरशतभ्रमः || ५० || यथा संकल्पनिर्माणे जीवनं मरणं पुनः | यथा गन्धर्वनगरे कुड्यमण्डनवेदनम् || ५१ || कुड्यानां तन्मण्डनचित्रादीनां च वेदनं दर्शनम् || ५१ || यथा नौयानसंरम्भे वृक्षपर्वतवेपनम् | यथा स्वधातुसंक्षोभे पूर्वपर्वतनर्तनम् || ५२ || वेपनं कम्पनम् | स्वस्य धातूनां वातपित्तश्लेष्मणां संक्षोभे सन्निपाते अपूर्वं पर्वतनर्तनम् || ५२ || यथा समञ्जसं स्वप्ने स्वशिरःप्रविकर्तनम् | मिथैवैवमियं प्रौढा भ्रान्तिराततरूपिणी || ५३ || असमञ्जसं व्यवहारे अननुरूपं मथ्यैव तथएति शेषः || ५३ || वस्तुतस्तु न जातोऽसि न मृतोऽसि कदाचन | शुद्धविज्ञानरूपस्त्वं शान्त आत्मनि तिष्ठसि || ५४ || तर्हि कः परमार्थसत्यस्तत्राह - वस्तुतस्त्विति || ५४ || पश्यसीवैतदखिलं न च पश्यसि किंचन | सर्वात्मकतया नित्यं प्रकचस्यात्मनात्मनि || ५५ || दृश्यमिथ्यात्वे तत्संवलितचिदाभासलक्षणं तद्दर्शनमपि मिथ्यैवेति निर्विषयचिन्मात्रपरिशेष इत्याशयेनाह - पश्यसीवेति | प्रकचसि प्रदीप्यसे || ५५ || महामणिरिवोदार आलोक इव भास्वरः | वस्तुतस्तु न भूपीठमिदं न च भवानयम् || ५६ || आलोकः सूर्यादिः | भवान् अयं विदूरथदेहः || ५६ || न चेमे गिरयो ग्रामा न चैते न च वै वयम् | गिरिग्रामकविप्रस्य मण्डपाकाशके किल || ५७ || एते तव परिजनाः शत्रवश्च | अल्पतरे महत्तरस्यासंमाननमेव मिथ्यात्वकारणमित्याशयेनाह - गिरिग्रामकेत्यादिना || ५७ || तल्लीलाभर्तृदाराढ्यं जगदाभाति भास्वरम् | तत्र लीलाराजधानी मण्डपामण्डिताकृतिः || ५८ || मण्डपैः शालाभिरासमन्तान्मण्डिता आकृतिः संस्थानं यस्याः || ५८ || भाति तस्योदरे व्योम्नि तदेवं विदितं जगत् | तस्मिञ्जगति गेहेऽन्तर्यस्मिन्वयमिह स्थिताः || ५९ || यस्मिन्गृहे इह सांप्रतं वयं स्थितास्तद्भातीत्यर्थः || ५९ || एवं तेषां मण्डपानां व्योमाव्योमैव निर्मलम् | तथैव मण्डपेष्वस्ति न मही न च पत्तनम् || ६० || तेषां मण्डपानां यद्व्योम तदव्योम आकाशादिशून्यं ब्रह्मैव || ६० || प्. २३२) न वनानि न शैलौघा न मेघसरिदर्णवाः | केवलं तत्र निःशून्ये विहरन्ति गृहे जनाः || ६१ || निःशून्ये चिन्मात्रपूर्णे तत्र ब्रह्मणि मिथ्यागृहे मिथ्याजना विहरन्तीत्यर्थः || ६१ || न पश्यन्ति जना नापि पार्थिवा न च भूधराः | विदूरथ उवाच | एवं चेत्तत्कथं देवि ममेहानुचरा इमे || ६२ || जना न पश्यन्तीत्युक्त्यां मन्त्रिभृत्यादीनां स्वप्नदृष्टसामाजिकजनसाम्यं प्राप्तं तदसंभावयन् राजा पृच्छति - एवं चेदित्यादिना || ६२ || संपन्ना आत्मना सन्ति ते किमात्मनि नोऽथवा | जगत्स्वप्नार्थवद्भाति तस्य स्वप्ननरादयः || ६३ || आत्मना जीवेन संपन्ना युक्ताः सन्ति | अहमिवात्मनि सत्स्वभावे | स्वशङ्काबीजमाह - जगदिति | तस्य ममेत्यर्थः || ६३ || कथमात्मनि सत्याः स्युर्न सत्या वेति मे वद | श्रीसरस्वत्युवाच | राजन्विदितवेद्येषु शुद्धबोधैकरूपिषु || ६४ || कथं सत्याः स्युस्त्वदुक्तकल्पे इत्यर्थः | अज्ञदृशा जीवभावेन तेषां यदि सत्यतां पृच्छसि तर्हि सा तवापि नास्ति | तत्त्वदृशा अधिष्ठानचिन्मात्रभावेन चेत्तेषामपि सास्त्येवेत्याशयेन देव्युत्तरमाह - राजन्नित्यादिना || ६४ || न किंचिदेतत्सद्रूपंचिद्व्योमात्मसु जागतम् | शुद्धबोधात्मनो भाति कृतो नाम जगद्भ्रमः || ६५ || रज्ज्वां सर्पभ्रमे शान्ते पुनः सर्पभ्रमः कुतः | असद्भावे परिज्ञाए कुतः सत्ता जगद्भ्रमे || ६६ || परिज्ञाते मृगजले पुनर्जलमतिः कुतः | स्वप्नकाले परिज्ञाते स्वे स्वप्नमरणं कुतः | स्वस्वप्ने स्वप्नमृतिभीरमृतस्यैव जायते || ६७ || स्वप्नकाले स्वे जीवस्वरूपे प्रबोधेन परिज्ञाते सति स्वप्नमरणं कुतः कथं सत्यमित्यर्थः || ६७ || बुद्धस्य शुद्धस्य शरन्नभःश्रीः स्वच्छावदातातितताशयस्य | अहं जगच्चेति कुशब्दकार्थो न वस्तुतः सोऽङ्ग हि वाचिकं तत् || ६८ || बोधेनाज्ञानमेधावरणापाये शरन्नभःश्रीरिव स्वच्छो निर्मलः स्फुरदात्मभाभिरवदातो धवलीकृतस्तदैकरस्यापत्त्या अतिततः अतिविस्तारं पूर्णतालक्षणं प्राप्त आशयो यस्य बुद्धस्य तत्त्वविदः सः अज्ञदृशा प्रसिद्धः अहमिति जगदिति च कुत्सितस्याल्पस्यं शब्दस्यार्थो वस्तुतो नास्त्येव | अङ्गेति कोमलामन्त्रणे | हि यस्मात्तद्वाचिकं वाचारम्भणमात्रम् | वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम् इत्यादिश्रुतेरिति भावः || ६८ || इत्युक्तवत्यथ मुनौ दिवसो जगाम सायंतनाय विधयेऽस्तमिनो जगाम | स्नातुं सभा कृतनमस्करणा जगाम श्यामाक्षये रविकरैश्च सहाजगाम || ६९ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे लीलोपाख्याने भ्रान्तिविचारवर्णनं नामैकचत्वारिंशः सर्गः || ४१ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे भ्रान्तिविचारवर्णनं नामैकचत्वारिंशः सर्गः || ४१ || पञ्चमदिनम् | द्विचत्वारिंशः सर्गः ४२ श्रीवसिष्ठ उवाच | यस्त्वबुद्धमतिर्मूढो रूढो न वितते पदे | वज्रसारमिदं तस्य जगदस्त्यसदेव सत् || १ || सत्यत्वं जगतोऽज्ञाने स्वप्नस्यापि प्रपञ्चयते | अत्रान्ते तु कथाशेषो वरदानान्त ईर्यते || १ || विद्वद्दृशा जगतो मिथ्यात्वं विस्तरेणोपवर्ण्य तद्दृढीकारायाज्ञदृशा तस्यात्यन्तदृढसत्यतामाह - यस्त्विति | रूढो दृढव्युत्पन्नो न वज्रस्य सारो दार्ढ्यमिव सारो यस्य तत्तथाविधं परमार्थसदस्ति | लोके अर्थक्रियाकारित्वस्यैव सत्यत्वेन प्रसिद्धेरिति भावः || १ || यथा बालस्य वेतालो मृतिपर्यन्तदुःखदः | असदेव सदाकारं तथा मूढमतेर्जगत् || २ || असतोऽज्ञं प्रत्यर्थक्रियाकारित्वलक्षणं सत्त्वं(त्यं?) क्व दृष्टं तत्राह - यथेति || २ || ताप एव यथा वारि मृगाणां भ्रमकारणम् | असत्यमेव सत्याभं तथा मूढमतेर्जगत् || ३ || यथा तापो मरुभूम्यातप एवाज्ञमृगदृशा सत्यवारि सत् मृगाणां भ्रमकारणम् || ३ || यथा स्वप्नमृतिर्जन्तोरसत्या सत्यरूपिणी | अर्थक्रियाकरी भाति तथा मूढधियां जगत् || ४ || शोकरोदनाद्यर्थक्रियाकरि || ४ || अव्युत्पन्नस्य कनके कानके कटके यथा | कटकज्ञप्तिरेवास्ति न मनागपि हेमधीः || ५ || कनके अव्युत्पन्नस्य अनुगतकनकस्वरूपानभिज्ञस्येत्यर्थः || ५ || तथाऽज्ञस्य पुरागारनगनागेन्द्रभासुरा [भास्वरा इति पाठः] | इयं दृश्यदृगेवास्ति नत्वन्या परमार्थदृक् || ६ || अगाराणि गृहाः नगाः पर्वता वृक्षाश्च नागेन्द्रा गजाः सर्पा वा तैर्भासुरा परमार्थदृक् सर्वानुगतैकसद्ब्रह्मदृष्टिः || ६ || यथा नभसि मुक्तालीपिच्छकेशोण्ड्रकादयः | असत्याः सत्यतां याता भात्येवं दुर्दृशां जगत् || ७ || मुक्ताली मौक्तिकमाला | पिच्छानिं वर्हाणि || ७ || प्. २३३) दीर्घस्वनमिदं विश्वं विद्ध्यहन्तादिसंयुतम् | अत्रान्ये स्वप्नपुरुषा यथा सत्यास्तथा शृणु || ८ || अन्ये स्वातिरिक्तसत्यजनाः स्वप्नपुरुषाः स्वप्नदृष्टपुरुषान्तरप्रायाः | तर्हि ते कथं शास्त्रीययाजनप्रतिग्रहोपदेशाद्यर्थक्रियाक्षमाः सत्या इति शास्त्रेऽभ्युपगतास्तत्राह - यथा सत्यास्तथा शृण्विति || ८ || अस्ति सर्वगतं शान्तं परमार्थघनं शुचि | अचेत्यचिन्मात्रवपुः परमाकाशमाततम् || ९ || सर्वगतं सर्वाधिष्ठानम् | परमार्थघनं निरतिशयसत्यम् | प्राप्त वै सत्यं तेषामेष सत्यम् इत्यादिश्रुतेः || ९ || तत्सर्वगं सर्वशक्ति सर्वं सर्वात्मकं स्वयम् | यत्र यत्र यथोदेति तथास्ते तत्र तत्र वै || १० || तस्य मायाशबलं रूपमाह - तत्सर्वगमिति | मायया यत्र यत्र यथा यथा यादृशार्थक्रियायोग्यमाविर्भवति तत्र तत्र तथा आस्ते || १० || तेन स्वप्नपुरे द्रष्टा यान्वेत्ति पुरवासिनः | नरानिति नरा एव क्षणात्तस्य भवन्ति ते || ११ || तथा जागरे शास्त्रीयार्थक्रियायोग्यं तदाविर्भूतं न स्वप्ने इत्यवान्तरविशेषेऽपि न सद्रूपे विशेष इत्याशयेनाह - तेनेति || ११ || यद्द्रष्टुश्चित्स्वरूपं तत्स्वप्नाकाशान्तरस्थितम् | स्वप्नाकाशचित्ताभं हि नरानामेति भावितम् || १२ || स्वप्नकाशो विकाशः सूक्ष्मतमनाडीच्छिद्रं तदन्तःस्थितं स्वप्नाध्यस्तविपुलाकाशपरिवर्तिचित्ताभं चित्तवासनानुसारेण विवर्तमानमित्यर्थः || १२ || वेदितृत्वैक्यवशतो नरतेवावबुध्यते | आत्मन्यतश्चिद्बलेन द्वयोरप्येति सत्यता || १३ || स्वप्नजागरयोर्द्वयोरपि आत्मनि नरताद्यवबोधे अध्यस्ते सत्यतावबोधे चान्योन्यतादात्म्यसंसर्गाध्यास एव हेतुरित्याह - वेदितृत्वेति | वेदितुर्भावो वेदितृत्वं सत्यस्वप्रकाशापरोक्षचैतन्यं तदैक्यं तत्तादात्म्याध्यासस्तद्वशः संसर्गाध्यासस्तस्मादित्यर्थः | द्वयोः स्वप्नजागरयोरध्यस्ततद्धर्मयोर्वा सत्यता एति प्रथते || १३ || श्रीराम उवाच | स्वप्नेऽपि स्वप्नपुरुषा न सत्याः स्युर्मुने यदि | वद तत्को भवेद्दोषो मायामात्रशरीरिणि || १४ || तदेवं स्वप्नजाग्रद्दृश्यपदार्थानां मिथुनीभूतमायातदधिष्ठानलक्षणसत्यानृतोभयशरीरतोक्ता | तत्र रामः स्वप्नस्यानृतमायामात्रशरीरत्वमस्तु किं सत्यांशानुप्रवेशेनेति शङ्कते - स्वप्ने इति | यदि जाग्रत्पुरुषा अधिष्ठानसत्तया सत्या न स्युस्तर्हि व्यवहारविसंवादः कर्मशास्त्राप्रामाण्यं च दोषः स्यादिति तेषां तथात्वमस्तु | यदि सत्यासंवलितमायामात्रशरीरिणि [सत्याः संवलित इति पाठः] स्वप्नेऽपि कल्पिताः स्वप्नपुरुषास्तथा सत्या न स्युस्तदा को दोषः | मायामात्रं तु कार्त्स्न्येनानभिव्यक्तस्वरूपत्वात् इति भगवत व्यासेन स्वप्नस्य मायामात्रत्वोक्तेः | तथाच कथं स्वजगतः स्वप्नसाम्यमिति भावः || १४ || श्रीवसिष्ठ उवाच | स्वप्ने न पुरवास्तव्या वस्तुतः सत्यरूपिणः | प्रमाणमत्र शृणु मे प्रत्यक्षं नाम नेतरत् || १५ || स्वाप्नार्था ब्रह्मवद्वस्तुतः सत्या न भवन्तीत्येतावदेव शक्यं वक्तुं न निरधिष्ठानत्वादधिष्ठानसत्तयापि सत्या न भवन्तीति | प्रत्यक्षप्रमाणविरोधादित्याशयेन वसिष्ठ उवाच - स्वप्ने इति | नेतरदिति प्रमाणान्तरस्यानादरार्थमुक्तं न प्रतिषेधार्थम् | नह्यत्यन्तासतः प्रत्यक्षं नामोपपद्यते वन्ध्यापुत्रादावदर्शनादित्याशयः || १५ || सर्गादावात्मभूर्भाति स्वप्नाभानुभवात्मकः | तत्संकल्पकलं [कलाविश्वं इति पाठः] विश्वमेवं स्वप्नाभमेव तत् || १६ || किंच स्वप्नस्यात्यन्तासत्त्वे जाग्रत्प्रपञ्चस्यापि तद्दुर्वारम् तस्यापि हैरण्यगर्भस्वप्नरूपत्वादित्याशयेनाह - सर्गादाविति || १६ || एवं विश्वमिदं स्वप्नस्तत्र सत्यं भवान्मम | यथैव त्वं तथैवान्ये स्वप्ने स्वप्नवरा नृणाम् || १७ || तथाच जगतः स्वप्नसाम्यं प्रागुक्तसत्यता च सिद्धेत्याह - एवमिति | तत्र स्वप्ने भवान्मम सत्यं त्वत्सत्यतायास्त्वया अपलपितुमशक्यत्वात् | यथैव त्वं तथैवान्येऽपि त्वद्दृशा मद्दृशा च सत्याः | एवमन्येषामपि नृणां स्वस्वानुभवानुसारात्स्वप्नसत्यता सिद्धेत्यर्थः || १७ || स्वप्ने नगरवास्तव्याः सत्या न स्युरिमे यदि | तदिहापि तदाकारे न सत्यं मे मनागपि || १८ || उक्तमेवार्थं पुनः स्पष्टमाह - स्वप्ने इत्यादिना | नगरस्य वास्तुनि वेश्मभुवि भवा नगरवास्तव्याः नगरे वसन्तीति वा नगरवास्तव्याः | वसेस्तव्यत्कर्तरि णिच्च इति वचनात् || १८ || यथाहं तव सत्यात्मा सत्यं सर्वं भवेन्मम | स्वप्नोपलम्भे संसारे मिथः सिद्ध्यै प्रमेदृशी || १९ || संसारे विपुले स्वप्ने यथा सत्यमहं तव | यथा त्वमपि मे सत्यं सर्वं स्वप्नेष्विति क्रमः || २० || श्रीराम उवाच | स्वप्नद्रष्टरि निर्निद्रे तद्द्रष्टुः स्वप्नपत्तनम् | सद्रूपत्वात्तथैवास्ते ममेति भगवन्मतिः || २१ || एवं चेत्तर्हि स्वप्नद्रष्टुर्जागरणे जातेऽपि स्वप्नप्रपञ्चस्य जाग्रत्प्रपञ्चवदवस्थानं स्यादिति रामः शङ्कते - स्वप्नेति | इति मतिर्मम त्वद्वचनात्संपन्नेति शेषः || २१ || श्रीवसिष्ठ उवाच | एवमेतत्तथैवास्ते सत्यत्वात्स्वप्नपत्तनम् | स्वप्नद्रष्टरि निर्निद्रेऽप्याकाशविशदाकृति || २२ || इष्टापत्त्या वसिष्ठः परिहरति - एवमेतदिति | आकाशविशदाकृति अधिष्ठानसन्मात्रस्वभावं सत्यमेवेत्यर्थः || २२ || एतदास्तामिदं तावद्यज्जाग्रदिव मन्यसे | विद्धि तत्स्वप्नमेवान्तर्देशकालाद्यपूरकम् || २३ || एवं तर्हि जाग्रदर्थवत्स्वप्नस्यापि स्वप्नान्तरे व्यवहारसंवादः स्यादिति रामस्य विवक्षामालक्ष्य देशान्तरकालान्तराननुवृत्तिकृतोऽसंवादो जाग्रत्पदार्थेष्वपि बहुष्वस्ति | पृथिव्याकाशनामजात्यादिकतिपयपदार्थानुवृत्तिसंवादः स्वप्नेऽप्यस्तीति न विशेष उपपादयितुं शक्य इत्याशयेन प्रौढिमादर्शयन्नाह - एतदास्तामिति | अथवा यदि स्वाप्नार्थाः सत्यास्तर्हि जागरेऽप्यनुवर्तेरन्निति रामस्याशङ्कामालाक्ष्याह वसिष्ठः - एतदिति | स्वाप्नस्य जाग्रद्बाह्यदेशकालाद्यननुवृत्त्या यद्यलीकत्वंमन्यसे तर्हि यज्जाग्रदिति मन्यसे तदपि अन्तः स्वाप्नदेशकालाद्यपूरकमिति तुल्यमिति द्वयोः स्वप्नतैवेत्यर्थः || २३ || प्. २३४) एवं सर्वमिदं भाति न सत्यं सत्यवस्थितम् | रञ्जयत्यपि मिथ्यैव स्वप्नस्त्रीसुरतोपमम् || २४ || एवमधिष्ठानसत्तया सत्यत्वेऽपि सर्वदेशकालाद्यपूरकत्वान्न स्वतस्तथेति मिथ्यात्वमुभयोः सममित्याह - एवमिति | रञ्जयति स्वासक्त्या मोहयति || २४ || सर्वत्र विद्यते सर्वं देहस्यान्तर्बहिस्तथा | यत्तु वेत्ति यथा संवित्तत्तथा स्वैव पश्यति || २५ || संविदस्तु सर्वदेशकालादिपूरकत्वात्सत्यत्वं सर्वत्र मायाशक्त्या सर्वभावेन स्फुरणसामर्थ्यं चेत्याह - सर्वत्रेति | स्वैव स्वयमेव || २५ || यत्कोशे विद्यते द्रव्यं तद्द्रष्ट्रा लभ्यते यथा | तथास्ति सर्वं चिद्व्योम्नि चेत्यते तत्त्वनेन वै || २६ || कोशे धनागारे | द्रव्यं धनम् | अनेन चिद्व्योम्ना || २६ || अनन्तरमुवाचेदं देवी ज्ञप्तिर्विदूरथम् | कृत्वा बोधामृतासेकैर्विवेकाङ्कुरसुन्दरम् || २७ || एवमुत्कथं रामं समाधाय प्रस्तुतकथामालम्ब्याह - अनन्तरमिति || २७ || एतदेव मया राजंल्लीलार्थमुपवर्णितम् | स्वस्ति तेऽस्तु गमिष्यावो दृष्टा दृष्टान्तदृष्टयः || २८ || एतत्प्रागुक्तं तत्त्वम् | लीलार्थं लीलाप्रीत्यर्थम् | स्वस्ति अभिलषितार्थसिद्धिरस्तु | जगन्मिथ्यात्वस्योक्तस्य दृष्टान्तदृष्टयो मण्डपान्तस्त्वदीयब्रह्माण्डकल्पनालक्षणा दृष्टा लीलयेति शेषः || २८ || श्रीवसिष्ठ उवाच | इति प्रोक्ते सरस्वत्या गिरा मधुरवर्णया | उवाच वचनं धीमान्भूमिपालो विदूरथः || २९ || धीमान्स्वस्ति तेऽस्त्वित्युक्तेस्तात्पर्यं विद्वान् || २९ || विदूरथ उवाच | ममापि दर्शनं देवि मोघं भवति नार्थिनि | महाफलप्रदायास्तु कथं तव भविष्यति || ३० || मम मनुष्यमात्रस्याल्पदानसमर्थस्यापीत्याशयः || ३० || अहं देहं समुत्सृज्य लोकान्तरमितोऽपरम् | निजमायामि हे देवि स्वप्नात्स्वप्नान्तरं यथा || ३१ || निजं प्राक्तनम् | आयामि अविलम्बेनागमिष्यामि || ३१ || पश्यादिशाशु मां मातः प्रपन्नं शरणागतम् | भक्तेऽवहेला वरदे महतां न विराजते || ३२ || पश्य कृपादृष्ट्या | आदिश प्रयच्छ मत्प्रार्थितमुपदेशोत्तरकार्यं च || ३२ || यं प्रदेशमहं यामि तमेवायात्वयं मम | मन्त्री कुमारी चैवेयं बालेति कुरु मे दयाम् || ३३ || प्रार्थनीयार्थमाह - यमिति | कुमारी अनूढा कन्या || ३३ || श्रीसरस्वत्युवाच | आगच्छ राज्यमुचितार्थविलासचारु प्राग्जन्ममण्डलपते कुरु निर्विशङ्कम् | अस्माभिरर्थिजनकामनिराकृतिर्हि दृष्टा न काचन कदाचिदपीति विद्धि || ३४ || लीलाभक्तिभाग्योचितैरर्थविलासैश्चारु राज्यं कुरु | अस्माभिर्निराकृतिः प्रत्याख्यानं कदाचिदपि न कृतेति शेषः | केनचिदपि न दृष्टेत्यर्थः || ३४ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे लीलो० स्वप्नपुरुषसत्यत्वनिरूपणं नाम द्विचत्वारिंशः सर्गः || ४२ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे स्वप्नपुरुषसत्यत्वनिरूपणं नाम द्विचत्वारिंशः सर्गः || ४२ || त्रिचत्वारिंशः सर्गः ४३ श्रीसरस्वत्युवाच | अस्मिन् रणवरे राजन्मर्तव्यं भवताधुना | प्राप्तव्यं प्राक्तनं राज्यं सर्वं प्रत्यक्षमेव ते || १ || अभीष्टवरदानं च पुरस्याक्रमदीपनम् | वर्ण्यते दह्यमानानां चेष्टा च पुरवासिनाम् || १ || देवी तज्जिज्ञासितं भाव्यर्थमपि स्पष्टमाचक्षाणा वरशेषमपि दातुमाह - अस्मिन्निति | सर्वं ते प्रत्यक्षमेव भविष्यतीति शेषः || १ || कुमार्या मन्त्रिणा चैव त्वया च प्राक्तनं पुरम् | आगन्तव्यं शवीभूतं प्राप्तव्यं तच्छरीरकम् || २ || त्वया च प्राक्तनं शवीभूतं तच्छरीरकं प्राप्तव्यमिति संबन्धः || २ || आवां यावो यथायातं वातरूपेण च त्वया | आगन्तव्यः स देशस्तु कुमार्या मन्त्रिणापि च || ३ || मृत्वा वायुरूपिणा आतिवाहिकदेशरूपेण त्वया स प्राक्तनो देश आगन्तव्यः || ३ || अन्यैव गतिरश्वस्य गतिरन्या खरोष्ट्रयोः | मदस्विन्नकपोलस्य गतिरन्यैव दन्तिनः || ४ || इयमातिवाहिकदेहगतिर्मानोरथिकगतिवन्मण्डपान्तःसंवृताकाशेऽपि सुदूरमिव संभवति नाश्वादिगतिवद्दैशवैपुल्यं प्राक्सिद्धमपेक्षत इत्याशयेनाह - अन्यैवेति || ४ || प्रस्तुतेति कथा यावन्मिथो मधुरभाषिणोः | तावत्प्रविश्य संभ्रान्त उवाचोर्ध्वस्थितो नरः || ५ || ऊर्ध्वस्थितः प्रासादाग्राद्युन्नतप्रदेशमारुह्य निशि बाह्यपुरवृत्तान्तदर्शी पुरुषो राजसन्निधिं प्रविश्योवाच || ५ || प्. २३५) देव सायकचक्रासिगदापरिघवृष्टिमत् | महत्परबलं प्राप्तमेकार्णव इवोद्धतः || ६ || देवेति राजसंबोधनम् || ६ || कल्पकालानिलोद्धूतकुलाचलशिलोपमम् | गदाशक्तिभुशुण्डीनां वृष्टिं मुञ्चति तुष्टिमत् || ७ || तुष्टिमत् उत्साहप्रहृष्टं परबलम् || ७ || नगरे नगसंकाशे लग्नोऽग्निर्व्याप्तदिक्तटः | दहंश्चटचटास्फोटैः पातयत्युत्तमां पुरीम् || ८ || उन्नतप्रासादशिखरैस्तृणकाष्ठादिसमृद्ध्या च नगसंकाशे पर्वतसदृशे || ८ || कल्पाम्बुदघटातुल्या व्योम्नि धूममहाद्रयः | बलात्प्रोड्डयनं कर्तुं प्रवृत्ता गरुडा इव || ९ || कल्पाम्बुदानां संवर्तमेघानां घटाभिः समूहैस्तुल्याः || ९ || श्रीवसिष्ठ उवाच | ससंभ्रमं वदत्येवं पुरुषे परुषारवः | उदभूत्पूरयन्नाशा बहिः कोलाहलो महान् || १० || ससंभ्रमं सभयम् | परुषा निष्ठुरभाषणरूपा आरवा यत्र तथाविधः कोलाहलः | आशा दिशः || १० || बलादाकर्णकृष्टानां धनुषां शरवर्षिणाम् | बृंहतामतिमत्तानां कुञ्जराणां तरस्विनाम् || ११ || कोलाहलमेव संबन्धिभेदैर्विशिष्य वर्णयति - बलादित्यादिना || ११ || पुरे चटचटास्फोटैर्दहतां जातवेदसाम् | पौराणां दग्धदाराणां महाहलहलारवैः || १२ || महाहलहलारवैह् कथित इत्युत्तरत्रान्वयः [पौराणामिति द्वादशश्लोकोत्तरार्धेन इति भावः] || १२ || तरतामग्निखण्डानां टांकारः कथितो रवैः | ज्वलितानां परिस्पन्दाद्धगद्धगिति चार्चिषाम् || १३ || अर्चिषां धगद्धगिति रवैः सह जनैः कथितष्टांकार उदभूदित्यनुकृष्यते || १३ || अथ वातायनाद्देव्यौ मन्त्री राजा विदूरथः | ददृशुः प्रोल्लसन्नादं महानिशि महापुरम् || १४ || वातायनात्प्रासादगवाक्षात् || १४ || प्रलयानलसंक्षुब्धपूर्णैकार्णवरंहसा | पूर्णं परबलेनोग्रहेतिमेघतरङ्गिणा || १५ || उग्रैर्हेतिभिर्मेघतरङ्गोभयवता || १५ || कल्पान्तवह्निविगलन्मेरुभूधरभासुरैः | दह्यमानं महाज्वालाज्वालैरम्बरपूरकैः || १६ || महाज्वालानां ज्वालैः शिखाभिः | जालैः इति पाठे स्पष्टम् || १६ || मुष्टिग्राह्यमहामेघगर्जासंतर्जितोर्जितैः | घोरं कलकलारावैर्मांसलैर्दस्युजल्पितैः || १७ || मोषणं मुष्टिः परलुण्ठनं तद्बाह्यविषये परभीषणाय महामेघगर्जासदृशैः संतर्जितैर्भर्त्सनैरूर्जितैः प्रबलैर्मांसलैः पुष्टैर्दस्यवश्चोरास्तज्जल्पितैर्घोरम् || १७ || पुष्करावर्तसंकाशधूम्राभ्रपिहिताम्बरम् | प्रोड्डीनहेमाग्रनिभैर्ज्वालापुञ्जैर्निरन्तरम् || १८ || पुष्करावर्ताः प्रलयमेघाः | निरन्तरं निरवकाशम् || १८ || तरदुल्मुकखण्डोग्रतारातरलिताम्बरम् | अन्योन्यदेशसद्मौघप्रज्वलज्ज्वलनाचलम् || १९ || उल्मुकानां ज्वलत्काष्ठानां खण्डा एवोग्रा औत्पातिका रक्तास्ताराः ज्वालापरिवर्तेन अन्योन्यदेशविनिमयेन प्रज्वलन्तो ज्वलनाचला यत्र || १९ || हतसैन्यपुरापातं द्रुताङ्गाराभ्रकोटरैः | कर्कशाक्रन्दनिर्दग्धलोकपूगोग्रगर्जितम् || २० || हतावशिष्टसैन्यानां पुरापातो नगरप्रवेशो यत्र | द्रुताः प्रसृता अङ्गारा येषु तथाविधैरभ्रकोटरैर्मेघच्छिद्रैरुपलक्षितमित्यर्थः | कर्कशाक्रन्दं यथा स्यात्तथा निर्दग्धजनसमूहैः शत्रुभिरुग्रगर्जितं यत्र || २० || कृशानुकणनाराचनिरन्तरतराम्बरम् | बहुहेतिशिलाजाललुटद्दग्धपुरोत्करम् || २१ || कृशानुकणैर्नाराचैश्च निरन्तरतरमत्यन्तनिरवकाशमम्बरं यत्र | हेतिभिः शिलाजालैश्च लुठन्तो निपतन्तः | पुरशब्देन पुरजना उच्यन्ते | लुठन्तः प्रधावन्तो दग्धं पुरं यैस्तथाविधा उत्करा ऊर्ध्वीकृतहस्ताः शत्रवो यत्रेति वा || २१ || रणद्द्विरदसंघट्टकुट्टितोद्भटसद्भटम् | विद्रवत्तस्करच्छेदमार्गकीर्णमहाधनम् || २२ || अङ्गारराशिनिपतन्नरनार्युग्ररोदनम् | स्फुटच्चटचटाशब्दप्रलुठत्स्फुटकाष्ठकम् || २३ || रणे द्विरदानां संघट्टैः कुट्टिताश्चूर्णिता उद्भटाः शूरतराः सद्भटा यत्र | तस्कराणां शिरश्छेदेन || २२ || २३ || विपुलालातचक्रौघशतसूर्यनभस्तलम् | अङ्गारशिखिराकीर्णसमस्तवसुधातलम् || २४ || अलातानि ज्वलदुल्मुकानि | शिखिरैरग्निमिराकीर्णानि || २४ || दग्धाग्निकाष्ठक्रेंकाररणज्ज्वलनवैणवम् | दग्धजन्तुघनाक्रन्दरुदत्सकलसैनिकम् || २५ || दग्धैरग्निकाष्ठैः सहक्रेंकारेण रणत्प्रज्वलनयुक्तं वैणवं वेणुकाष्ठं यत्र || २५ || पांसुशेषात्तराजश्रीवृद्धतृप्तहुताशनम् | सकलग्रसनारम्भसोद्योगाग्निमहाशनम् || २६ || पांसव एव शिष्यन्ते यथा तथा आत्तायां दग्धायां राजश्रियि वृद्धः प्रवृद्धस्तृप्तश्च हुताशनो यत्र | अग्निलक्षणो महाशनो घस्मरो यत्र || २६ || यदृच्छात्कारडात्कारकठिनाग्निरटद्गृहम् | अनन्तजन्तुभोज्यान्नवह्निभुक्तेन्धनस्पृहम् || २७ || यदृच्छया अकस्मादेव दैवोपपादिताभ्यां सर्वस्वादानमात्कारो निशि सुप्तेषु दस्युभिः प्रहरणं डात्कारस्ताभ्यां कठिनेन कुर्वारेणाग्निना च रटन्तो गृहा यत्र | अनन्तानां जन्तूनां भोज्येषु भोजनार्हेष्वन्नेषु धान्यराशिषु वह्निना भुक्तेषु अवशिष्टेन्धनमात्रे केषांचित्स्पृहा यत्र || २७ || अथ शुश्राव तत्रासौ गिरो राजा विदूरथः | योधानां दग्धदाराणां पश्यताम्भिधावताम् || २८ || दारग्रहणं सर्वस्वोपलक्षणम् || २८ || प्. २३६) हा मत्तमरुदूर्ध्वस्थानङ्गार गृहपादपान् | रणत्खरखरं नीरजालामातपपन्थिनः || २९ || अङ्ग आर इति च्छेदः | अङ्गेति कश्चित्कंचित्संबोध्याह - नीरजालेन रसातिशयेन आमान् हरितानत एवातपस्य संतापस्य पन्थिनः परिपन्थिनो निवारकान् ऊर्ध्वस्थान् औन्नत्ये स्थितान् अस्मद्गृहलक्षणानस्मद्गृहसंवृद्धांश्च पादपान् वृक्षान् उन्मूलयितुं मत्तः प्रचण्डो मरुत् विपल्लक्षणो वायुर्वा रणत्खरखरं [१] यथा स्यात्तथा आर आजगाम | हा इति खेदे || २९ || हा दग्धदाराः प्रालेयशीता देहेषु दन्तिनाम् | मग्ना मनस्सु महतामिव विज्ञानसूक्तयः || ३० || प्राक्प्रालेयशीता दग्धाः संतप्ता दारा दन्तिनां मृतानां देहेषु लीनाः प्रच्छन्नाः सूक्तिपक्षे ज्ञानाग्निना दग्धाः स्थूलादिदेहा याभिः | त्रिविधतापोपशमनात्प्रालेयादपि शीतलाः || ३० || हा तात हेतयो लग्नास्तरुणीकबरीतृणे | ज्वलन्ति शुष्कपर्णौघा इव वीरानिलेरिताः || ३१ || हेतयः शस्त्राग्नयो विविधास्तज्ज्वाला वा | कवर्यः केशास्तल्लक्षणे तृणे | ज्वलन्ति दीप्यन्ते || ३१ || आवर्तननदीदीर्घा वहत्यूर्ध्वतरङ्गिणी | पश्येयं धूमयमुना व्योमगङ्गां प्रधावति || ३२ || आवर्तनैरावर्तैर्नदीसदृशप्रवाहभेदैश्च दीर्घा | व्योमलक्षणां गङ्गां मन्दाकिनीं वा || ३२ || वहदुल्मुककाष्ठोर्ध्वगामिनी धूमनिम्नगा | वैमानिकानन्धयति पश्याग्निकणबुद्बुदा || ३३ || वहन्ति प्रवहन्ति उल्मुककाष्ठानि यस्यां सा | अग्निकणा एव बुद्बुदा यस्याम् || ३३ || अस्या माता पिता भ्राता जामाता स्तनपाः सुते | अस्मिन्सद्मनि निर्दग्धा दग्धैवासत्समिन्धने || ३४ || स्तनपाः स्तनधयाः | सुते कन्ये | पुत्रीसंबोधनं वा | इयमपि तद्विरहलक्षणे असत्समिन्धने अविद्यमानेऽप्यग्नौ दग्धैव || ३४ || हा हा हागच्छ ते शीघ्रमेतदङ्गारमन्दिरम् | इतः प्रवृत्तं पतितुं सुमेरुः प्रलये यथा || ३५ || शीघ्रं आगच्छ निर्गच्छ ते तव एतदङ्गारवज्ज्वलितं मन्दिरं इतः स्वस्थानाच्चलनेन पतितुं प्रवृत्तम् || ३५ || अहो शरशिलाशक्तिकुन्तप्रासासिहेतयः | जालसंध्याभ्रपटलं विशन्ति शलभा इव || ३६ || वातायनजालकलक्षणं संध्याभ्रपटलम् || ३६ || हेतिप्रवाहा ज्वलनं नभस्यन्त्यां विशन्त्यहो | वडवानलमुज्ज्वालमर्णः [कतिपयादर्शान्तरैरप्यत्र रणादित्येव पठ्यते परन्त्वेतत्पाठो मूलानुगत्वात्सुवच इति स एव सङ्गृहीतोऽस्माभिः] पूरा इवार्णवात् || ३७ || नभस्यान्त्यां भयान्नभ उत्पतितुमिच्छन्त्यां पुर्याम् | अर्णःपूरा [अर्णपूराः इति पाठः] जलप्रवाहाः || ३७ || धूमायन्ति महाभ्राणि ज्वालाः शिखरिकोटिषु | सरसान्यपि शुष्यन्ति हृदयानीव रागिणाम् || ३८ || शिखरिणां शृङ्गवतां प्रासादानां कोटिष्वग्रभागेषु | सरसानि सजलानि वाप्यादीनि उद्यानानि च || ३८ || आलानत्वरुषेवैता दन्तिभिर्वृक्षपङ्क्तयः | स्फुरत्कटकटारावं पात्यन्ते कृतचीत्कृतैः || ३९ || आलानं बन्धनस्तम्भस्तज्जातीयत्वप्रयुक्तया रुषा || ३९ || पुष्टपुष्पफलस्कन्धा गतश्रीका गृहद्रुमाः | गता निर्दग्धसर्वस्वा गृहस्था इव दीनताम् || ४० || मातापितृविनिर्मुक्ता बालकास्तिमिरावलीम् | मग्नन्तोऽङ्गेषुरथ्यासु कुड्यपातेन हा हताः || ४१ || तिमिरावलीं निलयनाय मग्नन्तः शोधयन्तः | मृगयन्त इति यावत् | मस्जेः शोधनार्थाच्छतरि च्छान्दसे कुत्वनत्वे | अङ्गेत्यामन्त्रणे | इषुकीर्णासु रथ्यासु | कुड्यपातेन भित्तिपतनेन || ४१ || वातविद्रावितात्त्रस्यन्करिण्यो रणमूर्धनि | पतदङ्गारकागारभारिणः कटुकूजितम् || ४२ || वातेन विद्रावितात् प्रोड्डायितात् | पतन्तः अङ्गारका यस्मात्तथाविधात् | अगारं भर्तु वर्षातपादिभ्यस्त्रातुं शीलमस्येत्यगारभारि च्छदिस्तस्मात्करिण्योऽभ्रम्बः कटुकूजितं यथा स्यात्तथा त्रस्यन् | त्रसेर्लङि वा भ्राशभ्लाश इति श्यन् | अडभावश्छान्दसः || ४२ || हा कष्टमसिनिर्भिन्ने स्कन्धे सन्नदृढोल्मुके | पतितो यन्त्रपाषाणः पुरुषस्याशनिर्यथा || ४३ || गवाश्वमहिषेभोष्ट्रश्वशृगालैडकैरहो | घोरै रणमिवारब्धं मार्गरोधकमाकुलैः || ४४ || एडकैर्मेषैः गन्तॄणां मार्गनिरोधकं रणं युद्धमारब्धमिव पश्यन्त्विति शेषः || ४४ || पटैः पटपटाशब्दजलजालालिमालितैः | आक्रन्दन्त्यः स्त्रियो यान्ति स्थलपद्माचिता इव || ४५ || अग्निशिखास्कन्दनभयादार्द्रपटान्परिधाय निर्गच्छन्तीः स्त्रियो वर्णयति ##- परिवृतैर्हस्तपादवक्रलक्षणैः स्थलपद्मैराचिता घटिता इव || ४५ || स्त्रीणां ज्वालालवाः पश्य लिहन्त्यलकवल्लरीः | कुर्वन्तोऽशोकपुष्पाभां करभा इव पन्नगीः || ४६ || करभा उष्ट्राः | पन्नं पतितं यथा स्यात्तथा गच्छन्त्यः पन्नग्यः प्रलम्बिततरुशाखाः दैवात्तदालम्बिसर्पिणीर्वा || ४६ || हा हा हरिणशावाक्ष्याः पक्षलक्षणपक्ष्मसु | कुमार्गेष्विव विश्रान्तिमेति कार्शानवि शिखा || ४७ || पक्षलक्षणेषु भ्रमरपक्षसदृशेष्वक्षिपक्ष्मसु | कृशानुरग्निस्तत्संबन्धिनी कार्शानवी शिखा ज्वाला || ४७ || दह्यमानो विनिर्याति न कलत्रं विना नरः | अहो बत दुरुच्छेदाः प्राणिनां स्नेहवागुराः || ४८ || स्वयं दह्यमानोऽपि || ४८ || करी रभसनिर्लूनज्वलदङ्गारपादपः | प्लुष्टपुष्करकः कोपान्मग्नः पुष्करदं सरः || ४९ || रभसेन बलवेगेन निर्लूनो भग्नो ज्वलदङ्गारमिश्र आलानपादपो येन | अत एव तदाकर्षणकाले प्लुष्टो दग्धः पुष्करः शुण्डाग्रं यस्य तथाविधः करी पलायय जनेभ्यः पुष्करदं पद्मदं सरः प्राप्य तत्र मग्नः | दग्धपुष्करस्य पुनर्लाभेच्छयेवेति श्लेषमूला उत्प्रेक्षा || ४९ || प्. २३७) धूमोऽम्बुदपदं प्राप्य विलोलान्तस्तडिल्लतः | ज्वलदङ्गारनाराचनिकरं परिवर्षति || ५० || अम्बुदानां पदं वृष्ट्यधिकारनिर्वाहकमाकाशस्थानं प्राप्य विलोलवह्निज्वालालक्षणा अन्तर्गतास्तडिल्लता यस्य | ज्वलतामङ्गाराणां नाराचानां शराणां च निकरं स्वानुरूपं परितो वर्षतीत्युत्प्रेक्षा || ५० || देव धूमस्फुरद्वह्निकण आवर्तवृत्तिमान् | स्थित आपीडवान्व्योम्नि रत्नपूर्ण इवार्णवः || ५१ || देवेति राजानं संबोध्य कस्यचिदुक्तिः | धूमो व्योम्नि अर्णव इव स्थितः | आपीडवान् शिखातरङ्गवान् || ५१ || गौरमम्बरमाभाति ज्वालाशिखरतेजसा | मृत्युनेवोत्सवे दत्तः कुङ्कुमाक्तकरण्डकः || ५२ || गौरं पीतमम्बरमाकाशः | कुङ्कुमैः अक्तो रञ्जितः करण्डकः संपुटको दत्तः | अर्थाद्दिग्वधूभ्य इति गम्यते || ५२ || अहो नु विषमं चेदं वर्तते वृत्तवर्जितम् | ध्रियन्ते राजनार्योऽपि वैरिवीरैरुदायुधैः || ५३ || वृत्तं सच्चरितं तेन वर्जितं बहिष्कृतम् || ५३ || लोलस्रगदामकुसुमैर्मार्गप्राकारकारकैः | अर्धनिर्दग्धकबरीकीर्णवक्षस्थलस्तनाः || ५४ || आसर्गसंमाप्ते राजनारीरेव विशिनष्टि - लोलेत्यादिना | मार्गे प्र आकिरणं प्राकारस्तस्य कारकैर्लोलैः स्रग्दामभिः कुसुमैश्चोपलक्षिताः || ५४ || आलोलाम्बरसंलक्ष्यनितम्बजघनस्थलाः | पतन्माणिक्यवलयवलितावनिमण्डलाः || ५५ || पतद्भिर्माणिक्यैर्वलयैश्च माणिक्यखचितैर्वलयैर्वा वलितानि संवृतान्यवनिमण्डलानि याभिः || ५५ || छिन्नहारलताजालविकीर्णामलमौक्तिकाः | दृष्टादृष्टस्तनश्रेणीपार्श्वोद्यत्कनकप्रभाः || ५६ || कुररीकर्कशाक्रन्दमन्दीकृतरणारवाः | धारावाहास्रुतारावभिन्नपार्श्वविचेतनाः || ५७ || कुररीशब्दवत्कर्कशैर्दुःश्रवैराक्रन्दैर्मन्दीकृतोऽभिभूतो रणारवो याभिः | धारावाहमविच्छिन्नधारं यथा स्यात्तथा आस्रुतैर्निर्गतैराक्रन्दारावैर्भिन्नानि विदारितानीव पीडितानि कुक्षिपार्श्वानि यासाम् | अत एव विचेतनाः कर्तव्यार्थचेतनाशून्याः || ५७ || रक्तकर्दमबाष्पाम्बुक्लिन्नग्रन्थितवाससः | भुजमूलार्पितभुजैर्नीयमाना बलान्नृभिः || ५८ || पलायनशङ्कया परस्परं ग्रन्थितवाससः || ५८ || क इवास्मिन्परित्राता स्यादित्यादीनवीक्षितैः | उत्पलालीव वर्षद्भिः परिरोदितसैनिकाः || ५९ || दीनैर्वीक्षितैर्वीक्षणैः | परितो दयया रोदिताः रोदनशीलाः कृताः स्वपक्षसैनिका याभिस्ताः || ५९ || मृणालकोमलाच्छोरुमूलजालैः सुनिर्मलैः | स्वच्छाम्बरतलालक्ष्यैराकाशनलिनीनिभाः || ६० || स्वच्छेष्वम्बरतलेषु वस्त्रान्तःप्रदेशेष्वालक्ष्यैः | अम्बरपदश्लेषादाकाशनलिनीनिभाः || ६० || आलोलमाल्यवसनाभरणाङ्गरागा बाष्पाकुलाततचलालकवल्लरीकाः | आनन्दमन्दरनिरन्तरमथ्यमाना- त्कामार्णवात्समुदिता इव राजलक्ष्म्यः || ६१ || आतता दीर्घाश्चलाश्चालकवल्लर्यो यासां ताः | आनन्दोऽत्र विषयसुखं तल्लक्षणेन मन्दरेण मथ्यमानात् | राज्ञां मूर्तिभूता लक्ष्म्यः संपदो राजा चन्द्रस्तद्घटिता लक्ष्म्यः श्रियो वा || ६१ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे लीलो० अग्निदग्धगृहादिवर्णनं नाम त्रिचत्वारिंशः सर्गः || ४३ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे अग्निदग्धगृहादिवर्णनं नाम त्रिचत्वारिंशः सर्गः || ४३ || चतुश्चत्वारिंशः सर्गः ४४ श्रीवसिष्ठ उवाच | एतस्मिन्नन्तरे राजमहिषी मत्तयौवना | तद्विवेश गृहं लक्ष्मीरिव पङ्कजकोटरम् || १ || भीतां विलोक्य महिषीं श्रुत्वान्तःपुरधर्षणम् | युद्धाय राज्ञो निर्याणं लीलातत्त्वं च वर्ण्यते || १ || मत्तमिव विघूर्णमानं यौवनं यस्याम् | तल्लीलाप्रज्ञाधिष्ठितं राज्ञो गृहम् || १ || आलोलमाल्यवसना भिन्नहारलताकुला | अनुयाता वयस्याभिर्दासीभिर्भयविह्वला || २ || चन्द्राननावदाताङ्गी श्वासोत्कम्पिपयोधरा | तारकाकारदशना स्थिता द्यौरिव रूपिणी || ३ || चन्द्र इव चन्द्र एव च आननं यस्याः | अवदातानि गौराणि स्वच्छानि चाङ्गानि यस्याः || ३ || अथ तस्या वयस्यैका राजानं तं व्यजिझपत् | भूतसंग्रामसंरब्धममरेन्द्रमिवाप्सराः || ४ || देव देवी सहास्माभिः पलाययान्तःपुरान्तरात् | शरणं देवमायाता वातार्तेव लता द्रुमम् || ५ || देवी कृताभिषेका प्रधानमहिषी || ५ || राजन्दारा हृतास्तास्ते बलवद्भिरुदायुधैः | ऊर्मिजालैर्महाब्धीनां तीरद्रुमलता इव || ६ || दाराः अन्या भोगिन्यः || ६ || अन्तःपुराधिपाः सर्वे पिष्टाः शत्रुभिरुद्धतैः | अशङ्किताभिपतितैर्वातैरिव वरद्रुमाः || ७ || पिष्टाः संचूर्णिताः || ७ || दूरेणाशङ्कमायातैः परैर्नः पुरमाहृतम् | रात्रौ वर्षास्विवोद्घोषैः कमलानीव वारिभिः || ८ || दूरेण दूरात् | दूरान्तिकार्थेभ्यो द्वितीया च इति चात्तृतीया | आहृतमास्कन्दितम् || ८ || प्. २३८) धूमं वर्षद्भिरुन्नादैर्लेलिहानोग्रहेतिभिः | वह्निभिर्नः पुरं प्राप्तं परयोधैश्च भूरिभिः || ९ || धूमं वर्षद्भिः किरद्भिः | उन्नादैर्ध्वनद्भिः | धूमवर्मभिः इति पाठे स्पष्टम् | उन्मादैः इति पाठे उत्कृष्टो मादो हर्षो ग्लेपनं च येषां तैः | लेलिहाना इव चलन्त उग्रा हेतयः खड्गा ज्वालाश्च येषाम् || ९ || परिवारैर्विलासिन्यो देव्य आहृत्य मूर्धजैः | आक्रन्दन्त्यो बलान्नीताः कुरर्य इव धीवरैः || १० || परिवारैः शत्रुसैनिकैः | कुरर्यो मृग्यः पक्षिण्यश्च | धीवरैर्लुब्धकैः || १० || इति नो येयमायाता शाखा प्रसरशालिनी | आपत्तामलमुद्धर्तुं देवस्यैवास्ति शक्तता || ११ || आपत् विपत् | तामलमत्यर्थमुद्धर्तुं निवारयितुम् || ११ || इत्याकर्ण्यावलोक्यासौ देव्यौ युद्धाय याम्यतः | क्षम्यतां मम भार्येयं युष्मत्पादाब्जषट्पदी || १२ || असौ राजा इति वाक्यमाकर्ण्य देव्यौ विलोक्य उवाचेति शेषः | हे देव्यौ अहं युद्धाय यामि गच्छामि क्षम्यताम् | आज्ञां विनैवान्तराले निर्गमनापराधः | युष्मत्पादाब्जषट्पदीति युवाभ्यां रक्षणीयेत्याशयः || १२ || इत्युक्त्वा निर्ययौ राजा कोपारुणितलोचनः | मत्तेभनिर्भिन्नवनः कन्दरादिव केसरी || १३ || लीला लीलां ददर्शाथ स्वाकारसदृशाकृतिम् | प्रतिबिम्बमिवायातामादर्शे चारुदर्शनाम् || १४ || लीला प्रबुद्धलीला || १४ || प्रबुद्धलीलोवाच | किमिदं देवि हे ब्रूहि [मे ब्रूहीति पाठः] कस्मादियमहं स्थिता | या साऽभवमहं पूर्वं कथं सेयमहं स्थिता || १५ || सेयं भूत्वेति शेषः | या अहं सा इयं कथम् | या प्रथमवयस्का अभवं सा तथैव स्थिता कथम् | स्वस्या अन्यत्वायोगादतीतावस्थायाश्च स्थित्यसंभवादिति भावः || १५ || मन्त्रिप्रभृतयः पौरा योधाः सबलवाहनाः | सर्व एव त एवेमे स्थितास्तत्र तथैव ते || १६ || किंच मन्त्र्यादिष्वपि भेदप्रत्यभिज्ञे विरुद्धे इत्याह - मन्त्रिप्रभृतय इति || १६ || तत्रापीह च हे देवि सर्वे कथमवस्थिताः | बहिरन्तश्च मुकुरे इवैते किं प्रचेतनाः || १७ || प्रचेतनाः सचेतनाः किम् || १७ || श्रीदेव्युवाच | यथा ज्ञप्तिरुदेत्यन्तस्तथानुभवति क्षणात् | चितिश्चेत्यार्थतामेति चित्तं चित्तार्थतामिव || १८ || चितिशक्तीनामतर्क्यत्वात्तुल्यकर्मोद्बोधितानां तुल्य एवाविर्भावः क्वचिद्भवतीति देवी दृष्टिसृष्टिवादमालम्ब्य समाधत्ते - यथेति | चेत्यार्थतां अध्यासेन चेत्याकारताम् | यथा चित्तं मनः स्वप्नादौ चित्तानुभूतजाग्रदर्थाकारतामित्यर्थः || १८ || यादृगर्थं जगद्रूपं तत्रैवोदेति तत्क्षणात् | न देशकालदीर्घत्वं न वैचित्र्यं पदार्थजम् || १९ || यादृक् यदाकारोऽर्थो यस्मिंस्तथाविधं संस्कारात्मकं जगद्रूपं तत्र चित्ते चिति च अस्ति तादृगेवोदेति | भोजकादृष्टोद्बोधिता मायासंबलितचिच्छक्तिरघटितमपि घटयितुं समर्थेत्यर्थः | एवंच देशकालाल्पतावैपुल्यविरोधोऽपि परिहृत इत्याशयेनाह - नेति | यदि पदार्थजं स्यात्तर्हि तत्स्वभावविरुद्धं न घटेत नतु तथेति भावः || १९ || बाह्यमाभ्यन्तरं भाति स्वप्नार्थोऽत्र निदर्शनम् | यदन्तः स्वप्नसंकल्पपुरं च कचनं चितेः || २० || चैतन्ये अध्यस्तत्वात्तदाभ्यन्तरं जगद्बाह्यं बहिर्भवमिव भाति || २० || तदेतद्बाह्यनाम्नैव स्वभ्यासात्सत्स्फुटं स्थितम् | यादृग्भावो भृतो भर्ता तव तस्मिंस्तदा पुरे || २१ || स्वभ्यासाच्चिराभ्यासात् स्फुटं व्यक्तं सत्सत्यमिव स्थितम् | यादृक् भावो वासना यस्य स तथाविधः सन् मृतः || २१ || तादृग्भावस्तमेवार्थं तत्रैव समुपागतः | अन्य एव ह्यमी भूतास्तेभ्यस्तास्तादृशा अपि || २२ || समुपागतः प्राप्तवान् | समानकर्मवासनोद्बोधितत्वादाकारसाम्येऽप्येते मन्त्र्यादिजीवा न त एव किंत्वन्ये इत्याह - अन्य एवेति | त एवेति प्रत्यभिज्ञया अभ्यस्ताः पुनःपुनरनुभूता अपि तादृशा अन्ये एव || २२ || सद्रूपा एव चैतस्य स्वप्नसंकल्पसैन्यवत् | अविसंवादि सर्वार्थरूपं यदनुभूयते || २३ || एतस्य राज्ञश्चित्सत्तया सद्रूपा एव | एतावदेव स्वाप्नाज्जाग्रद्वस्तुनो वैलक्षण्यं यदविसंवादि सर्वपुरुषसाधारणार्थत्वं नैतावन्मात्रेण सत्यतासिद्धिरित्याह - अविसंवादीति | चन्द्रप्रादेशिकत्वेन्द्रजालादावपि अविसंवादि सर्वार्थत्वदर्शनादिति भावः || २३ || तस्य तावद्वद कथं कीदृशी वापि सत्यता | अथवोत्तरकाले तु भङ्गुरत्वादवस्तु तत् || २४ || उत्तरकाले बाध्यत्वात्स्वप्नस्यासत्यत्वं चेज्जाग्रत्यपि समानं नाशबाधयोर्वस्तुनि विशेषाभावादित्याशयेनाह - अथवेति | तत्स्वाप्नम् || २४ || ईदृक्च सर्वमेवेदं तत्र का नास्तिताधिका | स्वप्ने जाग्रदसद्रूपा स्वप्नो जाग्रत्यसन्मयः || २५ || अधिका जाग्रदर्थेष्वित्यर्थः | परस्परकालासत्त्वमप्यविशिष्टमित्याह - स्वप्ने इति || २५ || मृतिर्जन्मन्यसद्रूपा मृत्यां जन्माप्यसन्मयम् | विशरेद्विशरारुत्वादनुभूतेश्च राघव || २६ || नाशेऽपि बाधवत्परस्परकालासत्त्वं तुल्यमित्याह - मृतिरिति | नाशे अवयवानां विशरारुत्वाद्द्रव्यं विशरेन्नश्येत् | बाधे त्वनुभूतेरनुभवबलाद्विशरेत् | इति निमित्तभेदेऽपि न विशरणे विशेष इत्यर्थः || २६ || एवं न सन्नासदिदं भ्रान्तिमात्रं विभासते | महाकल्पान्तसंपत्तावप्यद्याथ युगेऽनघ || २७ || प्राक् सत्यतोपपादिता इह त्वसत्यतेत्यनिर्वचनीयता द्वयोरपि समेत्याह - एवमिति | एवं च सृष्टिकाले प्रलयकाले चाविशिष्टं सद्रूपं ब्रह्म सिद्धमित्याह - महाकल्पान्तेति | महाकल्पान्तसंपत्तावपि अद्यापि अथानन्तरमतीतानागतयुगभेदेऽपि कदाचन कदापि यन्नास्ति तत्स्वरूपेण न किंतु तत्कल्पनाधिष्ठानं ब्रह्मैवास्ति अतस्तदेव जगन्नतु भासमानमब्रह्मरूपं जगदित्यर्थः || २७ || प्. २३९) न कदाचन यन्नास्ति तद्ब्रह्मैवास्ति तज्जगत् | तस्मिन्मध्ये कचन्तीमा भ्रान्तयः सृष्टिनामिकाः || २८ || व्योम्नि केशोण्ड्रकानीव न कचन्तीव वस्तुतः | यथा तरङ्गा जलधौ तथेमाः सृष्टयः परे || २९ || न कचन्त्येवेति वक्तव्ये इवकारः प्रपञ्चवत्तदभावस्यापि ब्रह्मातिरिक्तस्य मिथ्यात्वद्योतनार्थः || २९ || उत्पत्त्योत्पत्त्य लीयन्ते रजांसीव महानिले | तस्माद्भ्रान्तिमयाभासे मिथ्यात्वमहमात्मनि || ३० || मिथ्यैव त्वं अहं इत्येवंविभागात्मनि || ३० || मृगतृष्णाजलचये कैवास्था सर्गभस्मनि | भ्रान्तयश्च न तत्रान्यास्तास्तदेव परं पदम् || ३१ || सर्गभस्मनि दग्धपटभस्मप्राये प्रपञ्चे | ननु विषयबाधेऽपि भ्रान्तिज्ञानस्वरूपाबाधात्तैरेव द्वैतं स्यात्तत्राह - भ्रान्तयश्चेति | निर्विषयज्ञानानां परस्परं ब्रह्मतश्च भेदकाभावाद्ब्रह्ममात्रत्वमित्यर्थः || ३१ || घने तमसि यक्षाभास्तम एव न यक्षकः | तस्माज्जन्ममृतिर्मोहो व्यामोहत्वमिदं ततम् || ३२ || यक्षाभाः बालस्य यक्षभ्रान्तयः | व्यामोहोऽज्ञानं तस्य भावो व्यामोहत्वं तदीयावरणविक्षेपशक्तिस्तदेवेदं जगद्रूपं ततम् || ३२ || सर्वं तत्समहाकल्पं शान्तौ यदवशिष्यते | नातः सत्यमिदं दृश्यं न चासत्यं कदाचन || ३३ || महाकल्पो ब्रह्मज्ञानेन सर्वबाधलक्षणो वैज्ञानिकः प्रलयस्तेन सहितं बाध्यमित्यर्थः | अधिष्ठानब्रह्मसत्तैव दृश्यस्य सत्त्वासत्वादिसर्वपक्षान्निरुणद्धीत्याह - शान्तावित्यादिना | सर्वशान्तौ यदवशिष्यते ब्रह्म अतो ब्रह्मतः सत्यं नेत्यादिसंबन्धः || ३३ || द्वयमेवैतदथवा ब्रह्म तत्रैव संभवात् | आकाशे परमाण्वन्तर्द्रव्यादेरणुकेऽपि च || ३४ || द्वयं सत्यासत्योभयरूपं तु नैव | एकस्य विरुद्धोभयरूपत्वासंभवादित्यर्थः | तत्र त्रिष्वपि विरुद्धेषु कल्पेष्वविरोधेन संभवाद्ब्रह्मैवेति कल्पः श्रेयानित्याह - ब्रह्मेति | कल्पनामात्रत्वं प्रपञ्चस्य सर्वत्र संभवतीत्याह - आकाशे इति | द्रव्यगुणादेरणुके अल्पतरेऽप्यन्तर्भागे || ३४ || जीवाणुर्यत्र तत्रेदं जगद्वेत्ति निजं वपुः | अग्निरौष्ण्यं यथा वेत्ति निजभावक्रमोदितम् || ३५ || वासनाबलेनात्मन्यनात्माध्यासे दृष्टान्तमाह - अग्निरिति | पूर्वमनग्निरेवोपासकोऽहमेवाग्निरित्युपासनात्मकनिजभावना##- पश्यतीदं तथैवात्मा स्वात्मभूतं विशुद्धचित् | यथा सूर्योदये गेहे भ्रमन्ति त्रसरेणवः || ३६ || तथेमे परमाकाशे ब्रह्माण्डत्रसरेणवः | यथा वायौ स्थितः स्पन्द आमोदः शून्यमम्बरे || ३७ || स्पन्द आमोदश्च वायौ यथा स्थितः | शून्यं शून्यत्वम् || ३७ || पिण्डग्रहविनिर्मुक्तं यथा विश्वं स्थितं परे | भावाभावग्रहोत्सर्गस्थूलसूक्ष्मचराचराः || ३८ || पिण्डग्रहः स्थौल्यम् | भावाभावौ आविर्भावतिरोभावौ | ग्रह उपादानम् | उत्सर्गस्त्यागः | क्रियामात्रोपलक्षणमेतत् || ३८ || विवर्जितस्यावयवैर्भागा ब्रह्मण ईदृशाः | साकारस्यावबोधाय विज्ञेया भवताधुना || ३९ || भागाः कल्पितविभागाः | भवतेति पुंस्त्वाद्रामं प्रति वसिष्ठोक्तिः | ते च साकारस्य तस्य विश्वस्य निराकारत्वावबोधाय तादृशस्वात्मनोऽनन्या अनवयवा इव विज्ञेयाः | इवकारः सावयवतावन्निरवयवताया अपि मिथ्यात्वद्योतनार्थः || ३९ || अनन्याः स्वात्मनस्तस्य तेनानवयवा इव | यथास्थितमिदं विश्वं निजभावक्रमोदितम् || ४० || एवमनवयवत्वेन निजभावनाक्रमेण पारमार्थिकरूपेणाविर्भूतं यथास्थितमेव विश्वशब्दार्थै रिक्तं शून्यं न भविष्यति | विश्वशब्दस्य पूर्णार्थत्वपर्यवसानात्पूर्णस्य च रिक्तत्वायोगादिति भावः || ४० || रिक्तं न विश्वशब्दार्थैरनन्यद्ब्रह्मणि स्थितम् | न तत्सत्यं न चासत्यं रज्जुसर्पभ्रमो यथा || ४१ || तत्र हेतुः - अनन्यदिति | तर्हि यत्सावयवं विश्वं भासते तत्किं तत्राह ##- मिथ्यानुभूतितः सत्यमसत्यं सत्परीक्षितम् | परमं कारणं चित्त्वाज्जीवत्वमिति चेत्यलम् || ४२ || तत्र हेतुमाह - मिथ्येति | नहि भ्रान्तिज्ञानानुभूतं सत्यं भवति न वा वस्तुतत्त्वपरीक्षणात्मकं तद्बाधकज्ञानं सत्यमपह्नुते येनासत्यं स्यादिति भावः | चित्त्वात् मायापिहितस्वरूपचित्त्वात् || ४२ || ततस्तथैवानुभवाज्जीवत्वं विन्दति स्फुटम् | सत्यं भवत्वसत्यं वा खे विभातमिदं जगत् || ४३ || अनुभवाच्चिरसंवेदनदृढानुभवात् | संसारस्य च जैवी भोगेच्छा हेतुर्विषयरञ्जनैवोपयुज्यते न सत्यत्वमसत्यत्वं वेत्याह - सत्यमिति || ४३ || रञ्जयत्येव जीवाणुः स्वेच्छाभिरनुभूतिभिः | अनुभूयन्त एवाशु काश्चित्पूर्वानुभूतितः || ४४ || औपोद्घातिकमुक्त्वा प्रस्तुतप्रश्नसमाधानमाह - अनुभूयन्त इत्यादिना | पूर्वानुभूतितः पूर्वानुभूत्या समा असमाश्च केचिदपूर्वानुभवा अनुभूयन्त इत्यन्वयः || ४४ || अपूर्वानुभवाः काश्चित्समाश्चैवासमास्तथा | क्वचित्कदाचित्ता एव क्वचिदर्धसमा अपि || ४५ || सर्वतद्वासनोद्भवे भेदाग्रहात्ता एवेति कचन्ति | अर्धवासनोद्भवे अर्धसमा अपि || ४५ || प्. २४०) कचन्त्यसत्याः सत्याभा जीवाकाशेऽनुभूतयः | तत्कुलास्तत्समाचारास्तज्जन्मानस्तदीहिताः || ४६ || तयोः प्रथमोऽयं प्रकार इत्याह - तत्कुला इत्यादिना || ४६ || त एव मन्त्रिणः पौराः प्रतिभाने भवन्ति च | ते चैवात्मन्यलं सत्या देशकालेहितैः समाः || ४७ || तेषामधिष्ठानदृष्ट्या परमार्थतः प्राक्तनाभेदः अध्यस्तदृष्ट्या तु साम्यं पर्यवस्यतीत्याह - ते चेति | आत्मनि पारमार्थिकस्वरूपे अलमत्यन्तं त एवेति सत्याः स्वस्वदेशकालेहितदृष्ट्या तु समास्तुल्याः || ४७ || सर्वगात्मस्वरूपायाः प्रतिभाया इति स्थितिः | यथा राजात्मनि व्योम्नि प्रतिभोदेति सन्मयी || ४८ || सर्वत्रैवमेव चैतन्यस्थितिरित्याह - सर्वगेति | नन्वीश्वरस्य प्रतिभानुसार्यर्थनिर्मातृत्वं श्रुतं जीवस्य त्वर्थानुसार्येव प्रतिभोदयः | अन्यथा मानोरथिकस्यापि सत्यत्वसाधारण्ययोरापत्तेस्तत्कथं राजप्रतिभामात्रादर्थानां सिद्धिरितरजीवसाधारणव्यवहारयोग्यता चेत्याशङ्क्याह - यथेति | राजात्मनि यथा यादृशी सन्मयी सर्वसाधारणसत्यार्था प्रतिभा उदेति तथा तदग्रगा ततः पूर्वभाविनी साधारणभोजकादृष्टवशात् सच्छब्दवाच्ये अम्बरे अव्याकृताकाशरूपे ईश्वरे सत्यसंकल्परूपा प्रतिभा उदेत्येव | तथाच नोक्तदोष इति भावः || ४८ || तथा तदग्रगोदेति सत्येव प्रतिभाम्बरे | त्वच्छीला त्वत्समाचारा त्वत्कुला त्वद्वपुर्मयी || ४९ || इति लीलेयमाभाति प्रतिभाप्रतिबिम्बजा | सर्वगे संविदादर्शे प्रतिभा प्रतिबिम्बति || ५० || इति उक्तदिशा आभाति | सर्वत्रेयमेव रीतिरित्याह - सर्वगे इति || ५० || यादृशी यत्र सा तत्र तथोदेति निरन्तरम् | जीवाकाशस्य यान्तस्था प्रतिभा कुरुते स्वयम् | सा बहिश्च चिदादर्शे प्रतिबिम्बादियं स्थिता || ५१ || अन्तस्था अन्तर्यामीश्वरप्रतिभासा बहिश्च कुरुते | तथाच बाह्यत्वेन साधारणदृश्यत्वोपपत्तिरिति भावः || ५१ || एषा त्वमम्बरमहं भुवनं धरा च राजेति सर्वमहमेव विभातमात्रम् | चिद्व्योमबिल्वजठरं विदुरङ्ग विद्धि त्वं तेन शान्तमलमास्स्व यथास्थितेह || ५२ || अम्बरमाकाशं तदन्तर्गतं भुवनं तदन्तर्गता धरा तदन्तर्गता त्वं अहं राजा चेति सर्वं विभातमात्रं चिन्मात्रस्वभावं अहं प्रत्यग्रूपमेव | एवमेवान्ये तत्त्वज्ञाः सर्व चिद्व्योमलक्षणबिल्वस्य जठरं तत्सत्तामात्रं बीजगर्भं विदुः | हे अङ्ग लीले त्वमपि तथा विद्धि | तेन यथास्थिता स्वभावस्था शान्तं निर्विक्षेपमास्स्व || ५२ || इत्यार्षे श्रीवासिष्ठमहारामायणे मोक्षोपाये उत्पत्तिप्रकरणे लीलो० अग्निदाहरात्रियुद्धे जगद्ब्रह्मवर्णनं नाम चतुश्चत्वारिंशः सर्गः || ४४ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे जगद्ब्रह्मवर्णनं नाम चतुश्चत्वारिंशः सर्गः || ४४ || पञ्चचत्वारिंशः सर्गः ४५ श्रीसरस्वत्युवाच | विदूरथस्ते भर्तैष तनुं त्यक्त्वा रणाङ्गणे | तदेवान्तःपुरं प्राप्य तादृगात्मा भविष्यति || १ || वरो द्वितीयलीलायाः पद्मप्राप्तिरिहोच्यते | जीवानां फललाभश्च स्वसंकल्पानुसारतः || १ || तादृगात्मा पद्मभूपालात्मा || १ || श्रीवसिष्ठ उवाच | इत्याकर्ण्य वचो देव्या लीला सा तत्पुरास्पदा | पुरः प्रह्वा स्थितोवाच वचनं विहिताञ्जलिः || २ || प्रह्वा भक्तिनम्रा पुरः स्थिता | विहिताञ्जलिः || २ || द्वितीयलीलोवाच | देवी भगवती ज्ञप्तिर्नित्यमेवार्चिता मया | स्वप्ने संदर्शनं [स्वमित्यपि पाठः] देवी सा ददाति निशासु मे || ३ || सा यादृश्येव देवेशि तादृश्येव त्वमम्बिके | तन्मे कृपणकारुण्याद्वरं देहि वरानने || ४ || त्वं तादृश्येव दृश्यसे अतः सैव त्वमित्याशयः || ४ || श्रीवसिष्ठ उवाच | इत्युक्ता सा तदा ज्ञप्तिः स्मृत्वा तद्भक्तिभावनम् | इदं प्रसन्ना प्रोवाच तां लीलां तत्पुरास्पदाम् || ५ || भक्त्या भावनं चिन्तनं पूजनं च || ५ || श्रीदेव्युवाच | अनन्यया भावनया यावज्जीवमजीर्णया | परितुष्टास्मि ते वत्से गृहाणाभिमतं वरम् || ६ || तद्देशलीलोवाच | रणाद्देहं परित्यज्य यत्र तिष्ठति मे पतिः | अनेनैव शरीरेण तत्र स्यामेतदङ्गना || ७ || तिष्ठति स्थास्यति | वर्तमानसामीप्ये वर्तमानवत् || ७ || श्रीदेव्युवाच | एवमस्तु त्वयाऽविघ्नं पूजितास्मि सुते चिरम् | अनन्यभावया भूरि पुष्पधूपसपर्यया || ८ || अविघ्नमिति कर्मसाङ्गतामाह | अनन्यभावया असाधारण्या || ८ || श्रीवसिष्ठ उवाच | अथ तद्देशलीलायां फुल्लायां तद्वरोदयात् | पूर्वलीलाब्रवीद्देवीं संदेहलुलिताशया || ९ || फुल्लायां संतोषेण विकासितायां सत्याम् | तस्याः स्थूलशरीरेण भर्तृलोकप्राप्तिः स्वस्य तु देहं त्यक्त्वेति कुतो विशेष इति संदेहेन लुलितो लोलः कृत आशयो यस्याः सा || ९ || प्. २४१) पूर्वलीलोवाच | ये सत्यकामाः सन्त्येवंसंकल्पा ब्रह्मरूपिणः | त्वादृशाः सर्वमेवाशु तेषां सिद्ध्यत्यभीप्सितम् || १० || तत्रादौ संदेहबीजमाह - ये इति || १० || तत्तेनैव शरीरेण किमर्थं नाहमीश्वरि | लोकान्तरमिदं नीता तं गिरिग्रामकं वद || ११ || तत्तस्मात्सत्यकामताबलात् || ११ || श्रीदेव्युवाच | न किंचित्कस्यचिदहं करोमि वरवर्णिनि | सर्वं संपादयत्याशु स्वयं जीवः स्वमीहितम् || १२ || स्वस्य न स्वतः कामनास्ति पूर्णकामत्वात् | प्राणिकर्मानुसारिणी तु सा तद्व्यवस्थयैव व्यवस्थितेत्याशयेन ज्ञप्तिः समाधत्ते - न किंचिदित्यादिना || १२ || अहं हितं रटे ज्ञप्तिः संविन्मात्राधिदेवता | प्रत्येकमस्ति चिच्छक्तिर्जीवशक्तिस्वरूपिणी || १३ || हितं प्राण्यभिलषितं भाविशुभं रटे वरदानेन प्रकाशयामि | फलोत्पादने च जीवानां प्रत्येकं प्राक्तनकामकर्मवासनावच्छिन्नचिदात्मकजीवशक्तिस्वरूपिणी तत्तत्कार्यबीजभूता मायासंवलितचिच्छक्तिरस्ति || १३ || जीवस्योदेति या शक्तिर्यस्य यस्य यथा यथा | भाति तत्फलदा नित्यं तस्य तस्य तथा तथा || १४ || अतस्तदनुसारेणैवाहं फलप्रदेत्याह - जीवस्येति | भाति कर्मानुष्ठानहेतुकामनाविषयतया स्फुरति || १४ || मां समाराधयन्त्यास्तु जीवशक्तिस्तवोदिता | तदा भवद्यदीह स्यां मुक्तास्मीति चिरं तदा || १५ || अस्मीत्यहंशब्दपर्यायं तिङन्तप्रतिरूपकमव्ययम् | अहं मुक्ता स्यां इति भाविकर्मतत्फलसूक्ष्मावस्थानगर्भकामनावच्छिन्नचिद्रूपा जीवशक्तिः || १५ || तेन तेन प्रकारेण त्वं मया संप्रबोधिता | तया युक्त्यामलं भावं नीतासि वरवर्णिनि || १६ || बोधनिरस्ताज्ञानावरणनिर्मलात्मावस्थितिलक्षणममलं भावम् || १६ || अनयैवं भावनया बोधितासि चिरं तदा | तमेवार्थं प्राप्तवती सदा स्वचितिशक्तितः || १७ || मुक्ता स्यामित्येवंभावनया चिरं युक्ता त्वमनया प्राग्दर्शितयुक्त्या बोधितासि | तं भावितमेवार्थम् || १७ || यस्य यस्य यथोदेति स्वचित्प्रयतनं चिरम् | फलं ददाति कालेन तस्य तस्य तथा तथा || १८ || स्वचिदवच्छिन्नं प्रयतनं पुरुषप्रयत्नः || १८ || तपो वा देवता वापि भूत्वा स्वैव चिदन्यथा | फलं ददात्यथ स्वैरं नभःफलनिपातवत् || १९ || नभःफलनिपातवन्मिथ्याभूतमित्यर्थः || १९ || स्वसंविद्यतनादन्यन्न किंचिच्च कदाचन | फलं ददाति तेनाशु यथेच्छसि तथा कुरु || २० || यथा यादृशं फलमिच्छसि तथा तदनुरूपं कर्म कुरु || २० || चिद्भाव एव ननु सर्गगतोऽन्तरात्मा [सर्वगतः इति पाठः] यच्चेतति प्रयतते च तदैति तच्छ्रीः | रम्यं ह्यरम्यमथवेति विचारयस्व यत्पावनं तदवबुध्य तदन्तरास्स्व || २१ || चिद्भावश्चित्सत्ता | नन्विति निश्चये | तदा प्राक्काले रम्यं विहितमथवा अरम्यं निषिद्धं यत्कर्म चेतति प्रयतते च उत्तरकालं तस्यैव फलरूपा श्रीः एति उदेति इति विचारयस्व | विचारेण च यत्पावनं पदं तदवबुध्य तदन्तः आस्स्व तिष्ठ || २१ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे ली० सत्यकामसत्यसङ्कल्पास्तिता नाम पञ्चचत्वारिंशः सर्गः || ४५ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे सत्यकामसत्यसङ्कल्पास्तिता नाम पञ्चचत्वारिंशः सर्गः || ४५ || षट्चत्वारिंशः सर्गः ४६ श्रीराम उवाच | एवं संकथयन्तीषु तासु तस्मिन्गृहोदरे | विदूरथः किमकरोन्निर्गत्य कुपितो गृहात् || १ || विदूरथस्य युद्धार्थं निर्गमः सैन्यसंभ्रमैः | रणभूमिप्रवेशेन युद्धारम्भश्च वर्ण्यते || १ || श्रीवसिष्ठ उवाच | विदूरथः स्वसदनान्निर्गतः परिवारितः | परिवारेण महता ऋक्षौघेणेव चन्द्रमाः || २ || ऋक्षौघेण नक्षत्रगणेन || २ || सन्नद्धसर्वावयवो लग्नहारविभूषणः | महाजयजयारावैः सुरेन्द्र इव निर्गतः || ३ || वर्मायुधादिना सन्नद्धसर्वावयवः | लग्नानि स्वस्वोचितस्थानेष्वासक्तानि हारविभूषणानि यस्य || ३ || समादिशन्योधगणं शृण्वन्मण्डलसंस्थितिम् | आलोकयन्वीरगणानारुरोह नृपो रथम् || ४ || समादिशन् तत्तदुचितकार्येष्वाज्ञापयन् | मन्त्रिभिरुक्तां मण्डलस्य व्यूहरचनाविशेषस्य संस्थितिं जनपद व्यवस्थां वा || ४ || कूटाकारसमाकारं मुक्तामाणिक्यमण्डितम् | पताकापञ्चभिर्व्याप्तं द्युविमानमिवोत्तमम् || ५ || कूटस्य मेर्वादिशिखरस्याकारेण सम आकारो यस्य | द्युविमानं स्वर्गे प्रसिद्धं विमानम् || ५ || प्. २४२) चक्रभित्तिपरिप्रोतप्रकचत्काञ्चनाङ्कुरम् | मुक्ताजालरणत्कारचारुविक्रमकूबरम् || ६ || चक्रेषु भित्तिषु च परिप्रोता निखाताः प्रकचन्तः काञ्चनाङ्कुराः स्वर्णकीला यत्र | विक्रमकूबरं दीर्घाग्रभागम् || ६ || सुग्रीवैर्लक्षणोपेतैः प्रशस्तैः प्रचलैः कृशैः | जवोड्डयनवेगेन प्रवहद्भिः सुरानिव || ७ || प्रशस्तैरुत्तमजातिजैः | सुरानिवान्तरिक्षे प्रवहद्भिरित्यतिशयोक्तिः || ७ || वायुं जवेन सहसा असहद्भिर्गतिक्रमैः | प्रोह्यद्भिरिव पश्चार्धमापिबद्भिरिवाम्बरम् || ८ || पूर्वकायगतिक्रमैः पश्चार्धं प्रोह्यद्भिर्वहद्भिरिव | छान्दसो विकरणव्यत्ययः || ८ || योजितैरिव संपूर्णैश्चन्द्रैश्चामरदीप्तिभिः | अश्वैरष्टभिराबद्धमाशापूरकहेषितैः || ९ || चामरदीप्तिभिः संपूर्णैश्चन्द्रैर्योजितैरिवेति सर्वत्रोत्प्रेक्षा || ९ || अथोदपतदुद्दामनागाभ्ररवनिर्भरः | शैलभित्तिप्रतिध्वानदारुणो दुन्दुभिध्वनिः || १० || नागा गजास्तल्लक्षणानामभ्राणां रवेण निर्भरोऽतिशयितः | शैलानां भित्तिषु वप्रेषु प्रतिध्वानेन दारुणो भीरुभीषणः || १० || मत्तसैनिकनिर्मुक्तैर्व्याप्तं कलकलारवैः | किंकिणीजालनिर्ध्वानैर्हेतिसंघट्टघट्टितैः || ११ || हेतीनामायुधानां संघट्टेन संघट्टनशब्देन घट्टितैर्निबिडितैः || ११ || धनुश्चटचटाशब्दैः शरसीत्कारगायनैः | परस्पराङ्गनिष्पिष्टकवचौघझण्ज्झणैः || १२ || ज्वलदग्निटणत्कारैरार्तिमत्क्रन्दनारवैः | परस्परभटाह्वानैर्बन्दिविक्षुब्धरोदनैः || १३ || बन्दिभिर्वीरोत्साहायाधिक्षेपेण विक्षुब्धानामयुद्धक्षतपीडितानां कातराणां रोदनैः || १३ || शिलाघनीकृताशेषब्रह्माण्डकुहरो ध्वनिः | हस्तग्राह्योऽभवद्भीमो दशाशाकुञ्जपूरकः || १४ || स्वपूरणेन शिलावद्घनीकृतं निरन्तरीकृतमशेषं ब्रह्माण्डकुहरं येन | घनत्वादेव हस्तग्राह्य इत्युत्प्रेक्षा || १४ || अथोदपतदादित्यपथपीवररोधकम् | रजोनिभेन भूपीठमम्बरोड्डयनोन्मुखम् || १५ || आदित्यपथस्य पीवरं सत् रोधं कामयते इति रोधकम् | कमेः क्विप् | रजोनिभेन वेषेण भूपीठमेव अम्बरोड्डयनोन्मुखं भूत्वा उदतिष्ठदित्युत्प्रेक्षा || १५ || गर्भवासमिवापन्नं तेनासीत्तन्महापुरम् | मूढत्वं यौवनेनेव घनतामाययौ तमः || १६ || तेज रजसा | मूढत्वं स्वाभाविकमज्ञानम् | रजोधिकेन यौवनेनेव | तमोन्धकारो घनतां निबिडताम् || १६ || प्रययुः क्वापि दीपौघा दिवसेनेव तारकाः | आययुर्बलमालोला नैशभूतप्रम्पराः || १७ || बलं वीर्यं आययुः प्रापुः || १७ || ददृशुस्तन्महायुद्धं द्वे लीले सा कुमारिका | प्रस्फुटद्धृदयेनेव देवीदत्तमहादृशौ || १८ || देव्या ज्ञप्त्या दत्ता महादृशो दिव्यदृष्टयो ययोस्ते | सा विदूरथस्य कुमारिका कन्या च देवीदत्तमहादृगिति विपरिणामेन संबध्यते || १८ || प्रशेमुरथ हेतीषु प्रोद्यत्कटकटारवाः | एकार्णवपयःपूरैर्वालवा इव वह्नयः || १९ || अथ विदूरथनिर्गमनानन्तरं नगरलुण्टाकानां सैन्धवानां हेतीनामिषूणां च प्रोद्यन्तः कटकटारवाः प्रशेमुः प्रलये एकार्णवपयःपूरैर्वालवा वाडवा वह्नय इव | लडयोरभेदात् || १९ || शनैः सेनां समाकर्षन्नाज्ञायत बलान्तरम् | विवेशपक्षप्रोड्डीनो मेरुरेकमिवार्णवम् || २० || सेनां समाकर्षन्स विदूरथः सैन्धवानां बलस्य स्वबलस्य च अन्तरं तारतम्यं न अज्ञायत | अविज्ञायैव एकं सांवर्तमर्णवं मेरुरिव विवेश परबलमिति शेषः || २० || अथोदभूद्गुणध्वानं चटच्चटदिति स्फुटम् | रचितांशुमयाम्भोदाश्चेरुः परपरम्पराः || २१ || गुणध्वानं ज्यासिंजितम् | रचिताः स्वायुधांशुमया अम्भोदा मेघा याभिस्ताः परेषां शत्रूणां परम्पराश्चेरुः || २१ || ययुरम्बरमाश्रित्य नानाहेतिविहंगमाः | प्रसभ्रुरलमात्तासुमलिनाः शस्त्रदीप्तयः || २२ || आत्तासवओ गृहीतपरप्राणा अत एव पापेनेव मलिनाः श्यामाः | प्रसस्रुः प्रसृताः || २२ || जज्वलुः शस्त्रसंघट्टज्वलना उल्मुकाग्निवत् | जगर्जुः शरधारौघान्वर्षन्तो वीरवारिदाः || २३ || विविशुः क्रकचक्रूरा वीराङ्गेषु च हेतयः | पेतुः पटपटारावं हेतिनिष्पिष्टयोऽम्बरे || २४ || हेतिनिष्पिष्टयः खड्गप्रहारा एव पटपटारावात्मना अम्बरे पेतुरुत्पेतुः || २४ || जग्मुः शमं तमांस्याशु शस्त्रकानलदीपकैः | बभूवुरखिला सेना नवनाराचरोमशाः || २५ || उत्तस्थुर्यमयात्रायां कबन्धनटपङ्क्तयः | जगुरुच्चै रणोद्रेकं पिशाच्यो रणदारिकाः || २६ || यमयात्रायां यमाराधनयात्रोत्सवे इति यावत् | नटास्तदनुरूपा रणोत्सवालंकारभूता दारिका बालिकास्तरुण्य इति यावत् || २६ || उदगुर्दन्तसंघट्टटंकारा दन्तिनां बलात् | ऊहुः क्षेपणपाषाणमहानद्यो नभस्तले || २७ || उत् ऊर्ध्वमगुः || २७ || पेतुः शवा निवातास्तसंशुष्कवनपर्णवत् | निर्ययुर्लोहिता नद्यो रणाद्रेर्मृतिवर्षिणः || २८ || नितरां वातेनास्तैः क्षिप्तैः संशुष्कैर्वनपर्णैस्तुल्यं तद्वन्निपेतुः | मृतिः प्राणिमरणं तेन वर्षिणो वृष्टिप्लाविताद्रणलक्षणादद्रेः सकाशात् || २८ || प्. २४३) प्रशेमुः पांसवो रक्तैस्तमांस्यायुधवह्निभिः | युद्धैकध्यानतः शब्दा भयानि मृतिनिश्चयैः || २९ || प्रशेमुरिति सर्वत्र संबध्यते | शब्दा वाक्प्रसराः || २९ || अभवत्केवलं युद्धमपशब्दमसंभ्रमम् | अनाकुलाम्बुवाहाभं खड्गवीचिसटाकृतम् || ३० || अपशब्दमपगतशब्दम् | वायवाद्यनाकुलवर्षदम्बुवाहाभम् | वीचयोऽत्र विद्युत्तरङ्गास्तैः सटांकृतम् || ३० || खदखदरवसंवहच्छरौघं टकटककितारवसंपतद्भुशुण्डि | झणझणरवसंमिलन्महास्त्रं तिमितिमिवद्रणमास दुस्तरं तत् || ३१ || तिमितिमीत्युक्तशस्त्रातिरिक्तप्रहरणध्वन्यनुकरणम् | तद्वत् रणं युद्धं दुस्तरं आस | भीरूणामिति शेषः || ३१ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे लीलोपाख्याने विदूरथनिर्याणं नाम षट्चत्वारिंशः सर्गः || ४६ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे विदूरथनिर्याणं नाम षट्चत्वारिंशः सर्गः ४६ || सप्तचत्वारिंशः सर्गः ४७ श्रीवसिष्ठ उवाच | एतस्मिन्वर्तमाने तु घोरे समरसंगमे | लीलाद्वयमुवाचेदं ज्ञप्तिं भगवतीं पुनः || १ || सिन्धोः शत्रुजये हेतुः सूर्योदयरणक्रमः | युद्धं च द्वैरथं राज्ञोर्मन्त्रास्त्रैरिह कीर्त्यते || १ || पुनःशब्देन वक्ष्यमाणप्रश्नोत्तरयोः प्रागुक्तयुक्तिभिरेव गतार्थत्वात् पुनरुक्तप्रायतया उक्तार्थस्फुटीकारमात्रप्रयोजनतां दर्शयति || १ || लीलाद्वयमुवाच | देवि कस्मादकस्मान्नौ भर्ता जयति नो रणे | वद त्वययपि तुष्टायामस्मिन्विद्रुतवारणे || २ || विद्रुताः प्रधाविता वारणा यस्मिंस्तथाविधे रणे नौ आवयोर्भर्ता विदूरथः || २ || श्रीसरस्वत्युवाच | चिरमाराधितानेन विदूरथनृपारिणा | अहं पुत्रि जयार्थेन न विदूरथभूभृता || ३ || आराधिता जयकामनयेति शेषः || ३ || तेनासावेव जयति जीयते च विदूरथः | ज्ञप्तिरन्तर्गता संविदेतां मां यो यदा यथा || ४ || अन्तर्गता सर्वप्राणिमनोन्तर्गता संवित्संवेदनमहमिति शेषः || ४ || प्रेरयत्याशु तत्तस्य तदा संपादयाम्यहम् | यो यथा प्रेरयति मां तस्य तिष्ठामि तत्फला || ५ || प्रेरयति कामकर्मवासनाबलात्फलदानोन्मुखीकरोति | संपादनं च स्वस्य तत्तत्फलभावेन विवर्त एवेत्युक्तार्थस्फुटीकारेणाह - य इति || ५ || न स्वभावोऽन्यतां धत्ते वह्नेरौष्ण्यमिवैष मे | अनेन मुक्त एव स्यामहमित्यस्मि भाविता || ६ || अनेन विदूरथेन || ६ || प्रतिभारूपिणी तेन बाले मुक्तो भविष्यति | एतदीयः स्वयं शत्रुः सिन्धुर्नाम महीपतिः || ७ || बाले इत्यप्रबुद्धलीलासंबोधनम् | प्रबुद्धलीलायाः प्रागेव समाहितत्वात् || ७ || जयाम्यहं स्यां संग्राम इत्यनेनास्मि पूजिता | तस्माद्विदूरथो देहं तत्प्राप्य सह भार्यया || ८ || जयेन आमयति पीडयति शत्रूनिति जयामी अहं स्यां इति संकल्पेन | स्यामिति सामान्यस्य जयामीति क्रियाविशेषेण पचतिभवतीतिवदभेदान्वयो वा || ८ || त्वयानया च कालेन बाले मुक्तो भविष्यति | एतदीयः स्वयं शत्रुः सिन्धुर्नाम महीपतिः || ९ || त्वया अनया च भार्यया सह || ९ || हत्वैनं वसुधापीठे जयी राज्यं करिष्यति [भविष्यति इति पाठः] | श्रीवसिष्ठ उवाच | एवं देव्यां वदन्त्यां तु बलयोर्युध्यमानयोः || १० || रविर्द्रष्टुमिवाश्चर्यमाजगामोदयाचलम् | चेलुस्तिमिरसंघाता बलानीवारिरूपिणः || ११ || विदूरथस्यारिरूपिणो ये तिमिरसंघाता रात्रौ रक्षःपिशाचादीन् जीवसङ्घान् बलानि स्वसैन्यानीव असृजन् आविश्चक्रुरित्युत्प्रेक्षा | संध्यायां तारका इवेति तस्योपमानम् || ११ || असृजन्जीवसङ्घान्ये संध्यायां तारका इव | शनैः प्रकटतां जग्मुर्नीलाकाशाद्रिभूमयः [बिलाकाशाद्रि इति मुद्रितपुस्तके पाठः] || १२ || भुवनं कज्जलाम्भोधेरिवोत्क्षिप्तमराजत | पेतुः कनकनिःस्यन्दसुन्दरा रविरश्मयः || १३ || उत्क्षिप्तं पर्यानीतम् || १३ || शैलेषु वरवीरेषु रणे रक्तच्छटा इव | अदृश्यत ततो व्योम तथा रणमहीतलम् || १४ || रणमहीतलं वीरबाहुभिर्भ्रान्तभुजगमिव व्योम तु सूर्यस्य बाहुभिरिव किरणैः || १४ || बाहुभिर्भ्रान्तभुजगं प्रभाभिः कीर्णकाञ्चनम् | कुण्डलैः कीर्णरत्नौघं शिरोभिर्दृष्टपङ्कजम् || १५ || उभयमुभयप्रभाभिः कीर्णकाञ्चनमिवादृश्यतेत्यर्थः | एवमग्रेऽप्युत्प्रेक्षयोभयवर्णनं बोध्यम् | उत्पतद्भिः पतितैश्च कुण्डलैः कीर्णरत्नौघं शिरोभिश्च दृष्टपङ्कजं सर इव || १५ || आयुधैः खड्गनीरन्ध्रं शरैः शलभनिर्भरम् | रक्ताभास्थिरसंध्याढ्यं ससिद्धपुरुषं शवैः || १६ || खड्गैर्मृगजातिभिर्नीरन्ध्रं निबिडितमिव | रक्ताभाभिः रक्तकान्तिभिः स्थिरसंध्याढ्यमिव | एवं सर्वत्र || १६ || प्. २४२) चक्रभित्तिपरिप्रोतप्रकचत्काञ्चनाङ्कुरम् | मुक्ताजालरणत्कारचारुविक्रमकूबरम् || ६ || चक्रेषु भित्तिषु च परिप्रोता निखाताः प्रकचन्तः काञ्चनाङ्कुराः स्वर्णकीला यत्र | विक्रमकूबरं दीर्घाग्रभागम् || ६ || सुग्रीवैर्लक्षणोपेतैः प्रशस्तैः प्रचलैः कृशैः | जवोड्डयनवेगेन प्रवहद्भिः सुरानिव || ७ || प्रशस्तैरुत्तमजातिजैः | सुरानिवान्तरिक्षे प्रवहद्भिरित्यतिशयोक्तिः || ७ || वायुं जवेन सहसा असहद्भिर्गतिक्रमैः | प्रोह्यद्भिरिव पश्चार्धमापिवद्भिरिवाम्बरम् || ८ || पूर्वकायगतिक्रमैः पश्चार्धं प्रोह्यद्भिर्वहद्भिरिव | छान्दसो विकरणव्यत्ययः || ८ || योजितैरिव संपूर्णैश्चन्द्रैश्चामरदीप्तिभिः | अश्वैरष्टभिराबद्धमाशापूरकहेषितैः || ९ || चामरदीप्तिभिः संपूर्णैश्चन्द्रैर्योजितैरिवेति सर्वत्रोत्प्रेक्षा || ९ || अथोदपतदुद्दामनागाभ्ररवनिर्भरः | शैलभित्तिप्रतिध्वानदारुणो दुन्दुभिध्वनिः || १० || नागा गजास्तल्लक्षणानामभ्राणां रवेण निर्भरोऽतिशयितः | शैलानां भित्तिषु वप्रेषु प्रतिध्वानेन दारुणो भीरुभीषणः || १० || मत्तसैनिकनिर्मुक्तैर्व्याप्तं कलकलारवैः | किंकिणीजालनिर्ध्वानैर्हेतिसंघट्टघट्टितैः || ११ || हेतीनामायुधानां संघट्टेन संघट्टनशब्देन घट्टितैर्निबिडितैः || ११ || धनुश्चटचटाशब्दैः शरसीत्कारगायनैः | परस्पराङ्गनिष्पिष्टकवचौघझणज्झणैः || १२ || ज्वलदग्निटणत्कारैरार्तिमत्क्रन्दनारवैः | परस्परभटाह्वानैर्वन्दिविक्षुब्धरोदनैः || १३ || बन्दिभिर्वीरोत्साहायाधिक्षेपेण विक्षुब्धानामयुद्धक्षतपीडितानां कातराणां रोदनैः || १३ || शिलाघनीकृताशेषब्रह्माण्डकुहरो ध्वनिः | हस्तग्राह्योऽभवद्भीमो दशाशाकुञ्जपूरकः || १४ || स्वपूरणेन शिलावद्घनीकृतं निरन्तरीकृतमशेषं ब्रह्माण्डकुहरं येन | घनत्वादेव हस्तग्राह्य इत्युत्प्रेक्षा || १४ || अथोदपतदादित्यपथपीवररोधकम् | रजोनिभेन भूपीठमम्बरोड्डयनोन्मुखम् || १५ || आदित्यपथस्य पीवरं सत् रोधं कामयते इति रोधकम् | कमेः क्विप् | रजोनिभेन वेषेण भूपीठमेव अम्बरोड्डयनोन्मुखं भूत्वा उदतिष्ठदित्युत्प्रेक्षा || १५ || गर्भवासमिवापन्नं तेनासीत्तन्महापुरम् | मूढत्वं यौवनेनेव घनतामाययौ तमः || १६ || तेन रजसा | मूढत्वं स्वाभाविकमज्ञानम् | रजोधिकेन यौवनेनेव | तमोन्धकारो घनतां निबिडताम् || १६ || प्रययुः क्वापि दीपौघा दिवसेनेव तारकाः | आययुर्बलमालोला नैशभूतपरम्पराः || १७ || बलं वीर्यं आययुः प्रापुः || १७ || ददृशुस्तन्महायुद्धं द्वे लीले सा कुमारिका | प्रस्फुटद्धृदयेनेव देवीदत्तमहादृशौ || १८ || देव्या ज्ञप्त्या दत्ता महादृशो दिव्यदृष्टयो ययोस्ते | सा विदूरथस्य कुमारिका कन्या च देवीदत्तमहादृगिति विपरिणामेन संबध्यते || १८ || प्रशेमुरथ हेतीषु प्रोद्यत्कटकटारवाः | एकार्णवपयःपूरैर्वालवा इव वह्नयः || १९ || अथ विदूरथनिर्गमनानन्तरं नगरलुण्टाकानां सैन्धवानां हेतीनामिषूणां च प्रोद्यन्तः कटकटारवाः प्रशेमुः प्रलये एकार्णवपयःपूरैर्वालवा वाडवा वह्नय इव | लडयोरभेदात् || १९ || शनैः सेनां समाकर्षन्नाज्ञायत बलान्तरम् | विवेशपक्षप्रोड्डीनो मेरुरेकमिवार्णवम् || २० || सेनां समाकर्षन्स विदूरथः सैन्धवानां बलस्य स्वबलस्य च अन्तरं तारतम्यं न आज्ञायत | अविज्ञायैव एकं सांवर्तमर्णवं मेरुरिव विवेश परबलमिति शेषः || २० || अथोदभूद्गुणध्वानं चटच्चटदिति स्फुटम् | रचितांशुमयाम्भोदाश्चेरुः परपरमपराः || २१ || गुणध्वानं ज्यासिंजितम् | रचिताः स्वायुधांशुमया अम्भोदा मेघा याभिस्ताः परेषां शत्रूणां परम्पराश्चेरुः || २१ || ययुरम्बरमाश्रित्य नानाहेतिविहंगमाः | प्रसभ्रुरलमात्तासुमलिनाः शस्त्रदीप्तयः || २२ || आत्तासवो गृहीतपरप्राणा अत एव पापेनेव मलिनाः श्यामाः | प्रसस्रुः प्रसृताः || २२ || जज्वलुः शस्त्रसंघट्टज्वलना उल्मुकाग्निवत् | जगर्जुः शरधारौघान्वर्षन्तो वीरवारिदाः || २३ || विविशुः क्रकचक्रूरा वीराङ्गेषु च हेतयः | पेतुः पटपटारावं हेतिनिष्पिष्टयोऽम्बरे || २४ || हेतिनिष्पिष्टयः खड्गप्रहारा एव पटपटारावात्मना अम्बरे पेतुरुत्पेतुः || २४ || जग्मुः शमं तमांस्याशु शस्त्रकानलदीपकैः | बभूवुरखिला सेना नवनाराचरोमशाः || २५ || उत्तस्थुर्यमयात्रायां कबन्धनटपङ्क्तयः | जगुरुच्चै रणोद्रेकं पिशाच्यो रणदारिकाः || २६ || यमयात्रायां यमाराधनयात्रोत्सवे इति यावत् | नटास्तदनुरूपा रणोत्सवालंकारभूता दारिका बालिकास्तरुण्य इति यावत् || २६ || उदगुर्दन्तसंघट्टटंकारा दन्तिनां बलात् | ऊहुः क्षेपणपाषाणमहानद्यो नभस्तले || २७ || उत् ऊर्ध्वमगुः || २७ || पेतुः शवा निवातास्तसंशुष्कवनपर्णवत् | निर्ययुर्लोहिता नद्यो रणाद्रेर्मृतिवर्षिणः || २८ || नितरां वातेनास्तैः क्षिप्तैः संशुष्कैर्वनपर्णैस्तुल्यं तद्वन्निपेतुः | मृतिः प्राणिमरणं तेन वर्षिणो वृष्टिप्लाविताद्रणलक्षणादद्रेः सकाशात् || २८ || प्. २४३) प्रशेमुः पांसवो रक्तैस्तमांस्यायुधवह्निभिः | युद्धैकध्यानतः शब्दा भयानि मृतिनिश्चयैः || २९ || प्रशेमुरिति सर्वत्र संबध्यते | शब्दा वाक्प्रसराः || २९ || अभवत्केवलं युद्धमपशब्दमसंभ्रमम् | अनाकुलाम्बुवाहाभं खड्गवीचिसटांकृतम् || ३० || अपशब्दमपगतशब्दम् | वायवाद्यनाकुलवर्षदम्बुवाहाभम् | वीचयोऽत्र विद्युत्तरङ्गास्तैः सटांकृतम् || ३० || खदखदरवसंवहच्छरौघं टकटकितारवसंपतद्भुशुण्डि | झणझणरवसंमिलन्महास्त्रं तिमितिमिवद्रणमास दुस्तरं तत् || ३१ || तिमितिमीत्युक्तशस्त्रातिरिक्तप्रहरणध्वन्यनुकरणम् | तद्वत् रणं युद्धं दुस्तरं आस | भीरूणामिति शेषः || ३१ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे लीलोपाख्याने विदूरथनिर्याणं नाम षट्चत्वारिंशः सर्गः || ४६ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे विदूरथनिर्याणं नाम षट्चत्वारिंशः सर्गः || ४६ || सप्तचत्वारिंशः सर्गः ४७ श्रीवसिष्ठ उवाच | एतस्मिन्वर्तमाने तु घोरे समरसंगमे | लीलाद्वयमुवाचेदं ज्ञप्तिं भगवतीं पुनः || १ || सिन्धोः शत्रुजये हेतुः सूर्योदयरणक्रमः | युद्धं च द्वैरथं राज्ञोर्मन्त्रास्त्रैरिह कीर्त्यते || १ || पुनःशब्देन वक्ष्यमाणप्रश्नोत्तरयोः प्रागुक्तयुक्तिभिरेव गतार्थत्वात् पुनरुक्तप्रायतया उक्तार्थस्फुटीकारमात्रप्रयोजनतां दर्शयति || १ || लीलाद्वयमुवाच | देवि कस्मादकस्मान्नौ भर्ता जयति नो रणे | वद त्वययपि तुष्टायामस्मिन्विद्रुतवारणे || २ || विद्रुताः प्रधाविता वारणा यस्मिंस्तथाविधे रणे नौ आवयोर्भर्ता विदूरथः || २ || श्रीसरस्वत्युवाच | चिरमाराधितानेन विदूरथनृपारिणा | अहं पुत्रि जयार्थेन न विदूरथभूभृता || ३ || आराधिता जयकामनयेति शेषः || ३ || तेनासावेव जयति जीयते च विदूरथः | ज्ञप्तिरन्तर्गता संविदेतां मां यो यदा यथा || ४ || अन्तर्गता सर्वप्राणिमनोन्तर्गता संवित्संवेदनमहमिति शेषः || ४ || प्रेरयत्याशु तत्तस्य तदा संपादयाम्यहम् | यो यथा प्रेरयति मां तस्य तिष्ठामि तत्फला || ५ || प्रेरयति कामकर्मवासनाबलात्फलदानोन्मुखीकरोति | संपादनं च स्वस्य तत्तत्फलभावेन विवर्त एवेत्युक्तार्थस्फुटीकारेणाह - य इति || ५ || न स्वभावोऽन्यतां धत्ते वह्नेरौष्ण्यमिवैष मे | अनेन मुक्त एव स्यामहमित्यस्मि भाविता || ६ || अनेन विदूरथेन || ६ || प्रतिभारूपिणी तेन बाले मुक्तो भविष्यति | एतदीयः स्वयं शत्रुः सिन्धुर्नाम महीपतिः || ७ || बाले इत्यप्रबुद्धलीलासंबोधनम् | प्रबुद्धलीलायाः प्रागेव समाहितत्वात् || ७ || जयाम्यहं स्यां संग्राम इत्यनेनास्मि पूजिता | तस्माद्विदूरथो देहं तत्प्राप्य सह भार्यया || ८ || जयेन आमयति पीडयति शत्रूनिति जयामी अहं स्यां इति संकल्पेन | स्यामिति सामान्यस्य जयामीति क्रियाविशेषेण पचतिभवतीतिवदभेदान्वयो वा || ८ || त्वयानया च कालेन वाले मुक्तो भविष्यति | एतदीयः स्वयं शत्रुः सिन्धुर्नाम महीपतिः || ९ || त्वया अनया च भार्यया सह || ९ || हत्वैनं वसुधापीठे जयी राज्यं करिष्यति [भविष्यति इति पाठः] | श्रीवसिष्ठ उवाच | एवं देव्यां वदन्त्यां तु बलयोर्युध्यमानयोः || १० || रविर्द्रष्टुमिवाश्चर्यमाजगामोदयाचलम् | चेलुस्तिमिरसंघाता बलानीवारिरूपिणः || ११ || विदूरथस्यारिरूपिणो ये तिमिरसंघाता रात्रौ रक्षःपिशाचादीन् जीवसङ्घान् बलानि स्वसैन्यानीव असृजन् आविश्चकुरित्युत्प्रेक्षा | संध्यायां तारका इवेति तस्योपमानम् || ११ || असृजन्जीवसङ्घान्ये संध्यायां तारका इव | शनैः प्रकटतां जग्मुर्नीलाकाशाद्रिभूमयः [बिलाकाशाद्रि इति मुद्रितपुस्तके पाठः] || १२ || भुवनं कज्जलाम्भोधेरिवोत्क्षिप्तमराजत | पेतुः कनकनिःस्यन्दसुन्दरा रविरश्मयः || १३ || उत्क्षिप्तं पर्यानीतम् || १३ || शैलेषु वरवीरेषु रणे रक्तच्छटा इव | अदृश्यत ततो व्योम तथा रणमहीतलम् || १४ || रणमहीतलं वीरबाहुभिर्भ्रान्तभुजगमिव व्योम तु सूर्यस्य बाहुभिरिव किरणैः || १४ || बाहुभिर्भ्रान्तभुजगं प्रभाभिः कीर्णकाञ्चनम् | कुण्डलैः कीर्णरत्नौघं शिरोभिर्दृष्टपङ्कजम् || १५ || उभयमुभयप्रभाभिः कीर्णकाञ्चनमिवादृश्यतेत्यर्थः | एवमग्रेऽप्युत्प्रेक्षयोभयवर्णनं बोध्यम् | उत्पतद्भिः पतितैश्च कुण्डलैः कीर्णरत्नौघं शिरोभिश्च दृष्टपङ्कजं सर इव || १५ || आयुधैः खड्गनीरन्ध्रं शरैः शलभनिर्भरम् | रक्ताभास्थिरसंध्याढ्यं ससिद्धपुरुषं शवैः || १६ || खड्गैर्मृगजातिभिर्नीरन्ध्रं निबिडितमिव | रक्ताभाभिः रक्तकान्तिभिः स्थिरसंध्याढ्यमिव | एवं सर्वत्र || १६ || प्. २४४) १४७ हारैः ससर्पनिर्मोकं कटैरिद्धं सुसंकुलम् | लसल्लतं पताकाभिरुरुभिः कृततोरणम् || १७ || कटैः कंकटैः || १७ || हस्तैः पादैः पल्लवितं शरैः शरवणोपमम् | शस्त्रांशुशाद्वलश्यामं शस्त्रपूरैः सकैतकम् || १८ || कीर्णमायुधमालाभिरुन्मत्तमिव भैरवम् | फुल्लाशोकवनाकारं शस्त्रसंघट्टवह्निभिः || १९ || उदघुंघुमहाशब्दैर्विद्रवत्सिद्धनायकैः | सौवर्णनगराकारं बालार्ककचितायुधैः || २० || उदधिवद्घुंघुमहाशब्दैः | उदधिशब्दस्य च्छान्दसो धिलोपः | सौवर्णनगरं त्रिपुरे प्रसिद्धं तदाकारम् || २० || प्रासासिशक्तिचक्रर्ष्टिमुद्गरारणिताम्बरम् | वहद्रक्तनदीरंहःप्रोह्यमानशवोत्करम् || २१ || भुशुण्डीशक्तिकुन्तासिशूलपाषाणसंकुलम् | शूलशस्त्राहतिच्छन्नकबन्धपतनान्वितम् || २२ || कालताण्डववेतालकुलारब्धहलारवम् | शून्ये रणाङ्गणे दीप्तौ पद्मसिन्ध्वो रथौ चलौ || २३ || इत्थं व्योमरणमहीतले वर्णयित्वा सिन्धुविदूरथयोर्द्वैरथं युद्धं रथादिद्वारा वर्णयति - शून्ये इत्यादिना | शून्ये परिवारयोधानां परस्परं युद्धेन क्षयादिति भावः || २३ || अदृश्येतां नभश्चिह्नौ चन्द्रसूर्यौ दिवीव तौ | चक्रशूलभुशुण्ड्यृष्टिप्रासायुधसमाकुलौ || २४ || नभसश्चिह्नौ लक्षणभूतौ | दिवि स्वर्गे || २४ || सहस्रेण सहस्रेण वीराणां परिवारितौ | विचरन्तौ यथाकामं मण्डलैर्विततारवैः || २५ || सचीत्कारमहाचक्रपिष्टानेकमृतामृतौ | तरन्तौ रक्तसरितौ मत्तवारणलीलया || २६ || रक्तसरितौ अन्योन्यसंपादिते तरन्तौ || २६ || केशशैवलसंपन्ने चक्रचक्रजलेन्दुके | वहच्चक्राहतिक्षोभपातिताकुलवारणौ || २७ || चक्राण्येव चक्राश्चक्रवाका जलप्रतिबिम्बितेन्दुकाश्च ययोस्तथाविधे रक्तसरितौ || २७ || मणिमुक्ताझणत्काररणत्कूबरकारवौ | वाताहतपताकाग्रपटत्पटपटारवौ || २८ || झणत्कारलक्षणा रणतां रणप्रवृत्तानां वा रथकूबरकाणामारवा ध्वनयो ययोस्तौ || २८ || अनुयातौ महावीरैर्भूरिभिर्भीरुसैनिकैः | धारा वमद्भिः कुन्तानां शराणां धनुषामपि || २९ || भीरवः सैनिका येषां तथाविधैर्भूरिभिर्महावीरैरनुयातौ | धनुषां संबन्धिनां शराणां शक्त्यादीनामपि धारा वमद्भिः | क्षिपद्भिरिति यावत् || २९ || शक्तीनां प्रासशङ्कूनां चक्राणां कचतां रणे | तत्र तौ क्षणमावृत्य मण्डले भूमिकुण्डले || ३० || रणभूमेः कुण्डले इवालंकारभूते रथयोः परिवर्तनरूपे मण्डले क्षणमावृत्य || ३० || उभौ व्यतिबभूवाते संमुखावायुधावुभौ | नाराचधारानिकरविक्षेपकरकध्वनौ || ३१ || आयोधनमायुधिर्युद्धं तस्मिन्नुभौ व्यतिबभूवाते परस्परक्रियाव्यत्यासेन बभूवतुः | व्यतिशब्दौ कर्मव्यतिहारद्योतनार्थौ | कर्तरि कर्मव्यतिहारे इत्यात्मनेपदम् | व्यतिहृतक्रियां दर्शयति - नाराचेति | नाराच एव जलधारानिकराः | विक्षिप्यन्त इति विक्षेपाः प्रासकुन्तादयस्त एव करका वर्षोपलास्तत्पातनसहनप्रयुक्तध्वनौ विषये अब्धिजलदाविव पुनःपुनः पर्यायेणैको जलद इव ववर्ष अपरोऽब्धिरिव सेहे | तत्र च ध्वनिमात्रं वृत्तं न क्षतादिफलान्तरमिति द्योतनाय ध्वनावित्युक्तिः || ३१ || अन्योन्यमपि गर्जन्तौ मत्तब्धिजलदाविव | तयोः प्रहरतोर्बाणा वसुधानरसिंहयोः || ३२ || पाषाणमुसलाकारा व्योमविस्तारिणोऽभवन् | करवालमुखाः केचिन्मुद्गराननकाः परे || ३३ || तयोः शराणां वैचित्र्यं वर्णयति - पाषाणेत्यादिना | व्योम्नि विस्तारिणः अभवन्निति सर्वत्र संबध्यते || ३३ || शितचक्रमुखाः केचित्केचित्परशुवक्रकाः | केचिच्छक्तिमुखाः केचित्केचिच्छूलशिलामुखाः | त्रिशूलवदनाः केचित्स्थूला इव महाशिलाः || ३४ || केचित्केचिदिति वीप्साविवक्षया द्विरुक्तिः || ३४ || प्रलयपवनपातिताः शिलौघा इव निपतन्ति शिलीमुखास्तदा स्म | प्रमिलितमभवत्तयोस्तदानीं प्रलयविजृम्भितसिन्धुसंभ्रमेण || ३५ || शिलीमुखा बाणाः तयोः सिन्धुविदूरथयोः प्रमिलितमन्योन्यमेलनं प्रलयार्थं विजृम्भितयोर्विवृद्धयोः सिन्ध्वोः समुद्रयोः संभ्रमेण परस्परमेलनविलासेन अभवत् तुल्यमिति शेषः || ३५ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे ली० विदूरथसिन्धुसमागमो नाम सप्तचत्वारिंशः सर्गः || ४७ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे विदूरथसिन्धुसमागमो नाम सप्तचत्वारिंशः सर्गः || ४७ || प्. २४५) १४७ अष्टचत्वारिंशः सर्गः ४८ श्रीवसिष्ठ उवाच | प्राप्य राजा पुरः प्राप्तं सिन्धुमुद्धुरकन्धरम् | मध्याह्नतपनान्तेन कोपेन विततोऽभवत् || १ || विचित्रमायाजननैर्मन्त्रास्त्रैर्विश्वमोहनः | वर्ण्यते विस्तरेणात्र समरः सिन्धुपद्मयोः || १ || मध्याह्नतपनं अन्तयति सादृश्येन बध्नातीति मध्याह्नतपनान्तस्तेन | तत्सदृशेनेति यावत् | अति बन्धने कर्मण्यण् || १ || धनुरास्फालयामास चिरारावितदिङ्मुखम् | कल्पान्तपवनास्फोटैव मेरुगिरेस्तटम् || २ || आस्फालयामास विस्फारयामास || २ || विससर्जोर्जितो राजा प्रलयार्कः करानिव | तूणीररजनीबद्धाः शिलीमुखपरम्पराः || ३ || रजनीपदेन तत्स्थानि मुकुलितपद्मानि लक्ष्यन्ते | तेषु बद्धाः शिलीमुखा बाणा भ्रमराश्च तत्परम्पराः || ३ || एक एव विनिर्याति गुणात्तस्य शिलीमुखः | सहस्रं भवति व्योम्नि गच्छन्पतति लक्षशः || ४ || यदा विनिर्याति तदैक एव || ४ || सिन्धोरपि तथैवासीच्छक्तिर्लाघवमेव च | वरेण वरदस्यैवं विष्णोर्धानुष्कता तयोः || ५ || कुत ईदृशं युद्धकौशलं तयोरिति तत्राह - वरेणेति | विष्णोस्तपसा आराधितस्येति गम्यते | धानुष्कता धनुर्युद्धकुशलता || ५ || मुसला नाम ते बाणा मुसलाकृतयोऽम्बरम् | छादयामासुरुन्नादाः कल्पान्ताशनयो यथा || ६ || उन्नादा महाध्वनयः || ६ || रेजुः कनकनाराचराजयो व्योम्नि सस्वनाः | रसन्त्यः कल्पवातार्ताः पतन्त्य इव तारकाः || ७ || कनकरञ्जिता नाराचा बाणाः | रसन्त्यो ध्वनन्त्यः || ७ || विदूरथाच्छरासारा अजस्रमभिनिर्ययुः | अब्धेरिव पयःपूराः सूर्यादिव मरीचयः || ८ || प्रचण्डपवनोद्धूतात्पुष्पाणीव महातरोः | अयःपिण्डादिवोत्तप्तात्ताडितात्कणपङ्क्तयः || ९ || धारा वर्षमुच इव सीकरा इव निर्झरात् | तत्पुराग्निमहादाहात्स्फुलिङ्गा इव भासुराः || १० || वर्षाणि वृष्टीर्मुञ्चतीति वर्षमुक् तस्माद्वर्षमुचो धारा इव | तत्पुरस्य विदुरथनगरस्य | प्रागुक्तादग्निमहादाहात् || १० || तयोश्चटचटास्फोटं शृण्वत्कोदण्डयोर्द्वयोः | बलद्वयमभूत्प्रेक्षामूकं शान्त इवाम्बुधिः || ११ || बलद्वयं सेनाद्वयम् || ११ || वहन्ति स्म शरापूरा गङ्गापूरा इवाम्बरे | सिन्धोरभिमुखं युद्धे घर्घरारावरंहसः || १२ || सिन्धो राज्ञः समुद्रस्य च | घर्घरारावयुक्तानि रंहांसि वेगा येषाम् || १२ || कचत्कनकनाराचशरवर्षा अनारतम् | वहच्छवशवाशब्दं निर्ययुर्धनुरम्बुदात् || १३ || बाणमन्दाकिनीपूरं व्रजन्तं सिन्धुपूरणे | वातायनात्तमालोक्य लीला तत्पुरवासिनी || १४ || तेन बाणसमूहेन जयमाशङ्क्य भर्तरि | उवाच वाक्यमानन्दविकसन्मुखपङ्कजा || १५ || जय देवि जयत्येष नाथोऽस्माकं विलोकय | किंचानेन शरौघेण मेरुरप्येति चूर्णताम् || १६ || तस्यामेवं वदन्त्यां तु घनस्नेहरवाकुलम् | प्रेक्षणव्यग्रयोर्देव्योर्हसन्त्योर्मानुषीं हृदा || १७ || मानुषीं मनुष्यदेहात्मबुद्धिम् | अप्रबुद्धामिति यावत् || १७ || तच्छरार्णवमामत्तमपिबत्सिन्धुवाडवः | शरोष्मणा ह्यगस्त्येन जह्नुर्मन्दाकिनीमिव || १८ || अगस्त्येनागस्त्यीभूतेन शरोष्मणा करणेनापिवत् | उपसंहृतवानिति यावत् || १८ || बाणवर्षेण कणशस्तं सायकमहाघनम् | छित्त्वा तनुरजः कृत्वा चिक्षेप गगनार्णवे || १९ || तनुरजः कृत्वा धूलीकृत्येत्यर्थः || १९ || यथा दीपस्य शान्तस्य न परिज्ञायते गतिः | तस्य सायकसङ्घस्य न विज्ञाता तथा गतिः || २० || तं छित्त्वा सायकासारं शरीराम्बुधरं घनम् | व्योम्नि प्रसारयामास रसाच्छवशतान्वितम् [रसात् युद्धविषये रागात्] || २१ || शरीरलक्षणानामम्बूनां धरम् | तस्योपपत्तिः शवशतान्वितमिति || २१ || विदूरथस्तमप्याशु व्यधमत्सायकोत्तमैः | सामान्यजलदं मत्तं कल्पान्तपवनो यथा || २२ || कृतप्रतिकृतैरेवं बाणवर्षैर्महीपती | व्यर्थीकृतैरनयतां प्रहारमविचारणैः || २३ || प्रहारं बाणाभिघातं अविचारणैर्लक्षीकरणैरनयतां अत्यवाहयताम् | यद्वा प्रहारं छान्दसो दीर्घः | प्रहरमितं कालं कृतप्रतिकृतैरनयताम् || २३ || अथादधे मोहनास्त्रं सिन्धुर्गन्धर्वसौहृदात् | प्राप्तं तेन ययुर्लोका विना मोहं विदूरथात् || २४ || गन्धर्वस्य सौहृदान्मैत्रीवशात्प्राप्तम् | विदूरथाद्विना विदूरथमेकं वर्जयित्वा अन्ये परिवारलोका मोहं ययुः | पृथग्विनानानाभिस्तृतीयान्यतरस्याम् इति सूत्रे अपादाने पञ्चमीत्यतः पञ्चम्यप्यनुवर्तत इति मतेन पञ्चमी || २४ || व्यस्तशस्त्राम्बरा मूका विषण्णवदनेक्षणाः | मृता इवाभवन्योधाश्चित्रन्यस्ता इवाथवा || २५ || मोहप्रकारमेव वर्णयति - व्यस्तेति || २५ || यावद्विदूरथादन्यं मोहो नयति मन्दताम् | तावद्विदूरथो राजा प्रबोधास्त्रमथाददे || २६ || अन्यं जनम् || २६ || प्. २४६) १४८ ततः प्रबोधमापन्नाः प्रजाः प्रातरिवाब्जिनी | विदूरथे भवत्सिन्धुः क्रुद्धोऽर्क इव राक्षसे || २७ || विदूरथे विषये | राक्षसे मन्देहाख्येऽर्क इव क्रुद्धो लोहितोऽभूदित्यर्थः || २७ || नागास्त्रमाददे भीमं पाशबन्धनखेददम् | तेनाभवन्नभो व्याप्तं भोगिभिः पर्वतोपमैः || २८ || भोगिभिः सर्पैः || २८ || सर्पैर्विलसिता भूमिर्मृणालैः सरसी यथा | संपन्ना गिरयः सर्वे कृष्णपन्नगकम्बलाः || २९ || तत्र भूः पाण्डुरैः सर्पैर्व्याप्ता पर्वतास्तु कृष्णैरिति वैचित्र्यमाह - सर्पैरिति || २९ || पदार्थाः सर्व एवेमे विषोष्मखिन्नतां ययुः | सपर्वतवनाभोगा ययौ विवशतां मही || ३० || विषोष्मणा खिन्नतामिव म्लानताम् | विवशतां व्याकुलताम् || ३० || पूताङ्गारसमाकीर्णं विषवैषम्यशंसिनः | ववू रूक्षोष्णनीहारवाता ज्वलनरेणवः || ३१ || रुक्षा उष्णाश्च नीहारा हिमाः स्निग्धशीतला अपि पदार्था यैस्तथाविधा ये वातास्तल्लक्षणा ज्वलनरेणवः पूतैर्भस्मनो विवेचितैरङ्गारैः समाकीर्णं यथा स्यात्तथा ववुः || ३१ || विदूरथोऽथ सौपर्णमाददेऽस्त्रं महास्त्रवित् | उदगुर्गरुडास्त्रेण सौपर्णाः पर्वता इव || ३२ || उदगुर्निर्ययुः | सुपर्णा एव सौपर्णाः || ३२ || काञ्चनीकृतसर्वाशाः सर्वाशापरिपूरकाः | पक्षपर्वतसंरम्भजनितप्रलयानिलाः || ३३ || पक्षैः सपक्षपर्वतसदृशेनोड्डयनसंरम्भेण जनितप्रलयानिलाः || ३३ || घोणानिलजवाकृष्टश्वसद्भुजगमण्डलाः | महाघुरघुरारावपूरिताम्भोधिखण्डकाः || ३४ || घोणा नासास्तदनिलजवेन श्वासवेगेन || ३४ || स सुपर्णघनोऽपात्तं सर्पौघं भूप्रपूरकम् | कष्टं शलशलायन्तमगस्त्य इव वारिधिम् || ३५ || सः सुपर्णलक्षणो घनो मेघस्तं सर्पलक्षणमोघं प्रवाहं अपात् अपिबत् | पिबतेर्लुङि गातिस्था इति सिचो लुक् | विशेषणान्योघवारिध्योः साधारण्येन योज्यानि || ३५ || सर्पकम्बलनिर्मुक्तं भूमण्डलमराजत | चिरात्तमवनीरन्ध्रमिव निर्वारिराशि च || ३६ || चिराद्वराहेण आत्तमुद्धृतमत एव निर्गतं वारिराशेरिति निर्वारिराशि च | अवनीरन्ध्रं भूम्यवकाशमिव || ३६ || ततस्तद्गरुडानीकं क्वाप्यगच्छददृश्यताम् | दीपौघ इव वातेन शरदेवाब्दमण्डलम् || ३७ || वज्रभीत्येव पक्षौघपर्वतप्रकरः पुरः | स्वप्नदृष्टं जगदिव संकल्पपुरपूरवत् || ३८ || पक्षौघयुक्तमैनाकादिपर्वतप्रकर इव | संकल्पकल्पितं पुरं पूरश्च तद्वत् || ३८ || ततस्तमोऽस्त्रमसृजत्सिन्धुरन्धान्धकारदम् | तेनान्धकारो [तेनान्धकारः कृष्णोऽभूद्भुबिले जठरोपमः इति पाठ तत्र भूबिले पाताले यज्जठरं मध्यं तदुपम इत्यर्थः] ववृधे कृष्णो भूजठरोपमः || ३९ || जठरं मध्यम् || ३९ || रोदोरन्ध्रे प्रविसृत एकार्णव इवाभवत् | मत्स्या इवाभवन्सेनास्ताराश्च मणयोऽभवन् || ४० || रोदस्योर्द्यावाभूम्योः रन्ध्रेऽन्तराले | एकार्णवसाम्योपपादनायाह - मत्स्या इवेति | मणय इवेत्यत्रापि संबध्यते || ४० || अन्धकारप्रवृत्तेन मषीपङ्कार्णवोपमम् | कज्जलाचलसंभारोद्भूतकल्पानिलैरिव || ४१ || अन्धकारस्य प्रवृत्तेन प्रवृत्त्या | भावे क्तः | मषीपङ्कार्णवोपमं अभूज्जगदिति शेषः | कज्जलाचलस्याञ्जनगिरेः संभारैः उपादानभूतै रेणुभिः सह उद्भूतैः कल्पानिलैः प्रलयवायुभिरिव व्याप्तमिति शेषः || ४१ || अन्धकूपे निपतिता इवासन्सकलाः प्रजाः | कल्पान्त इव संशेमुर्व्यवहारा दिशं प्रति || ४२ || दिशं [दिशः इति पाठः] प्रति प्रतिदिशम् || असमासश्छान्दसः || ४२ || विदूरथोऽथ मार्तण्डं दीपं ब्रह्माण्डमण्डपे | अस्त्रं मन्त्रविदां श्रेष्ठः सृष्ट्वा मन्त्रो व्यचेष्टयत् || ४३ || अमन्त्रः मन्त्रणं मन्त्रो गुप्तविचारस्तदनपेक्ष एव व्यचेष्टयज्जगदित्यर्थः || ४३ || अथोदिततमोम्भोधिमर्कागस्त्यो गभस्तिभिः | अपिबत्कृष्णमम्भोदं शरत्काल इवामलः || ४४ || अन्धकाराम्बरोन्मुक्ता विरेजुरमला दिशः | भूपतेः पुरतः कान्ता इव रम्यपयोधराः || ४५ || अन्धकारलक्षणेनाम्बरेण वस्त्रेण | पयोधरा मेघाः स्तनाश्च || ४५ || ययुः प्रकटतामन्तरखिला वनराजयः | लोभकज्जलजालेन मुक्ता इव सतां धियः || ४६ || अथ कोपाकुलः सिन्धु राक्षसास्त्रं महाभयम् | क्षणादुदीरयामास मन्त्रोदीर्णशरात्मकम् || ४७ || उदगुर्भीषणा दिग्भ्यः परुषा वनराक्षसाः | पातालगजफुत्कारक्षुब्धा इव महार्णवाः || ४८ || उदगुर्निर्जग्मुः | पातालस्था गजा दिग्गजाः || ४८ || कपिलोर्ध्वजटाधूम्राः स्फुटच्चटचटारवाः | अग्नयो लेलिहानोग्रजिह्वा आर्द्रेन्धना इव || ४९ || आर्द्रं इन्धनं येषां तथाविधा अग्नय इव धूम्राः | अग्निपक्षे काली कराली च मनोजवा च सुलोहिता या च सुधूम्रवर्णा | स्फुलिङ्गिनी विश्वरुची च देवी लेलायमाना इति सप्त जिह्वाः इति श्रुतिप्रसिद्धा जिह्वाः || ४९ || सावर्तवृत्तयो व्योम्नि भीमचीत्कारटांकृताः | अग्निदाहा महाधूमविलोला इव सोल्मुकाः || ५० || आवर्तानां वृत्तिर्भ्रमणं तत्सहिताः || ५० || दंष्ट्राबिसाङ्कुराक्रान्तमुखपङ्काक्षदेहकाः | उदिता लोमजम्बाला दुष्पल्वलतटा इव || ५१ || दंष्ट्रालक्षणैर्बिसाङ्कुरैर्मृणालैराक्रान्तैर्मुखैः पङ्कैर्मलिनैरक्षैश्चक्षुरादिभिः कर्दमैः पद्मबीजैश्चोपलक्षितदेहकाः | लोमान्येव जम्बालानि शैवला येषाम् || ५१ || प्. २४७) १४८ निगिरन्तः प्रधावन्तो गर्जन्तः सर्जिता इव | जटाजालतडित्पुञ्जा जलदाः सजला इव || ५२ || निगिरन्तो जनान् जलदपक्षे ज्योतीषि | जगन्निगरणार्थमेव सर्जिताः सृष्टा इव | निवृत्तप्रेषणाद्घातोः प्राकृतेऽर्थे णिच् || ५२ || एतस्मिन्नन्तरे तस्मिंल्लीलानाथो विदूरथः | नारायणास्त्रं प्रददे दुष्टभूतनिवारणम् || ५३ || तस्मिन्युद्धे | प्रददे प्रयोक्तुमाददे || ५३ || उदीर्यमाण एवास्मिन्मन्त्रराजेऽस्त्रराजयः | राक्षसानां प्रशेमुस्ता अन्धकार इवोदये || ५४ || प्रमुष्टराक्षसानीकमभवद्भुवनत्रयम् | शरदीव गताम्भोदं व्योम निर्मलमाबभौ || ५५ || अथ सिन्धुर्मुमोचास्त्रमाग्नेयं ज्वलिताम्बरम् | जज्वलुः ककुभस्तेन कल्पाग्निज्वलिता इव || ५६ || ककुभो दिशः || ५६ || धूमाम्बुदभराच्छन्ना बभूवुः सकला दिशः | गगने प्रोतपातालतिमिराकुलिता इव || ५७ || गगने प्रोतेन पातालसंबन्धिना तिमिरेणाकुलिता व्याकुलीकृताः || ५७ || बभूवुर्ज्वलिताकारा गिरयः काञ्चना इव | प्रफुल्लवननीरन्ध्रचम्पकौघवना इव || ५८ || ययुर्व्योमाद्रिदिक्कुञ्जा ज्वालाजालजटालताम् | कुङ्कुमेनोत्सवे मृत्योः समालब्धा इव स्रजः || ५९ || ज्वालाजालैर्जटालतां जटिलताम् | मृत्योः क्ष्वेलिकासेचनोत्सवे कुङ्कुमेन समालब्धाः सिक्ताः स्रज इव || ५९ || ज्वलिता जनता चैकशङ्किनी सा नभःस्पृशा | सहस्राकृतिनौवेगचलितेनेव सागरात् || ६० || सागरात् सहस्राकृतिभिर्नावां वेगैश्चलितेन आगतेन वडवाग्निनेव जनता एकशङ्किनी वह्न्यद्वैतमेव जगतः संभावयन्ती सती ज्वलिता || ६० || जित्वा रिपुं पुनरसौ यथा प्रहरते तथा | वारुणं विससर्जास्त्रं पूजयित्वा विदूरथः || ६१ || असौ वक्ष्यमाणास्त्रविशेषः | आग्नेयमस्त्रं जित्वा | अप्यर्थे पुनःशब्दः | रिपुं सिन्धुमपि यथा प्रहरते तथा वारुणं अस्त्रं पूजयित्वा विससर्ज || ६१ || आययुः सलिलापूरास्तमःपूरा इवाभितः | अधस्तादूर्ध्वतो दिग्भ्यो द्रवरूपा इवाद्रयः || ६२ || भागा इव शरव्योम्नि धृतयाना इवाम्बुदाः | महार्णवा इवोच्चस्थाः कुलशैलशिला इव || ६३ || शरव्योम्नि शरमार्गावकाशे तदीयभागा अवयवा इव | धृतयाना निबद्धगतयः | उच्चस्था ऊर्ध्वदेशाद्विलुठिताः कुलशैलानां बृहच्छिला इव || ६३ || तमालौघा इवोड्डीनाह् संधिता इव रात्रयः | कज्जलौघा इवोद्भूता लोकालोकतटादिव || ६४ || लोकालोकस्य गिरेस्तटान्धकारकज्जलौघा इव || ६४ || रसतलगुहाभोगा इव व्योमदिदृक्षवः | महाघुरघुरारावरंहोबृंहितमूर्तयः || ६५ || व्योम ऊर्ध्वाकाशं दिदृक्षव इवेत्युत्प्रेक्षा | सूर्मयः इति पाठे सूर्मिः प्रतिमा मूर्तिरिवेत्येवार्थः || ६५ || तामग्निसंततिं मत्तामाचचामाम्बुसंततिः | भुवनव्यापिनी संध्यामाशु कृष्णेव यामिनी || ६६ || तामग्निसंततिं पीत्वा पूरयामास भूतलम् | जलश्रीर्जटितं देहं निद्रेव व्यक्तिमेयुषी || ६७ || एवंविधानस्त्रमोहान्विदधुर्धावनेतरे | मिथोमायामयानग्रे पश्यन्त्यनुभवन्ति च || ६८ || धावनाह् पूर्वास्त्रकृतमालिन्यविशोधकास्तदितरे तद्विरुद्धाश्चान्येऽयस्त्रविदः | विभाषा जसि इति वैकल्पिकी सर्वनामता | मिथ्याभूतानामप्यस्त्रमोहानामर्थक्रियासामर्थ्यं दर्शयति - मिथ इति | अनुभवन्ति शत्रुविध्वंसादिफलमुखेनापि जना इति शेषः || ६८ || हेतिभारवराः सिन्धोश्चक्ररक्षास्ततोऽम्भसा | तृणानीव गताः प्रोह्य रथश्चास्याभवत्प्लुतः || ६९ || चक्रं स्वबलं रक्षन्तीति चक्ररक्षाः हेतीनामायुधानां भारावराः श्रेष्ठा योधाश्च || ६९ || एतस्मिन्नन्तरे सिन्धुरस्त्रं सस्मार शोषणम् | आपत्त्राणकरं दैवं ददौ च शररूपिणम् || ७० || शररूपिणं शोषणास्त्रं ददौ | धनुषि संदधे इत्यर्थः || ७० || शशामाम्बुमयी माया तेन यामेव भास्वता | ये मृतास्ते मृता एव बभूवुः शोषिता भुवः || ७१ || नामैकदेशे नामग्रहणाद्यामा त्रियामा रात्रिरिव | भास्वता सूर्येण | भुवो भूप्रदेशाः शोषिता बभूवुः || ७१ || अथ मूर्खरुषा तुल्यस्तापः संतापयन्प्रजाः | जजृम्भे झर्झराकीर्णवनविस्तारकर्कशः || ७२ || तापस्तीव्रातपः | झर्झरैः शुष्कपर्णैराकीर्णैर्वनविस्तारैः कर्कशः || ७२ || कचत्कनकनिःस्यन्दसुन्दराङ्गच्छविर्दिशाम् | आसीद्राजवरस्त्रीणामिवालेपोऽङ्गसंगतः || ७३ || दिशामालेपोऽङ्गराग इव आसीत् || ७३ || तेन घर्ममयीं मूर्च्छामाजग्मुस्तद्विरोधिनः | ग्रीष्मदावानलोत्तप्ता मृदवः पल्लवा इव || ७४ || विदूरथो रणोद्रेके तावत्क्रेंकारमाततम् | कोदण्डं कुण्डलीकृत्य पर्जन्यास्त्रमथाददे || ७५ || क्रेंकारो ज्यास्वनस्तस्य मा श्रीस्तया ततम् || ७५ || उदगुः पङ्क्तयोऽब्दानां यामिन्य इव संचिताः | तमालविपिनोड्डीनसंरम्भादम्बुमन्थराः || ७६ || तमालविपिनस्य यदुड्डीनमाकाशे गमनं तदिव संरम्भाद्विभ्रमात् | उदगुः उद्ययुः || ७६ || वामना वारिपूरेण गर्जनोद्दामसंचराः | महिम्नामन्थराशेषककुम्मण्डलकुण्डलाः || ७७ || वारिपूरेण नम्रत्वाद्वामना अप्रांशवः | महिम्ना तिर्यग्विस्तारेण अमन्थराणि स्वाभाविकविस्तारे कुण्ठितगतीनीव संकुचितानि अशेषदिङ्मण्डलानि कुण्डलानीव संपन्नानि येषाम् || ७७ || प्. २४८) १४९ ववुरावलितासारा मेघडम्बरभेदिनः | कीर्णसीकरनीहारभारोदाराः समीरणाः || ७८ || कीर्णैः शीकरैरम्बुकणैर्नीहारभारेण शैत्योत्कर्षेण उदाराः सुखदाः समीरणा वायवो ववुः || ७८ || प्रपुस्फुरुः सुसौवर्णसर्पापत्सरणोपमाः | विद्युतो दिवि दैव्यस्त्रीकटाक्षवलना इव || ७९ || सौवर्णानां सर्पाणां प्रागुक्तसंतापलक्षणाया आपदः सकाशात्सरणं बहिर्निःसरणं यत्पर्वतादौ प्रसिद्धं तदेव उपमा यासाम् | दैव्यो देवविषयिण्यः | अर्थाद्दिव्यस्त्रीकटाक्षा इति गम्यते || ७९ || जुघूर्णुर्गर्जनोच्छूनप्रतिशुद्धनकन्दराः | दिशश्चलितमातङ्गसिंहर्क्षरवघर्घराः || ८० || उच्छूनैः प्रबृद्धैः प्रतिश्रुद्भिः प्रतिध्वनिभिर्घना निबिडिता गिरिकन्दरा यासु | रोषाच्चलितानामभिमुखप्रस्थितानां मातङ्गादीनां प्रतिगर्जितरवैर्घर्घरा मुखराः || ८० || महामुसलधाराभिः पेतुरासारवृष्टयः | कष्टटंकारकठिनाः कृतान्तस्येव दृष्टयः || ८१ || कष्टैष्टंकारैः करकनिपातध्वनिभिर्मर्मशिराभेदनध्वनिभिश्च कठिनाः || ८१ || उदभूत्प्रथमं वाष्प उष्णोऽनलनिभो भुवः | पातालादभ्रवृन्दानां युद्धायेवात्तविभ्रमः || ८२ || अभ्रवृन्दानां संबन्धिने युद्धाय आत्तः स्वीकृतो विभ्रमः शौर्यविलासो येन तथाविध इवेत्युत्प्रेक्षा || ८२ || ततो निमेषमात्रेण प्रशेमुर्मृगतृष्णिकाः | परबोधरसापूरैर्यथा संसारवासनाः || ८३ || मृगतृष्णिकाशब्देन तद्धेतव आतपा लक्ष्यन्ते | परस्यात्मनो बोधः साक्षात्कारस्तल्लक्षणैर्निरतिशयानन्दरसापूरैः || ८३ || आसीत्पङ्काङ्कमखिलं भूमण्डलमसंचरम् | पूरितः पूर्णधाराभिः सिन्धुः सिन्धुरिवाम्बुना || ८४ || असंचरं संचाराक्षमम् | सिन्धुः राजा सिन्धुः समुद्र इव पूरितः || ८४ || वायव्यमस्त्रमसृजत्पूरिताकाशकोटरम् | कल्पान्तनृत्तसंमत्तरटद्भैरवभीषणम् || ८५ || ववुरशनिनिपातपीडिताङ्गा दलितशिलाशकलाः ककुम्मुखेषु | प्रलयसमयसूचका भटानां कृतपटुतांकृतटङ्किनः समीराः || ८६ || अशनिनिपातेनेव पीडितानि प्राणिनामङ्गानि यैः भटानां प्रतियोद्धृभिरिव कृतैः पटुभिष्टांकृतैः शिलाद्यभिघातध्वनिभिष्टङ्कः पाषाणदारणायुधविशेषस्तद्वन्त इव समीरा वायवः ककुभां दिशां मुखेषु ववुः || ८६ || इत्यार्षे श्रीवासिष्ठमहारामायणे मोक्षोपाये उत्पत्तिप्रकरणे लीलो० आयुधवर्णनं नामाष्टचत्वारिंशः सर्गः || ४८ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे आयुधवर्णनं नामाष्टचत्वारिंशः सर्गः || ४८ || एकोनपञ्चाशः सर्गः ४९ श्रीवसिष्ठ उवाच | ववुर्वलितनीहारा विकीर्णवनपल्लवाः | वायवो धूतवृक्षौघाः सल्लीलापीडपांसवः || १ || पर्वतास्त्रं च वज्रास्त्रं ब्रह्मास्त्रं चात्र वर्ण्यते | विस्तरेण पिशाचास्त्रं पिशाचचरितान्वितम् || १ || सतां मूर्तिमतां लीलया आपीडाः शिरोभूषणीकृताः पांसवो यैः || १ || पक्षिवद्भ्रान्तवृक्षौघाः पतनोत्पातनोद्भटाः | विकुट्टिताट्टालखण्डाश्चाभ्रभित्तिविभेदिनः || २ || पक्षिवद्भ्रान्ता भ्रमिता वृक्षौघा यैः | विकुट्टिताश्चूर्णिताः || २ || तेनातिभीमवातेन विदूरथरथोऽप्यथ | उह्यमानोऽभवन्नद्या यथा जर्जरपल्लवः || ३ || उह्यमानः प्रवाह्यमाणः || ३ || विदूरथोऽथ तत्याज पार्वतास्त्रं महास्त्रवित् | व्योमापि घनतोयेन समादातुम्वोद्यतम् || ४ || घनतोयेन मेघोदकेन समं व्योमापि समादातुं ग्रसितुमिवोद्यतमुद्युक्तम् || ४ || तेन शैलास्त्रघातेन विराट् प्राणसमीरणः | शमं चैतन्यशान्त्येव प्रययौ वायुराततः || ५ || तत्त्वावबोधाच्चैतन्यस्य मायालक्षणकारणशान्त्या तत्कार्यभूतो विराट् प्राणसमीरणः सूत्रात्मेव वायुः शमं ययौ || ५ || अन्तरिक्षगता वृक्षपङ्क्तयः पतिता भुवि | नानाजनशवव्यूहे काकानामिव कोटयः || ६ || शेमुः सूत्कारडात्कारभांकारोत्कारका दिशाम् | प्रलापा इव विध्वस्ताः पूर्ग्रामवनवीरुधाम् || ७ || निःश्वासशब्दाः सूत्कारा डात्कारा लुण्ठनारवाः | भांकारा भीषणाः शब्दा उत्कारा उद्भटारवाः || पुरां ग्रामाणां वनानां वीरुधां वल्लीनां च प्रलापा निरर्थकवर्णनवाक्यानीव || ७ || गिरीनपश्यन्नभसः पततः पत्रवर्णवत् | सिन्धुः सिन्धुरिवोत्पक्षान्मैनाकादीनितस्ततः || ८ || सिन्धुः राजा | सिन्धुः समुद्रः स्वस्मिन्नुत्पततो मैनाकादीनिव || ८ || वज्रास्त्रमसृजद्दीप्तं चेरुर्वज्रगणास्ततः | पिबन्तोऽद्रीन्द्रतिमिरमग्निदाहमिवाग्नयः || ९ || अग्निभिर्दह्यत इत्यग्निदाहं इन्धनम् || ९ || ते गिरीणां तथा क्षिप्ताः कोटितुण्डावखण्डनैः | शिरांसि पातयामासुः फलानीवोल्बणानिलाह् || १० || कोटयः अग्रभागास्तल्लक्षणैस्तुण्डैश्चञ्चुभिरवखण्डनैश्छेदनैः | गिरीणां शिरांसि शिखराणि || १० || विदूरथोऽथ वज्रास्त्रशन्त्यै ब्रह्मास्त्रमत्यगात् | ततो ब्रह्मास्त्रवज्रास्त्रे समं प्रशममागते || ११ || अत्यगात् इतरास्त्राण्यतिक्रम्य प्रयोक्तुं अगात्प्रापत् | समं एककालम् || ११ || प्. २४९) श्यामाश्यामं पिशाचास्त्रमथ सिन्धुरचोदयत् | तेनोदगुः पिशाचानां पङ्क्तयोऽत्यन्तभीतिदाः || १२ || श्यामा तमिस्रेव श्यामम् || १२ || संध्यायामथ भीत्येव दिवसः श्यामतां ययौ | पिशाचा भुवनं जग्मुरन्धकारभरा इव || १३ || इवकार आवृत्त्योभयत्र संबध्यते | तेन संध्यायामिवेत्युपमा | भीत्येवेति हेतूत्प्रेक्षा | जग्मुः आजग्मुः || १३ || भस्मनःस्तम्भसदृशास्तालोत्तालविलासिनः | दृश्यमानमहाकारा मुष्टिग्राह्या न किंचन || १४ || भस्मनः संबन्धी स्तम्भो दग्धस्तम्भ इति यावत् | असमर्थसमासश्छान्दसः | मुष्टिग्राह्या हस्तप्राप्याः || १४ || ऊर्ध्वकेशाः कृशाङ्गाश्चकेचिच्च श्मश्रुला अपि | कृष्णाङ्गा मलिनाङ्गाश्च ग्राम्या इव नभश्चराः || १५ || ग्राम्याः ग्रामीणा दरिद्रजना इव | नभश्चरा आकाशसंचारिणः || १५ || सभया मूढदृष्टाश्च यत्किंचनकराश्चलाः | दीना वज्रासिनः क्रूरा दीना ग्राम्यजना इव || १६ || मूढैर्मुर्खैरशुच्यनाचारैर्दृष्टाः | यत्किंचनास्थिकपालादि करे येषाम् | वज्रं चासिश्चोभयोः समाहारो वज्रासि तस्मादपि क्रूरा निष्ठुराः | समाहारनपुंसकत्वे इकोऽचि विभक्तौ इति नुम् || १६ || तरुकर्दमरथ्यान्तःशून्यगेहगृहाश्चलाः | लेलिहानाः प्रेतरूपाः कृष्णाङ्गाश्चपला इव || १७ || लेलिहानाः सृक्किणी | चपला विद्युत इव दृश्यादृश्यस्वभावाः || १७ || जगृहुस्ते तदा मत्ता हतशिष्टमरेर्बलम् | आसंस्तत्सैनिकास्तत्र भिन्नास्त्रक्षुब्धचेतनाः || १८ || तत्सैनिका विदूरथसैनिकाः || १८ || त्यक्तायुधतनुत्राणास्त्रस्तप्राणाः स्खलद्गमाः | नेत्रैरङ्गैर्मुखैः पादैर्विकारभरकारिणः || १९ || विकारभरा भूताविष्टचेष्टाः || १९ || त्यक्तकौपीनवसना निमग्नावसनोत्तराः | विष्ठां मूत्रं च कुर्वन्तः स्थिरमारब्धनर्तनाः || २० || ता एव दर्शयति - त्यक्तेति | निमग्नानि संकुचितान्यवसनान्युत्तराण्यधराङ्गानि येषाम् || २० || पिशाचराजी राजानं तस्य यावद्विदूरथम् | समाक्रामति तावत्तां मायां स बुबुधे बुधः || २१ || पिशाचानां राजिः पङ्क्तिः || २१ || पिशाचसंग्रामकरीं मायां वेत्ति स भूमिपः | तया पिशाचसैन्यं तत्परसैन्ये न्ययोजयत् || २२ || परप्रयुक्तानां पिशाचानां स्ववशीकारेण परसैन्यसंग्रामकरीम् || २२ || ततः स्वसैनिकाः स्वस्थाः परयोधाः पिशाचिनः | तस्याशु रूपिकास्त्रं च ददावन्यदसौ रुषा || २३ || तस्य पिशाचसैन्यस्य सहायभूतम् | रूपिकाः पूतनाभेदाः | असौ विदूरथः || २३ || उदगुर्भूतलाद्व्योम्नो रूपिका ऊर्ध्वमूर्धजाः | निर्मग्नविकरालाक्ष्यश्चलच्छ्रोणिपयोधराः || २४ || उद्भिन्नयौवना वृद्धाः पीवराङ्ग्योऽथ जर्जराः | स्वरूपारूपजघना [स्वरूपेण स्वरूपतः अरूपाणि निराकाराणि जघनानि यासां तथाविधाः दुर्लक्ष्यजघना इत्यर्थः] दुर्नाभ्यो विकसद्भगाः || २५ || नररक्तशिरोहस्ताः संध्याभ्रारुणगात्रिकाः | अर्धचर्वितमांसासृक्स्रवत्सृक्क्याकुलाननाः || २६ || रक्तपदेन तत्पूर्णकपालानि लक्ष्यन्ते | स्रवद्भ्यां सृक्किभ्यामोष्ठप्रान्ताभ्यामाकुलाननाः || २६ || नानाङ्गवलना नानानमन्नमनसत्तमाः | शिलाभुजगवक्रोरुकटिपार्श्वकराङ्गिकाः || २७ || नानाविधान्यङ्गवलनान्यवयवचेष्टा यासाम् | नानाविधानामनमतामुत्तब्धानामपि नमने प्रह्वीकरणे सत्तमाः समर्थाः | शिला इव कठिना भुजगा इव वक्राश्च वक्रादयो यासाम् || २७ || नारीकृतार्भकशवा हस्ताकृष्टान्त्ररज्जवः | श्वकाकोलूकवदना निम्नवक्रहनूदराः || २८ || नराणामियं नारी नरमाला तथाकृताः अर्भकशवा याभिः || २८ || जगृहुस्तान्पिशाचांस्ता दुर्बलान्दुःशिशूनिव | पिशाचरूपिकासैन्यं तदासीदेकतां गतम् || २९ || जगृहुः पतित्वेन स्वीचक्रुः | दुष्क्र्तकारिशिशूनिव | उपभोग्यतांशे साम्याद्दृष्टान्तः || २९ || निर्मग्ननर्तनोत्तानवदनाङ्गविलोचनम् | परस्पराक्रान्तिकरं प्रधावच्च परस्परम् || ३० || एकतां गतं तद्वर्णयति - निर्मग्नेत्यादिना | क्रीडारसावेशे नितरां मग्नम् || ३० || निस्कासितमहाजिह्वं नानामुखविकारदम् | शरभाराढ्यमन्योन्यं [न्योन्यह्रियमाण इति पाठः] ह्रियमाणशवाङ्गकम् || ३१ || शरो रुधिरमण्डस्तद्भाराढ्यम् | अन्योन्यप्रीतये ह्रियमाणानि शवाङ्गानि येन || ३१ || रुधिराम्भसि मज्जं तदुन्मज्जद्धृल्लसत्तनु | लम्बोदरं लम्बभुजं लम्बकर्णोष्ठनासिकम् || ३२ || मज्जं उन्मज्जत् | पुनःपुनर्निमज्ज्योन्मज्जत् | आभीक्ष्ण्ये णमुलि द्विर्वचनाभावश्चान्दसः | घृत् क्षरद्रक्तं तेन लसत्तनु || ३२ || रक्तमांसमहापङ्केष्वन्योन्यं वेल्लनाभ्यसत् | मन्दरोद्धूतदुग्धाब्धिलसत्कलकलाकुलम् || ३३ || वेल्लनान्यालिङ्गनान्यभ्यसत् आवर्तयत् | मन्दरेणोद्भूतस्य मथ्यमानस्य दुग्धाब्धेरिव लसता कलकलेन कोलाहलेन आकुलम् || ३३ || यथैव मायासंचारस्तेन तस्य कृतः पुरा | तेनापि तस्याशु तथा कृतो बुद्ध्वा स लाघवात् || ३४ || मायायाः संचारः परावृत्य प्रेषणम् | तेन विदूरथेन | तस्य सिन्धोः | सः मायासंचारः कृतः || ३४ || वेतालास्त्रं ततो दत्ते तेनोत्तस्थुः शवव्रजाः | अमूर्धानः समूर्धानो वेताला वेशवल्लिताः || ३५ || ततस्तत्सहायार्थं दत्ते ददाविति यावत् | वेशेन परमर्दनावेशेन वल्लिताः संचलिताः | वल वल्ल संवरणे संचलने च || ३५ || प्. २५०) १५० ततः पिशाचवेतालरूपिकोग्रकबन्धवत् | तद्वभूव बलं भीममुर्वीनिगरणक्षमम् || ३६ || अथेतरोऽपि भूपालो मायां संचार्य तां गुरौ | राक्षसास्त्रं ससर्जाथ त्रैलोक्यग्रहणोन्मुखम् || ३७ || इतरो विदूरथः | गुरौ पूर्वप्रयोगेणोपदेष्टरीव सिन्धौ || ३७ || उदगुः पर्वताकाराः सर्वतः स्थूलराक्षसाः | देहमाश्रित्य निष्क्रान्ताः पातालान्नरका इव || ३८ || अथोदभूद्बलं भीमं ससुरासुरभीतिदम् | गर्जद्रक्षोमहानादवाद्यनृत्यत्कबन्धकम् || ३९ || मेदोमांसोपदंशाढ्यं रुधिरासवसुन्दरम् | क्षीबकूश्माण्डवेतालयक्षताण्डवसुन्दरम् || ४० || क्षीबाणां मत्तानाम् || ४० || कूश्माण्डकोत्ताण्डवदण्डपाद- क्षुब्धासृगुत्क्षिप्ततरङ्गसिक्तैः | संध्याभ्ररागोत्करकोटिकान्ति भूतैरसृक्स्रोतसि दत्तसेतु || ४१ || दण्डपादो नाट्यशास्त्रप्रसिद्धः पादाघातविशेषः | सिक्तैर्भूतैः | दत्तसेतु निबद्धसेतु | बलं उदभूदिति पूर्वेणान्वयः || ४१ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे लीलो० तृतीयास्त्रयुद्धं नामैकोनपञ्चाशः सर्गः || ४९ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे तृतीयास्त्रयुद्धं नामैकोनपञ्चाशः सर्गः || ४९ || पञ्चाशः सर्गः ५० श्रीवसिष्ठ उवाच | तस्मिंस्तदा वर्तमाने घोरे समरविभ्रमे | सर्वारिसैन्यनाशार्थमेकं स्वबलशान्तये || १ || अत्रास्त्रयोर्वैष्णवयोर्युद्धं विरथता द्वयोः | मृतिर्विदूरथस्यापि गृहानीतस्य वर्ण्यते || १ || एकमसाधारणम् | स्वबलस्य स्वसैन्यस्य शान्तये रक्षःपिशाचपीडाशान्तये || १ || सस्मार स्मृतिमानन्तो महोदाराधिधैर्यभृत् | अस्त्रमस्त्रेश्वरं श्रीमद्वैष्णवं शंकरोपमम् || २ || अन्तः कालोचितप्रतिभावतामवधिभूतः सिन्धुः महोदारः सन्नधिकधैर्यमृदधिकधैर्यवान् | शंकरोपमं कालरुद्रवत्संहारकम् || २ || अथ योऽसौ शरस्तेन वैष्णवास्त्राभिमन्त्रितः | मुक्तस्तस्य फलप्रान्तादुल्मुका दिवि निर्ययौ || ३ || फलप्रान्तात् शल्यप्रदेशात् || ३ || पङ्क्तयः स्फारचक्राणां शतार्कीकृतदिक्तटाः | गदानामभियान्तीनां शतवंशीकृताम्बराः || ४ || उल्मुकादीत्युक्तमादिशब्दार्थं प्रपञ्चयति - पङ्क्तय इत्यादिना | त्रिषु श्लोकेषु पङ्कय एव विशेष्याः | वंशपदेन गदाकाराणि वंशकरीराणि गृह्यन्ते || ४ || वज्राणां शतधाराणां तृणराजीकृताम्बराः [तरच्छृङ्गीकृताम्बरा इति पाठः] | पट्टिशानां सपद्मानां दीनवृक्षीकृताम्बराः || ५ || सपद्मानां पद्मदलमुकुलाकारानेकशाखाशालिनां पट्टिशानां पङ्क्तयः | दीना लूना ये वृक्षास्तद्व्याप्तप्रायं कृतमम्बरं याभिरित्यर्थः | ल्वादिभ्यः इति निष्ठानत्वम् || ५ || शराणां शितधाराणां पुष्पजालीकृताम्बराः [तृणजालीकृताम्बरा इति पाठः] | खड्गानां श्यामलाङ्गानां पत्रराशीकृताम्बराः || ६ || अथ राजा द्वितीयोऽपि वैष्णवास्त्रस्य शान्तये | ददौ वैष्णवमेवास्त्रं शत्रुनिष्ठावपूरकम् || ७ || द्वितीयो राजा विदूरथः शत्रोर्निष्ठा पराक्रमस्थितिस्तस्या अवपूरकं पूर्तिकरम् | तदनुरूपमिति यावत् || ७ || ततोऽपि निर्ययुर्नद्यो हेतीनां हतहेतयः | शरशक्तिगदाप्रासपट्टिशादिपयोमयाः || ८ || हताश्छिन्नाः पूर्वास्त्रप्रयुक्तहेतयो याभिस्ताः || ८ || शस्त्रास्त्रसरितां तासां व्योम्नि युद्धमवर्तत | रोदोरन्ध्रक्षयकरं कुलशैलेन्द्रदारणम् || ९ || शरपातितशूलासिखड्गकुट्टितपट्टिशम् [शरापतित इति टीकाकारसम्मतः पाठः] | मुसलप्रतनाप्रासशूलशातितशक्तिकम् || १० || शस्त्रास्त्रसरितां युद्धमेव विस्तराद्वर्णयति - शरेत्यादिना | शरेभ्य आपतितैर्निर्गतैः शूलादिभिः कुट्टितानि चूर्णितानि पट्टिशानि यत्र | असिखड्गयोरवान्तरजातिभेदविवक्षया पृथग्ग्रहणम् | मुसलानां प्रतननं प्रतना विस्तारः | भिदादित्वादङ् | तया प्रासादिभिश्च शातिताः खण्डिताः शक्तयो यत्र || १० || शराम्बुराशिमथनमत्तमुद्गरमन्दरम् | गदावदनतो युक्तं दुर्वारास्त्रिनिभासिनि || ११ || शरलक्षणस्याम्बुराशेर्मथने मत्तः प्रहृष्टाः | समर्था इति यावत् | मुद्गरा एव मन्दरपर्वता यत्र | गदानां वदनतः | सार्वविभक्तिकस्तसिः | मुखसदृशैरग्रभागैर्युक्तं संघट्टितम् | दुर्वाराः अस्त्रं येषामस्ति तेऽस्त्रिणः प्रतियोद्धारस्तन्निभास्तत्समानप्रमाणप्रभावा असिन्यः खड्गजातिभेदा यत्र | गोस्त्रियोरुपसर्जनस्य इति ङीपो ह्रस्वः || ११ || रिष्टारिष्टप्रशमनभ्रमत्कुन्तेन्दुमण्डलम् | प्रासप्रसरसंरब्धप्रोद्यतान्तकृतान्तकम् || १२ || रिष्टम् | रिष हिंसायां भावे क्तः | स्वस्वसैन्यहिंसनं तल्लक्षणस्यारिष्टस्याशुभतमसः प्रशमनाय भ्रमन्ति कुन्तलक्षणानिन्दुमण्डलानि यत्र | प्रासानां प्रसरैः संरब्धः कुपितः अत एव प्रोद्यतान्तह् प्रारब्धजनविनाश एव कृतान्तो यमो यत्र || १२ || प्. २५१) १५० चक्रावकुण्ठितोर्ध्वास्त्रं सर्वायुधक्षयंकरम् | शब्दस्फुटद्विरिञ्चाण्डं घातभग्नकुलाचलम् || १३ || धारानिकृत्तशस्त्रौघमस्त्रयोर्युध्यमानयोः | मदस्त्रवारणेनेव वज्राविजरपर्वतम् || १४ || मत्कृतेन विश्वामित्रास्त्रनिवारणेनेव परस्परप्रतिबद्धकार्ययोर्युध्यमानयोर्नारायणास्त्रयोः संबन्धिभिर्वज्रैः अविजरा जरयितुमशक्याः पर्वता यत्र | असमर्थसमासश्छान्दसः || १४ || शङ्कुशङ्कितसूत्कारकाशिशूलशिलाशतम् | भुशुण्डीनिर्जितोद्दण्डभिन्दिपालोग्रमण्डलम् || १५ || शङ्कवः कीलानीव कार्याच्छङ्कितानि संभावितानि सूत्कारशब्दमात्रकाशीनि शूलानि शिलाशतानि च यत्र || १५ || परशूलकराभैकपरशूलैकलम्पितम् | वहदुच्छिन्नचञ्चूरचारणं शत्रुवारणम् || १६ || पर उत्कृष्टः सर्वसंहारसमर्थः शूलकरो रुद्रस्तदाभं एकैकमायुधं परं श्रेष्ठं यद्रुद्रशूलं तत्सदृशेनैकैकेन लम्पितं कुण्ठितं यत्र | वहतां निःसरतामेवोच्छिन्नानां खण्डितानामायुधानां चञूराणि कुटिलविषमगतिफलानि च चारणानि प्रवर्तनानि यत्र | चरतेः नित्यं कौटिल्ये गतौ इति यङि पचाद्यचि यङोऽचि च इति लुकि उत्परस्यातः इत्युत्वे छान्दसो दीर्घः || १६ || स्फुटच्चटचटास्फोटरुद्धत्त्रिपथगारयम् [रुद्धत्रिपथगा इति पाठः] | हेत्यस्त्रीचूर्णसंभारमहाधूमवितानकम् || १७ || हेतीनामस्त्राणां च समाहारो हेत्यस्त्री | स्त्रीत्वं छान्दसम् || १७ || अन्योन्यशस्त्रसंघट्टाद्भ्रमज्जालोल्लसत्तडित् | शब्दस्फुटद्विरिञ्चाण्डं धातमग्नकुलाचलम् || १८ || भ्रमत् जालमानाय इवोल्लसन्त्यस्तडितो यत्र || १८ || धारानिकृत्तशस्त्रौघमस्त्रयोर्युध्यमानयोः | मदस्त्रवारणेनैव कालोपायोऽचलात्मनः || १९ || पुनरुक्तं श्लोकार्धद्वयं व्याख्यातम् | अचलात्मनः युद्धे अचलवज्जडीभूतस्य विदूरथस्य मदीयास्त्रनिवारणमात्रेणावस्थितिरियं कालस्य कालक्षेपमात्रस्य उपायः || १९ || अयं कियद्बल इति सिन्धौ तिष्ठति हेलया | विदूरथोऽस्त्रमाग्नेयं तत्याजाशनिशब्दवत् || २० || अयं तु मदग्रे कियद्बल इति हेलया अवज्ञाबुद्ध्या सिन्धौ तिष्ठति सति || २० || ज्वालयामास स रथं सिन्धोः कक्षमिवारसम् | एतस्मिन्नन्तरे व्योम्नि हेतिनिर्विवरोदरे || २१ || कक्षं तृणगुच्छम् | अरसं शुष्कम् || २१ || ससन्नाह इव प्रावृट्पयोदतटिनीव यः | अस्त्रे राज्ञोः क्षणं कृत्वा युद्धं परमदारुणम् || २२ || यो राजा स सन्नाहः प्रावृडिव यश्चान्यो राजा पयोदवर्धिता तटिनी नदीव शरान्वर्षति वहति च | तयो राज्ञोः अस्त्रे प्राक् प्रयुक्ते द्वे नारायणास्त्रे || २२ || अन्योन्यं शममायाते सवीर्ये सुभटाविव | एतस्मिन्नन्तरे सोऽग्नी रथं कृत्वा तु भस्मसात् || २३ || स आग्नेयास्त्रसंबन्धी अग्निः || २३ || प्राप दग्ध्वा वनं सिन्धुं मृगेन्द्रमिव कन्दरात् | सिन्धुरभ्यासतोऽग्न्यस्त्रं वारुणास्त्रेण शामयन् || २४ || वनं दग्ध्वा | वनकन्दरान्निर्गतं मृगेन्द्रमिव || २४ || रथं त्यक्त्वावनिं प्राप्य खड्गास्फोटकवानभूत् | अक्ष्णोर्निमेषमात्रेण रथाश्वानां रिपोः खुरान् || २५ || आस्फोटकं चर्म तद्वान् अभूत् || २५ || लुलाव करवालेन मृणालानीव लाघवात् | विदूरथोऽपि विरथो बभूवास्फोटकासिमान् || २६ || समायुधौ समोत्साहौ चेरतुर्मण्डलानि तौ | खड्गौ क्रकचतां यातौ मिथः प्रहरतोस्तयोः || २७ || क्रकचतां क्रकचवत्कठिनतरचर्मादिविदारणसमर्थतां यातौ प्राप्तौ || २७ || दन्तमालेयमस्येव बले चर्वयतः प्रजाः | शक्तिमादाय चिक्षेप खड्गं त्यक्त्वा विदूरथः || २८ || बले सैन्यद्बये || २८ || सिन्ध्वम्बुघर्गरारावो महोत्पात इवाशनिः | अविच्छिन्ना समायाता पतिता सास्य वक्षसि || २९ || सिन्धोः समुद्रस्याम्बु जलमिव घर्घरारावः महाप्रलयादिसूचक उत्पातः सा शक्तिरस्य सिन्धोर्वक्षसि || २९ || अप्रियस्य यथा भर्तुरनिच्छन्ती स्वकामिनी | तेन शक्तिप्रहारेण नासौ मरणमाप्तवान् || ३० || केवलं रुधिरव्रातं नागो जलमिवात्यजत् | तद्देशलीला तं दृष्ट्वा भग्नं तम इवेन्दुना || ३१ || नागो गजो जलं मदजलमिवात्यजत् अस्रवत् || ३१ || सविकासघनानन्दा पूर्वलीलामुवाच ह | देवि पश्य नृसिंहेन हतो भर्त्रायमावयोः || ३२ || आवयोर्भर्त्रा नृसिंहेन सिन्धुर्दैत्यो हिरण्यकशिपुर्हत इति व्यस्तरूपकम् || ३२ || शक्तिकोटिनखैर्दैत्यः सिन्धुरुद्धुरकन्धरः | सरःस्थलस्थनागेन्द्रकरफूत्कृतवारिवत् || ३३ || पिष्टो रसोऽस्य निर्याति रक्तं चुलचुलारवैः | हा कष्टं रथमानीतं सिन्धुरारोढुमुद्यतः || ३४ || पिष्टात्संचूर्णितात् उरसः सकाशात् | रक्तं सरःस्थलस्थस्य सरोमध्यस्थस्य गजेन्द्रस्य करात् पूत्कृतं वारीव निर्यातीति पूर्वेणान्वयः || ३४ || सौवर्णं मैरवं शृङ्गं पुष्करावर्तको यथा | पश्य देवि रथोऽस्यासौ मुद्गरेण विचूर्णितः || ३५ || मैरवं मेरोः संबन्धि शृङ्गम् | पुष्करावर्तको मेघराजः | अस्य सिन्धो रथः || ३५ || भ्रम्त्पार्थनिपातेन सौवर्णं नगरं यथा | प्रवृत्तो रथमारोढुमानीतं पतिरेष मे || ३६ || पार्थस्यार्जुनस्य शरनिपातेन भ्रमन्निपातकवचानां सौवर्णं नगरं यथा तथा भ्रमन्तमर्थात्तं रथं पश्येत्यर्थः | तद्ब्रह्माण्डेऽपि पार्थादिजन्मसंभवान्नाप्रसिद्धोपमा || ३६ || प्. २५२) १५१ कष्टं वज्रमिवेन्द्रेण मुसलं सिन्धुनेक्षितम् | जवात्पतिः प्रयातो मे सैन्धवं मुसलायुधम् || ३७ || ईक्षितं प्रहरणार्थमिति शेषः | सैन्धवं वञ्चयित्वा || ३७ || वञ्चयित्वा विलासेन रथमारुह्य लाघवात् | हा धिक्कष्टमसौ सिन्धुरार्यपुत्ररथं रयात् || ३८ || हरिश्वभ्रमिवारूढं प्लवेनोर्ध्वमिव द्रुमम् | क्रीडित्वा पीडयामास शरवर्षिर्विदूरथम् || ३९ || ध्वजलाञ्छितत्वात् प्लवेन पक्षिविशेषेण उपलक्षितम् | शैवलादिना हरि हरितवर्णं श्वभ्रं पल्वलमिव | तथाविध्मूर्ध्वमुच्छ्रितं द्रुममिव वा स्थितं रथमारूढमार्यपुत्रं स्वभर्तारं विदूरथं पीडयामासेति संबन्धः || ३९ || छिन्नध्वजं छिन्नरथं छिन्नाश्वं छिन्नसारथिम् | छिन्नकार्मुकवर्माणं भिन्नसर्वाङ्गमाकुलम् || ४० || हृदि स्फोटशिलापट्टदृढे पीवरमूर्धनि | भित्त्वा वज्रसमैर्बाणैः पातयत्येष भूतले || ४१ || स्फोटे स्फोटनविषये शिलापट्टवद्दृढे | अशक्यस्फोटने इति यावत् | पीवरे स्थूले मूर्धनि च भित्त्वा || ४१ || अथान्यं रथमानीतं कृच्छ्रेण प्राप्य चेतनाम् | खड्गेनारोहतोऽस्यांसं छिन्नं भर्तुर्विलोकय || ४२ || रथं कृच्छ्रेणारोहतोऽस्य मे भर्तुः सिन्धुना छिन्नमंसं स्कन्धदेशं विलोकय || ४२ || पद्मरागगिरिद्योतमिवर्द्धासृग्विमुञ्चति | हा हा धिक्कष्टमेतेन सिन्धुना खड्गधारया || ४३ || अत एव भर्तारं भिन्नस्य पद्मरागगिरेर्निःसृतं द्योतमारक्तप्रभामिवर्द्धं समृद्धमसृग्रक्तं विमुञ्चति | पश्येत्यत्राप्यनुकृष्यते || ४३ || जङ्घयोर्मे पतिश्छिन्नः क्रकचेनेव पादपः | हा हा हतास्मि दग्धास्मि मृतास्म्युपहतास्मि च || ४४ || हता हननव्यापारविषयीकृता मृता तत्फलमरणभागिनीति भेदः || ४४ || मृणाले इव पत्युर्मे लूने द्वे अपि जानुनी | इत्युक्त्वा सा तदालोक्य भर्तुर्भावभयातुरा || ४५ || भर्तुर्विषये भावः स्नेहातिशयस्तेन भयेन चातुरा | सीदतीति सा | सदेर्डप्रत्यये टाप् || ४५ || लता परशुकृत्तेव मूर्च्छिता भुवि सापतत् | विदूरथोऽपि निर्जानुः प्रहरन्नेव विद्विषि || ४६ || पपात स्यन्दनस्याधश्छिन्नमूल इव द्रुमः | पतन्नेवैष सूतेन रथेनैवापवाहितः || ४७ || पपात पतनोन्मुखो बभूवेत्यर्थः | पतन् पतनोन्मुख एवैष सूतेन विष्टभ्य रथेनैवापवाहितो गृहं प्रतीति शेषः | द्वाविमौ पुरुषौ लोके सूर्यमण्डलभेदिनौ | परिव्राड्योगयुक्तश्च रणे चाभिमुखो हतः | इति स्मृतेः | रणे अभिमुखमरणे सूर्यमण्डलमेदिनो ब्रह्मलोकावाप्तौ विरक्तस्य | ब्रह्मणा सह ते सर्वे संप्राप्ते प्रतिसंचरे | परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम् || इति वचनात्क्रममुक्तिप्रसक्तौ अविरक्तस्य इमं मानवमावर्तं नावर्तन्ते इति श्रुतेः कल्पान्तरे पुनरावृत्तौ वा प्राक्तनपद्मशरीरेण प्रारब्धशेषभोगासिद्धेस्तदनुगुणसरस्वतीसंकल्पवरदानबलादेव सूतस्य राजयशःश्रेयोविनाशे अपवाहने प्रवृत्तिरासीदिति बोध्यम् || ४७ || यदा तदाहतिं तस्य कण्ठेऽदात्सिन्धुरुद्धतः | अर्धविच्छिन्नकण्ठऽसावनुयातोऽथ सिन्धुना || ४८ || यदा अपवाहितस्तदा आहतिं खड्गाघातं अदात् | अपवाह्यमाने असंमुखे शत्रौ प्रहारः शूरविगर्हितः कृत इति सूचयन्विशिनष्टि - उद्धत इति || ४८ || स्यन्दनेनाविशत्सद्म पद्मं रविकरो यथा | सरस्वत्याः प्रभावाढ्यं तत्प्रवेष्टुमसौ गृहम् | नाशकन्मशको मत्तो महाज्वालोदरं यथा || ४९ || असौ सिन्धुः पद्मगृहं प्रवेष्टुं नाशकत् || ४९ || खड्गावकृत्तगलगर्तगलत्सवात- रक्तच्छटाछुरितवस्त्रतनुत्रगात्रम् | तत्याज तं भगवतीमभितो गृहान्तः सूतः प्रवेश्य मृतितल्पतले गतोऽरिः || ५० || खड्गेन अवकृत्तस्य गलस्य गर्ताच्छिद्रात् गलद्भिः सवाताभिः रक्तस्य च्छटाभिर्धाराभिश्छुरितानि सिक्तानि वस्त्रादीनि यस्य तथाविधं तं विदूरथं सूतो गृहं प्रवेश्य गृहान्तर्भगवतीं सरस्वतीमभितः अभिमुखे मृतितल्पतले सुखमरणयोग्यमृद्वास्तरणोपरि तत्याज | अभितःपरितःसमयानिकषाहाप्रतियोगेऽपि इति षष्ठ्यर्थे द्वितीया | अरिः शत्रुः सिन्धुश्च गृहप्रवेशासामर्थ्याद्गतः परावृत्त इत्यर्थः || ५० || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे लीलो० विदूरथमरणवर्णनं नाम पञ्चाशः सर्गः || ५० || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे विदूरथमरणवर्णनं नाम पञ्चाशः सर्गः || ५० || एकपञ्चाशः सर्गः ५१ श्रीवसिष्ठ उवाच | हतो राजा हतो राजा प्रतिराजेन संयुगे | इतिशब्दे समुद्भूते राष्ट्रमासीद्भयाकुलम् || १ || अथ राजवधोदन्ताद्वर्ण्यते राष्ट्रविड्वरः | सिन्धौ प्रतिष्ठिते भूयो देशस्वास्थ्यं च विस्तरात् || १ || राजा विदूरथः | प्रतिराजेन सिन्धुना | संयुगे युद्धे || १ || भाण्डोपस्करभाराढ्यं विद्रवच्छकटव्रजम् | साक्रन्द्रार्तकलत्राढ्यं द्रवन्नागरदुर्गमम् || २ || पलायमानसाक्रन्दं मार्गाहृतवधूगणम् | अन्योन्यलुण्ठनव्यग्रलोकलग्नमहाभयम् || ३ || परराष्ट्रजनानीकताण्डवोल्लाससारवम् | निरधिष्ठितमातङ्गहयवीरपतज्जनम् || ४ || शत्रुराष्ट्रजनान्तराणां सिन्ध्वनीकस्य च जयताण्डवोल्लासेन सारवं सशब्दम् || ४ || प्. २५३) १५१ कपाटपाटनोड्डीनकोशान्तरवघर्घरम् | लुण्ठितासंख्यकौशेयप्रावृताभिभटोद्भटम् || ५ || कपाटानां पाटनेन उड्डीन इव बहिराकाशे निर्गतो यः कोशगृहस्यान्ते विनाशे रवस्तेन घर्घरम् | कौशेयप्रावृता अभिभूतकोशपालभटा उद्भटा यत्र || ५ || क्षुरिकोत्पाटितार्द्रान्त्रमृतराजगृहाङ्गनम् | राजान्तःपुरविश्रान्तचण्डालश्वपचोत्करम् || ६ || चोरैः क्षुरिकाभिः शस्त्रीभिरुत्पाटितैरार्द्रैरान्त्रैरुपलक्षिता मृता राजगृहाङ्गना यत्र || ६ || गृहापहृतभोज्यान्नभोजनोन्मुखपामरम् | सहेमहारवीरौघपादाहतरुदच्छिशु || ७ || भोज्यानां राजभोजनयोग्यानामन्नानां भोजने उन्मुखाः पामराः पृथग्जना यत्र || ७ || अपूर्वतरुणाक्रान्तकेशान्तःपुरिकाङ्गनम् | चोरहस्तच्युतानर्घ्यरत्नदन्तुरमार्गगम् || ८ || रत्नैर्दन्तुरा उन्नतदन्ता इव धवलिता मार्गगा यत्र || ८ || हयेभरथसंघट्टव्यग्रसामन्तमण्डलम् | अभिषेकोद्यमादेशपरमन्त्रिपुरःसरम् [द्यमादेशं परं इत्यपि आदर्शान्तरे पाठो लभ्यते तथाप्येतत्पाठस्य सुसङ्गतत्वाट्टीकाकारसंमतत्वाच्चैष एवास्माभिरादृतः] || ९ || संघट्टनं संघट्टः अपहृत्य मेलनं तत्र व्यग्रं सामन्तमण्डलं यत्र | सिन्धुसुतपट्टाभिषेकोद्यमस्य आदेशे आज्ञापने परास्तत्पराः | ९ || राजधानीविनिर्माणसारम्भस्थपतीश्वरम् | कृतवातायनश्वभ्रनिपतद्राजवल्लभम् || १० || स्थपतीश्वराः कारुश्रेष्ठाः | कारुकृतेषु वातायनश्वभ्रेषु अपूर्वनगरसौन्दर्यदर्शनाय निपतन्त्यः प्रविशन्त्यः सिन्धुराजवल्लभा यत्र || १० || जयशब्दशतोद्घोषसिन्धुराजन्यनिर्भरम् | असंख्यनिजराजौघधृतसिन्धुकृतास्थिति || ११ || जयशब्दशतोद्घोषैः प्रवेशितस्य सिन्धुराजन्यस्य सिन्धुराजपुत्रस्य अभिषिक्तस्य निर्भरः प्रभावातिशयो यत्र | निजैः स्वपक्षीयै राजौघैः शिरसा धृता सिन्धुना कृता स्थिती राष्ट्रमर्यादा यत्र || ११ || ग्रामान्तरसमाक्रान्तविद्रवद्राजवल्लभम् | मण्डलान्तरसंजातनगरग्रामलुण्ठनम् || १२ || ग्रामान्तरप्रच्छन्नाः परैः परिज्ञातास्ततोऽपि विद्रवन्तः पूर्वराजवल्लभजना यत्र || १२ || अनन्तचोरमोषार्थरुद्धमार्गगमागमम् | महानुभाववैधुर्यसनीहारदिनातपम् || १३ || अनन्तैश्चोरैर्मोषार्थं रुद्धा मार्गेषु गमागमा जनसंचारा यत्र | महानुभावो विदूरथस्तद्वैधुर्येण सनीहारा दिनेषु आतपा यत्र || १३ || मृतबन्धुजनाक्रन्दैर्मृततूर्यरवैरपि | हयेभरथशब्दैश्च पिण्डग्राह्यघनध्वनि || १४ || पिण्डवत्करे ग्रहीतुं शक्या इत्यौत्प्रेक्षिकम् | घना ध्वनयो यत्र || १४ || सिन्धुदेवो जयत्येकच्छत्रभूमण्डलाधिअपः | इत्यनन्तरमारेभे भेर्यः प्रतिपुरं तदा || १५ || इति उद्घोषयन् भेर्यः भेरीः | छान्दसः सुव्व्यत्ययः | वादयितुमारेभे जन इति शेषः || १५ || राजधानीं विवेशाथ सिन्धुरुद्धुरकन्धरः | प्रजाः स्रष्टुं युगस्यान्ते मनुर्जगदिवापरः || १६ || अथ पुत्रस्य राज्याभिषेकानन्तरम् | सिन्धुः स्वराजधानीं विवेश || १६ || प्रवृत्ता दशदिग्भ्योऽथ प्रवेष्टुं सैन्धवं पुरम् | कराः करिहयाकारै रत्नपूरा इवाम्बुधिम् || १७ || निबन्धनानि चिह्नानि शासनानि दिशं प्रति | क्षणान्निवेशयामासुर्मण्डलं प्रति मन्त्रिणः || १८ || निबन्धनानि मर्यादाः | चिह्नानि मुद्रादिषु सिन्धु नामाङ्कनानि || १८ || उदभूदचिरेणैव देशे देशे पुरे पुरे | जीविते मरणे माने नियमोऽयमतो यथा || १९ || अथ शेमुर्निमेषेण देशोपप्लवविभ्रमाः | प्रशान्तोत्पातपवनाः पदार्थावृत्तयो यथा || २० || पवने शान्ते पवनकृतास्तृणपर्णधूल्यादिपदार्थानामावृत्तयो भ्रमणानि यथा शाम्यन्ति तद्वत् || २० || सौम्यतामाजगामाशु देशो दशदिगन्वितः | क्षीरोदः क्षुभितावर्तो द्रागिवोद्धृतमन्दरः || २१ || ववुरलकचयान्विलोलयन्तो मुखकमलालिकुलानि सैन्धवीनाम् | जललववलनाकुलाः समीरा अशिवगुणानिव सर्वतः क्षणेन || २२ || समीरा वायवः सैन्धवीनां मुखकमले अलिकुलानि भ्रमरपङ्क्तिभूतानलकचयान्विलोलयन्तः | तन्मधुप्रायाणां तत्स्वेदजललवानां वलनेन मत्ता इव मन्दगतित्वादाकुलाः सन्तस्तच्छैत्यसौरभ्यादिमङ्गलगुणैः सर्वदेशतः संतापदौर्गन्ध्याद्यशिवगुणान्विलोलयन्तो डलयोरभेदाद्विलोडयन्त उपघन्त इव ववुः || २२ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे लीलो० सिंदुराष्ट्रवर्णनं नामैकपञ्चाशः सर्गः || ५१ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे सिन्धुराष्ट्रवर्णनं नामैकपञ्चासः सर्गः || ५१ || प्. २५४) १५२ द्विपञ्चाशः सर्गः ५२ श्रीवसिष्ठ उवाच | एतस्मिन्नन्तरे राम लीलोवाच सरस्वतीम् | श्वासावशेषमालोक्य मूढं भर्तारमग्रगम् || १ || राज्ञोऽत्र मरणं तस्य संसारस्य मृषात्मता | तथा तत्पुरलीलाया वर्ण्यते वासनात्मता || १ || मूढं मूर्च्छितम् || १ || प्रवृत्तो देहमुत्स्रष्टुं मद्भर्तायमिहाम्बिके | ज्ञप्तिरुवाच | एवंरूपमहारम्भे संग्रामे राष्ट्रसंभ्रमे || २ || संपन्नेऽपि स्थितेऽप्युच्चैर्विचित्रारम्भमन्थरे | न किंचिदपि संपन्नं राष्ट्रं न च महीतलम् || ३ || संपन्ने उत्पन्ने स्थिते अपिशब्दाद्विनष्टेऽपि क्वचन क्वचिदपि | क्वचनेत्यखण्डमव्ययम् | न संपन्नं न स्थितं न नष्टं चेत्यर्थः | तन्मण्डपस्य प्राग्दृष्टतादृशाल्पतरमण्डपस्यान्तः पद्मशवस्य || ३ || न स्थितं क्वचनाप्येवं स्वप्नात्मकमिदं जगत् | तस्य तन्मण्डपस्यान्तः शवस्य निकटाम्बरे || ४ || इदं भूराष्ट्रमाभाति भर्तृजीवस्य तेऽनघे | अन्तःपुरगृहान्ते तदिदं राष्ट्रान्वितोदरम् || ५ || तद्विदूरथब्रह्माण्डं पद्मान्तःपुरगृहान्ते स्थितं राष्ट्रैरन्वितमुदरं यस्य तथाभूतमिदं पाद्मब्रह्माण्डं वसिष्ठविप्रगेहेन्तःस्थितमित्यन्वयः || ५ || वसिष्ठविप्रगेहेऽन्तर्विन्ध्याद्रिग्रामके स्थितम् | वसिष्ठविप्रगेहेन्तः शवगेहजगत्स्थितम् || ६ || उक्तमेव व्यतिहारेण द्रढयति - वसिष्ठेति || ६ || शवगेहजगत्कुक्षाविदं गेहजगत्स्थितम् | एवमेष महारम्भो जगत्त्रयमयो भ्रमः || ७ || त्वया मयाऽनयाऽनेन संयुक्तः सार्णवावनिः | गिरिग्रामकदेहान्तर्मध्ये गगनकोशके || ८ || अनया द्वितीयलीलया | अनेन त्वद्भर्त्रा || ८ || स्वात्मैव कचति व्यर्थो न कचत्येव वा क्वचित् | तत्पदं परमं विद्धि नाशोत्पादविवर्जितम् || ९ || एकैकान्तरपरमुत्पन्नमित्यपि कल्पनैव | वस्तुततश्चैतन्य एव नाकाशे | आकाशादिसहितत्रितयाध्यासादित्याशयेनाह - स्वात्मैवेति | विषयमिथ्यात्वे चिति तत्संवलितरूपमपि नास्त्येवेत्याशयेनाह - न कचत्येवेति | तथाच निर्विषयचिन्मात्रमेवावशिष्यते तदेव मुख्यं ज्ञेयमित्याह - तदिति || ९ || स्वयं कचितमाभातं शान्तं परमनामयम् | किल मण्डपगेहेन्तः स्वस्वभावोदितात्मनि || १० || स्वयं कचितं स्वप्रकाशं तदेव मण्डपगेहान्तः स्वेन चिन्मात्रस्वभावेनोदिते स्वात्मनि आभातं न वस्त्वन्तरमित्यर्थः | किलेति विद्वत्प्रसिद्धौ || १० || एवमारम्भघनयोरपि मण्डपयोस्तयोः | उदरे शून्यमाकाशमेवास्ति न जगद्भ्रमः || ११ || मण्डपान्तर्गते भूताकाशेऽपि न जगदष्ति किं वाच्यं शुद्धचिदाकाश इत्याशयेनाह - एवमिति || ११ || भ्रमद्रष्टुरभावे हि कीदृशी भ्रमता भ्रमे | नास्त्येव भ्रमसत्तातो यदस्ति तदजं पदम् || १२ || नन्वल्पान्ते बृहतोऽसमावेशात्तत्प्रत्ययो यदि भ्रमस्तर्ह्यतिबृहतो ब्रह्मणो मण्डपहृदयाद्याकाशेष्वसमावेशात्तत्र शास्त्राचार्योपदेशात्तत्प्रत्ययोऽपि भ्रमः किं न स्यादित्या शङ्क्योपजीव्यविरोधान्मैवमित्याह - भ्रमद्रष्टुरिति || १२ || भ्रमो दृश्यमसत्तस्य द्रष्टृदृश्यदशा कुतः | द्रष्टृदृश्यक्रमाभावादद्वयं सहजं हि तत् || १३ || ननु तर्हि भ्रम एव भ्रमं पश्यतु नान्यस्तत्राह - भ्रम इति | द्रष्टृव्यापारफलाधारो हि दृश्यः | न च स्वात्मनि केनचिद्व्यापारितुं शक्यते एकत्र कर्तृकर्मताविरोधात् | न च द्रष्टर्यसति दृश्यस्य सत्तास्फूर्ती सिध्यत इति भावः | अयं द्रष्टृदृश्यक्रमाभावो द्वैतस्यैव दूषणम् | अद्वैतस्य तु सहजस्य भूषणमेवेत्याशयेनाह - द्रष्ट्रिति || १३ || तत्पदं परमं विद्धि नाशोत्पादविवर्जितम् | स्वयं कचितमाभातं शान्तमाद्यमनामयम् || १४ || किल मण्डपगेहान्तः स्वस्वभावोदितात्मनि | विहरन्ति जनास्तत्र स्वगेहे स्वव्यवस्थया || १५ || एवमल्पतरे बृहत्तरासमावेशोऽपि दृश्यस्यैव दूषणं न सर्वाधिष्ठानचैतन्यस्येत्याशयेनाह - किलेत्यादिना | स्वस्वव्यवहारानुकूलदेशवैपुल्यव्यवस्थया विहरन्ति संचरन्ति | किलेत्याश्चर्ये || १५ || न जगत्तत्र नो सर्गः कश्चिदप्यनुभूयते [क्वचित् इति पाठः] | तेनाहमजमाकाशं जगदित्येव वर्तते || १६ || अनुभूयते तत्त्वज्ञैरित्यर्थः | तेनानुभवात्मकप्रत्यक्षप्रमाणेनाहंकारसाक्षिभूतं यच्चिदाकाशं तदेकाज्ञदृशा जगदिति रूपेण वर्तत इति निश्चितमित्यर्थः || १६ || सर्वं शून्यात्मविज्ञानं मेर्वादिगिरिजालकम् | नेदं कुड्यमयं किंचिद्यथा स्वप्ने महापुरम् || १७ || एवमनुमानेनापि तन्निश्चयं साधयति - सर्वमिति | मेर्वादिगिरिजालकोपलक्षितं सर्वमिदं दृश्यं शून्यात्मस्वरूपज्ञानमात्रमेव न कुड्यमयं न यथादृष्टस्थूलस्वभावम् | तत्समावेशायोग्ये अल्पप्रदेशे प्रतीतत्वात् | देहान्तः स्वप्नदृष्टमहापुरवदित्यर्थः || १७ || देशे प्रादेशमात्रेऽपि गिरिजालमयान्यपि | वज्रसाराणि स्वान्येव लक्षाणि जगतो विदुः || १८ || स्वप्ने सर्वानुभवसिद्धां व्याप्तिं दर्शयति - देशे इति | कण्ठे स्वप्नः समाविशेदिति श्रुतेः कण्ठादिहृदयान्ते प्रादेशमात्रे खानि तत्प्रदेशावच्छिन्नात्मचैतन्यान्येव | औपाधिकं बहुवचनम् | गिरिजालमयानि विदुः पश्यन्ति सर्वे स्वप्ने || १८ || प्. २५५) १५२ जगन्ति सुबहून्येव संभवन्त्यणुकेऽपि च | कदलीपल्लवानीव संनिवेशेन भूरिशः || १९ || तथा दार्ष्टान्तिकेऽपि संभवमुपनयेन दर्शयति - जगन्तीति || १९ || त्रिजगच्चिदणावन्तरस्ति स्वप्नपुरं यथा | तस्याप्यन्तश्चिदणवस्तेष्वप्येकैकशो जगत् || २० || निगमनेन प्रसाधितं द्रढयति - त्रिजगदिति || २० || तेषां यस्मिञ्जगत्येष पद्मो राजा शवः स्थितः | लीला तव सपत्नीयं प्राप्ता पूर्वतरा शुभे || २१ || पृष्टं समाधाय तत्पुरलीलातत्त्वं वक्तुकामा प्रस्तुतकथामादत्ते - तेषामित्यादिना | पूर्वराजगमनापेक्षया पूर्वतरा || २१ || यदैव मूर्च्छामायाता लीलेयं पुरतस्तव | तदैव भर्तुः पद्मस्य शवस्य निकटे स्थिता || २२ || लीलोवाच | कथमेषा पुरा देवि संपन्ना तत्र देहिनी | कथं च तत्सपत्नीकभावमाप्तवती स्थिता || २३ || सा सपत्नी यस्य भावस्य स्थितेस्तं तत्सपत्नीकं भावम् || २३ || ते चास्या वद किं रूपं पश्यन्त्यथ वदन्ति किम् | तद्गेहवरवास्तव्याः समासेनेति मे वद || २४ || तस्य पद्मस्य वरगेहलक्षणे वास्तुनि भवा वास्तव्यास्ते जना अस्याः किं रूपं पश्यन्ति अथवा किं वदन्ति इत्येतत्सर्वं समासेन संक्षेपेण वद || २४ || श्रीदेव्युवाच | शृणु सर्वं समासेन यथापृष्टं वदामि ते | लीले लीलास्ववृत्तान्तमन्तदं दृश्यदुर्दशम् || २५ || लीलान्तरभूतायाः स्वस्या एव वृत्तान्तम् | अन्तं निर्णयं ददातीत्यन्तदम् | दृश्याः सम्यग् द्रष्टुं शक्या मरणपरलोकगमनादिदुर्दशा येन तम् || २५ || पद्मस्तव स भर्तैष भ्रान्तिं तावत्ततामिमाम् | इयं जगन्मयी तस्मिन्नेव सद्मनि पश्यति || २६ || इयमेतन्नगरादिभावेन दृश्यमाना जगन्मयी भ्रान्तिस्तां भ्रान्तिमेष विदूरथभूतस्तव स पद्मो भर्ता तस्मिन्नेव शवाश्रये सद्मनि पश्यतीत्यन्वयः || २६ || भ्रान्तियुद्धमिदं युद्धमेषा भ्रान्तिर्जनोऽजनः | भ्रान्त्यैवास्तीह मरणमेष चैवं भ्रमात्मकः || २७ || इदं त्वया दृष्टं युद्धं स्वाप्नयुद्धवद्भ्रान्तियुद्धमेव | एषा त्वत्पृष्टलीलापि भ्रान्तिरेव | एष जनश्चाऽजनो जन्मादिविक्रियारहितात्मैव | एष संसारः || २७ || भ्रमक्रमेणानेनैव लीलास्य दयिता स्थिता | त्वं चैषा च वरारोहे स्वप्नमात्रं वराङ्गने || २८ || यथा भवत्यावेतस्य स्वप्नमात्रं वराङ्गने | तथा भवत्योर्भर्तैष तथैवाहमपि स्वयम् || २९ || जगच्छोभैवेदृशीयं दृश्यमेतदिहोच्यते | एतदेव परिज्ञातं दृश्यशब्दार्थमुज्झति || ३० || दृश्यशब्दस्यार्थं दृशि कर्मतामुज्झति त्यजति || ३० || एवमेषा त्वमेषा च संपन्नैवमसौ नृपः | अहं चात्मनि सत्यत्वं गता सर्वतयात्मनः || ३१ || एषा संसारस्थितिः | एवं भ्रान्तिरूपैव | आत्मनः सर्वतया पूर्णतया || ३१ || इमे वयमिहान्योन्यं सपन्नाश्चोदिता इति | इत्थं सर्वात्मकतया महाचिद्धनसंस्थितेः || ३२ || इमे नृपादयो वयमन्योन्यमनुग्राह्यानुग्राहकभावेन चोदिताः प्रेरिता इतीत्थं महाचिद्धनस्य संस्थितेर्मिथ्याकल्पनास्थितेर्यथा संपन्ना एवमेषापि राज्ञी संपन्ना स्थितेत्यन्वयः || ३२ || एवमेषा स्थिता राज्ञी हारिहासविलासिनी | लीला विलोलवदना नवयौवनशालिनी || ३३ || पेशलाचारमधुरा मधुरोदारभाषिणी | कोकिलास्वरसंकाशा मदमन्मथमन्थरा || ३४ || पेशला दक्षा | आचारेण मधुरा हृद्या | कोकिलायाः स्वरेण संकाशा सदृशस्वरा || ३४ || असितोत्पलपत्राक्षी वृत्तपीनपयोधरा | कान्ता काञ्चनगौराङ्गी पक्वबिम्बफलाधरा || ३५ || त्वत्संकल्पात्मकस्यैषा यदा भर्तुर्मनःकला | तदा त्वत्सदृशाकारा स्थितैषा चिच्चमत्कृतौ || ३६ || मनःकला मनोवृत्तिस्तद्वासना च जातेति शेषः || ३६ || त्वद्भर्तुर्मरणे क्षिप्रं समनन्तरमेव हि | त्वद्भर्त्रैषा पुरो दृष्टा त्वत्संकल्पात्मनामुना || ३७ || यदाधिभौतिकं भावं चेतोऽनुभवति स्वयम् | चेत्यं सन्मयमेवात आतिवाहिककल्पनम् || ३८ || यदि वासनामयीयं कथं तर्हि सत्यतया तेनानुभूता तत्राह - यदेति | वस्तुत आतिवाहिककल्पनं प्रातिभासिकमेव | चेत्यं दृश्यम् | तत्र चेतश्चित्तं यदाभ्यासदृढवासनया आधिभौतिकं व्यावहारिकं भावमनुभवति तदा अतोऽनुभवाच्चेत्यं सन्मयं परमार्थसत्यमित्येव भवतीत्यर्थः || ३८ || यदाधिभौतिकं भावं चेतो वेत्ति न सन्मयम् | आतिवाहिकसंकल्पस्तदा सत्योपजायते || ३९ || यदा तु विवेकज्ञानाभ्यासेनाधिभौतिकं भावं न सन्मयं अनृतं वेत्ति तदा सत्या दृढया तद्वासनया प्रपञ्चे आतिवाहिकसंकल्पः प्रातिभासिकनिर्णय उपजायते || ३९ || अथो मरणसंवित्त्या पुनर्जन्ममये भ्रमे | त्वं हि संविदितानेन त्वया च गत एव सः || ४० || वासनामयलीलान्तररूपया त्वया गतः संगत एव || ४० || इत्थं त्वां दृष्टवानेष दृष्टश्चैष त्वयेति च | त्वमप्यात्मनि संपन्ना सर्वगत्वाच्चिदात्मनः || ४१ || त्वयाप्यसौ स्ववासनामय एव दृष्ट इति प्राग्दर्शितब्रह्माण्डत्रयतया परिणता | सर्वगत्वात्सर्ववासनानुगतत्वात्सर्वाकारविवर्तोपपत्तेरित्यर्थः || ४१ || ब्रह्म सर्वगतं यस्माद्यथा यत्र यदोदितम् | भवत्याशु तथा तत्र स्वप्नशक्त्यैव पश्यति || ४२ || तदेव स्पष्टमाह - ब्रह्मेति | स्वप्नशक्त्या विक्षेपशक्त्या | स्वस्वशक्त्या इति पाठे तत्तद्वासनाशक्त्या || ४२ || प्. २५६) १५३ सर्वत्र सर्वशक्तित्वाद्यत्र या शक्तिरुन्नयेत् | आस्ते तत्र तथा भाति तीव्रसंवेगहेतुतः || ४३ || यथा यथा यद्यद्रूपेण उन्नयेद्भोजकादृष्टबलादाविर्भावयेत् | तीव्रसंवेगो दृढाभिनिवेशवासना तस्माद्धेतोः || ४३ || मृतिमोहक्षणेनैव यदैतौ दंपती स्थितौ | तदैवाभ्यामिदं बुद्धं प्रतिभासवशाद्धृदि || ४४ || मृतिमोहः स्वस्वमरणानुकूलमूर्च्छा तत्क्षणेनोपलक्षितौ यदा स्थितौ तदैवाभ्यामिदं वक्ष्यमाणं सर्वं बुद्धं स्वकल्पनयाऽनुभूतम् | प्रतिभासो वासनोद्बोधस्तद्वशात् || ४४ || आवयोः पितरावेताविमे वै चापि मातरौ | देश एष धनं चेदं कर्मेदं पूर्वमीदृशम् || ४५ || पूर्व ईदृशं कर्म कृतमिति शेषः || ४५ || आवां विवाहितावेवमेवं नामैकतां गतौ | एतयोः सापि जनता याता तत्रैव सत्यताम् || ४६ || सा कल्पनात्मिकापि जनता भोजकादृष्टबलात्सत्यतामर्थक्रियासमर्थतां याता || ४६ || तथैवात्रास्ति दृष्टान्तः प्रत्यक्षं स्वप्नवेदनम् | इत्येवंभावया लीले लीलयाहमथार्चिता || ४७ || यत्पृष्टं पूर्वं तत्र कथं प्राप्तेति तस्योत्तरमाह - इत्येवमिति | इति एवं वक्ष्यमाणप्रकारो भावोऽभिसंधिर्यस्याः सा तया || ४७ || नाहं स्यां विधवेत्येवं वरो दत्तो मयाप्यसौ | इत्यर्थेन मृता पूर्वमेवेह खलु बालिका || ४८ || इत्यर्थेनैतस्माद्धेतोः पूर्वमेव मृता || ४८ || भवतां चेतनांशानामहं चेतनधर्मिणी | कुलदेवी सदा पूज्या स्वत एव करोम्यहम् || ४९ || अस्या मम च त्वदाराधने त्वत्प्रसादे च को हेतुस्तत्राह - भवतामिति | चेतनांशानां व्यष्टिचेतनानां चेतनधर्मिणी हैरण्यगर्भचेतना त्वत्समष्टिचेतनात्मिका || ४९ || अथास्या जीवको देहात्प्राणमारुतरूपधृक् | मनसा चलतां प्राप्तो मुखाग्रत्यक्तदेहकः || ५० || पुरा कथं प्राप्तेत्यस्य प्रश्नांशस्योत्तरमुक्त्वा देहिनी कथं संपन्नेति तदंशस्योत्तरमाह - अथेत्यादिना | अथ देहादुच्चिक्रमिषुरस्या अङ्गुष्ठपरिमितलिङ्गदेहमात्रत्वादल्पो जीवो जीवकः प्राणस्तेजसा युक्तः सहात्मना यथासंकल्पितं लोकं नयतीति श्रुतेरुत्क्रमणस्य प्राणाधीनत्वात् प्राणं तर्हि वागप्येति इत्यादिश्रुत्या सर्वकरणानां प्राणेऽप्ययाच्च प्राणमारुतरूपधृग् बभूवेत्यर्थः | यथासंकल्पितं लोकं नयति इति श्रुतेः यं यं वापि स्मरन्भावम् इत्यादिस्मृतेश्च भाव्यर्थसंकल्पप्रधानेन मनसा चलतां तत्तदर्थप्राप्त्युत्सुकतां तस्य हृदयस्याग्रं प्रद्योतते तेन प्रद्योतेनैष आत्मा निष्क्रामति चक्षुष्टो वा मूर्ध्नो वा अन्येभ्यो वा शरीरदेशेभ्य इति श्रुत्युक्तक्रमेण नाडीमार्गेण त्यक्तदेहकः अभूदिति शेषः || ५० || ततो मरणमूर्च्छान्ते गृहेऽस्मिन्नेव चैतया | बुद्धौ भावित आकाशे दृष्टो जीवात्मना ततः || ५१ || ततस्तदनन्तरं जीवात्मना अनया अस्मिन्नेव गृहे ब्रह्माकाशे भूताकाशे वा बुद्धौ भावितः संकल्पितो वक्ष्यमाणशरीरगमनकुमारीप्राप्त्यादिरूपोऽर्थो दृष्टः || ५१ || संपन्नैषा हरिणनयना चन्द्रबिम्बाननश्री- र्मानोन्नद्धा दयितललिता कान्तमाभोक्तुकामा | पूर्वस्मृत्या सरभसमुखी संयुता मण्डलान्तः स्वप्नान्ते वाऽप्रकृतिविभवा पद्मिनी चोदितेव || ५२ || ततो भावनावशात्पूर्वदेहस्मृत्या स्वप्नान्ते स्वप्नमध्ये इव | इवार्थेऽत्र वशब्दो वाशब्दो वा बोध्यः | रविकरैश्चोदिता पद्मिनीवविकासितवासनामुकुला एषा लीला दयितस्य स्वयं ललिता उपभोगयोग्या स्वयं च कान्तं मनोहरं भर्तारमाभोक्तुमनुभवितुं कामो यस्यास्तथाविधा | तुं काममनसोरपि इति तुमुनो मलोपः | सरभसं लावण्यकान्तवेगसहितं मुखं यस्यास्तथाविधा सती पद्मब्रह्माण्डमण्डलान्तर्गत्वा भर्त्रा संयुता संपन्नेत्यर्थह् || ५२ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये लीलोपाख्याने० मरणसमनन्तरदेहप्रतिभाववर्णनं नाम द्विपञ्चाशः सर्गः || ५२ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे मरणसमनन्तरदेहप्रतिभावर्णनं नाम द्विपञ्चाशः सर्गः || ५२ || त्रिपञ्चाशः सर्गः ५३ श्रीवसिष्ठ उवाच | अथ लब्धवरा देहेनानेनैव महीपतिम् | पतिमाप्तुं प्रयात्येषा नभोमार्गेण विष्टपम् || १ || गतिमार्गोऽत्र लीलाया भर्तृप्राप्तिश्च वर्ण्यते | अज्ञानयोगसिद्धानामगतिश्च नभःपथि || १ || अनेन प्राग्वर्णितवासनामयेनैव देहेन | विष्टपं वक्ष्यमाणभुवनानि | जातावेकवचनम् || १ || इति संचिन्त्य सानन्दमुद्दममकरध्वजा | पुप्लुवे पेलवाकारा पक्षिणीव नभस्तले || २ || इति उक्तप्रकारेण संचिन्त्य स्मरणेन देहादिभावं संपद्य पतिप्राप्त्युत्साहेन सानन्दं यथा स्यात्तथा पुप्लुवे | पेलवाकारा लघुशरीरा || २ || कुमारीं तत्र सा प्राप ज्ञप्त्यैव प्रहितां हिताम् | स्वसंकल्पमहादर्शात्पुरतो निर्गतामिव || ३ || कुमारीं स्वकन्याम् || ३ || कुमार्युवाच | दुहितास्मि सखि ज्ञप्तेः स्वागतं तेऽस्तु सुन्दरि | प्रतीक्षमाणा त्वामेव स्थितास्मीह नभःपथि || ४ || हे ज्ञप्तेः सखि इति मातुः संबोधनम् || ४ || प्. २५७) १६१ लीलोवाच | देवि भर्तुः समीपं मां नय नीरजलोचने | महतां दर्शनं यस्मान्न कदाचन निष्फलम् || ५ || पूर्वमागमनान्मार्गाभिज्ञतां तस्या निश्चित्य लीलोवाच - देवीति | देवि देवताशरीरं प्राप्ते | मम भर्तुस्त्वत्पितुः | ननु तवेव कान्तार्थिन्या मम किं पितृसमीपगमनेन तत्राह - महतामिति | तथाच मत्प्रियार्थं मदुक्तं संपादयेत्यर्थः || ५ || श्रीवसिष्ठ उवाच | एहि तत्रैव गच्छाव इत्युक्त्वा सा कुमारिका | पुरस्तस्याः स्थिता व्योम्नि मार्गदर्शनतत्परा || ६ || ततस्तदनुयाता सा प्राप कोटरमम्बरम् | निर्मलं करमालाग्रं यथा लक्षणलेखिका || ७ || कोटरं ब्रह्माण्डच्छिद्रभूतम् | करमालानां प्राणिहस्तसमूहानामग्रं तलं यथा भाविशुभाशुभलक्षणभूता विधातृकृता लेखिका रेखा || ७ || मेघमार्गमथोल्लङ्घ्य वातस्कन्धान्तरे गता | सूर्यमार्गादभिगता तारामार्गमतीत्य च || ८ || अभिगता निर्गता || ८ || वायविन्द्रसुरसिद्धानां लोकानुल्लङ्घ्य लाघवात् | ब्रह्मविष्णुमहेशानां प्राप ब्रह्माण्डखर्परम् || ९ || ब्रह्मविष्णुमहेशानां लोकांश्चोल्लङ्घ्येत्यर्थः || ९ || हिमशैत्यं यथान्तस्थं कुम्भेऽभिन्ने बहिर्भवेत् | तथा संकल्पसिद्धा सा ब्रह्माण्डान्निर्गता बहिः || १० || हिमस्य जलस्य शैत्यं अभिन्ने अच्छिद्रेऽपि कुम्भे यथा बहिर्भवेन्निःसरेत् || १० || स्वचित्तमात्रदेहैषा स्वसंकल्पस्वभावजम् | अन्तरेवानुभवति किलैवं नाम विभ्रमम् || ११ || इदं च गमनं चित्तकल्पनामात्रमिति स्मारयति - स्वचित्तेति || ११ || ब्रह्मादिस्थानमाक्रम्य प्राप्य ब्रह्माण्डखर्परम् | ततो ब्रह्माण्डपारस्था जलाद्यावरणानि च || १२ || श्लोकार्धमनुवादः || १२ || समुल्लङ्घ्य पुरः प्राप महाचिद्गगनान्तरम् | अदृष्टपारपर्यन्तमतिवेगेन धावता | सर्वतो गरुडेनापि कल्पकोटिशतैरपि || १३ || चिद्गगनं मायासंवलितचिदाकाशः | अतिवेगेन धावता गरुडेनापि सर्वतः | अदृष्टपारपर्यन्तमित्यन्वयः || १३ || तत्र ब्रह्माण्डलक्षाणि सन्त्यसंख्यानि भूरिशः | तान्यन्योन्यमदृष्टानि फलानीव महावने || १४ || तत्रैकस्मिन्पुरःसंस्थे विततावरणान्विते | वेधयित्वा विवेशान्तर्बदरं कृमिको यथा || १५ || वेधयित्वा छिद्रीकृत्येवेत्यौत्प्रेक्षिकम् | वास्तवच्छिद्रानपेक्षणात् || १५ || पुनर्ब्रह्मेन्द्रविष्ण्वादिलोकानुल्लङ्घ्य भास्वरान् | तन्महीमण्डलं श्रीमत्प्राप तारापथादधः || १६ || तारापथान्नभसः अधस्तस्य पद्मस्य महीमण्डलम् || १६ || तत्र तन्मण्डलं प्राप्य तत्पुरं तच्च मण्डपम् | प्रविश्य पुष्पगुप्तस्य शवस्य निकटे स्थिता || १७ || एतस्मिन्नन्तरे सा च न ददर्श कुमारिकाम् | मायामिव परिज्ञातां क्वापि यातां वरानना || १८ || मुखमालोक्य सा तस्य स्वभर्तुः शवरूपिणः | इदं बुद्धवती सत्यं प्रतिभावशतः स्वतः || १९ || स्वतः प्रतिभावशतः स्वतर्कतः || १९ || अयं स भर्ता संग्रामे निहतो मम सिन्धुना | वीरलोकानिमान्प्राप्य क्षणं शेते यथासुखम् || २० || अहं देव्याः प्रसादेन सशरीरैवमीदृशम् | इह प्राप्तवती धन्या मत्समा नास्ति काचन || २१ || प्राप्तवती भर्तारमिति शेषः || २१ || इति संचिन्त्य सा हस्ते गृहीत्वा चारु चामरम् | बीजयामास चन्द्रेण द्यौरिवावनिमण्डलम् || २२ || प्रबुद्धलीलोवाच | ते भृत्यास्ताश्च वै दास्यः स राजा च प्रबुद्धवान् | वक्ष्यन्ति वदतां देवि किं कयैव कथं धिया || २३ || पूर्वप्रश्नशेषसहितं पुनः पृच्छति - ते भृत्या इति | कया धिया किं वक्ष्यन्ति तच्च कथमुपपद्यते | राज्ञः पूर्ववृत्तान्तस्य विस्मरणे केयं कस्येयमिति शङ्कया स्मरणेऽपि शिष्टलोकविगर्हिततया तत्परिग्रहासिद्धेरिति भावः | तां कथां वद || २३ || श्रीदेव्युवाच | स राजा सा च ते भृत्याः सर्व एव परस्परम् | चिदाकाशैकतावेशादावयोश्च प्रभावतः || २४ || अपूर्वा काचिदियमिति सर्वेषां प्रतीतौ हि उक्तदोषः स्यात् सैव तावत्सत्यसंकल्पास्मदादिप्रभावान्न भविष्यतीति देवी समाधत्ते - स राजेत्यादिना | राजादयः सर्व एवान्योन्यमैकमत्येन परस्परमेवं वक्ष्यमाणप्रकारेण पश्यन्तीत्यन्वयः | ऐकमत्ये हेतवश्चिदाकाशेत्यादयः | मिथः स्वस्वबुद्धौ संप्रतिबिम्बितात् प्रतिबिम्बवदन्तर्निविष्टात् साक्षिचिदाकाशस्यैकतयैकमत्यानुगुण्येन आवेशात्स्फुरणात् | महाचिद्ब्रह्मचैतन्यं तत्प्रतिभासत्वाद्भोजकादृष्टानुगुणतद्विवर्तत्वात् महानियतिरनेनेत्थमेव भाव्यमितीश्वरसंकल्पस्तत्संश्रयात्तदधीनत्वाच्चेत्यर्थः || २४ || महाचित्प्रतिभासत्वान्महानियतिनिश्चयात् | अन्योन्यमेव पश्यन्ति मिथः संप्रतिबिम्बितात् || २५ || इयं मे सहजा भार्या ममेयं सहजा सखी | ममेयं सहजा राज्ञी भृत्योऽयं सहजो मम || २६ || केवलं त्वमहं सा च यथावृत्तमखण्डितम् | ज्ञास्याम इदमाश्चर्यं नतु कश्चिदपीतरः || २७ || सा विदूरथलीला च | इतरः नतु ज्ञास्यतीत्यर्थः || २७ || प्रबुद्धलीलोवाच | अमुनैव शरीरेण किमर्थं न गता पतिम् | एषा वरेण संप्राप्ता लीला ललितवादिनी || २८ || पतिं संप्राप्तेति वर्णिता एषा लीला त्वद्वरबलेनामुना स्थूलेन शरीरेण किमर्थ न गतेत्यन्वयः || २८ || प्. २५८) १६२ श्रीदेव्युवाच | अप्रबुद्धधियः सिद्धलोकान्पुण्यवशोदितान् | न समर्थाः स्वदेहेन प्राप्तुं छाया इवातपान् || २९ || अप्रबुद्धधियः अस्थूलात्मप्रबोधहीनाः || २९ || आदिसर्गे च नियतिः स्थापितेति प्रबोधिभिः | यथा सत्यमलीकेन न मिलत्येव किंचन || ३० || प्रबोधिभिः सत्यसंकल्पैरीश्वरहिरण्यगर्भादिभिरिति नियतिर्मर्यादा स्थापिता | तत्र दृष्टान्तः - यथेति | तथाच भाष्यम् - यत्र हि यदध्यासस्तत्कृतेन गुणेन दोषेण वा अणुमात्रेणापि स न संबध्यते इति || ३० || यावद्वेतालसंकल्पो बालस्य किल विद्यते | निर्वेतालधियस्तावदुदयस्तस्य कः कथम् || ३१ || नन्वस्यास्त्वद्वरादस्थूलात्मनिश्चयः कुतो नाभूत्तत्राह - यावदित्यादिना || ३१ || अविवेकज्वरोष्णत्वं विद्यते यावदात्मनि | तावद्विवेकशीतांशुशैत्यं कुत उदेत्यलम् || ३२ || अहं पृथ्व्यादिदेहः खे गतिर्नास्ति ममोत्तमा | इति निश्चयवान्योऽन्तः कथं स्यात्सोऽन्यनिश्चयः || ३३ || अतो ज्ञानविवेकेन पुण्येनाथ वरेण च | पुण्यदेहेन गच्छन्ति परं लोकमनेन तु || ३४ || अनेन त्वद्देहसदृशेन || ३४ || शुष्कपर्णं किलाङ्गारे एतदेवाशु [पतदेवाशु इति पाठः क्वचिल्लभ्यते] दह्यते | अयं देहमहंदेहः प्राप्त एव विशीर्यते || ३५ || आतिवाहिकदेहप्राप्तौ वा कथं स्थूलाहंभावनिवृत्तिस्तत्राह - शुष्केति | अङ्गारे ज्वलदग्नौ पतद्दह्यते एतदेव निदर्शनमिति | अयं स्थूलो देहः अहंदेहं अहंकारवासनामात्रमयमातिवाहिकदेहं प्राप्त एव सन् विशीर्यते || ३५ || एतावदेव भवति वरशापविजृम्भितैः | यथा संचिन्त्य एवाहं तथा स्मृत इति स्मृतिः || ३६ || वरशापावपि प्राक्तनवासनाकर्मानुसारिणावेव तदुद्बोधकतया प्राणिभिर्लभ्येते इति स्मृतिदृष्टान्तेनाह - एतावदेवेति | यथा प्रागभ्यस्तेऽपि झटिति संस्कारानुद्बोधात्संचिन्त्ये चिरचिन्तनयोग्ये अनुवाकाद्यर्थे केनचित्प्रतीकोदाहरणेन स्मारिते सति यथा त्वयाहं स्मारितस्तथा स स्मृत इति स्मृतिर्भवति तद्वदित्यर्थः || ३६ || यः सर्पप्रत्ययो रज्ज्वां स कथं सर्पकार्यकृत् | आत्मन्येव हि यो नास्ति तस्य का कार्यकारिता || ३७ || नन्वर्थक्रियाकारी स्थूलो देहः कथं तत्त्वबोधेन बाध्यते इत्याशङ्क्य तत्त्वदृशा अर्थक्रियैव नास्तीत्याह - य इति | आत्मनि स्वस्वरूपे || ३७ || यस्त्वेतन्मृत इत्येव मिथ्या समनुभूयते | प्रागभ्यासस्य पुष्टस्य नामैतत्प्रविजृम्भते || ३८ || यद्यसन्नेव देहस्तर्हि कथं मृतोऽयं देह इति सर्वानुभवस्तत्राह - यस्त्विति | यस्तु भ्रमो मिथ्या मिथ्यार्थः समनुभूयते एतदनुभवनं पुष्टस्योपचितस्य प्राक्तनाभ्यासस्य संस्कारात् प्रविजृम्भते इत्यर्थः || ३८ || स्वानुभूते जगज्जाले सुगमाः संस्मृतिभ्रमाः | नान्यसंकल्पितो नाम सर्गाद्यभ्यास ईदृशः || ३९ || अन्येन वरशापादिप्रदेन हिरण्यगर्भेणेश्वरेण वा सम्यक्कल्पितः अस्मद्वासनादिनिर्पेक्षतयैव रचित इति न || ३९ || अन्तरनुभूयमानाः संसृतयो बाह्यभूतजालानाम् | अविदितवेद्यदृशामपि दूरे पुंसामिवैन्दवं बिम्बम् || ४० || ननु संसारस्यान्तरवासनामयत्वे कथं बाह्यताप्रत्यय इत्याशङ्क्य दृष्टान्तेन समाधत्ते - अन्तरिति | अविदिततत्त्वदृशामज्ञानामप्यन्तरेव संसृतयो न बहिः अध्यस्तं द्वितीयमैन्दवं बिम्बं दूरे भासमानमपि यथा आन्तरभ्रान्तिकल्प्यत्वादान्तरमेव तद्वदित्यर्थः || ४० || इत्यार्षे श्रीवासिष्ठमहारामायणे मोक्षोपाये उत्पत्तिप्रकरणे लीलो० संसृतिविदितवेद्यं नाम त्रिपञ्चाशः सर्गः || ५३ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे संसृतिविदितवेद्यं नाम त्रिपञ्चाशः सर्गः || ५३ || चतुःपञ्चाशः सर्गः ५४ श्रिदेव्युवाच | तस्माद्ये वेद्यवेत्तारो ये वा धर्मं परं श्रिताः | आतिवाहिकलोकांस्ते प्राप्नुवन्तीह नेतरे || १ || नियतिः सर्वभावानां तथात्र मरणक्रमः | भोगः कर्मगुणाचारादायुर्मानं च वर्ण्यते || १ || प्रस्तुतप्रश्नोत्तरमुक्तानुवादेनोपसंहरति - तस्मादित्यादिना | वेद्यवेत्तारस्तत्त्वज्ञाः | परं योगाभ्यासजम् || १ || आधिभौतिकदेहत्वं मिथ्याभ्रममयात्मकम् | कथं सत्ये स्थितिं याति च्छायास्ते कथमातपे || २ || नन्वातिवाहिकब्रह्मादिलोकेष्वप्यत्रेव चिराभ्यासादाधिकदेहत्वोदयः किं न स्यात्तत्राह - आधिभौतिकेति | अपागादग्नेरग्नित्वं त्रीणि रूपाणीत्येव सत्यं प्राणा वै सत्यं तेषामेष सत्यः इत्यादिश्रुतिषु स्थूलस्य सूक्ष्मे त्रिवृत्करणादिना अध्यस्तत्वोक्तेः स्थूलापेक्षया सत्यं आतिवाहिकभावे पुण्योत्कर्षात्प्राप्ते सतीत्यर्थः || २ || लीला विदितवेद्या नो परमं धर्ममाश्रिता | केवलं तेन सा भर्तुः कल्पितं नगरं गता || ३ || ननु तर्हि लीलायाः कथं पद्मप्राप्त्युत्तरमाधिभौतिकदेहत्वोद्भवस्तत्राह - लीलेति | नो इति नञर्थकमव्ययं देहलीदीपकन्यायेनोभयतः संबध्यते | परमं योगजम् || ३ || प्. २५९) प्रबुद्धलीलोवाच | एवमेषा प्रयाताऽस्तु भर्ता पश्य ममाम्बिके | प्रवृत्तः प्राणसंत्यागे कर्तव्यं किमिहाधुना || ४ || देव्युक्तमभ्युपगम्य राजमरणदर्शनसूचितां जीवननियत्यनियतिमनुपपद्यमानां मन्यमाना लीलोवाच - एवमित्यादिना | एषा प्रयातेति यदुपवर्णितं तदेवं त्वदुक्तरीत्या अस्तु उपपद्यताम् | भर्ता प्राणसंत्यागे प्रवृत्तः प्रत्यक्षं पश्य | इहास्मिन्विषये तु अधुना किं कर्तव्यम् | कात्रोपपत्तिरिति यावत् | मया इदानीं किं कर्तव्यमिति तु न प्रश्नाशयः प्रश्नान्तरैरसंगतेः उत्तरे कर्तव्यकार्यानुपदेशाच्च || ४ || भावाभावेषु भावानां कथं नियतिरागता | कथं भूयोऽप्यनियतिर्मृतिजन्मादिसूचिता || ५ || भावानां देहादीनां जीवनसौख्यादिभावेषु दुःखदौर्भाग्याद्यभावेषु च पूर्वं कथं नियतिरागता भूयः पुनरनियतिरप्यागता कथम् || ५ || कथं स्वभावसंसिद्धिः कथं सत्ता पदार्थगा | कथमग्न्यादिषूष्णत्वं पृथ्व्यादौ स्थिरता कथम् || ६ || ननु मास्तु नियतिरनियम एवास्तु तत्राह - कथमिति | स्वभावो जलस्य शैत्यमग्नेरौष्ण्यमेवेत्यादिः | घटादिपदार्थगा सत्ता भावरूपतानियमः || ६ || हिमादिषु कथं शैत्यं का सत्ता कालखादिषु | भावाभावग्रहोत्सर्गस्थूलसूक्ष्मदृशः कथम् || ७ || भावस्य सत्यरजतादेर्ग्रहः संग्रहः अभावस्य शुक्तिरजतादेरुत्सर्गः भूम्यादेः स्थूलता मन इन्द्रियादेः सूक्ष्मतैवेत्यादिनियमस्य दृशो दर्शनानि कथम् || ७ || कथमत्यन्तमुच्छ्रायं तृणगुल्मनरादिकम् | वस्तु नायात्यनिष्टेऽपि स्थिते स्वोच्छ्रायकारणे || ८ || शालतालादिवदत्यन्तमुच्छ्रायमूर्ध्वदैर्घ्यम् | स्वोच्छ्रायकारणे स्थितेऽपि इष्टे अनिष्टेऽपि सर्वत्रानियमात्सर्ववस्तुष्वनाश्वास एव किं न स्यादिति भावः || ८ || श्रीदेव्युवाच | महाप्रलयसंपत्तौ सर्वार्थास्तमये सति | अनन्ताकाशमाशान्तं सद्ब्रह्मैवावतिष्ठते || ९ || भवेत्सर्वत्रैवंरूपैव नियतिर्यदि जगत्सत्यैकस्वभावं स्याद्भवेद्वा अत्यन्तानियतिर्यद्यनृतं मायामात्रप्रकृतिकं स्यात्सत्यानृतसंवलिताव्यक्तप्रकृतिकत्वात्तु सत्यानृतस्वभावा भोजकादृष्टानुगुणचिद्विवर्तव्यवस्थयैव व्यवतिष्ठत इति समाधित्सुर्देवी तदर्थं शुद्धचिद्विवर्तक्रममाह - महाप्रलयेत्यादिना || ९ || तच्चिद्रूपतया तेजःकणोऽहमिति चेतति | स्वप्ने संविद्यथा हि त्वमाकाशगमनादि च || १० || तेजःकणशब्देन शुद्धचिद्व्याप्तत्वाद्भास्वराणि सूक्ष्मभूतान्युच्यन्ते | चेतत्यनुभवति || १० || तेजःकणोऽसौ स्थूलत्वमात्मनात्मनि विन्दति | असत्यमेव सत्याभं ब्रह्माण्डं तदिदं स्मृतम् || ११ || तेजःकणभूतश्चासावात्मा अनात्मनि आत्मभिन्नत्वेन कल्पिते जलाद्यावरणेऽन्तःस्थूलत्वं विन्दति कल्पनया लभते तद्यत्स्थूलं तदेवेदं परिदृश्यमानं ब्रह्माण्डमित्यर्थः || ११ || तत्रान्तर्ब्रह्म तद्वेत्ति ब्रह्मायमहमित्यथ | मनोराज्यं स कुरुते स्वात्मैवं तदिदं जगत् || १२ || तत्र ब्रह्माण्डेऽन्तःस्थितं हिरण्यगर्भाख्यं तद्ब्रह्म सह सिद्धं चतुष्टयमिति प्रागुक्तस्मृतेरन्तर्मुखांशेन ब्रह्माहमिति वेत्ति बाह्यवासनादूषितांशेनैवं प्राणिकर्मानुगुणसृष्टिसंकल्परूपेण मनोराज्यं च कुरुते तदेव सत्यसंकल्पं मनोराज्यमिदं जगदित्यर्थः || १२ || तस्मिन्प्रथमतः सर्गे या यथा यत्र संविदः | कचितास्तास्तथा तत्र स्थिता अद्यापि निश्चलाः || १३ || संविदः संकल्पवृत्तयो या यथा यादृशनियमानियमरूपाः कचिता अद्यापि तथैव निश्चला अव्यत्यस्ताः स्थिताः || १३ || यद्यथा स्फुरितं चित्तं तत्तथा ह्यात्मचिद्भवेत् | स्वयमेवानियमतस्तत्तत्स्यान्नेह किंचन || १४ || ननु मनसो वैचित्र्याकारवासनामयत्वात्तथा संकल्पोदयेऽप्यात्मचैतन्यस्य तदनुसारी विवर्तः कुतस्तत्राह - यदिति | स्वयमेवेति | आत्मचितः स्वच्छोपाध्यनुविधायित्वस्वाभाव्यात् | अतो न किंचिदनियतस्वभावमुत्पद्यत इत्यर्थः || १४ || न च नाम नकिंचित्त्वं युज्यते विश्वरूपिणः | त्यक्त्वा समस्तसंस्थानं हेम तिष्ठति वै कथम् || १५ || मायाशबले ब्रह्मणि अनादिनियतरूपेण स्थितस्यैव विश्वस्य आविर्भावादपि नियतिसिद्धिरित्याशयेनाह - न चेति | नकिंचित्त्वं सर्ववस्तुशून्यत्वं न युज्यते प्रलयेऽपीति शेषः | तथा सति कारणत्वव्याघात इत्यर्थान्तरन्यासेन दर्शयति - त्यक्त्वेति | कटकरुचकपिण्डत्वादिसमस्तसंस्थानं त्यक्त्वा हेम कथं तिष्ठति सर्वसंस्थानानां तत्रान्तर्भावेन कस्यापि त्यक्तुमशक्यत्वादित्यर्थः || १५ || सर्गादौ स्वयमेवान्तश्चिद्यथा कचितात्मनि | हिमाग्न्यादितयाद्यापि सा तथास्ते स्वसत्तया || १६ || यथा शैत्यौष्ण्यादिस्वभावेन कचिता आविर्भूता सा चित्तथा तेन स्वभावेन नियता अद्याप्यास्ते इत्यर्थः || १६ || तस्मात्स्वसत्तासंत्यागः सतः कर्तुं न युज्यते | यदा चिदास्ते तेनेयं नियतिर्न विनश्यति || १७ || किंच मायाशबलं ब्रह्म यदि स्वाधिष्ठानसत्तां जह्यात्तदा मायान्तर्गतनियतीनामसत्त्वं भवेत् | तत्त्वशक्यमेवेति दर्शयन्नुपसंहरति - तस्मादिति | सतो मायाशबलब्रह्मणः | न विनश्यति | नापह्नोतुं शक्येति यावत् || १७ || यद्यथा कचितं यत्र व्योमरूप्यपि पार्थिवम् | सर्गादौ तस्य चलितुमद्ययावन्न युज्यते || १८ || नियत्यविपर्यासे पृथिव्यादिस्थितिरेव निदर्शनमित्याशयेनाह - यदिति || १८ || या यथा चित्प्रकचिता प्रतिपक्षविदं [प्रतिपक्षचितं इत्युभयत्र] विना | न सा ततः प्रचलति वेदनाभ्यासतः स्वयम् || १९ || जीवननियतेर्मरणनियत्या विपर्यासदर्शनादाह - प्रतिपक्षविदं [१] विनेति || १९ || प्. २६०) जगदादावनुत्पन्नं यच्चेदमनुभूयते | तत्संविद्व्योमकचनं स्वप्नस्त्रीसुरतं यथा || २० || इदं च सर्वं मायिकदृशोक्तं परमार्थदृशा तु जगदेव नास्तीति क्व नियत्याक्षेप इत्याशयेनाह - जगदिति || २० || असत्यमेव सत्याभं प्रतिभानमिदं स्थितम् | इति स्वभावसंपत्तिरिति भूतानुभूतयः || २१ || इतिनिश्चया एव स्वभावसंपत्तिः स्वरूपावाप्तिः | भूतानुभूतयो यथास्थितबोधा इत्यर्थः | अथवा इति प्राग्वर्णितरीत्या नियतिः स्वभावसंपत्तिर्भूतानुभूतयो जीवनमरणादिपदार्थानुभवाश्चेत्यर्थः || २१ || सर्गादौ या यथा रूढा संवित्कचनसंततिः | साद्याप्यचलितान्येन स्थिता नियतिरुच्यते || २२ || नियतिशब्दार्थपर्यालोचनेऽप्ययमेवार्थः प्रसिद्ध्यतीत्याशयेनाह - सर्गादाविति | अन्येन विरोधिना | अचलिता अविपर्यस्ता | आवलिता इति पाठे अन्येन पदार्थान्तरेण आवलिता मिलिता | यथा जन्मजीवने मरणेन मिलिते एव नियते न स्वातन्त्र्येण | यथा शैत्योष्ण्ये विरोधित्वेनैव मिलिते | क्रियाकारके साध्यसाधनभावेनेवेत्यर्थः || २२ || गृहीतव्योमसंवित्तिचिद्व्योम व्योमतां गतम् | गृहीतकालतासंविच्चिन्नभः कालतां गतम् || २३ || उक्तमर्थमुदाहृत्य दर्शयति - गृहीतेति | गृहीता सर्गादौ स्वीकृता व्योमसंवित्तिर्व्योमाकारेण कचनं येन चिद्व्योम्ना तत्तथोक्तम् | एवमग्रेऽपि || २३ || गृहीतजलसंवित्तिचिद्व्योम वारिवत्स्थितम् | स्वप्ने यथा हि पुरुषः पश्यत्यात्मनि वारिताम् || २४ || द्रष्ट्रात्मनि दृश्यकल्पना स्वात्मन्येव प्रसिद्धेत्याह - स्वप्ने इति || २४ || स्वप्नचित्संविदाभाति भवत्येषा यथास्थिता | चिच्चमत्कारचातुर्यादसदेतत्समूहते || २५ || तथाभावेऽपि यथास्थिता स्वरूपादप्रच्युतैव भवति | तत्कुतः | चिच्चमत्कारः असङ्गस्वभावता तल्लक्षणाच्चातुर्यात् अथवा चिच्चमत्कारो माया तच्चातुर्यादसदेव यस्मात्समूहते सत्यतया वितर्कयतीत्यर्थः || २५ || खत्वं जलत्वमुर्वीत्वमग्निवायुत्वमप्यसत् | वेत्त्यन्तः स्वप्नसंकल्पध्यानेष्विव चितिः स्वयम् || २६ || मरणानन्तरं कर्मफलानुभवनक्रमम् | सर्वसंदेहशान्त्यर्थं मृतिश्रेयस्करं शृणु || २७ || इत्थमितरनियतीर्व्यवस्थाप्य जीवननियतिरपि कर्मानुसारेण युगभेदेन च कालविशेषपरिच्छिन्नैवेश्वरसंकल्पेन कॢप्तेति न मरणेन तद्भङ्ग इति वक्तुं कर्मफलानुभवक्रमनिरूपणं प्रतिजानीते - मरणानन्तरमिति | यावन्मरणं प्रारब्धफलैः प्रतिबन्धान्न तद्देहसंचितकर्माणि फलारम्भाय क्षमन्ते मरणे तु सति प्रतिबन्धकापगमाद्यथायोगं फलारम्भायोपक्रमन्त इति सूचनाय मरणानन्तरमित्युक्तिः | एतच्छ्रवणं तव सर्वसंदेहशान्त्यर्थ त्वन्मुखेन लोके विख्यातं सदन्येषामप्यास्तिक्यबुद्धिजननान्मृतौ श्रेयस्करम् || २७ || रूढादिसर्गे नियतिर्यैकद्वित्रिचतुःशता | पूर्वादिष्वायुषः पुंसां तस्या मे नियतिं शृणु || २८ || पूर्वं कृतयुगं तदादिषु युगेषु कलावेकशतं द्वापरे द्विशतं त्रेतायां त्रिशतं कृते चतुःशतमिति संख्याता पुंसामायुषो या नियतिः सा आदिसर्गे रूढा तस्या न्यूनाधिकभावेऽप्यावान्तरनियतिं शृण्वित्यर्थः || २८ || देशकालक्रियाद्रव्यशुद्ध्यशुद्धी स्वकर्मणाम् | न्यूनत्वे चाधिकत्वे च नृणां कारणमायुषः || २९ || आयुर्निमित्तभूतानां कर्मणां देशाद्यशुद्ध्या वैगुण्ये फलस्य न्यूनताशुद्ध्यतिशयेन फलाधिक्यमित्यर्थः || २९ || स्वकर्मधर्मे ह्रसति ह्रसत्यायुर्नृणामिह | वृद्धे वृद्धिमुपायाति सममेव भवेत्समे || ३० || एवं विहितकर्माननुष्ठानमप्यायुःक्षयहेतुरित्याह - स्वकर्मेति | समं तत्तद्युगनियतसंख्यम् || ३० || बालमृत्युप्रदैर्बालो युवा यौवनमृत्युदैः | वृद्धमृत्युप्रदैर्वृद्धः कर्मभिर्मृतिमृच्छति || ३१ || विहिताकरणमिव निषिद्धाचरणमप्यायुःक्षयहेतुरित्याहवालेति || ३१ || यो यथाशास्त्रमारब्धं स्वधर्मनुमतिष्ठति | भाजनं भवति श्रीमान्स यथाशास्त्रमायुषः || ३२ || एवं कर्मानुसारेण जन्तुरन्त्यां दशामितः | भवन्त्यन्तं गतवतो दृङ्मर्मच्छेदवेदनाः || ३३ || अन्तमायुःसमाप्तिं गतवतः प्राप्तवतः पुरुषस्य दृश्यन्ते प्रत्यक्षमनुभूयन्त इति दृशस्तथाविधा मर्मच्छेदवेदना भवन्ति | सर्वशरीरनाडीभ्यः प्राणानां हृद्युपसंहारकाले सहस्रवृश्चिकदंशवेदनासमं दुःखं भवतीति पुराणेषु प्रसिद्धम् || ३३ || प्रबुद्धलीलोवाच | मरणं मे समासेन कथयेन्दुसमानने | किं सुखं मरणं किं वा दुःखं मृत्वा च किं भवेत् || ३४ || वर्णितं मरणदुःखं किं सर्वेषां सममुत केषांचित्सुखमप्यस्ति मरणोत्तरं च किं सर्वेषां तुल्या गतिरुत योगिनां विशिष्टेति प्रश्नाशयः || ३४ || श्रीदेव्युवाच | त्रिविधाः पुरुषाः सन्ति देहस्यान्ते मुमूर्षवः | मूखोऽथ धारणाभ्यासी युक्तिमान्पुरुषस्तथा || ३५ || प्रश्नाशयानुरूपमेवोत्तरं वक्तुं पुरुषान्विभजते - त्रिविधा इति | प्राणमनसोर्नाभिहृदयकण्ठभ्रूमध्ये ब्रह्मरन्ध्रान्तेषु नियतकालं निरोधो धारणा तदभ्यासी | युक्तिमान् स्वेच्छोत्क्रमणे परकायप्रवेशे स्वाभिमतलोकप्राप्तिमार्गभूतनाडीद्वारा विशेषनिर्गमनप्रवेशादौ चाभ्यस्तकौशलो योगी || ३५ || अभ्यस्य धारणानिष्ठो देहं त्यक्त्वा यथासुखम् | प्रयाति धारणाभ्यासी युक्तियुक्तस्तथैव च || ३६ || तत्र धारणानिष्ठो मध्यमः क्रमेण युक्तिमभ्यस्य सुखं प्रयाति | युक्तियुक्तस्तु तथैव स्थितः सुखं प्रयातीति विशेष इत्यर्थः || ३६ || प्. २६१) धारणा यस्य नाभ्यासं प्राप्ता नैव च युक्तिमान् | मूर्खः स्वमृतिकालेऽसौ दुःखमेत्यवशाशयः || ३७ || मूर्खं लक्षयंस्तस्य दुःखमाह - धारणेति || ३७ || वासनावेशवैवश्यं भावयन्विषयाशयः | दीनतां परमामेति परिलूनमिवाम्बुजम् || ३८ || वासनावेशेन वैवश्यमस्वाधीनचित्ततां प्राप्तः अत एव विषयाशयो न परमार्थाशयः || ३८ || अशास्त्रसंस्कृतमतिरसज्जनपरायणः | मृतावनुभवत्यन्तर्दाहमग्नाविव च्युतः || ३९ || तत्रापि विहिताकर्तुर्दुःखातिशयमाह - अशास्त्रेति || ३९ || यदा घर्घरकण्ठत्वं वैरूप्यं दृष्टिवर्णजम् | गच्छत्येषोऽविवेकात्मा तदा भवति दीनधीः || ४० || तादृशदुःखकालोपलक्षकलिङ्गान्याह - यदेति || ४० || परमान्ध्यमनालोको दिवाप्युदिततारकः | साभ्रदिग्मण्डलाभोगो घनमेचकिताम्बरः || ४१ || परमान्ध्यं प्राप्य दिवाप्युदितास्तारका यस्य तथाविधोऽनालोको निष्प्रकाशोऽत एव घनं मेचकितं श्यामीभूतमम्बरमाकाशं यस्य तथाविधः | साभ्रो दिङ्मण्डलाभोगो यस्य तथाविध इव भवतीति सर्वत्र शेषः || ४१ || मर्मव्यथाविच्छुरितः प्रभ्रमद्दृष्टिमण्डलः | आकाशीभूतवसुधो वसुधाभूतखान्तरः || ४२ || विच्छुरितो व्याप्तः || ४२ || परिवृत्तककुप्चक्र उह्यमान इवार्णवे | नीयमान इवाकाशे घननिद्रोन्मुखाशयः || ४३ || परिवृत्तं भ्रमत्ककुप्चक्रं दिङ्मण्डलं यस्य || ४३ || अन्धकूप इवापन्नः शिलान्तरिव योजितः | स्वयं जडीभवद्वर्णो विनिकृत्त इवाशये || ४४ || आपन्नः पतितः | योजितः प्रवेशितः | स्वदुःखं वक्तुकामोऽपि वाक्स्तम्भाज्जडीभवन्त उच्चरितुमशक्या वर्णा अक्षराणि यस्य | आशये हृदये विनिकृत्तश्छिन्न इव || ४४ || पततीव नभोमार्गात्तृणावर्त इवार्पितः | रथे द्रुत इवारूढो हिमवद्गलनोन्मुखः || ४५ || तृणान्यावर्तयतीति तृणावर्तो वात्या तत्रार्पित इव | हिमं तुषारशिला तद्वद्गलने विलीनतायामुन्मुखः || ४५ || व्याकुर्वन्निव संसारं वान्धवानस्पृशन्निव | भ्रमितक्षेपणेनेव वातयन्त्र इवास्थितः || ४६ || संसारशब्देन तद्दुःखं लक्ष्यते | तद्व्याकुर्वन् स्वात्मानमुदाहृत्यान्येभ्यः प्रख्यापयन्निव | क्षेपणेन शिलाप्रक्षेपयन्त्रेण || ४६ || भ्रमितो वा भ्रम इव कृष्टो रसनयेव वा | भ्रमन्निव जलावर्ते शस्त्रयन्त्र इवार्पितः || ४७ || भ्रमे भ्रमियन्त्रे | रसनया रज्वा कृष्ट आकृष्ट इव || ४७ || प्रोह्यमानस्तृणमिव वहत्पर्जन्यमारुते | आरुह्य वारिपूरेण निपतन्निव चार्णवे || ४८ || वहति पर्जन्यमारुते आरुह्य वारिपूरेण सह अर्णवे निपतन्निव || ४८ || अनन्तगगने श्वभ्रे चक्रावर्ते पतन्निव | अब्ध्रुर्वीविपर्यासदशामनुभवन्स्थितः || ४९ || उर्वीविपर्यासदृशामनुभवन्नब्धिरिवानवरतं पतन्नित्यौत्प्रेक्षिकोपमा || ४९ || पतन्निवानवरतं प्रोत्पतन्निव चाभितः | सूत्काराकर्णनोद्भ्रान्तपूर्णसर्वेन्द्रियव्रणः || ५० || सूत्कारो निःश्वासध्वनिः || ५० || क्रमाच्छ्यामलतां यान्ति तस्य सर्वाक्षसंविदः | यथास्तं [यथा ह्यस्तंगतरवौ इति पाठः] गच्छति रवौ मन्दालोकतया दिशः || ५१ || तस्य मूर्च्छोपक्रमे चक्षुराद्युपरममाह - क्रमादिति | तस्य मुमूर्षोः सर्वा अक्षसंविदः | श्यामलतां मालिन्यम् || ५१ || पूर्वापरं न जानाति स्मृतिस्तानवमागता | यथा पाश्चात्यसंध्यान्ते नष्टा दृष्टिर्दिगष्टके || ५२ || तानवं कृशताम् || ५२ || मनः कल्पनसामर्थ्यं त्यजत्यस्य विमोहतः | अविवेकेन तेनासौ महामोहे निमज्जति || ५३ || यदैवामोहमादत्ते नादत्ते पवनस्तदा | नत्वादत्ते यदा प्राणान्मोहमयात्यलं तदा || ५४ || आमोहमीषन्मूर्च्छाम् | पवनः प्राणो नादत्ते न गृह्णाति | अङ्गानि न विष्टम्भयतीत्यर्थः | यदा प्राणानप्यसौ नत्वादत्ते न चालयितुं शक्नोति तदा मोहं गाढमूर्च्छाम् || ५४ || अन्योन्यपुष्टतां यातैर्मोहसंवेदनभ्रमैः | जन्तुः पाषाणतामेति स्थितमित्यादिसर्गतः || ५५ || मोहः स्वरूपापरिचयः संवेदनानि विषयवासनाः भ्रमा अन्यथाप्रतिभासास्तैः | पाषाणतां पाषाणवज्जडताम् | आदिसर्गत आरभ्य इति एवं नियतं सर्वं [सर्वं स्थितं इति क्वचित्कः पाठः] स्थितमित्यर्थः || ५५ || प्रबुद्धलीलोवाच | व्यथां विमोहं मूर्च्छान्तं भ्रमं व्याधिमचेतनम् | किमर्थमयमायाति देहो ह्यष्टाङ्गवानपि || ५६ || शिरःपाणिपादगुह्यनाभिहृदयान्यष्टाङ्गानि तद्वानपि || ५६ || श्रीदेव्युवाच | एवं संविहितं कर्म सर्गादौ स्पन्दसंविदा | यद्यस्मिन्समये दुःखं कालेनैतावतेदृशम् || ५७ || स्पन्दसंविदा क्रियाशक्तिप्रधानेनेश्वरेण एवं वक्ष्यमाणरूपं संकल्पलक्षणं कर्म संविहितम् | यद्यस्मिन्समये बाल्ये यौवने वृद्धत्वे वा एतावता कालेन भोग्यमीदृशं दुःखं मे मदभिन्नस्य जीवस्य स्यादिति परेणान्वयः || ५७ || स्यान्मे इत्येव संविश्य गुल्मवत्तत्स्वभावजम् | वेत्ति चित्तविजृम्भोत्थं नान्यदत्रास्ति कारणम् || ५८ || तत्स्वसंकल्पस्वभावजमेव चित्तपरिकल्पिततरुगुल्मवच्चित्तविजृम्भोत्थं दुःखं स्वयमेव जीवभावेनोपाधौ संविश्य वेत्ति भुङ्क्ते इत्यर्थः || ५८ || यदा व्यथावशान्नाड्यः स्वसंकोचविकासनैः | गृह्णन्ति मारुतो देहे तदोज्झति निजां स्थितिम् || ५९ || पृष्टं समाधाय प्रतुतमेवाह - यदेत्यादिना | नाड्यः प्रतप्तपित्तादिरसपूरितत्वाद्यथासंचलनं तद्वशात्स्वसंकोचविकासनैर्भुक्तान्नपानरसं वैषम्येण गृह्णन्ति तदा मारुतः समानवायुर्निजां भुक्तान्नपानादिसमीकरणस्थितिमुज्झत्युत्सृजति || ५९ || प्. २६२) प्रविष्टा न विनिर्यान्ति गताः संप्रविशन्ति नो | यदा वाता विनाडीत्वात्तदा स्पन्दात्स्मृतिर्भवेत् || ६० || यदा नाडीद्वारेषु प्रविष्टा वाता न विनिर्यान्ति निर्गताश्च न प्रविशन्ति तदा नाडीव्यापारोपरमे विनाडीत्वाच्चक्षुरादेरस्पन्दात् स्मृतिरेवान्तर्भवेन्नैन्द्रियकं ज्ञानमित्यर्थः || ६० || न विशत्येव वातो न निर्याति पवनो यदा | शरीरनाडीवैधुर्यान्मृत इत्युच्यते तदा || ६१ || तच्च नाडीवैधुर्यं प्राणसंचाररोधेन मरणे हेतुरित्याह - न विशत्येवेति | वातः अपानो देहेन विशत्येव | यदा पवनः प्राणश्च मुखनासिकाभ्यां न निर्याति तदाऽवश्यं लिङ्गस्योत्क्रमणान्मृत इत्युच्यत इत्यर्थः || ६१ || आगन्तव्यो मया नाशः कालेनैतावतेति या | पूर्वसंविदिता संविद्याति तच्चोदिता मृतिम् || ६२ || तत्रापि प्राक्तनचित्संकल्परूपा नियतिरेव हेतुरित्याह - आगन्तव्य इति | पूर्वसंविदिता प्राक्तनसंकल्पवती | तच्चोदिता | तादृशनियतिप्रेरिता || ६२ || ईदृशेन मयेहेत्थं भाव्यमित्यादि सर्गजा | संविद्बीजकला नाशं न कदाचन गच्छन्ति || ६३ || ननु तस्या नियतेर्नाशे जगद्व्यवस्था भज्येत तत्राह - संविदिति | सत्यसंकल्पसंविदो बीजकला तत्संस्कारवती माया सा कदाचिदपि काले न नश्यति मुक्तौ कालेन सहैव तन्निवृत्तेरिति भावः || ६३ || संविदो वेदनं नाम स्वभावोऽव्यतिरेकवान् | तस्मात्स्वभावसंवित्तेर्नान्ये मरणजन्मनी || ६४ || आविद्यकजीवसंवित्स्वरूपपर्यालोचनेऽपि यावन्मोक्षं जन्ममरणाद्यनिवृत्तिरेवेत्याशयेनाह - संविद इति | अव्यतिरेकवान् व्यतिरेको विश्लेषस्तदभाववान् || ६४ || क्वचिदावृतिमत्सौम्यं क्वचिन्नद्यां जलं यथा | क्वचित्सौम्यं क्वचिज्जीवधर्मेदं चेतनं तथा || ६५ || सांसारिकजीवसंवित्प्रवाहं वर्णयति - क्वचिदिति | यथा नद्यां जलं क्वचिदावृतिमत् कालुष्यवत् क्वचित्तु सौम्यं स्थिरनिर्मलं तथा इदं चेतनमपि क्वचित्सौम्यं क्वचित्तु जीवधर्मरागद्वेषादिकलुषमित्यर्थः || ६५ || यथा लतायाः पर्वाणि दीर्घाया मध्यमध्यतः | तथा चेतनसत्ताया जन्मानि मरणानि च || ६६ || दूर्वादिलतायाः पर्वाणि ग्रन्थयः || ६६ || न जायते न म्रियते चेतनः [चेतनं पुरुषे क्वचित् इति पाठः] पुरुषः क्वचित् | स्वप्नसंभ्रमवद्भ्रान्तमेतत्पश्यति केवलम् || ६७ || इदं च सर्वमाविद्यकदृशा | परमार्थदृशा त्वाह - न जायत इति | न जायते म्रियते वा विपश्चित् इत्यादिश्रुतेरित्यर्थः || ६७ || पुरुषश्चेतनामात्रं स [स कदाचिन्न नश्यति इत्यपि पाठः] कदा क्वेव नश्यति | चेतनव्यतिरिक्तत्वे वदान्यत्किं पुमान्भवेत् || ६८ || अमरणधर्मतां तस्य युक्त्याप्युपपादयति - पुरुष इत्यादिना | चेतनव्यतिरिक्त एव पुरुष इति पक्षे अन्यत्किं देहः पुरुषो भवेदुत प्राण उतेन्द्रियाणि किंवा मन उत बुद्धिरुताहंकारचित्ते उत तत्तदधिष्ठातृदेवता उताविद्या | सर्वेष्वपि पक्षेषु जडैः पुरुषकार्यप्रकाशाधीनसर्वव्यवहारानिर्वाहात्परिशेषाच्चेतनामात्रमेव पुरुष इति पक्षः स्थित इत्यर्थः || ६८ || कोऽद्ययावन्मृतं ब्रूहि चेतनं कस्य किं कथम् | म्रियन्ते देहलक्षाणि चेतनं स्थितमक्षयम् || ६९ || चेतनस्य तु मरणं न सिध्यति निःसाक्षिकमरणासिद्धेरित्याशयेनाह - कोऽद्येति | अद्ययावदद्यतनावधिके अनादिसंसारे चेतनं मृतं को दृष्टवानिति शेषः | एवं किं तन्मरणं विनाश उत देहान्तरप्राप्तिः | आद्येऽपि कथं चेतनस्य नाशः किं स्वत उत परतः | नाद्यः | स्वात्मनि विरोधाभावात् | असङ्गस्य परतस्तदप्रसक्तेरित्यर्थः | द्वितीये त्वाह - म्रियन्त इति || ६९ || अमरिष्यन्न वै चित्तमेकस्मिन्नेव तन्मृते | अभविष्यत्सर्वभावमृतिरेकमृताविह || ७० || अनिष्टप्रसञ्जनेनापि चेतनमरणं वारयति - अमरिष्यदिति | प्रतिदेहं चेतनभेदे मानाभावात् एको देवः सर्वभूतेषु गूढः इत्यादिश्रुतेश्चैकस्मिंस्तत् तस्मिंश्चेतने मृते सति तदधीनसत्तास्फूर्तिकं समष्टिव्यष्टिचित्तं नामरिष्यद्वै | किमर्थे काक्वावैशब्दः नामरिष्यत्किमित्यर्थः | तस्मिंश्च मृते सति निरुपादानजगत्सत्ताऽयोगादेकमृतौ सर्वभावमृतिदोषो नाभविष्यत्किमित्यर्थह् || ७० || वासनामात्रवैचित्र्यं यज्जीवोऽनुभवेत्स्वयम् | तस्यैव जीवमरणे नामनी परिकल्पिते || ७१ || के तर्हि प्रतीयमाने जीवनमरणे तत्राह - वासनेति | जीवो जीवनम् || ७१ || एवं न कश्चिन्म्रियते जायते न च कश्चन | वासनावर्तगर्तेषु जीव लुठति केवलम् || ७२ || उपपादितमुपसंहरति - एवमिति || ७२ || अत्यन्तासंभवादेव दृश्यस्यासौ च वासना | नास्त्येवेति विचारेण दृढज्ञातैव नश्यति || ७३ || अभिमानेन दृढतरो ज्ञाता अन्तःकरणात्मा नश्यत्येवेत्यर्थः || ७३ || अनुदितमुदितं जगत्प्रबन्धं भवभयतोऽभ्यसनैर्विलोक्य सम्यक् | अलमनुदितवासनो हि जीवो भवति विमुक्त इतीह सत्यवस्तु || ७४ || भवभयतो वैराग्यादिसाधनसंपन्नोऽधिकारिजीवो गुरुपूर्वकश्रवणाद्यभ्यसनैर्भ्रान्त्या उदितं जगत्प्रबन्धं परमार्थतोऽनुदितमेवेति सम्यक्तत्त्वदर्शनतो विलोक्य मूलोच्छेदादलमत्यन्तमनुदितद्वैतवासनः सन् विमुक्तो भवतीति विमुक्तात्मस्वरूपमेवेह सत्यवस्तु नान्यदित्यर्थः || ७४ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे लीलो० मरणविचारो नाम चतुःपञ्चाशः सर्गः || ५४ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे मरणविचारो नाम चतुष्पञ्चाशः सर्गः || ५४ || प्. २६३) १६४ पञ्चपञ्चाशः सर्गः ५५ प्रबुद्धलीलोवाच | यथैव जन्तुर्म्रियते जायते च यथा पुनः | तन्मे कथय देवेशि पुनर्बोधविवृद्धये || १ || इह जीवस्य संसारगतिवैचित्र्यमुच्यते | आदिसर्गात्तथेशस्य तत्कर्मानुगुणा स्थितिः || १ || कथितमेव पुनर्विस्तरेण कथयेत्यर्थः | तत्फलं वैराग्यातिशयेन बोधविवृद्धिः || १ || श्रीदेव्युवाच | नाडीप्रवाहे विधुरे यदा वातविसंस्थितिम् | जन्तुः प्राप्नोति हि तदा शाम्यतीवास्य चेतना || २ || प्राणवातानां विसंस्थितिं चलनस्वभावविरुद्धां संस्थितिम् | प्रशान्तिमिति यावत् | व्यञ्जकान्तःकरणोपाधिविलयाच्छाम्यतीव | एतेभ्यो भूतेभ्यः समुत्थाय तान्येवानु विनश्यति न प्रेत्य संज्ञास्ति इति श्रुतेरिति भावः || २ || शुद्धं हि चेतनं नित्यं नोदेति न च शाम्यति | स्थावरे जङ्गमे व्योम्नि शैलेऽग्नौ पवने स्थितम् || ३ || वस्तुतस्तु न क्वापि शाम्यतीत्याह - शुद्धमिति | अविनाशी वा अरे अयमात्मा अनुच्छित्तिधर्मा इति श्रुतेरिति भावः || ३ || केवलं वातसंरोधाद्यदा स्पन्दः प्रशाम्यति | मृत इत्युच्यते देहस्तदासौ जडनामकः || ४ || एवं च देहधर्म एव मरणं नात्मधर्म इत्याह - केवलमिति || ४ || तस्मिन्देहे शवीभूते वाते चानिलतां गते | चेतनं वासनामुक्तं स्वात्मतत्त्वेऽवतिष्ठति || ५ || वाते शरीरवायौ अनिलतां स्वप्रकृतिमहावायुताम् | प्राणस्तु सहतेजसा प्राज्ञात्मन्येव लीयते | उपाधिविलये जीवोऽपि सह वासनाभिः परमात्मभावेऽवतिष्ठत इत्याह - चेतनमिति | तथाच श्रुतिः अथास्य प्रयतो वाङ्मनसि संपद्यते मनः प्राणे प्राणस्तेजसि तेजः परस्यां देवतायाम् इति || ५ || जीव इत्युच्यते तस्य नामाणोर्वासनावतः | तत्रैवास्ते स च शवागारे गगनके तथा || ६ || ननु यदि स्वात्मतत्त्वेऽवतिष्ठते तर्हि मुक्तो ब्रह्मैव स्यादसौ न जीवस्तत्राह ##- तत्परिच्छिन्नस्य तस्य जीव इति नाम उच्यते नतु वस्तुतो जीवो नाम ब्रह्मान्योऽस्तीत्यर्थः | अत एव तस्य वासनावशात्स्वस्थान एव परलोकगमनाद्यध्यासो न वास्तवं गमनाद्यस्तीत्याशयेन मण्डपाकाशन्यायं स्मारयति - तत्रैवास्त इति || ६ || ततोऽसौ प्रेतशब्देन प्रोच्यते व्यवहारिभिः | चेतनं वासनामिश्रमामोदानिलवत्स्थितम् || ७ || ततो देहमरणादेव | नन्वसङ्गे कथं वासनास्थितिस्तत्राह - चेतनमिति | यथा सूक्ष्मतरपुष्परेणुनिष्ठ एवामोदः अनिलस्तु तत्तादात्म्यसंसर्गाध्यासादामोदमिश्रः स्थितस्तद्वदित्यर्थः || ७ || इदं दृश्यं परित्यज्य यदास्ते दर्शनान्तरे | स स्वप्न इव संकल्प इव नानकृतिस्तदा || ८ || इदं प्राक्तनं देहादिदृश्यं परित्यज्य देहान्तरादिदर्शनान्तरे यदा आस्ते तदा स जीवः स्वप्न इव स्वयमेव स्ववासनामयगमनपरलोकतत्रत्यभोग्यादिनानाकृतिर्भवतीत्यर्थः || ८ || तस्मिंन्नेव प्रदेशेऽन्तः पूर्ववत्स्मृतिमान्भवेत् | तदैव मृतिमूर्च्छान्ते पश्यत्यन्यशरीरकम् || ९ || तमेवाध्यासं क्रमेण वक्तुमुपक्रमते - तस्मिन्नेवेति | पूर्ववत्प्राग्जन्मवत् || ९ || आत्मन्यस्ति घटापुष्टमन्यस्य व्योम केवलम् | आकाशभूतले साकं साकाशशशिवासरम् [शशिचामरम् इति पाठः] || १० || ननु तस्मिन्नल्पतरे मरणप्रदेशे देहान्तरकल्पनघटनेऽपि कथं दूरगमनविस्तृतपरलोकादिसमावेशघटनं तत्राह - आत्मनीति | पुष्टं विपुलं केवलं व्योम एकं आकाशभूतले द्वे वा साकाशशशिवासरं ब्रह्माण्डकोटिलक्षं वा साकं युगपदेवान्तर्निविशतु तथापि आत्मन्यन्यस्य सर्वस्य प्रपञ्चस्य घटा घटनमस्त्येव | आत्मनोऽनन्तत्वान्मायायाश्चाघटितघटनासामर्थ्यसत्त्वादित्यर्थः | तथाचात्मस्वरूपपर्यालोचनया अल्पप्रदेशेऽपि जगदन्तरसमावेश उक्तो न तत्प्रदेशमात्रमपेक्ष्येति भावः | अथवा यदि तस्मिन्प्रदेशे मार्गपरलोकादिकमस्ति तर्ह्यन्येनापि कुतो नोपलभ्यते तत्राह - आत्मनीति | आकाशभूतले द्वे साकाशशशिवासरं सर्व जगच्च मृतपुरुषस्यात्मनि मेघघटेव पुष्टमस्ति अन्यस्य दृशा तु केवलं व्योम गृहाकाशमेवास्तीति [आस्तीति न दर्शनप्रसक्तिरिति क्वचित्] दर्शनप्रसक्तिरित्यर्थः || १० || भवन्ति षड्विधाः प्रेतास्तेषां भेदमिमं शृणु | सामान्यपापिनो मध्यपापिनः स्थूलपापिनः || ११ || गतिभेदान्वक्तुं प्रेतान्विभजते - भवन्तीति || ११ || सामान्यधर्मा [छन्दोभङ्गोऽत्र आर्षः] मध्यमधर्मा चोत्तमधर्मवान् | एतेषां कस्यचिद्भेदो द्वौ त्रयोऽप्यथ कस्यचित् || १२ || एतेषां मध्ये कस्यचिद्भेदो विशेषः | स कः | कस्यचिद्द्वौ भेदौ | यथा कंचित्कालं सामान्यपापी तदुत्तरमध्यमपाप्यतिपापी वेति उक्तरीत्या कस्यचित्त्रयोऽपि क्रमेण व्युत्क्रमेण वा भेदाः || १२ || कश्चिन्महापातकवान्वत्सरं स्मृतिमूर्छनम् | विमूढोऽनुभवत्यन्तः पाषाणहृदयोपमः || १३ || तत्र प्रथमं तृतीयस्य गतिमाह - कश्चिदिति | वत्सरं संवत्सरमात्रम् || १३ || ततः कालेन संबुद्धो वासनाजठरोदितम् | अनुभूय चिरं कालं नारकं दुःखमक्षयम् || १४ || भुक्त्वा योनिशतान्युच्चैर्दुःखाद्दुःखान्तरं गतः | कदाचिच्छममायाति संसारस्वप्नसंभ्रमे || १५ || भुक्त्वेति | तथाच श्रुतिः अथ य इह कपूयचरणा अभ्याशो हयत्ते कपूयां योनिमापद्येरन् श्वयोनिं वा सूकरयोनिं वा चण्डालयोनिं वा इति | शमं महापापफलोपरमम् || १५ || प्. २६४) १६५ अथवा मृतिमोहान्ते जडदुःखशताकुलाम् | क्षणाद्वृक्षादितामेव हृत्स्थामनुभवन्ति [तत्स्थाम् इति पाठः] ते || १६ || क्षणादिति | इदं चान्यदृशा || १६ || स्ववासनानुरूपाणि दुःखानि नरके पुनः | अनुभूयाथ योनीषु जायन्ते भूतले चिरात् || १७ || अथ मध्यमपापो यो मृतिमोहादनन्तरम् | सशिलाजठरं जाड्यं कंचित्कालं प्रपश्यति || १८ || द्वितीयस्य गतिमाह - अथेति | शिला जठरमिव शिलाजठरम् | जाड्यं मूर्च्छाम् || १८ || ततः प्रबुद्धः कालेन केनचिद्वा तदैव वा | तिर्यगादिक्रमैर्भुक्त्वा योनीः संसारमेष्यति || १९ || तदैवेति परदृष्ट्युक्तिः || १९ || मृत एवानुभवति कश्चित्सामान्यपातकी | स्ववासनानुसारेण देहं संपन्नमक्षतम् || २० || प्रथमस्य गतिमाह - मृत इति | देहं मनुष्यादिशरीरम् | उभाभ्यामेव मनुष्यलोकमिति श्रुतेः || २० || स स्वप्न इव संकल्प इव चेतति तादृशम् | तस्मिन्नेव क्षणे तस्य स्मृतिरित्थमुदेति च || २१ || चेतति अनुभवति | इत्थं प्रागुक्तदिशा || २१ || ये तूत्तममहापुण्या मृतिमोहादनन्तरम् | स्वर्गविद्याधरपुरं स्मृत्या स्वनुभवन्ति ते || २२ || षष्ठस्य गतिमाह - ये त्विति | स्मृत्या पुण्यवासनोद्बोधेन || २२ || ततोऽन्यकर्मसदृशं भुक्त्वान्यत्र फलं निजम् | जायन्ते मानुषे लोके सश्रीके सज्जनास्पदे || २३ || ततो महापुण्यभोगानन्तरम् | अन्यत्किंचिदल्पं पुण्यं पापं वा संभावितं तत्सदृशं तदनुरूपं फलम् | अन्यत्र इलावृतकिंपुरुषादिवर्षेषु || २३ || ये च मध्यमधर्माणो मृतिमोहादनन्तरम् | ते व्योमवायुवलिताः प्रयान्त्योषधिपल्लवम् || २४ || पञ्चमस्य गतिमाह - ये चेति | ओषधिपल्लवं ओषधिपल्लवप्रधानं नन्दनचैत्ररथादिवनं किन्नरकिंपुरुषयक्षादिशरीरेण प्रयान्तीत्यर्थः || २४ || तत्र चारुफलं भुक्त्वा प्रविश्य हृदयं नृणाम् | रेतसामधितिष्ठन्ति गर्भे जातिक्रमोचिते || २५ || चारु स्वकर्मफलं भुक्त्वान्ते वायुवृष्ट्यादिद्वारा भूमौ व्रीहियवादिषु प्रविश्यान्नभूता नृणां ब्राह्मणादीनां हृदयं प्रविश्य रेतसां निषेके तद्द्वारा स्त्रीणां गर्भे अधितिष्ठन्तीत्यर्थः | अथ य इह रमणीयचरणा अभ्याशो ह यत्ते रमणीयां योनिमापद्येरन्ब्राह्मणयोनिं वा क्षत्रिययोनिं वा वैश्ययोनिं वा इति श्रुतेः || २५ || स्ववासनानुसारेण प्रेता एतां व्यवस्थितिम् | मूर्च्छान्तेऽनुभवन्त्यन्तः क्रमेणैवाक्रमेण च || २६ || एतेन चतुर्थस्यापि गतिरुक्तप्रायैवेति मन्यमान उपसंहरति - स्ववासनेति || २६ || आदौ मृता वयमिति बुध्यन्ते तदनुक्रमात् | बन्धुपिण्डादिदानेन प्रोत्पन्ना इति वेदिनः || २७ || इदानीं मरणप्रभृति तेषामारोपक्रमं विशिष्य दर्शयति - आदावित्यादिना | तदनुक्रमाद्दाहदशाहकृत्यक्रमात्प्रोत्पन्ना निष्पन्नशरीरा इति बुध्यन्त इति सर्वत्रानुषज्यते || २७ || ततो यमभटा एते कालपाशान्विता इति | नीयमानः प्रयाम्येभिः क्रमाद्यमपुरं त्विति || २८ || एभिर्यमभटैः क्रमात्पाथेयश्राद्धतर्पितः संवत्सरेण यमपुरं प्रयामीति || २८ || उद्यानानि विमानानि शोभनानि पुनःपुनः | स्वकर्मभिरुपात्तानि दिव्यानीत्येव पुण्यवान् || २९ || पुण्यवानुत्तमपुण्यवान् || २९ || हिमानीकण्टकश्वभ्रशस्त्रपत्रवनानि च | स्वकर्मदुष्कृतोत्थानि संप्राप्तानीति पापवान् || ३० || इयं मे सौम्यसंपाता सरणिः शीतशाद्वला | स्निग्धच्छाया सवापीका पुरःसंस्थेति मध्यमः || ३१ || सौम्यसंपाता पद्भ्यां सुखेन गन्तुं योग्येत्यर्थः | सरणिर्मार्गः | मध्यमः पुण्यवान् इति बुध्यते || ३१ || अयं प्राप्तो यमपुरमहमेष स भूतपः | अयं कर्मविचारोऽत्र कृत इत्यनुभूतिमान् || ३२ || अयमहं यमपुरं प्राप्तः | स सर्वलोकप्रसिद्धो यमः | एष पुरःस्थः | अत्र यमसभायां चित्रगुप्तादिभिर्मम कर्मविचारः कृतः || ३२ || इति प्रत्येकमभ्येति पृथुः संसारखण्डकः | यथासंस्थितनिःशेषपदार्थाचारभासुरः || ३३ || अयं चारोपक्रमः प्रतिपुरुषं स्वप्नवद्भिन्न इत्याह - इतीति | यथा प्रतीयन्ते तथैव संस्थिताः सत्या इव ये निःशेषपदार्थास्तदाचारास्तत्तदर्थक्रियाश्च तैर्भासुरः || ३३ || आकाश इव निःशून्ये शून्यात्मैव विबोधवान् | देशकालक्रियादैर्घ्यभासुरोऽपि न किंचन || ३४ || स्वरूपदृष्ट्यावलोकने तु न किंचिदात्मातिरिक्तमस्तीत्याह - आकाश इवेति | निःशून्ये निःस्वरूपे स्थितः प्रपञ्चो देशकालादिदैर्घ्येण भासमानोऽपि न किंचन किंतु सर्वारोपशून्य आत्मैवेत्यर्थः || ३४ || इतिऽयमहमादिष्टः स्वकर्मफलभोजने | गच्छाम्याशु शुभं स्वर्गमितो नरकमेव च || ३५ || अहं यमेन स्वकर्मफलभोजने इतोऽस्यां दिशि आदिष्ट आज्ञप्तः | इतो यमसभातः || ३५ || यः स्वर्गोऽयं मया भुक्तो भुक्तोऽयं नरकोऽथ वा | इमास्ता योनयो भुक्ता जायेऽहं संसृतौ पुनः || ३६ || यो यमेन निर्दिष्टः स्वर्गः अयं मया भुक्तः | ता यमनिर्दिष्टाः पश्वादियोनय इमाः प्रत्यक्षा मया भुक्ताः | अहं संसृतौ मनुष्यसंसारे पुनर्जाये सांप्रतं प्रादुर्भवामि || ३६ || अयं शालिरहं जातः क्रमात्फलमहं स्थितः | इत्युदर्कप्रबोधेन बुध्यमानो भविष्यति || ३७ || तत्क्रममाह - अयमिति | शालिः शाल्यङ्कुरः | काण्डपत्रगर्भमञ्जरीक्रमात्फलं भूत्वा अहं स्थितः | ननु स्वर्गनरकनानायोनिभोग इव व्रीह्यादिभावोऽपि किमस्याऽनुभवसिद्धो नेत्याह - इत्युदर्केति | उदर्के औत्तरकालिके मनुष्यशरीरे श्रुतिपुराणादिजन्यप्रबोधेन बुद्ध्यमानोऽयं भविष्यतीत्यर्थः || ३७ || प्. २६५) १६५ संसुप्तकरणस्त्वेवं बीजतां यात्यसौ नरे | तद्बीजं योनिगलितं गर्भो भवति मातरि || ३८ || कुतस्तदानीमसौ व्रीह्यादिभावं नानुभवति तत्राह - संसुप्तकरण इति | शरीराभावात्संमूर्च्छितबाह्यान्तःकरणः | तुशब्द एतद्विशेषसूचनाय | एवमेवासौ नरे पितृशरीरे भुक्तान्नद्वारा प्रविष्टो बीजतां रेतोभावं याति || ३८ || स गर्भो जायते लोके पूर्वकर्मानुसारतः | भव्यो भवत्यभव्यो वा बालको ललिताकृतिः || ३९ || पूर्वकर्मानुसारमेव प्रपञ्चयति - भव्य इति | भव्यः सुखसौभाग्यरोग्यसाधुवृत्तसंपन्नस्तद्विपरीतोऽभव्यः || ३९ || ततोऽनुभवतीन्द्वाभं यौवनं मदनोन्मुखम् | ततो जरां पद्ममुखे हिमाशनिमिव च्युतम् [च्युताम् इति पाठः] || ४० || इन्द्वाभं चन्द्रवदुपचयापच्यधर्मिणं चलं कान्तं च || ४० || ततोऽपि व्याधिमरणं पुनर्मरणमूर्च्छनाम् | पुनः स्वप्नवदायातं पिण्डैर्देहपरिग्रहम् || ४१ || बन्धुदत्तैरौर्ध्वदेहिकपिण्डैः || ४१ || याम्यं याति पुनर्लोकं पुनरेव भ्रमक्रमम् | भूयो भूयोऽनुभवति नानायोन्यन्तरोदये || ४२ || इत्याजवं जवीभावमामोक्षमतिभासुरम् | भूयो भूयोऽनुभवति व्योम्न्येव व्योमरूपवान् || ४३ || इति उक्तप्रकारं आजवं जवीभावं परिवर्तनम् | जु गतौ इति धातोराङ्पूर्वात्पचाद्यचि च्विः द्वित्वनुकौ तु बाहुलकात्पृषोदरादित्वाच्छान्दसत्वाद्वा बोध्यौ || ४३ || प्रबुद्धलीलोवाच | आदिसर्गे यथा देवि भ्रम एष प्रवर्तते | तथा कथय मे भूयः प्रसादाद्बोधवृद्धये || ४४ || नन्वस्तु त्वंपदार्थे जीवे भ्रान्तिसंभवादयमध्यारोपक्रमस्तत्पदार्थे त्वीश्वरे भ्रान्त्ययोगात्कथं जगदध्यारोपक्रम इति तत्परिशुद्धिज्ञानाय लीला पृच्छति - आदिसर्गे इति || ४४ || श्रीदेव्युवाच | परमाथघनं शैलाः परमार्थघनं द्रुमाः | परमार्थघनं पृथ्वी परमार्थघनं नभः || ४५ || नेश्वरस्य भ्रान्त्या जगदध्यारोपः किंतु स्वतः परमार्थघनरूपस्यैव स्वतो मायाध्यारोपितरूपेण विवर्तः | अनावृतस्वचैतन्येनाध्यस्तभानं न च भ्रमः किंतु सत्यत्वेनासत्यप्रतिभासः | ईश्वरस्य सर्वदा सर्वज्ञत्वात्सर्वार्थप्रतिभासेऽपि स्वरूपाप्रच्युतिबोधबाधितत्वान्न जगति सत्यताप्रतिभास इति न कश्चिद्दोष इत्यभिप्रेत्य देवी तत्पदार्थेऽध्यारोपमुपपादयितुमाह - परमार्थघनमित्यादिना || ४५ || सर्वात्मकत्वात्स यतो यथोदेति चिदीश्वरः | परमाकाशशुद्धात्मा तत्र तत्र भवेत् तथा || ४६ || उदेति विवर्तते | तथा भवति अस्मद्दृशा न स्वदृशा || ४६ || सर्गादौ स्वप्नपुरुषन्यायेनादिप्रजापतिः | यथा स्फुटं प्रकचितस्तथाद्यापि स्थिता स्थितिः || ४७ || स ईश्वर एव स्वप्नकल्पयितृपुरुषन्यायेन जीवसमष्ट्यात्मा आदिप्रजापतिर्भूत्वा सृज्यसंकल्पात्मना यथा भूरादिलोकात्मना विवर्तेन प्रकचति तथैवाद्यापि तादृशस्थितिसंकल्पसत्तया स्थितिर्व्यवस्था स्थिता || ४७ || प्रथमोऽसौ प्रतिस्पन्दः पदार्थानां हि बिम्बकम् | प्रतिबिम्बितमेतस्माद्यत्तदद्यापि संस्थितम् || ४८ || सांकल्पिकजगत्सत्ताया इयं जगत्सत्ता भिन्नेति पक्षेऽपि तत्प्रतिबिम्बतुल्यत्वान्मिथ्यैवेत्याह - प्रथममिति | असौ सांकल्पिकप्रकचनरूपः परिस्पन्दो विवर्तः || ४८ || यन्नाम सुषिरं स्थानं देहानां तद्गतोऽनिलः | करोत्यङ्गपरिस्पन्दं जीवतीत्युच्यते ततः || ४९ || तत्र स्थावरजंगमविभागे निमित्तमाह - यन्नामेति द्वाभ्याम् || ४९ || सर्गादावेवमेवैषा जङ्गमेषु स्थिता स्थितिः | चेतना अपि निःस्पन्दास्तेनैते पादपादयः || ५० || निःस्पन्दा निश्चेष्टाः || ५० || चिदाकाशोऽयमेवांशं कुरुते चेतनोदितम् | स एव संविद्भवति शेषं भवति नैव तत् || ५१ || एवं चेतनाचेतनविभागकल्पनेऽपि निमित्तमाह - चिदाकाश इति | अयं चिदाकाश ईश्वर एव चेतनाबुद्ध्युपाधिसूत्रावच्छेदात्प्रतिबिम्बनाद्वा उदितमाविर्भूतमंशमिवांशमौपाधिकं जीवविभागं कुरुते स एवांशः संविच्चेतनं भवति शेषं त्वध्यारोपितं तच्चेतनं न भवति किंत्वचेतनमेवेत्यर्थः || ५१ || नरोपाधिपुरं प्राप्तं चेतत्यक्षिपुटं नयत् | तत्तस्या नाक्षिचिज्जीवं नो जीवत्येव सर्गतः || ५२ || तस्य बुद्धिद्वारैव स्थूलानुप्रवेशं तत्र चक्षुरादिप्राप्त्या बाह्यव्यवहारयोग्यतां चाह - नरेति | तद्बुद्ध्यनुप्रविष्टचिदाकाशं तस्याः बुद्धेर्निमित्तान्नरशरीरादिरूपं द्वितीयं सोपाधिभूतं पुरं नगरं प्राप्तं प्रविष्टं सत्स्वाधिरूढां बुद्धिमक्षिपुटं चक्षुरादिगोलकस्थानं नयत् प्रापयत्सच्चाक्षुषादिबुद्धिवृत्तिद्वारा बाह्यार्थांश्चेतति | ननु चक्षुराद्येव साक्षाच्चिदध्यस्तत्वेन चित्त्वाज्जीवभूतं शरीरमधिष्ठाय व्यवहरतु किं बुद्ध्युपाधिकजीवकल्पनया नेत्याह - नाक्षीति | अक्षि चक्षुरुपलक्षितमिन्द्रियजातं स्वयमेव चिच्चेतनं जीवभूतं न | कुतः | यतः सर्गतः चित्यध्यारोपमात्रत एव किंचिदपि न जीवति | तथा सति घटादीनामपि जीवनप्रसङ्गादिति भावः || ५२ || तथा खं खं तथा भूमिर्भूमित्वेनाप्त्ववज्जलम् | यद्यथा चेतति स्वैरं तद्वेत्त्येव तथा वपुः || ५३ || बुद्धेरेव जीवोपाधिता नान्यस्येति नियमे तु सर्ववस्तुशक्तिव्यवस्थापकचित्संकल्प एव हेतुरित्याशयं स्फुटयन्त्याह ##- सर्वधारणशक्त्या स्थिता | जलं च अप्त्ववत् सर्वाप्यायनशक्तिमत्स्थितमित्यर्थः | चेतति संकल्पयति || ५३ || प्. २६६) १६६ इति सर्वशरीरेण जंगमत्वेन जंगमम् | स्थावरं स्थावरत्वेन सर्वात्मा भावयन् स्थितः || ५४ || भावयन्संकल्पयन्संस्तत्कालमेव तथा निवृत्तः [विवृत्तः इति पाठः] स्थितः || ५४ || तस्माद्यज्जङ्गमं नाम तत्स्वबोधनरूपवत् | तेन बुद्धं ततस्तद्वत्तदेवाद्यापि संस्थितम् || ५५ || यथा भावनसिद्धं तदद्याप्यनुवर्तत एवेत्याह - तस्मादिति द्वाभ्याम् || ५५ || यद्वृक्षाभिधमाबुद्धं स्थावरत्वेन वै पुनः | जडमद्यापि संसिद्धं शिलातरुतृणादि च || ५६ || न तु जाड्यं पृथक्किंचिदस्ति नापि च चेतनम् | नात्र भेदोऽस्ति सर्गादौ सत्तासामान्यकेन च || ५७ || इत्थं तत्त्वंपदार्थयोरध्यारोपितभेदजातमपवदन्नाह - न त्वित्यादिना | चेतनं चिद्विशिष्टं जडम् | अत्र पदार्थजाते सर्ग उत्पत्तिः | आदिपदात्स्थितिनाशौ तेषु भेदो नास्ति | असतो भेदाश्रयत्वायोगात् | अस्तु तर्ह्यनुगते सद्वस्तुनि स नेत्याह - सत्तासामान्यके इति || ५७ || वृक्षाणामुपलानां या नामान्तःस्थाः स्वसंविदः | बुद्ध्यादिविहितान्येव तानि तेषामिति स्थितिः || ५८ || ननु यदि चिदेकरसमेव सर्वं तर्हि कथं तत्रैव तद्विरुधजाड्यरूपनामभेदानुभवः सर्वेषामित्याशङ्क्य तत्तदान्तरप्रत्यक्संविदि अविद्याध्यस्तबुद्धिकृतकल्पनावशादेवेति रहस्यं प्रथमं स्थावरेषु दर्शयति - वृक्षाणामिति | उपलानां शैलानाम् | तानि जाड्यभेदनामरूपाणि | तेषां वृक्षादीनाम् | बुद्ध्यादिभिरेव विहितानि कल्पितानि न वस्तुत इति परमार्थस्थितिरित्यर्थः || ५८ || विदोन्तःस्थावरादेर्यास्तस्या बुद्ध्यास्तथा स्थितेः | अन्याभिधानास्थानार्थाः संकेतैरपरैः स्थिताः || ५९ || उक्तार्थमेव स्पष्टं पुनराह - विद इति | विदः प्रत्यक्संविदः | उपाधिकृतभेदाद्बहुवचनम् | तस्याः स्थावरादिबुद्धेस्तथा स्थावरोऽहमित्यादिव्यवस्थितरूपेणैव स्थितत्वाच्चरेभ्योऽन्ये इत्यभिधानस्य तथा आस्थानस्य अभिमानस्य च अर्था विषयभूताः सन्तोऽपरैरन्यैर्वृक्षाः पर्वता इत्यादिशब्दसंकेतैः स्थिताः || ५९ || कृमिकीटपतङ्गानां या नामान्तःस्वसंविदः | तान्येव तेषां बुद्ध्यादीन्यभिधार्थानि कानिचित् || ६० || एवं जङ्गमेष्वप्युक्तं रहस्यं दर्शयति - कृमिकीटेति | याः स्वसंविदस्तान्येव बुद्ध्यादीन्यभिधार्थानि शब्दार्थभूतानि तत्तदन्यानि जातानीत्यर्थः || ६० || यथोत्तराब्धिजनता दक्षिणाब्धिजनं स्थितम् | न किंचिदपि जानाति निजसंवेदनादृते || ६१ || चिति वक्ष्यमाणजाड्यकल्पनस्योक्तार्थस्य चोपपादकं दृष्टान्तमाह - यथेति | उत्तराब्धितीरस्था जनता जनसमूहः || ६१ || स्वसंज्ञानुभवे लीनास्तथा स्थावरजङ्गमाः | परस्परं यदा सर्वे स्वसंकेतपरायणाः || ६२ || यथायं दृष्टान्तस्तथा सर्वे स्थावरजङ्गमाः स्वप्रत्यक्साक्षिके अनुभवे लीनाः पर्यवसन्ना नान्यबुद्धिकल्पितं जानन्तीत्यर्थः | अत एव समुदितव्यवहारे परस्परसंकेतमपेक्षन्त इत्याह - परस्परमिति || ६२ || यथा शिलान्तःसंस्थानां बहिष्ठानां च वेदनम् | असज्जडं च भेकानां मिथोऽन्तस्तस्थुषां तथा || ६३ || अत एव सच्चिद्रूपे ब्रह्मण्यसत्त्वजाड्यवायवाकाशादिकल्पनमप्युपपन्नमित्येतदपि दृष्टान्तेन दर्शयति - यथेति || ६३ || सर्वं सर्वगतं चित्तं चिद्व्योम्ना यत्प्रचेतितम् | सर्गादौ चोपनं वायुः स इहाद्यापि संस्थितः || ६४ || यथायं दृष्टान्तस्तथा प्रलयकाले मायान्तर्लीनं सर्वात्मकं सर्वगतं च समष्टिचित्तं जगतः सूक्ष्मावस्थारूपं सर्वप्रत्यग्भूतेन चिद्व्योम्ना सर्गादौ यद्यद्यथा प्रचेतितं तत्तत्तथा अद्यापि स्थितमित्यर्थः | तदेव प्रपञ्चयति - चोपनं वायुरित्यादिना | चोपनं स्पन्दनम् || ६४ || चेतितं यत्तु सौषिर्यं तन्नभस्तत्र मारुतः | स्पन्दात्मेत्यादिसर्गेहाः पदार्थेष्विव चोपनम् || ६५ || सुषिरमेव सौषिर्यं छिद्रम् | तत्र स्पन्दात्मा सर्वक्रियाशक्तिरूपो मारुतः स्थित इत्यर्थः | इति उक्तलक्षणेन वायुना सर्ववस्तूनां ईहाश्चलनानि | यथा शुष्कतृणपर्णादिपदार्थेष्वनिलेन चोपनं तद्वत् || ६५ || चित्तं तु परमार्थेन स्थावरे जंगमे स्थितम् | चोपनान्यनिलैरेव भवन्ति न भवन्ति च || ६६ || अत एव स्थावरजङ्गमयोर्वस्तुतश्चित्तसाम्येऽपि वायुकृतचोपनाचोपनाभ्यां विशेष इत्याह - चित्तं त्विति | जङ्गमे भवन्ति स्थावरे न भवन्ति च || ६६ || एवं भ्रान्तिमये विश्वे पदार्थाः संविदंशवः | सर्गादिषु यथैवासंस्तथैवाद्यापि संस्थिताः || ६७ || अस्मिन्नपि नियमे प्राक्तनी नियतिरेव हेतुरित्याह - एवमिति | सर्गादौ आदिसर्गे | एवं सक्रियत्वेनाक्रियत्वेन वा संविदि अंशवः किरणा इव स्फुरिता अद्यापि तथैव संस्थिताः || ६७ || यथा विश्वपदार्थानां स्वभावस्य विजृम्भितम् | असत्यमेव सत्याभं तदेतत्कथितं तव || ६८ || प्रस्तुतं वक्तुं पृष्टप्रसङ्गागतं तत्त्वावबोधनमुपसंहरति - यथेति || ६८ || अयमस्तं गतः प्रायः पश्य राजा विदूरथः | मालाशवस्य पद्मस्य पत्युस्ते याति हृद्गतम् || ६९ || प्राय इति वितर्के | अस्तं गतो मृतः सन् पुष्पमालापिहितय शवभूतस्य पद्मस्य हृद्गतं पद्मकोशं विविक्षुर्याति गच्छति || ६९ || प्रबुद्धलीलोवाच | केन मार्गेण देवेशि यात्येष शवमण्डपम् | एनमेवाशु पश्यन्त्यावावां गच्छाव उत्तमे || ७० || एनं पश्यन्त्यावेव आवां आशु गच्छावो गमिष्यावः || ७० || श्रीदेव्युवाच | मनुष्यवासनान्तस्थं मार्गमाश्रित्य गच्छति | एषोऽहमपरं लोकं दूरं यामीति चिन्मयः || ७१ || मनुष्यवासना पद्मशरीराहंवासना | अन्यथा तत्प्राप्त्ययोगादिति भावः || ७१ || मार्गेणैवमनेनैव यावस्तेयेन (?) संमतम् | परस्परेच्छाविच्छित्तिर्न हि सौहार्दबन्धनी || ७२ || सौहार्द स्नेहस्तेन बन्धनी संबन्धहेतुः || ७२ || प्. २६७) १६६ श्रीवसिष्ठ उवाच | इति विहितकथागतक्लमायां परमदृशि प्रसृते विबोधभानौ | नृपतिवरसुतामनस्युदारे विगलितचित्तजडो विदूरथोऽभूत् || ७३ || नृपतिवरसुताया लीलाया उदारे विशुद्धे मनसि परमदृशि परमार्थदृग्रूपे स्वतत्त्वे इति विहितया कथया गतक्लमायां निरस्तसर्वसंतापे सति विबोधलक्षणे भानौ सूर्ये प्रसृते आविर्भूते सति विदूरथो विगलितेन कारणे प्राज्ञात्मनि विलीनेन चित्तेन जडः प्रतिसंधानशून्यो मरणाय मूर्च्छितोऽभूदित्यर्थः || ७३ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मोक्षोपायेषुत्पत्तिप्रकरणे लीलो० संसारमरणावस्थावर्णनं नाम पञ्चपञ्चाशः सर्गः || ५५ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे संसारमरणावस्थावर्णनं नाम पञ्चपञ्चाशः सर्गः || ५५ || षट्पञ्चाशः सर्गः ५६ श्रीवसिष्ठ उवाच | एतस्मिन्नन्तरे राजा परिवृत्ताक्षितारकः | बभूवैकतनुप्राणशेषः शुष्कसिताधरः || १ || इह तन्नृपजीवस्य वाअना यमपूर्गतिः | तयोरनुगमः पूर्वपुरप्राप्तिश्च वर्ण्यते || १ || सर्वेषु करणेषु मूर्च्छितेष्वेकतनुः सूक्ष्मः प्राण एव शेषो देहेऽवशिष्टो यस्य स तथाविधो बभूव || १ || जीर्णपर्णसवर्णाभः क्षीणपाण्डुमुखच्छविः | भृङ्गध्वनितसच्छायश्वासकूजाविकूणितः || २ || भृङ्गस्य ध्वनितं ध्वनिस्तत्सच्छायया श्वासकूजया विकूणितो ध्वनितः || २ || महामरणमूर्च्छान्धकूपे निपतिताशयः | अन्तर्निलीननिःशेषनेत्रादीन्द्रियवृत्तिमान् || ३ || महति मरणमूर्च्छालक्षणे अन्धकूपे निपतित इव निमग्न आशयो मनो यस्य || ३ || चित्रन्यस्त इवाकारमात्रदृश्यो विचेतनः | निःस्पन्दसर्वावयवः समुत्कीर्ण इवोपले || ४ || तदुत्तरावस्थामाह - चित्रेति | उपले समुत्कीर्णः प्रतिमादिरिव || ४ || बहुनात्र किमुक्तेन तनुदेशेन तं जहौ | प्राणः पिपतिषुं वृक्षं स्व्ं पक्षीवान्तरिक्षगः || ५ || तनुदेशेन अल्पेनैव प्रदेशेनोत्क्रान्त्यर्थमाश्रितेन | तं राजदेहं प्राणो जहौ | स्वं स्वालयभूतं वृक्षम् || ५ || ते तं ददृशतुर्बाले दिव्यदृष्टी नभोगतम् | जीवं प्राणमयी संविद्गन्धलेशमिवानिले || ६ || ते बाले नभोगतं तं जीवं ददृशतुः | प्राणमयी घ्राणजवृत्त्युपहिता संवित् अनिले स्थितं गन्धलेशं सूक्ष्मगन्धमिव || ६ || सा जिवसंविद्गगने वातेन मिलिता सती | खे दूरं गन्तुमारेभे वासनानुविधायिनी || ७ || वातेन आतिवाहिकप्राणेन || ७ || तामेवानुससाराथ स्त्रीद्वयं जीवसंविदम् | भ्रमरीयुगलं वातलग्नां गन्धकलामिव || ८ || ततो मुहूर्तमात्रेण शान्ते मरणमूर्च्छने | अम्बरे बुबुधे संविद्गन्धलेखेन वायुना || ९ || संवित् जीवसंवित् | वासनामयदेहेन स्वप्न इव बुबुधे || ९ || अपश्यत्पुरुषान्याम्यान्नीयमानं च तैर्वपुः | बन्ध्पिण्डप्रदानेन शरीरं जातमात्मनः || १० || वपुर्वासनादेहम् | शरीरं स्थूलदेहं और्ध्वदेहिकेन बन्धुपिण्डप्रदानेन जातमिवापश्यत् || १० || मार्गे कर्मफलोल्लासमतिदूरतरे स्थितम् | वैवस्वतपुरं प्राप जन्तुभिः परिवेष्टितम् || ११ || अतिदूरतरे संवत्सरगम्ये दक्षिणमार्गे स्थितं प्राणिकर्मफलान्युल्लासयति प्रकटयतीति कर्मफलोल्लासं वैवस्वतपुरं यमनगरं प्राप || ११ || प्राप्तं वैवस्वतपुरमादिदेश ततो यमः | अस्य कर्माण्यशुभ्राणि नैव सन्ति कदाचन || १२ || आदिदेश आज्ञप्तवान् कर्माणि विमृश्येत्यर्थाद्गम्यते | अशुभ्राणि श्यामानि | पापानीति यावत् || १२ || नित्यमेवावदातानां कर्तायं शुभकर्मणाम् | भावत्याः सरस्वत्या वरेणायं विवर्धितः || १३ || अवदातानां लोभादिदोषाकलुषाणाम् || १३ || प्राक्तनोऽस्य शवीभूतो देहोऽस्ति कुसुमाम्बरे | प्रविशत्वेष तं गत्वा त्यज्यतामिति चेतसा || १४ || इति मदुक्तप्रकारानुसारिणा चेतसा चित्तेन भटैरेष त्यज्यताम् | अत्र लीलासरस्वत्यावन्तर्हिते यमपुरं प्रविष्टे बहिरेव वा तदागमनप्रतीक्षे स्थिते इत्यर्थाद्गम्यते || १४ || ततस्त्यक्तो नभोमार्गे यन्त्रोपल इव च्युतः | अथ जीवकला लीला ज्ञप्तिश्चेति त्रयं नभः || १५ || क्षेपणीयन्त्राच्च्युतो यन्त्रोपल इव नभोमार्गे त्यक्तः || १५ || पुप्लुवे जीवलेखा तु रूपिण्यौ ते न पश्यति | तामेवानुसरन्त्यौ ते समुल्लङ्घ्य नभस्तलम् || १६ || राज्ञो जीवलेखारूपिण्यौ रूपवत्यावपि ते ज्ञप्तिलीले न पश्यति | ते तु तां पश्यत एवेति तुशब्दाल्लभ्यते || १६ || लोअकान्तराण्यतीत्याशु विनिर्गत्य जगद्गृहात् | द्वितीयं जगदासाद्य भूमण्डलमुपेत्य च || १७ || जगद्गृहं ब्रह्माण्डं तस्माद्विनिर्गत्य द्वितीयं जगद्ब्रह्माण्डमासाद्य || १७ || ते द्वे संकल्परूपिण्यौ संगते जीवलेखया | पद्मराजपुरं प्राप्य लीलान्तःपुरमण्डपम् || १८ || प्. २६८) १६७ क्षणाद्विविशतुः स्वैरं वातलेखा यथाम्बुजम् | सूर्यभासो यथाम्भोजं सुरभिः पवनं यथा || १९ || अम्बुजमम्भोजमिति प्रवेशकर्मणः शब्दमात्रभेदेऽपि प्रवेशकर्त्रोर्वातलेखासूर्यभासोर्भेदादुपमानभेदेन मालोपमेयम् || १९ || श्रीराम उवाच | ब्रह्मन्प्राप्तः कथमसौ शवस्य निकटं गृहम् | कथं तेन परिज्ञातो मार्गो मृतशरीरिणा || २० || विदूरथलीलाजीवस्य दुहित्रा मार्गप्रदर्शनं प्रागुक्तं राजजीवस्य तु नोक्तमिति तस्य मार्गपरिज्ञाने संदिहानो रामः पृच्छति - ब्रह्मन्निति || २० || श्रीवसिष्ठ उवाच | तस्य स्ववासनान्तःस्थशवस्य किल राघव | तत्सर्वं हृद्गतं कस्मान्नासौ प्राप्नोति तद्गृहम् || २१ || पूर्वशरीरवासनायामनपगतायामेव बलवता प्रारब्धेन मध्ये जन्मान्तरविभावनाद्भोगेन तत्क्षये पूर्ववासनोद्भवाद्यथागतमार्गास्फुरणोपपत्तिरित्याशयेनाह वसिष्ठः ##- तथाविधस्य तस्य जीवस्य तन्मार्गादि सर्व हृद्गतं हृदि स्फुरितम् || २१ || भ्रान्तिमात्रसंख्येयं जगज्जीवकणोदरे | वटधानातरुमिव स्थितं को वा न पश्यति || २२ || जीवकणस्य जीवोपाधेः सूक्ष्मस्यान्तःकरणस्योदरे आविर्भूतवासनात्मना स्थितम् | यथा जीववद्वटधानाभूजलाद्यङ्कुरोदयसामग्रीप्राप्तौ स्वतः अङ्कुरात्मना जायमानं वटतरुं पश्यति स्वान्तरेवानुभवति तद्वत् || २२ || यथा जीवद्वपुर्बीजमङ्कुरं हृदि पश्यति | स्वभावभूतं चिदणुस्त्रैलोक्यनिचयं तथा || २३ || उक्तं दृष्टानं विवृण्वंस्तदेव स्फुटमाह - यथेति | त्रैलोक्यनिचयमिति | ज्ञानाज्ञानान्यतरव्यवधानेन सर्वस्य जगतः साक्षिभास्यत्वमितिसिद्धान्तरहस्यमिति भावः || २३ || नरो यथैकदेशस्थो दूरदेशान्तरस्थितम् | संपश्यति निधानं स्वं मनसानारतं सदा || २४ || स्वं स्वीयं निधानं निखातधनं सदा पश्यति मनसा अनारतं भावयन्निति शेषः | तथाच विधुरपरिभावितकामिनीसाक्षात्कारवद्भावनाप्रचयबलादपि तद्दर्शनसिद्धिरिति भावः || २४ || तथा स्ववासनान्तस्थमभीष्टं परिपश्यति | जीवो जातिशताढ्योऽपि भ्रमे परिगतोऽपि सन् || २५ || श्रीराम उवाच | भगवन्पिण्डदानादिवासनारहिताकृतिः | कीदृक्संपद्यते जीवः पिण्डो यस्मै न दीयते || २६ || यत्प्रागुक्तं बन्धुपिण्डप्रदानेन शरीरं जातमात्मनः अपश्यदिति तस्यासार्वत्रिकत्वं रामः शङ्कते - भगवन्निति | यस्मै पिण्डो न दीयते तस्य तद्वासनाहेत्वभावात्स वासनारहिताकृतिर्जीवः कीदृक्कथं सशरीरः संपद्यत इत्यर्थः || २६ || श्रीवसिष्ठ उवाच | पिण्डोऽथ दीयते मावा पिण्डो दत्तो मयेति चित् | वासना हृदि संरूढा तत्पिण्डफलभाङ्गरः || २७ || तत्पिण्डफलं शरीरसिद्धिस्तद्भाक् | पिण्डदानादिविधिस्तु बन्धुकृत्यबोधको वस्तुतो बन्धुफलहेतुरपि मृतवासनाफलसंवादादुभयगामिफलः प्रसिद्ध इति भावः || २७ || यच्चित्तं तन्मयो जन्तुर्भवतीत्यनुभूतयः | सदेहेषु विदेहेषु न भवत्यन्यथा क्वचित् || २८ || चित्तमेव हि संसारस्तच्च यत्नेन शोधयेत् | यच्चित्तस्तन्मयो भवति गुह्यमेतत्सनातनमित्यादिप्रत्यक्षश्रुतयो विद्वदनुभवाश्चेत्यर्थः | सदेहेषु च योगिषु प्रसिद्धाः | अथवा सदेहेषु जीवत्सु विदेहेषु मृतेषु च जीवेषु क्वचिदपि अयं नियमोऽन्यथा न भवतीत्यर्थः || २८ || सपिण्डोस्मीति संवित्त्या निष्पिण्डोपि सपिण्डवान् | निष्पिण्डोस्मीति संवित्त्या सपिण्डोपि नपिण्डवान् || २९ || यथाभावनमेतेषां पदार्थानां हि सत्यता | भावना च पदार्थेभ्यः कारणेभ्य उदेति हि || ३० || एतावांस्तु शास्त्रकृतो विशेषः | बन्धुभिः पिण्डेषु दत्तेष्ववश्यं मृतस्य पिण्डदानवासना उद्भवत्येवेत्याशयेनाह - भावना चेति || ३० || यथा वासनया जन्तोर्विषमप्यमृतायते | असत्यः सत्यतामेति पदार्थो भावनात्तथा || ३१ || सर्पादिविषमपि गरुडोपासकस्य गरुडाहं भावनया अमृतायते | जीर्यतीति यावत् | कण्टकादिवेधे सर्पदंशभ्रान्तावसत्योऽपि स तथा सत्यतया भावनात् सत्यतां मरणाद्यर्थक्रियाकारितां गच्छति || ३१ || कारणेन विनोदेति न कदाचन कस्यचित् | भावना काचिदपि नो इति निश्चयवान्भव || ३२ || कारणसत्यत्वे हि कार्यसत्यता स्यात् | भावना तु न वस्तुसतीति सत्यकारणेन विना जातं कार्य नास्त्येवेति शुद्धं ब्रह्मैव वस्तुतोऽस्तीति निश्चयवान्भवेत्यर्थः || ३२ || कारणेन विना कार्यमा महाप्रलयं क्वचित् | न दृष्टं न श्रुतं किंचित्स्वयं त्वेकोदयादृते || ३३ || कारणासत्त्वेऽपि कार्योद्भवः किं न स्यात्तत्राह - कारणेनेति | सर्वथा कार्यसत्तायाः कारणसत्ताधीनत्वस्यैव प्रमाणैः सिद्धेरित्यर्थः | ब्रह्मसत्तापि तर्हि किं कारणाधीना नेत्याह - स्वयं त्विति | स्वयं स्वतो यदेकोदयं नित्यस्वप्रकाशं ब्रह्म तस्मादृते | अनित्यसत्तायामेव कारणसत्तापेक्षणादिति भावः || ३३ || चिदेव वासना सैव धत्ते स्वप्न इवार्थताम् | कार्यकारणतां याति सैवागत्येव तिष्ठति || ३४ || एवं च शुद्धचिन्मात्रमेव भ्रान्त्या वासना वासनादिजगद्रूपेण भासते इति यः सिद्धन्तः स प्रतिष्ठित इत्याह - चिदेवेति || ३४ || श्रीराम उवाच | धर्मो नास्ति ममेत्येव यः प्रेतो वासनान्वितः | तस्य चेत्सुहृदा भूरिधर्मः कृत्वा समर्पितः || ३५ || सपिण्डोऽस्मीति संवित्त्येति यत्प्रागुक्तं प्रेतवासनानुसार्येव प्रेतस्य शरीरारम्भादिफलमिति तत्र करिष्य माणाक्षेपोपयोगितया रामः पृच्छति - धर्म इति || ३५ || प्. २६९) १६७ तत्तदात्र स किं धर्मो नष्टः स्यादुत वा न वा | सत्यार्था वाप्यसत्यार्था भावना किं बलाधिका || ३६ || नष्टः प्रेतवासनाविरोधान्निष्फलः स्याद्वा उत सुहृद्वासनाप्राबल्यान्न वा निष्फल इत्यर्थः | तत्र सुहृद्वासनाधर्मसत्वात्सत्यार्था | प्रेतवासनात्वसत्यार्था | तत्र वासनायां प्राबल्ये किं भोक्तृनिष्ठता प्रयोजिका उत सत्यार्थता | आद्ये कृतहानदोषः | द्वितीये त्वर्थसत्यता स्यादिति पूर्वोक्तव्याघात इत्युभयतस्पाशा रज्जुरित्याशयः || ३६ || श्रीवसिष्ठ उवाच | देशकालक्रियाद्रव्यसंपत्त्योदेति भावना | यत्रैवाभ्युदिता सा स्यात्स द्वयोरधिको जयी || ३७ || शास्त्रोक्ते देशे काले यथोक्तानुष्ठानेन शास्त्रानुसारिणी सुहृद्वासना शास्त्रप्रामाण्यात्प्रबला | प्रेतवासना तु केवललौकिकत्वाद्दुर्बलेति शास्त्रमेव प्राबल्यप्रयोजकं नार्थसत्यत्वमिति गूढाभिसंधिर्वसिष्ठ समाधत्ते - दशेति | यत्रैव फलरूपे विषये सा अभ्युदिता स विषयो जयी | स एव भवतीत्यर्थः || ३७ || धर्मदातुः प्रवृत्ता चेद्वासना तत्तया क्रमात् | आपूर्यते प्रेतमतिर्न चेत्प्रेतधियाशुभा || ३८ || धर्मदानशास्त्रबलात्प्रेतान्तःकरणे वा तत्काले तादृशधर्मवानहमिति वासनोत्पत्तिः कल्प्यत इत्याह - धर्मदातुरिति | अवश्यं च शास्त्रबलादेव प्रेतस्य फललाभ इति वाच्यम् | पाषण्डस्य तस्य [तस्य इति पदं क्वचिन्न पठ्यते] वेदप्रद्वेषनास्तिकत्वाद्यशुभवासनादूषितधियः सुहृद्भिर्धर्मदानेऽपि तत्फलाप्राप्तेरित्याशयेनाह - न चेदिति | प्राबल्यस्यार्थसत्यत्वप्रयुक्तत्वे तस्यापि धर्मफलापत्तिरिति भावः || ३८ || एवं परस्परजयाज्जयत्यत्रातिवीर्यवान् | तस्माच्छुभेन यत्नेन शुभाभ्यासमुदाहरेत् || ३९ || अत एव प्रङ्मया पुरुषप्रयत्नप्राबल्यं प्रसाध्य शुभाभ्यास एव सदा कार्य इत्युक्तमित्याशयेनाह - एवमिति || ३९ || श्रीराम उवाच | देशकालादिना ब्रह्मन्वासना समुदेति चेत् | तन्महाकल्पसर्गादौ देअशकालादयः कुतः || ४० || यदि देशकालादिकारणसहकारिसंपत्त्या धर्मतद्वासनोदयोऽभ्युपगम्यते तर्हि सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम् इति श्रुतेरादिसर्गे देशकालादिसहकार्यभावाद्वासनोत्पत्त्ययोगात्तन्मयजगदुत्पत्तिरेव न स्यात्तथा च तदैक्षत बहु स्यां प्रजायेय इत्याद्युत्तरश्रुतिविरोध इत्याशयेन रामः शङ्कते - देशेति || ४० || कारणे समुदेतीदं तैस्तदा सहकारिभिः | सहकारिकारणानामभावे वासना कुतः || ४१ || तदा वासना कुतः | कारणे सति हि इदं वासनादिकार्यं समुदेति || ४१ || श्रीवसिष्ठ उवाच | एवमेतन्महाबाहो सत्यात्मन्न कदाचन | महाप्रलयसर्गादौ देशकालौ न कौचन || ४२ || इष्टमेवेदं त्वया मां प्रत्यापादितम् | न निरोधो न चोत्पत्तिः तदेतद्ब्रह्मापूर्वमनपरमस्थूलमनण्वह्रस्वम् अथार आदेशो नेति नेति यत्तदद्रेश्यमग्राह्यम् यत्र नान्यत्पश्यति नान्यच्छृणोति इत्यादिश्रुतिशतस्य तत्रैव तात्पर्यदर्शनान्महता च प्रयत्नेनास्यैवार्थस्य बुबोधयिषितत्वाच्च सोऽकामयत इत्यादिसृष्टिश्रुतीनामपि प्रतीयमानद्वैतानृतत्वोपपादनेनोपक्रान्तभुक्तिफलकनिष्प्रपञ्चात्मव्युत्प् आदन एव तात्पर्येण सृष्ट्यादौ तात्पर्याभावादित्याशयेनानुमोदमानो वसिष्ठ उवाच - एवमेतदित्यादिना | महाप्रलयरूपे सर्गस्यादौ पूर्वभूते सत्यात्मन् परमार्थसत्ये आत्मनि | सुपां सुलुक् इति छान्दसे ङिलुकि न ङिसंबुद्ध्योः इति नलोपप्रतिषेधः || ४२ || सहकारिकारणानामभावे सति दृश्यधीः | नेयमस्ति न चोत्पन्ना न च स्फुरति काचन || ४३ || दृश्यस्यासंभवादेव किंचिद्यद्दृश्यते त्विदम् | तद्ब्रह्मैव स्वचिद्रूपं स्थितमित्थमनामयम् || ४४ || एतच्चाग्रे युक्तिशतैः कथयिष्याम एव ते | एतदर्थं प्रयत्नोऽयं वर्तमानकथां शृणु || ४५ || एवं ददृशतुः प्राप्ते मन्दिरं सुन्दरोदरम् | कीर्णं पुष्पोपहारेण वसन्तमिव शीतलम् || ४६ || एवं प्राग्वर्णितरीत्या पद्मनगरं प्राप्ते ज्ञप्तिलीले पद्ममन्दिरं ददृशतुः || ४६ || प्रशान्ताचारसंरम्भराजधान्या समन्वितम् | मन्दारकुन्दमाल्यादिशवं तत्र समं स्थितम् || ४७ || प्रशान्तराजकार्याचरणसंरम्भया राजधान्या लक्षणया राजधानीस्थजनेन तत्र गृहे तैर्जनैः समं साकं स्थितं मन्दारकुन्दमाल्यादिपिहितं शवं च ददृशतुरित्यत्रोत्तरत्र चानुकृष्यते || ४७ || मन्दारकुन्दस्रग्दामवृताम्बरबृहच्छवम् | शवशययाशिरःस्थाग्र्यपूर्णकुम्भादिमङ्गलम् || ४८ || अनिवृत्तगृहद्वारगवाक्षकठिनार्गलम् | प्रशाम्यद्दीपकालोकश्यामलामलभित्तिकम् | गृहैकदेशसंसुप्तमुखश्वाससमीकृतम् || ४९ || पुनस्तद्गृहमेव वर्णयति - अनिवृत्तेत्यादिना | अनिवृत्तन्यनुद्घाटितानि बृहद्द्वारगवाक्षाणां कठिनार्गलानि दृढविष्कम्भा यत्र | प्रशाम्यन्मलिनीभवन्यो दीपकानामालोकस्तेन श्यामला मलिना वस्तुतस्त्वमला भित्तयो यस्य || ४९ || संपूर्णचन्द्रसकलोदयकान्तिकान्तं सौन्दर्यनिर्जितपुरन्दरमन्दिरर्द्धि | वैरिञ्चपद्ममुकुलान्तरचारुशोभं निःशब्दमन्दमिव निर्मलमिन्दुकान्तम् || ५० || बहिः संपूर्णचन्द्रस्य कलासहितेनोदयेन प्रकाशितत्वात्कान्तम् | अन्तस्तु वैरिञ्चस्य विरिञ्चालयस्य भगवन्नाभिपद्ममुकुलस्य आन्तरं गर्भ इव चारुशोभा यस्य | निःशब्दतया मन्दं मूकमिव स्थितम् | इन्दुरिव कान्तं रम्यं गृहं ददृशतुरित्यर्थः || ५० || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्र० लीलो० मरणशयनानन्तरप्रेतव्यवस्था नाम षट्पञ्चाशः सर्गः || ५६ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे मरणशयनानन्तरप्रेतव्यवस्था नाम षट्पञ्चाशः सर्गः || ५६ || प्. २७०) १६८ सप्तपञ्चाशः सर्गः ५७ श्रीवसिष्ठ उवाच | ततो ददृशतुस्तत्र शवशययैकपार्श्वगाम् | लीलां विदूरथस्याग्रे मृतां ते प्रथमागताम् || १ || लीलान्तरेक्षा लीलाया देहमिथ्यात्वमुच्यते | योगिनां च शरीरस्य आतिवाहिकतोदयः || १ || अग्रे पूर्व मृतां विदूरथस्य लीलां ते ज्ञप्तिलीले ददृशतुः || १ || प्राग्वेषां प्राक्समाचारां प्राग्देहां प्राकसवासनाम् | प्राक्तनाकारसदृशीं सर्वरूपाङ्गसुन्दरीम् || २ || प्राग्वेषत्वादौ हेतुः - प्राक्सवासनामिति [स्ववासनां इति पाठः] || २ || प्राग्रूपावयवस्पन्दां प्रागम्बरपरीवृताम् | प्रागभूषणभरच्छन्नां केवलं तत्र संस्थिताम् || ३ || केवलं तत्र पद्मगृहे संस्थिताम् | तत्र स्थितिमात्रमपूर्वमन्यत्सर्व पूर्वतनमेवेत्यर्थः || ३ || गृहीतचामरां चारु वीजयन्तीं महीपतिम् | उद्यच्चन्द्रामिव दिवं भूषयन्तीं महीतलम् || ४ || मौनस्थां वामहस्तस्थवदनेन्दुतया नताम् | भूषणांशुलतापुष्पैः फुल्लामिव वनस्थलीम् || ५ || भूषणानामंशुभिः किरणैः | पत्रलताभिः पुष्पैश्च फुल्लां वनस्थलीमिव स्थिताम् || ५ || कुर्वाणां वीक्षितैर्दिक्षु मालत्युत्पलवर्षणम् | सृजन्तीमात्मलावण्यादिन्दुमिन्दुं नभोदितम् || ६ || इन्दुमिन्दुमिति वीप्सा | सर्वानिन्दून् आत्मलावण्यात्सृजन्तीमिवेत्युत्प्रेक्षा | नभोदितमिति संधिरार्षः | नभसि दितं क्षयेण खण्डितं पुनः सृजन्तीमिति वा || ६ || नरपालात्मनो विष्णोर्लक्ष्मीमिव समागताम् | उदितां पुष्पसंभारादिव पुष्पाकरश्रियम् || ७ || भर्तुर्वदनके न्यस्तदृष्टिमिष्टविचेष्टिताम् | किंचित्प्रम्लानवदनां म्लानचन्द्रां निशामिव || ८ || ताभ्यां सा ललना दृष्टा तया ते तु न लक्षिते | यस्मात्ते सत्यसंकल्पे सा न तावत्तथोदिता || ९ || तथा सत्यसंकल्पतया सा नोदिता नाविर्भूता || ९ || श्रीराम उवाच | तस्मिन्प्रदेशे सा पूर्वलीला संस्थाप्य देहकम् | ध्यानेन ज्ञप्तिसहिता गताभूदिति वर्णितम् || १० || लीलाया आवश्यकं प्राक् त्यक्तस्वशरीरान्वेषणं विहाय विदूरथलीलादर्शनमेव प्रथमं कुतो वर्णितमिति संदेहाद्रामः पृच्छति - तस्मिन्निति || १० || किमिदानीं स लीलाया देहस्तत्र न वर्णितः | किंसंपन्नः क्व वा यात इति मे कथय प्रभो || ११ || श्रीवसिष्ठ उवाच | क्वासील्लीलाशरीरं तत्कुतस्तस्यास्ति सत्यता | केवला भ्रान्तिरेवाभूज्जलबुद्धिर्मराविव || १२ || आतिवाहिकताबुद्ध्युदयेन तत्त्वावबोधेन च बाधितत्वादेव लीलायाः स्वदेहदर्शनं नच वर्णितम् | येषां त्वज्ञानां दृष्ट्या न बाधितं तद्दृष्ट्योत्तरसर्गे तद्देहमरणदाहादि वक्ष्यते इति वक्ष्यमाणं निगूह्य तत्त्वावबोधनाय तन्मिथ्यात्वमेव प्रपञ्चयन् वसिष्ठ उवाच - क्वासीदित्यादिना || १२ || आत्मैवेदं जगत्सर्वं कुतो देहादिकल्पना | ब्रह्मैवानन्दरूपं सद्यत्पश्यसि तदेव चित् || १३ || यथैव बोधे लीलासौ परिणाममिता [परिणाममुपागता इति पाठष्टीकानुगुणः स्यात्] क्रमात् | परे तथैव तस्मात्तद्धिमवद्गलितं वपुः || १४ || यथा येन क्रमेणैव परिणामं परिपाकलक्षणं उपागता प्राप्ता तथा तेन क्रमेणैव | तस्माद्बोधात्परे ब्रह्मणि | गलितं बाधितम् || १४ || (आतिवाहिकदेहस्य [क्वाचित्कमिदं धनुशिह्नान्तर्गतं पद्यम्] कालेनाभ्युदितो भ्रमः | आधिभौतिकदेहोऽहमिति रज्जुभुजंगवत् || १ ||) आतिवाहिकदेहेन दृश्यं यदवलोकितम् | भूम्यादि नाम तस्यैव कृतं तच्चाधिभौतिकम् || १५ || न केवलं स्वदेहस्याधिभौतिकत्वं गलितं किंतु भूम्यादिसर्ववस्तूनामपि | अपागादग्नेरग्नित्वं त्रीणि रूपाणीत्येव सत्यम् इति श्रुत्या तेषामपि स्थौल्यबाधेन आतिवाहिकत्वपरिशेषणादित्याशयेनाह - आतिवाहिकेति | आतिवाहिकताबुद्ध्या सूक्ष्मतमसमष्टिमनोमात्रत्वबुद्ध्या तत्त्वदृशा तया यद्दृश्यमवलोकितं तस्यैव प्राग्भ्रान्त्या भूम्यादिनामकृतं स्थितं तदेव आधिभौतिकम् || १५ || वास्तवेन तु रूपेण भूम्याद्यात्माधिभौतिकः | न शब्देन न चार्थेन सत्यात्मा शशशृङ्गवत् || १६ || अतो न वस्तुत आधिभौतिकं नाम किंचिदस्तीत्याह - वास्तवेनेति || १६ || पुंसो हरिणकोऽस्मीति स्वप्ने यस्योदिता मतिः | स किमन्विष्यति मृगं स्वमृगत्वपरिक्षये || १७ || तथाच बाधितस्यान्वेषणप्रसक्तिरेव नास्तीत्याह - पुंस इति || १७ || उदेत्यसत्यमेवाशु तथा सत्यं विलीयते | भ्रान्तिर्भ्रमवतो रज्ज्वामपि सर्पभ्रमे गते || १८ || यथा भ्रमतः असत्यमेवोदेति लीयते च तथा भ्रमे गतेऽपि उदेति किमिति काक्वा योज्यम् || १८ || समस्तस्याप्रबुद्धस्य मनोजातस्य कस्यचित् | बीजं विना मृषैवेयं मिथ्यारूढिमुपागता || १९ || तथाचाज्ञमनःसमष्टिकल्पित आधिभौतिकप्रपञ्च इति फलितमित्याह - समस्तस्येति | जातशब्दः समूहवचनः | इयमेतद्ब्रह्माण्डगतस्थूलभ्रान्तिः प्रतिब्रह्माण्डभिन्नानन्ताज्ञमनोजातानां मध्ये कस्यचिन्मनोजातस्य मिथ्यारूढिं वृथाप्रसिद्धिमुपागता मृषैवेत्यर्थः || १९ || प्. २७१) १६८ स्वप्नोपलम्भं सर्गाख्यं स सर्वोऽनुभवन्स्थितः | चिरमावृत्तदेहात्मा भूचक्रभ्रमणं यथा || २० || स सर्वोऽज्ञश्चिरं आगमापायेन आवृत्तदेह एवात्मा यस्य स तथाविधः सन् बालो यथा भूचक्रभ्रमणमनुभवति तद्वत् || २० || श्रीराम उवाच | ब्रह्मंल्लोकैः पुरस्थस्य गच्छतो योगिनो निजम् | आतिवाहिकतां देहः कीदृशोऽयं विलोक्यते || २१ || ननु योगिदेहस्याधिभौतिकत्वं यदि नास्ति तर्हि तस्य पुरस्थस्य जीवतो निजं स्वात्मरूपं गच्छतो मृतस्य वा आतिवाहिकतां प्राप्तो देहो लोकैर्जनैर्विलोक्यते अयं कीदृशः | नहि आतिवाहिको लोकैर्द्रष्टुं शक्यो मुक्तिकाले परिशिष्यते वेति रामप्रश्नार्थः || २१ || श्रीवसिष्ठ उवाच | देहाद्देहान्तरप्राप्तिः पूर्वदेहं विना सदा | आतिवाहिकदेहेऽस्मिन्स्वप्नेष्विव विनश्वरी || २२ || योगिनां द्विविधं मरणम् | एकं प्रारब्धभोगायैच्छिकं नानादेहकल्पनम् | अपरं सर्वप्रारब्धक्षये विदेहकैवल्यम् | तत्राद्ये तावन्न पूर्वशेषोऽस्तीत्याह - देहादिति | यथा स्वप्नेषु आतिवाहिकदेहे एकं मृगादिभावं त्यक्त्वा अपरमनुष्यादिभावकल्पना पूर्वदेहपरिशेषं विनैव विनश्वरी अनित्या तद्वदित्यर्थः || २२ || यथातपे हिमकणः शरद्व्योम्नि सितोऽम्बुदः | दृश्यमानोऽप्यदृश्यत्वमित्येवं योगिदेहकः || २३ || द्वितीयेऽपि स नास्तीति सदृष्टान्तमाह - यथेति | तथाच शरन्मेघादिवन्मन्दं क्षीयमाणे तस्मिन्कंचित्कालं परिशेषभ्रम इत्यर्थः || २३ || द्रागित्येवाथवा कश्चिद्योगिदेहो न लक्ष्यते | योगिभिश्च पुरो वेगात्प्रोड्डीन इव खे खगः || २४ || मन्दं क्षीयते अवश्यं परैर्दृश्यते इत्यपि न नियमः केषांचित्सद्यो विनाशसंकल्पेन तथैव नाशसंभवादित्याह - द्रागिति | अन्यैर्योगिभिश्च न लक्ष्यते किं पुनह् पृथग्जनैरित्यर्थः | तथाच जीवद्दशायामपि जनैस्तद्देहदर्शनमेते मामित्थं पश्यन्त्विति तदीयसत्यसंकल्पवशादेव न देहस्याधिभौतिकत्ववशादिति भावः || २४ || स्ववासनाभ्रमेणैव क्वचित्केचित्कदाचन | मृतोऽयमिति पश्यन्ति केचिद्योगिनमग्रगाः || २५ || अथवा योगिनां स्वदृष्ट्या स्वदेहस्यातिवाहिकत्वानुभवेऽपि तदुपभोजकादृष्टसहकृताज्ञजनवासनया तस्य भौतिकत्वमरणादिकल्पनसंभवान्न कश्चिद्विरोध इत्याशयेनाह - स्ववासनेति | केचिदग्रगाः क्वचिन्मृतोऽयमिति पश्यन्ति क्वचित्तु केचिद्योगिनं जीवन्तं पश्यन्तीत्यर्थः | अत एव हि प्राग्विदेहमुक्तस्यापि शुकस्य परीक्षित्सभायां पुनर्दर्शनं भागवतोपदेशादिकं च न विरुध्यत इति बोध्यम् || २५ || भ्रान्तिमात्रं तु देहात्मा तेषां तदुपशाम्यति | सत्यबोधेन रज्जूनां सर्पबुद्धिरिवात्मनि || २६ || किंच योगिनां ज्ञानोदयकाले एव देहादेर्बाधान्न जीवनदशायामपि तद्दृष्ट्या देहोऽस्तीत्याह - भ्रान्तिमात्रमिति || २६ || को देहः कस्य वा सत्ता कस्य नाशः कथं कुतः | स्थितं तदेव यदभूदबोधः केवलं गतः || २७ || यदेव परमार्थतः स्थितं तदेव ज्ञानेनाभूत् || २७ || श्रीराम उवाच | आतिवाहिकतामेति आधिभौतिक एव किम् | उतान्य इति मे ब्रूहि येनोह्य इव भोः प्रभो || २८ || ननु यदि योगिनां देहो बाध्यते तर्हि बाधितस्य परिणामायोगात्प्रारब्धभोगायातिवाहिकशरीरमन्यदेवोत्पद्यत इति स्यात् तथाच तस्य जन्मान्तरत्वाज्जीवन्मुक्तत्वानुपपत्तिः न स भूयोऽभिजायते इत्यादिशास्त्रविरोधश्चेति मन्यमानो रामः पृच्छति - आतिवाहिकतामिति | किं योगिन आधिभौतिकदेह एवातिवाहिकतामेत्युतान्य एवातिवाहिकदेह उत्पद्यते | आद्ये बाधितस्य परिणामान्तरं सर्वप्रमाणविरुद्धम् | द्वितीये तु ज्ञानस्य मुक्तिफलत्वहानिरित्युभयथाप्यनुपपत्तेः संशयप्रवाहे अहं उह्ये प्रवाह्यमान इव न स्थैर्य प्राप्नोमीत्यर्थः || २८ || श्रीवसिष्ठ उवाच | बहुशो ह्युक्तमेतत्ते न गृह्णासि किमुत्तम | आतिवाहिक एवास्ति नास्त्येवेहाधिभौतिकः || २९ || नासौ परिणामः किंतु स्थूलबाधे प्रक्सिद्धतदधिष्ठानसूक्ष्मपरिशेष एव त्रिवृत्करणश्रुत्या सूक्ष्मदेहोपहिते ब्रह्मणि स्थूलाध्यासबोधनात्त्रिणि रूपाणीत्येव सत्यमिति स्थूलबाधेन सूक्ष्मपरिशेषोक्तेश्च नोक्तदोषावकाश इति प्रागुक्तस्मारणेन समाधत्ते - बहुश इत्यादिना || २९ || तस्यैवाभ्यसतोऽप्येति [वाभ्यासतो इति पाठः] साधिभौतिकतामतिः | यदा शाम्यति सैवास्य तदा पूर्वा प्रवर्तते || ३० || पूर्वा प्राक्तनी | सैव आतिवाहिकता || ३० || तदा गुरुत्वं काठिन्यमिति यश्च मुधा ग्रहः | शाम्येत्स्वप्ननरस्येव बोद्धुर्बोधान्निरामयात् || ३१ || ननु परिणामान्तरं विना देहस्य गुरुत्वकाठिन्यादेः कथं निवृत्तिस्तत्राह - तदेति | स्वप्ननगरगुरुत्वकाठिन्यादय इव तेऽपि बाध्यन्त एवेत्यर्थः || ३१ || लघुतूलसमापत्तिस्ततः समुपजायते | स्वप्ने स्वप्नपरिज्ञानादिव देहस्य योगिनः || ३२ || स्वप्ने स्वप्नपरिज्ञानाद्यथा देहो लघुर्भवेत् | तथा बोधादयं देहः स्थूलवत्प्लुतिमान्भवेत् || ३३ || प्लुतिमान् आकाशगमनादियोग्यः || ३३ || अनेकदिनसंकल्पदेहे परिणतात्मनाम् | अस्मिन्देहे शवे दग्धे तत्रैवास्थितिमीयुषाम् || ३४ || यत्र दृढतरस्थूलवासनानामज्ञानां स्थूलदेहस्य शवीभावदाहादिना कारणे तिरोभावलक्षणे नाशेऽपि प्राक्तनसूक्ष्मदेहप्राप्तिस्तत्र किं वाच्यं ज्ञानिनां निर्वासनानां मूलोच्छेदनलक्षणे तद्बाधे जाते स्वाभाविकसौक्ष्म्यप्राप्तिर्भवतीति कैमुतिकन्यायेनाह - अनेकेति द्वाभ्याम् | आस्थित्मास्थां दृढाभिमानलक्षणाम् || ३४ || प्. २७२) १६९ लघुदेहानुभवनमवश्यं भावि वै तथा | प्रबोधातिशयादेति जीवतामपि योगिनाम् || ३५ || उदितायां स्मृतौ तत्र संकल्पात्माहमित्यलम् | यादृशः स भवेद्देहस्तादृशोऽयं प्रबोधतः || ३६ || तत्र स्वप्ने अहं संकल्पात्मैव न स्थूलात्मा इति स्मृतौ उदितायां सत्याम् | ईदृशी च स्मृतिः स्वप्ने ध्यायिनामनुभवसिद्धा न पामराणाम् | यादृशः स्वेच्छानभोविहारक्षमः || ३६ || भ्रान्तिरेवमियं भाति रज्ज्वामिव भुजङ्गता | किं नष्टमस्यां नष्टायां जातायां किं प्रजायते || ३७ || ननु सर्वजनप्रियस्य देहस्य बाधकं ज्ञानमनर्थ एव नेत्याह - भ्रान्तिरिति | किं नष्टमिति | नहि शुक्तिरजतबाधे कश्चिच्छोचतीति भावः || ३७ || श्रीराम उवाच | अनन्तरं ये वास्तव्या लीलां पश्यन्ति ते यदि | तत्सत्यसंकल्पतया बुध्यन्ते किमतः प्रभो || ३८ || इत्थं प्रासङ्गिके निर्णीते प्रस्तुतकथाविषय एव रामः पृच्छति - अनन्तरमिति | पूर्वलीलायां अभिनवलीलायाश्च पद्मगृहे समागमानन्तरं ये पद्मगृहवास्तव्या जनास्तां लीलामातिवाहिकदेहत्वाद्द्रष्टुमशक्यामपि इमे जना मां पश्यन्त्विति तस्याः सत्यसंकल्पतया हेतुना यदि पश्यन्ति तर्हि किं बुध्यन्ते किं सैवेयमत्रैव स्थितेति किं वा अपूर्वा देवता काचिदियमागतेति ज्येष्ठशर्मादिवत्सविस्मया इत्यर्थः || ३८ || श्रीवसिष्ठ उवाच | एवं ज्ञास्यन्ति ते राज्ञी स्थितेयमिह दुःखिता | वयस्या काचिदन्येयं कुतोऽप्यस्या उपागता || ३९ || तत्राद्यमेव कल्पमाश्रित्य वसिष्ठ उवाच - एवमिति | द्वितीयलीलां तर्हि किं बुध्यन्ते तत्राह - वयस्येति || ३९ || संदेहः क इवात्रैषां पशवो ह्यविवेकिनः | यथादृष्टं विचेष्टन्ते कुत एषां विचारणा || ४० || ननु द्वितीयलीलाया अपूर्वत्वात्केयं कुत आयाता किं सुचारित्रोत पुंश्चली सत्या असत्या वेत्यादिसंदेहस्तेषां कुतो नाभूत्तत्राह - संदेह इति | दृष्टमनतिक्रम्य यथादृष्टं पुरा दृष्टपदार्थानुसारेणैव विचेष्टन्ते | व्यवहरन्तीत्यर्थः || ४० || यथा लोष्टो लुठद्वृक्षं वञ्चयित्वाशु गच्छति | अज्ञानत्वेऽजपशवस्तथा ह्यस्ति पुरादिकम् || ४१ || तेषां विचारानुदये को हेतुरिति चेत्स्थूलाभिनिविष्टतासारदार्ढ्यसौक्ष्म्यादिशून्यता च हेतुरिति दृष्टान्तेन सूचयन्नाह - यथेति | यथा बालेन [बलेन इत्यपि क्वचित्] वृक्षोपघाताय प्रक्षिप्तो लोष्टः शुष्कपांसुपिण्डो लुठन्तं स्वमुपघ्नन्तं वृक्षं वञ्चयित्वा प्राप्य न शरवदन्तर्निविशते न वा कर्दमपिण्डवत्संश्लिष्यते न वा अश्मवदीषत्क्षतं कृत्वा स्वयं वा पुनरुपघातक्षमोऽवतिष्ठते किंतु आशु शीघ्रमेव गच्छति विशीर्यते तथा ते जना अपि न विद्यते ज्ञानं येषां ते अज्ञानास्तद्भावे वस्तुतः अजा अपि पशव इवेत्यजपशवः पेलवत्वादन्तर्निवेशविचाराक्षमा इत्यर्थः | अथ योऽन्यां देवतामुपास्तेऽन्योऽसावन्योऽहमस्मीति न स वेद यथा पशुः इति श्रुतेः | तेषां विचारानुदये न केवलमज्ञानमेव हेतुः किंतु तथा पुराणि शरीराणि आदिपदात्कामकर्मवासनादिकं चैषां तदा तदनुरूपमेव पशुवदेव वास्तीति युक्त एव विचारानुदय इत्यर्थः | अज्ञपशवः इति पाठे स्वयमज्ञा अज्ञानां देवानां पशवश्चेति व्याख्येयम् || ४१ || यथा स्वप्नवपुर्बोधान्न जाने क्वेव गच्छति | असत्यमेव तद्यस्मात्तथैवेहाधिभौतिकम् || ४२ || ये तु विचारयन्ति तेषां क्रमेण तत्त्वबोधोदयेन बाधितत्वात्तेष्वाधिभौतिकताप्रत्यय एव नास्ति दूरे संदेहादिप्रसक्तिरित्याशयेनोपसंहरति - यथेति | बोधाज्जागरणात् || ४२ || श्रीराम उवाच | भगवन्स्वप्नशिखरी प्रबोधे क्वेव गच्छति | इति मे संशयं छिन्धि शरदभ्रमिवानिलः || ४३ || दृष्टान्तप्रसङ्गाद्रामः स्वाप्नविषयस्य मूलाज्ञानबाधमन्तरेणात्यन्तिकबाधासंभवात्क्वचित्तिरोहितस्यावस्थानमस् ति तत्क्वेति पृच्छति - भगवन्निति || ४३ || श्रीवसिष्ठ उवाच | स्वप्नभ्रमेऽथ संकल्पे पदार्थाः पर्वतादयः | संविदोऽन्तर्मिलन्त्येते स्पन्दनान्यनिले यथा || ४४ || स्वाप्नस्य मानोरथिकस्य च प्रपञ्चस्य जाग्रद्वासनासंभृताविद्योपहितजीवसंवित्कार्यत्वात्तत्रैव तिरोधानमिति वसिष्ठः समाधत्ते - स्वप्नेति || ४४ || अस्पन्दस्य यथा वायोः सस्पन्दोऽन्तर्विशत्यलम् | अनन्यात्मा तथैवायां स्वप्नार्थः संविदो मलम् || ४५ || अनन्यात्मा तत्त्विकस्वरूपान्तरशून्यः | संविदो मलं मलवदावरकमज्ञानमेव स्वोपादानं विशतीत्यर्थः || ४५ || स्वप्नाद्यर्थावभासेन संविदेव स्फुरत्यलम् | अस्फुरन्ती तु तेनैव यात्येकत्वं तदात्मिका || ४६ || इत्थं च संविदेवाज्ञाता कर्मवशात्कदाचित्स्वाप्नार्थात्मना स्फुरतीति फलितमित्याह - स्वप्नेति || ४६ || संवित्स्वप्नार्थयोर्द्वित्वं न कदाचन लभ्यते | यथा द्रवत्वपयसोर्यथा वा स्पन्दवातयोः || ४७ || विवेके तु न स्वाप्नार्थो नाम संविदन्योऽस्तीत्याह - संविदिति || ४७ || यस्तत्र स्यादिवाबोधस्तदज्ञानमनुत्तमम् | सैषा संसृतिरित्युक्ता मिथ्याज्ञानात्मिकोदिता || ४८ || तत्रान्यदिव भासमानं तु केवलमविद्यैव सैव संसार इत्याह - य इति || ४८ || सहकारिकारणानामभावे किल कीदृशी | संवित्स्वप्नपदार्थानां द्विता स्वप्ने निरर्थिका || ४९ || लोकप्रसिद्धदण्डचक्रादिसहकारिकारणाजन्यत्वादपि स्वाप्नार्थानामसत्त्वमित्याह - सहकारीति || ४९ || प्. २७३) १६९ यथा स्वप्नस्तथा जाग्रदिदं नास्त्यत्र संशयः | स्वप्ने पुरमसद्भाति सर्गादौ भात्यसज्जगत् || ५० || ननु तर्हि सहकारिकारणवतो जाग्रत्प्रपञ्चस्य सत्यत्वं प्राप्तं नेत्याह - यथेति | सर्गादाविति | यद्यपीदानीं सहकार्यादयः सन्ति तथाप्यादिसर्गे अज्ञानोपहितहैरण्यगर्भसंविदतिरिक्तं नास्तीति स्वप्नसाम्यमेवेत्यर्थः || ५० || न चार्थो भवितुं शक्यः सत्यत्वे स्वप्नतोदितः | संविदो नित्यसत्यत्वं स्वप्नार्थानामसत्यता || ५१ || प्रपञ्चस्य सत्यत्वे संविद्वच्चित्त्वापत्त्या चिद्विष्यत्वव्याघातोऽपि स्यादित्याह ##- संविदेत्यर्थस्तथा भवितुं संभावयितुं शक्यः | किंच संवित्सत्तां न व्यभिचरति अर्थास्तु व्यभिचरन्तीति न सत्या इत्याह - संविद इति || ५१ || झटित्येव यथाकाशं भवति स्वप्नपर्वतः | क्रमेण वा तथा बोधे खं भवत्याधिभौतिकम् || ५२ || तत्त्वज्ञानबाध्यत्वादपि न सत्यतेत्याह - झटित्येवेति | आकाशं शून्यं भवति नाणुमात्रमपि परिशिष्यत इत्यर्थः | बोधे जागरणे तत्त्वज्ञाने च | बोधाभ्यासक्रमेण ईश्वराद्यनुग्रहात्सहसैव वा | खं शून्यमसभवतीत्यर्थः || ५२ || उड्डीनोऽयं मृतो वेति पश्यन्ति निकटस्थिताः | ज्ञमातिवाहिकीभूतं स्वस्वभावहता यतः || ५३ || कथं तर्हि लोकैः शुकस्योड्डीय सूर्यमण्डलगमनदर्शनं दधीचिप्रभृतीनां मृतदेहदर्शनं च तत्राह - उड्डीन इति | ज्ञं तत्त्वज्ञम् | आतिवाहिकीभूतं बाधिताधिभौतिकशरीरम् | स्वेषां स्वभावः अनागन्तुकमज्ञानं तेन हता हिंसितप्राया जनाः | तथाच स्वस्वाज्ञानकल्पितदेह एव तैर्दृश्यते न ज्ञानिदेहः स इत्यर्थः || ५३ || मिथ्यादृष्टय एवेमाः सृष्टयो मोहदृष्टयः | मायामात्रदृशो भ्रान्तिः शून्याः स्वप्नानुभूतयः || ५४ || उक्तमर्थमनुमानेनापि द्रढयन्नुपसंहरति द्वाभ्याम् | इमा द्वैतदृष्टयो मिथ्यादृष्टय एव | यतो मोहदृष्टयः | तथाहि ऐन्द्रजालिकमायामात्रदृशो भ्रान्तिः प्रसिद्धा | अर्थशून्याः स्वप्नानुभूतयश्च प्रसिद्धा इत्यर्थः || ५४ || स्वप्नानुभूतय इमा मरणान्तबोधे भ्रान्त्येतरभ्रमदृशःस्फुटसर्गभासः | भान्त्यातिवाहिकशरीरगताः समस्ता मिथ्योदिता मृगनदीसरणक्रमेण || ५५ || इतरभ्रमदृशः पूर्वपूर्वमेदभ्रमदर्शिनः पुरुषस्य दृढतरभेदसंस्कारोदयान्मरणान्तबोधे प्राणोत्क्रमणपूर्वक्षणोत्पन्ने भाविभोगानुकूलार्थप्रतिभासे समस्ताः स्वप्नानुभूतिसदृशा इमाः स्फुटसर्गभास आतिवाहिकशरीरगता मनोमात्रनिष्ठा अपि भ्रान्त्या मृगनद्याः सरणं प्रवाहस्तत्क्रमेण तद्रीत्यैव मिथ्योदिता बाह्या इव भान्ति न तु वस्तुतो मनसो बहिः सन्तीत्यर्थः || ५५ || इत्यार्षे श्रीवासिष्ठमहारामायणे मोक्षोपाये उत्पत्तिप्रकरणे लीलो० स्वप्नार्थस्य विचारो नाम सप्तपञ्चाशः सर्गः || ५७ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे स्वप्नार्थस्य विचारो नाम सप्तपञ्चाशः सर्गः || ५७ || अष्टपञ्चाशः सर्गः ५८ श्रीवसिष्ठ उवाच | एतस्मिन्नन्तरे ज्ञप्तिर्जीवं वैदूरथं पुनः | संकल्पेन रुरोधाशु मनसः स्पन्दनं यथा || १ || इह कालः समाधिस्थलीलादेहविनाशनम् | लीलासंभाषणं राज्ञो जीवनं चेति वर्ण्यते || १ || एवं रामप्रश्नान्समाधाय प्रस्तुतकथाशेषं वर्णयिष्यन्वसिष्ठः सर्गान्तवक्तव्यार्थे भूमिकां रचयति - एतस्मिन्निति | अमूर्तस्यापि संकल्पमात्रेण निरोधसंभावनाय दृष्टान्तमाह - मनस इति || १ || लीलोवाच | वद देवि कियान्कालो गतोऽस्यामिह मन्दिरे | समाधौ मयि लीनायां महीपाले शवे स्थिते || २ || अस्यां पाद्मसृष्टौ || २ || ज्ञप्तिरुवाच | इह मासस्त्वतिक्रान्त इह दास्याविमे तव | रक्षार्थं वासगृहके स्वपतोऽवहिते स्थिते || ३ || इहास्यां सृष्टौ इह वासगृहके तव त्वद्देहस्य रक्षार्थं दास्यौ स्थिते इमे इदानीं स्वपतः | इडभावश्छान्दसः || ३ || शृणु देहस्य किंवृत्तं तवेह वरवर्णिनि | शरीरं तव पक्षेण तत्क्लिन्नं बाष्पतां गतम् || ४ || पूर्वं लीलायाः स्वाज्ञानकल्पितस्य स्वानुभवसिद्धस्य देहस्य तत्त्वज्ञानेन बाधितस्यापि प्रारब्धशेषभोगाय प्रतिभासमानस्यातिवाहिकभावो वर्णितः | संप्रति परकीयाज्ञानकल्पितस्य परानुभवसिद्धस्य वृत्तान्तं श्रावयति ##- स्वेदार्द्रं सत् प्राणनिरोधप्रदीप्तजठराग्निना तप्यमानं बाष्पतां सार्द्रधूमतां गतं प्राप्तम् || ४ || निर्जीवं पतितं भूमौ संशुष्कमिव पल्लवम् | काष्ठकुद्योपमो जातः शवस्तु हिमशीतलः || ५ || ततः क्रमेण शुष्कं निर्जीवं सत् शवो जातः || ५ || ततो मन्त्रिभिरागत्य मृतैवेयमिति स्वयम् | क्लेदालोकाद्विनिर्णीय भूयो निष्कासितं गृहात् || ६ || भूयः क्लेदालोकाद्विशरणोन्मुखतादर्शनान्मृतेति निश्चित्य || ६ || बहुनात्र किमुक्तेन नीत्वा चन्दनदारुभिः | चितौ संक्षिप्य सघृतं सहसा भस्मसात्कृतम् || ७ || प्. २७४) १७० ततो राज्ञी मृतेत्युच्चैः कृत्वा रोदनमाकुलम् | परिवारस्तवाशेषं कृतवानौर्ध्वदेहिकम् || ८ || राजशरीरस्य विकारानुदयस्तु ज्ञप्तिसंकल्पात्तदीयादृष्टवशाच्च बोध्यः || ८ || इदानीं त्वामिहालोक्य सशरीरामुपागताम् | परलोकादागतेति महच्चित्रं भविष्यति || ९ || चित्रमाश्चर्य भविष्यति जनानामिति शेषः || ९ || त्वं तु तेन शरीरेण सत्यसंकल्पतः सुते | दृश्यसे स्ववदातेन चित्रं तत्र तवोपरि || १० || त्वदीयदिव्यशरीरदर्शनादपि परमाश्चर्यं भविष्यतीत्याह - त्वं त्विति | तेन आतिवाहिकेन स्ववदातेन स्वच्छतरेण मनुष्यैर्द्रष्टुमशक्येनापि दृश्यसे इति तदुपरि तव तत्र दर्शनविषये चित्तं भविष्यतीत्यनुषज्यते || १० || यद्वासना त्वमभवो देहं प्रति तदेव ते | रूपमभ्युदितं बाले तेन प्राक्सदृशं तव || ११ || ननु दिव्यशरीरस्य पूर्वदेहाकारत्वाभावे तेषां प्रत्यभिज्ञायोगात्तदाकारमावश्यकं तत्र को हेतुस्तमाह - यदिति | यद्वासना यादृशाकारवासना || ११ || स्ववासनानुसारेण सर्वः सर्वं हि पश्यति | दृष्टान्तोऽत्राविसंवादी बालवेतालदर्शनम् || १२ || आतिवाहिकदेहासि संपन्ना सिद्धसुन्दरि | विस्मृतस्त्वेव देहोऽसौ प्राक्तनोऽनपवासनः || १३ || ननु तद्देहवासनत्वे मया स एव देहो राज्ञेव कुतो न प्राप्तस्तत्राह - आतिवाहिकेति | सिद्धा तत्त्वज्ञानपरिनिष्ठिता सुन्दरी | यदि सर्वथा विस्मृतस्तर्ह्यातिवाहिकदेहे तदाकारत्वासिद्धिरित्यत उक्तमनपवासन इति | नात्यन्तं तद्वासनोच्छिन्नेत्याशयः || १३ || रूढातिवाहिकदृशः प्रशाम्यत्याधिभौतिकः | बुधस्य दृश्यमानोऽपि शरन्मेघ इवाम्बरे || १४ || तर्ह्यस्याधिभौतिकतापि कुतो नाभूत्तत्राह - रूढेति | परैराधिभौतिक इति दृश्यमानोऽपि || १४ || रूढातिवाहिकीभावः सर्वो भवति देहकः | निर्जलाम्भोदसदृशो निर्गन्धकुसुमोपमः || १५ || सद्वासनस्य रूढायामातिवाहिकसंविदि | देहो विस्मृतिमायाति गर्भसंस्थेव यौवने || १६ || वासनाया अत्यन्तोच्छेदे तु नातिवाहिकदेहकल्पनाप्यस्तीति सूचनाय सद्वासनस्येत्युक्तम् | देह आधिभौतिकः || १६ || एकत्रिंशेऽद्य दिवसे प्राप्ता वयमिहाम्बरे | प्रभाते मोहिते दास्यौ मयैते निद्रयाधुना || १७ || तदेहि यावल्लीलायै लीले संकल्पलीलया | आत्मानं दर्शयावोऽस्यै व्यवहारः प्रवर्तताम् || १८ || संकल्पलीलया सत्यसंकल्पविलासेन || १८ || श्रीवसिष्ठ उवाच | आवां तावदिमे लीला पश्यत्वित्येव चिन्तिते | ज्ञप्त्या देव्या ततस्तत्र दृश्ये दीप्ते बभूवतुः || १९ || इमे आवां विदूरथलीला पश्यतु इति ज्ञप्तया देव्या चिन्तिते सति दीप्ते प्रकाशमाने ज्ञप्तिलीले दृश्ये बभूवतुः || १९ || सा विदूरथलीलाथ समाकुलविलोचना | गृहमालोकयामास तत्तेजःपुञ्जभास्वरम् || २० || चन्द्रबिम्बादिवोत्कीर्णं धौतं हेमद्रवैरिव | ज्वालाया द्रवशीतायास्तत्प्रभाद्रवभित्तिमत् || २१ || द्रवशीताया ज्वालाया दीप्तेर्वशाच्चन्द्रबिम्बादुत्कीर्णमिव स्थितम् | तदङ्गप्रभाद्रवव्याप्तभित्तिमत्त्वाद्धेतोर्हेमद्रवैर्लिप्तमिव स्थितमित्यर्थः || २१ || गृहमालोक्य पुरतो लीलाज्ञप्ती विलोक्य ते | उत्थय संभ्रमवती तयोः पादेषु सापतत् || २२ || संभ्रमोऽत्र हर्षनिर्भरः || २२ || मज्जयायागते देव्यौ जयतां जीवनप्रदे | इह पूर्वमहं प्राप्ता भवत्योर्मार्गशोधिनी || २३ || मम जयाय कल्याणोत्कर्षाय | मार्गशोधिनी परिचारिकेवेति यावत् || २३ || इत्युक्तवत्यां तस्यां ता मानिन्यो मत्तयौवनाः | उपाविशन्विष्टरेषु लतामेरुशिरःस्विव || २४ || ज्ञप्तिरुवाच | सुते वद कथं प्राप्ता त्वमिमं देशमादितः | किं वृत्तं ते त्वया दृष्टं किमिवाध्वनि कुत्र वा || २५ || आदित आरभ्य वद | ते कुत्र वा अध्वनि किं वा आश्चर्य वृत्तं तत्त्वया कुत्र वा दृष्टमित्यर्थः || २५ || विदूरथलीलोवाच | देवि तस्मिन्प्रदेशे सा जातमूर्च्छा तदाभवम् | द्वितीयेन्दोः कलेवाहं कल्पान्तज्वालया हता || २६ || तस्मिन्विदूरथगृहप्रदेशे साहं द्वितीयातिथिस्तत्संबन्धिन इन्दोः कला कल्पान्तज्वालया हतेव मूर्च्छिता अभवम् || २६ || न चेतितं मया किंचित्समं विषममेव च | ततस्तरलपक्ष्मान्ते विनिमील्य विलोचने || २७ || विलोचने विनिमील्य मूर्च्छायां न चेतितं न किंचिज्ज्ञातम् | न चेतितमित्यननुभूतस्याभिलापायोगात्साक्षिभवेनाज्ञातं [नाज्ञानं चेतितं इति पाठः] चेतितमेवेति न चिदात्मलोपाशङ्कावसरः || २७ || ततो मरणमूर्छान्ते पश्यामि परमेश्वरि | यावदभ्युदितास्म्याशु प्लुता च गगनोदरे || २८ || वासनापरिकल्पितपूर्वदेहसदृशदेहरूपेण यावदभ्युदिता अध्यासेनाविर्भूतास्मि तावच्चिद्गगनोदरे भूताकाशे प्लुता उत्प्लुता चास्मि || २८ || भूताकाशेऽनिलरथं समारूढास्म्यहं ततः | आनीता गन्धलेखेव तेनाहमिममालयम् || २९ || अनिलः प्राणो वातस्कन्धो वा तद्रूपं रथम् | तेनानिलरथेन || २९ || देवि पश्यामि सदनं नायकेनाभ्यलंकृतम् | दीप्तदीपं विविक्तं च महार्हशयनान्वितम् || ३० || पतिमालोकयामीमं यावदेष विदूरथः | शेते कुसुमगुप्ताङ्गो मधु पुष्पवने यथा || ३१ || यावच्छेते तावत्प्रतीक्षमाणा आलोकयामीत्यर्थः | मधुर्वसन्तः || ३१ || प्. २७५) १७० अथ संग्रामसंरम्भश्रमार्तोऽयं स्वपित्यलम् | इति निद्रा मया सेयं देवेश्वरि न वारिता || ३२ || अयं संग्रामश्रमार्तः स्वपितीत्यनेनाभिप्रायेण अथ मया अस्य निद्रा न वारिता || ३२ || अनन्तरमिमं देशं प्राप्ते देव्याविमे त्विति | यथानुभूतं कथितं मदनुग्रहकारिणि || ३३ || देव्यौ युवां इमं देशं गृहं प्राप्ते इति मया यथानुभूतं कथितम् || ३३ || ज्ञप्तिरुवाच | हे हंसहारिगामिन्यौ लीले ललितलोचने | उत्थापयामो नृपतिं शवतल्पतलादिमम् || ३४ || इत्युक्त्वा मुमुचे जीवमामोदमिव पद्मिनी | ससमीरलताकारस्तन्नासानिकटं ययौ || ३५ || इत्युक्त्वा ज्ञप्तिः प्राक्संकल्पेन निरुद्धं राज्ञो जीवं मुमोच | स जीवः समीरवददृश्योऽपि रागादिवासनापल्लवितत्वाल्लताकारः || ३५ || घ्राणकोशं विवेशान्तर्वंशरन्ध्रमिवानिलः | स्ववासनाशतान्यन्तर्दधदब्धिर्मणीनिव || ३६ || तदेवाह - स्ववासनाशतान्यन्तर्दधदिति || ३६ || अन्तस्थजीवं वदनं तस्य तत्कान्तिमाययौ | पद्मस्यावग्रहे पद्मं सुवृष्ट इव वारिणि || ३७ || तस्य पद्मस्य | अवग्रहे वृष्टिप्रतिबन्धे म्लानं पद्मं वारिणि सुवृष्टे सतीव || ३७ || क्रमादङ्गानि सर्वाणि सरसानि चकाशिरे | तस्य पुष्पाकर इव लताजालानि भूभृतः || ३८ || पुष्पाकरे वसन्तकाले || ३८ || अथाबभौ कलापूर्णः स राकायामिवोडुराट् | भासयन्भुवनं भूरि वदनेन्दुमरीचिभिः || ३९ || स्फुरयामास सोऽङ्गानि रसवन्ति मृदूनि च | कनकोज्ज्वलकान्तीनि पल्लवानीव माधवः || ४० || स्फुरयामास संचालयामास | चिस्फुरोर्णौ इत्यात्वस्य गुणस्य चाभावश्छान्दसः || ४० || उन्मीलयामास दृशौ विमलालोलतारके | हारिण्यौ सुभगाभोगे चन्द्रार्कौ भुवनं यथा || ४१ || हारिण्यौ मनोहरे | सुभगाभोगे सौभग्यलक्षणशालिसंस्थानवत्यौ दृशौ | भुवनं सरभुवनात्मा विराट्स्वनेत्रभूतौ चन्द्रार्काविवोन्मीलयामास || ४१ || उत्तस्थौ प्रोल्लसत्कायो विन्ध्याद्रिर्वृद्धिमानिव | उवाच कः स्थित इति घनगम्भीरनिःस्वनम् || ४२ || लीलाद्वयमथास्याग्रे प्रोवाचादिश्यतामिति | स ददर्श पुरो नम्रं लीलाद्वयमवस्थितम् || ४३ || लीलाद्वयं कर्तृ आदिश्यतां आज्ञाप्यतां महाराजेनेत्युवाच || ४३ || समाचारं समाकारं समरूपं समस्थिति | समवाक्यं समोद्योगं समानन्दं समोदयम् || ४४ || का त्वं केयं कुतश्चेयमित्याह स विलोकयन् | तस्मै लीलाह हे देव श्रूयतां यद्वदाम्यहम् || ४५ || लीला पूर्वलीला आह || ४५ || महिला तव लीलाहं प्राक्तनी सहधर्मिणी | वागर्थस्येव संपृक्ता स्थिता संश्लेषशालिनी || ४६ || यथा वाक् शब्दोऽर्थस्य वाचकतया संपृक्ता तद्वत् || ४६ || इयं लीला द्वितीया ते महिला हेलया मया | उपार्जिता त्वदर्थेन प्रतिबिम्बमयी शुभा || ४७ || त्वदर्थेन त्वदुपभोगार्थम् || ४७ || शिरोभागोपविष्टेयं पाहि हैममहासने | एषा सरस्वती देव त्रैलोक्यजननी शिवा || ४८ || अस्माकं पुण्यसंभारैरिह साक्षादुपागता | अनयेमे पराल्लोकादिहानीते महीपते || ४९ || इमे आवां पराल्लोकाद्ब्रह्माण्डान्तरात् || ४९ || इत्याकर्ण्य समुत्थाय राजा राजीवलोचनः | लम्बमाल्याम्बरधरः पपात ज्ञप्तिपादयोः || ५० || सरस्वति नमस्तुभ्यं देवि सर्वहितप्रदे | प्रयच्छ वरदे मेधां दीर्घमायुर्धनानि च || ५१ || मेधां श्रुतपरमार्थधारणावतीं बुद्धिम् || ५१ || इत्युक्तवन्तं हस्तेन पस्पर्श ज्ञप्तिदेवता | सरस्वत्युवाच | त्वं पुत्राभिमतार्थाढ्यो भवेति भवनान्वितः || ५२ || ऐहिकेन दीर्घायुर्धनाद्यभिमतार्थेन आढ्यः संपन्नतमः | तत्त्वमेधाभिव्यक्तेन भवनेन पारमार्थिकात्मस्वस्वरूपस्थित्या चान्वितो भव || ५२ || सर्वापदः सकलदुष्कृतदृष्टयश्च गच्छन्तु वः शममनन्तसुखानि सम्यक् | आयान्तु नित्यमुदिता जनता भवन्तु राष्ट्रे स्थिराश्च विलसन्तु सदैव लक्ष्म्यः || ५३ || दुष्कृतदृष्टयः पापबुद्धयश्च शमं विनाशं गच्छन्तु | अनन्तान्यसंख्यान्यभ्युदयसुखानि आयान्तु | तथा वः राष्ट्रे जनता जनसमूहाः नित्यं मुदिता भवन्तु | लक्ष्म्यः संपदः सदैव विलसन्त्वित्याशिषि लोटः (?) || ५३ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे लीलोपाख्याने पद्मजीवनं नामाष्टपञ्चाशः सर्गः || ५८ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे पद्मजीवनं नामाष्टपञ्चाशः सर्गः || ५८ || प्. २७६) १७१ एकोनषष्टितमः सर्गः ५९ श्रीवसिष्ठ उवाच | सरस्वती तथेत्युक्त्वा तत्रैवान्तर्धिमाययौ | प्रभाते पङ्कजैः सार्धं बुबुधे सकलो जनः || १ || राज्ञः संजीवनोद्धर्षात्तत्पुरान्तःपुरोत्सवः | राज्यं च जीवन्मुक्तानां चिरं मुक्तिश्च वर्ण्यते || १ || सरस्वती इति उक्तप्रकारेण प्राग्यद्राज्ञा प्रार्थितं तत्तथास्त्वित्युक्त्वा तत्र राजगृहे एव अन्तर्धिमन्तर्धानमाययौ || १ || आलिलिङ्ग च तां लीलां लीला च दयितं क्रमात् | पुनःपुनर्महानन्दान्मृतं प्रोज्जीवितं पुनः || २ || लीला च प्राङ्मृतं पुनः प्रोज्जिवितं पुनःपुनर्महानन्दादालिलिङ्ग || २ || तदासीद्राजसदनं मदमन्मथमन्थरम् | आनन्दमत्तजनतं वाद्यगेयरवाकुअलम् || ३ || तदा राजसदनमानन्देन मत्ता परवशचित्ता जनता यस्मिंस्तथाविधमासीत् || ३ || जयमङ्गलपुण्याहघोषघुंघुमघर्घरम् | तुष्टपुष्टजनापूर्णं राजलोकवृताङ्गणम् || ४ || राज्ञो लोकाः सेवकजनाः राजानं लोकयन्तीति राजलोकाः पौरजानपदाश्च तैर्वृताङ्गणम् || ४ || सिद्धविद्याधरोन्मुक्तपुष्पवर्षसहस्रभृत् | ध्वनन्मृदङ्गमुरजकाहलाशङ्खदुन्दुभि || ५ || काहलाशब्दः कार्णालसंज्ञकवाद्यविशेषार्थः || ५ || ऊर्ध्वीकृतबृहद्धस्तहास्तिकस्तनितोत्कटम् | उत्तालताण्डवस्त्रैणपूर्णाङ्गणलसद्धवनि || ६ || उत्तालताण्डवैः स्त्रैणैः स्त्रीसमूहैः पूर्णाङ्गणे लसंस्तौर्यत्रिकध्वनिर्यस्मिन् || ६ || मिथःसंघट्टनिपतज्जनोपायनदन्तुरम् | पुष्पशेखरसंभारमयसंसारसुन्दरम् || ७ || पुष्पशेखराणामौत्सविकसंभारप्रचुराणां नानाजनानां संसारेण संचारेण सुन्दरं शोभमानम् || ७ || विकीर्णापादितक्षौमं मन्त्रिसामन्तनागरैः | स्थूलपद्ममयं व्योम रक्तैस्ताण्डविनीकरैः || ८ || मन्त्रिभिः सामन्तैर्नागरैश्च विकीर्णैः कुसुमलाजमौक्तिकैः सर्वतश्छन्नत्वादापादितानि संपादितानि क्षौमाम्बराणीव यस्य तत् | व्योम्नि रक्तैस्ताण्डविनीनां नर्तकीनां करैः स्थूलपद्ममयं दीर्घपद्मप्रचुरं सर इव स्थितमित्याशयः || ८ || मत्तस्त्रिकन्धरावृत्तलीलान्दोलितकुण्डलम् | प्रवृत्तपादसंपातप्रोल्लसत्पुष्पकर्दमम् || ९ || मत्तानां हृष्टानां स्त्रीणां कंधराणां ग्रीवाणामावृत्तलीलाभिः परिवर्तनविलासैरान्दोलितानि कुण्डलानि यत्र || ९ || पट्टवासःशरन्मेघवितानकवितानकम् | वराङ्गनामुखैर्नृत्यच्चन्द्रलक्षगृहाजिर || १० || पट्टवाससां शरन्मेघवितानकसदृशानि वितानकानि यत्र | नृत्यन्ति चन्द्रलक्षाणि यत्र तथाविधानि गृहाजिराणि यत्र || १० || परलोकादुपानीता राज्ञी सा पतिरेव च | इति निर्वृत्तगाथाभिर्जगुर्देशान्तरे जनाः || ११ || सा राज्ञी द्वितीयलीला परलोकादुपानीता पूर्वलीलयेत्यर्थाद्गम्यते | पतिरेव च उपानीत इति प्रबन्धशतात्मना निर्वृत्ताभिर्गाथाभिर्जगुः || ११ || पद्मो भूमिपतिः श्रुत्वा वृत्तान्तं कथितं मनाक् | चक्रे स्नानं समानीतैश्चतुःसागरवारिभिः || १२ || वृत्तान्तं स्वमरणादिकथां मनाक् संक्षेपेण कथितं श्रुत्वा || १२ || ततोऽभिषिषिचुर्विप्रा मन्त्रिणो भूभुजश्च तम् | लब्धोदयमनन्तेहममरेन्द्रमिवामराः || १३ || चिरप्रवासादागतस्येव परलोकादागतस्य पुनः पदाभिषेको मङ्गलार्थः | अमरेन्द्रपक्षे अनन्ता ईहाः स्वराज्यलाभप्रयत्ना यस्य तम् | अत एव नहुषनिपातेन पुनर्लब्धः स्वराज्योदयो येन तथाविधम् || १३ || लीला लीला च राजा च जीवन्मुक्तमहाधियः | रेमिरे पूर्ववृत्तान्तकथनैः सुरतैरिव || १४ || ननु लीला लीला चेत्यत्र सरूपैकशेषः किं न स्यादिति चेद्रामश्च रामश्च रामौ इत्येकशेषविग्रहवाक्यवदिति गृहाण | न ह्येकशेषवृत्तेर्विग्रह एव नास्ति | परस्परनिरपेक्षमेव संस्कारेण परिनिष्ठितयोः पश्चात्सहविवक्षायां तस्य निराबाधत्वात् | विभक्त्युत्पत्तेः प्रागेव प्रातिपदिकार्थद्वयस्य सहविवक्षायामेकशेषस्य सावकाशतया परिनिष्ठितपदद्वये प्रसक्त्यभावादिति || १४ || सरस्वत्याः प्रसादेन स्वपौरुषकृतेन तत् | प्राप्तं लोकत्रयश्रेयः पद्मेनेति महीभुजा || १५ || ननु यदि राज्ञा सरस्वतीप्रसादेन तत्पुनर्जीवनं राज्यं च प्राप्तं तर्हि दैवेनैव तत्प्राप्तं न स्वपौरुषकृतेनेति रामाशङ्कां हृदिस्थामुपलक्ष्य तां परिहरन्नुपसंहरति - सरस्वत्या इति | स्वपौरुषकृतेनेति | सरस्वत्याराधनादिस्वपौरुषकृत एव तत्प्रसादो नाकस्मिक इत्यर्थः | पद्मेन इति वर्णितरीत्या लोकत्रये श्रेयः प्रशस्यतमं पुनर्जीवनं राज्यं ज्ञानं च प्राप्तम् || १५ || स ज्ञप्तिज्ञानसंबुद्धो राजा लीलाद्वयान्वितः | चक्रे वर्षायुतान्यष्टौ तत्र राज्यमनिन्दितः || १६ || ज्ञप्त्युपदिष्टेन ज्ञानेन संबुद्धः सम्यग्बुद्धात्मतत्त्वः स राजा अष्टौ वर्षाणामयुतान्यशीतिसहस्राणि राज्यं चक्रे | कालाध्वनोरत्यन्तसंयोगे इति द्वितीया || १६ || जीवन्मुक्तास्त इत्येवं राज्यं वर्षायुताष्टकम् | कृत्वा विदेहमुक्तत्वमासेदुः सिद्धसंविदः || १७ || सिद्धसंविदः अरिनिष्ठितप्रबोधाः || १७ || प्. २७७) १७१ यदुदयविशदं विदग्धमुग्धं समुचितमात्महितं च पेशलं च | तदखिलजनतोषदं स्वराज्यं चिरमनुपाल्य सुदंपती विमुक्तौ || १८ || यद्राज्यं प्रजानामुदयैर्नित्याभ्युदयैर्विशदं निर्दोषम् | विदग्धानां विदुषां शास्त्रानुसारित्वान्मुग्धं मनोहरम् | कुलपरंपरायाः समुचितम् | आत्मनः स्वस्य भोगयशोधर्महेतुत्वाद्धितम् | जनानामनुरञ्जनेन पेशलं चतुरं च | अत एवाखिलजनतोषदं तत्स्वराज्यं चिरमनुपाल्य सुदंपती लीलापद्मौ प्रारब्धफलभोगान्ते विमुक्तौ विदेहकैवल्यं प्राप्तौ | ननु प्राक् त्रयाणां जीवन्मुक्ततोक्ता कथमत्र द्वयोरेव मुक्तिरुपसंहृतेति चेद्राजवासनामयया द्वितीयलीलायाः पूर्वलीलाप्रतिबिम्बप्रायतया तदन्तर्भावविवक्षणादिति || १८ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये लीलोपाख्याने पद्मनिर्वाणं नामैकोनषष्टितमः सर्गः || ५९ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे पद्मनिर्वाणं नामैकोनषष्टितमः सर्गः || ५९ || षष्टितमः सर्गः ६० श्रीवसिष्ठ उवाच | एतत्ते कथितं राम दृश्यदोषनिवृत्तये | लीलोपाख्यानमनघं घनतां जगतस्त्यज || १ || विस्तराद्वर्ण्यतेऽत्रादौ लीलाख्यानप्रयोजनम् | कालादिसाम्यवैषम्यहेतुश्चात्र निगद्यते || १ || दृश्यदोषनिवृत्तये | तथाच दृश्यं नास्तीति बोधेन मनसो दृश्यमार्जनं संपन्नं चेत्तदा प्राप्ता परा निर्वाणनिर्वृतिरिति ग्रन्थोपक्रमे यत्प्रतिज्ञातं तत्सिद्धिरेवास्य प्रयोजनमिति भावः | घनतां सत्यताम् || १ || शान्तैव दृश्यसत्तस्याः शमनं नोपयुज्यते | सतो हि मार्जनक्लेशो नासतस्तु कदाचन || २ || ननु सत्यतात्यागमात्रेण कथं दृश्यनिवृत्तिस्तत्राह - शान्तैवेति | यावत्सत्यताबुद्धिस्तावदेव मार्जनेनेति नेत्यपवादे क्लेशो न्यायैर्मिथ्यात्वनिर्णये तु स नास्तीत्यर्थः || २ || ज्ञानेनाकाशरूपेण दृश्यं ज्ञेयस्वरूपकम् | इत्येकीभूतमालोक्य ज्ञस्तिष्ठत्यम्बरोपमः || ३ || इति उक्तप्रकारेणापवादेनैकीभूतमखण्डैकरसतां प्राप्तम् | ज्ञस्तत्त्वज्ञः || ३ || पृथ्व्यादिरहितेनेदं चिद्भासैव स्वयंभुवा | साधितं यदि सिद्धेन ततः स्वात्मनि साधितम् || ४ || ननु जडस्य दृश्यस्य कथं संविदैकरस्यमित्याशङ्क्य आदिसर्गे चिन्मात्ररूपेणैव स्वयंभुवा स्वात्मन्येव दृश्यविवर्त्कल्पनात्करकाकाठिन्यस्य द्रवैकरस्याविरोधवदुपपत्तेरित्याशयेनाह - पृथ्व्यादिरहितेनेति || ४ || संइद्यथा या यतते तथा सैव व्यवस्थिता | विसृष्टा सृष्टिविन्नद्यां यावद्यत्नान्न रोधिता || ५ || तर्हि विनैव प्रयत्नं करकाकाठिन्यवदेव दृश्यविलयः किं न स्यात्तत्राह - संविदिति | सृष्टिं वेत्तिति सृष्टिवित्स्वयंभूचैतन्यं तल्लक्षणायां नद्यां तदेकदेशभूता या जीवसंविद्यथा यादृशप्रवृत्तिप्रवाहेण यथा यादृशकार्यकरणफलभावाय यतते सा तथा तादृशकार्यकरणफलभावेन विसृष्टा सती स्वप्रयत्नानुसारात्तथैव व्यवस्थिता सा यावद्विरुद्धनिवृत्तिप्रयत्नान्न रोधिता तावन्न निवर्तत इत्यर्थः || ५ || चिदाकाशावभासोऽयं जगदित्यवबुध्यते | चिद्व्योम्न्येवात्मनि स्वच्छे परमाणुकणं प्रति || ६ || ननु ब्रह्मसृष्टमिदं जगत्कथं जीवप्रयत्नेन विरुध्येत नहि महाराजाज्ञासिद्धं पृथग्जनप्रयत्नेन निवर्तयितुं शक्यमित्याशङ्क्याह - चिदाकाशेति | यद्यपि चिद्व्योम्न्येव स्वच्छे ब्रह्मात्मनि चिदाकाशस्य मायिकोऽयभासोऽयं जगदित्यवबुध्यते इति ब्रह्मसृष्टं जगत् तथापि तन्नापरिच्छिन्नब्रह्मभावं प्रति तथावबुध्यते किंतु बुद्ध्यादिपरिच्छिन्नोपाधिवशात्परमाणुकणमत्यन्तपरिच्छिन्नं जीवं प्रति | तदीयप्रयत्नजन्यकर्मभोगार्थमेअ ब्रह्मणि तदारोपात् | तथाच तत्प्रयत्नजन्यबोधेन दृश्यमार्जनं संभवत्येवेति भावः || ६ || एवमस्या मुधाभ्रान्तेः का सत्ता केव वासना | का वास्था का च नियतिः कावश्यंभावितोच्यताम् || ७ || एवंच सति सत्तनियतिवासनादिभिरपि न दृश्यत्राणप्रसक्तिरित्याशयेनाह ##- सर्वं चैतद्यथादृष्टं स्थितमित्थमखण्डितम् | मायैवेयमनन्तेयं न च मायास्ति काचन || ८ || मायादृष्टौ सर्वमेतद्यथादृष्टं स्थितमपि न परमार्थदृष्टौ संभवति | यतो मायाकार्यभूतेयं सृष्टिर्मायैव | न च माया वस्तुसतीत्यर्थः || ८ || श्रीराम उवाच | अहो नु परमा दृष्टिर्दर्शिता भगवंस्त्वया | दावाग्निदग्धकक्षाणां दाहशान्तौ कलैन्दवी || ९ || दावाग्निना दग्धानां कक्षाणां तृणसंघानां दाहशान्तौ पुनर्हरिताङ्कुरप्ररोहाय ऐन्दवी कलेव संसारतापतप्तानां शान्तिविवेकप्ररोहायेयं दृष्टिरित्यर्थः || ९ || अहो नु सुचिरेणाद्य ज्ञातं ज्ञातव्यमक्षतम् | मया यथेदं यच्चेदं यादृग् ज्ञेयं यतो यदा || १० || पञ्चभिर्यद्वृत्तैः क्रमात्प्रकारस्वरूपदृष्टान्तप्रमाणकालास्तत्त्वबोधोचिताः कीर्त्यन्ते | यादृग्भिर्दृष्टान्तैरधिकारिभिर्वा ज्ञेयम् || १० || शाम्यामीव द्विजश्रेष्ठ निर्वामीव विकल्पयन् | एतदाख्यानमाश्चर्यं व्याख्यानं शास्त्रदृष्टिषु || ११ || विकल्पयन् जगत्तत्त्वं विचारयन् | उपाधिशान्त्या शाम्यामिव | नित्यनिर्वाणस्वरूपावाप्त्या निर्वामीव शास्त्राणि श्रुतयस्तत्प्रदर्शितासु दृष्टिषु ज्ञानेषु | व्याख्यानमुपबृंहणभूतम् || ११ || प्. २७८) १७२ इमं मे भगवन्ब्रूहि संशयं सर्वकोविद | तव पातुं न तृप्तोऽस्मि श्रोत्रपात्रैर्वचोमृतम् || १२ || इमं वक्ष्यमाणम् || १२ || स सर्गत्रितये कालो लीलाभर्तुर्हि योगतः | स क्वचित्किमहोरात्रः क्वचित्किं मासमात्रकः || १३ || स प्रागुक्तः सर्गत्रितये वासिष्ठपाद्मवैदूरथसर्गेषु यः कालो गतः स क्वचिद्गिरिग्रामे अहोरात्राष्टकात्मकः प्रागुक्तः पाद्मसर्गे तु मासमात्रको वैदूरथे तु बहुवर्षात्मक इति ब्रह्माण्डभेदः || १३ || क्वचित्किं बहुवर्षाणि कस्यचित्किमु पेलवः | कस्यचित्किं महादीर्घः कस्यचित्किं क्षणः स्थितः || १४ || एकस्मिन्नपि ब्रह्माण्डे मनुष्याणां संवत्सरो देवानां दिनमिति पेलवः | कस्यचित्क्षुद्रजन्तोः स एव महादीर्घः | कस्यचित्स्वयंभुवः क्षण इति एक एव कालो देशलोकादिभेदेन विरुद्धरूपः किं स्थितः | अर्थसत्तैकरूप्ये प्रतीतिवैषम्यं कथमित्याशयः | इति इमं संशयं मे ब्रूहीति संबन्धः || १४ || इति मे भगवन्ब्रूहि त्वं यथावदनुग्रहात् | सकृच्छ्रुतं न विश्रान्तिमेति लोष्टे यथा जलम् || १५ || ननु देशदैर्घ्यं यथा नास्ति कालदैर्घ्य तथैव हि इति प्रागेवास्योत्तरमुक्तप्रायं तत् किं पुनः पृच्छसि तत्राह - सकृदिति | लोष्टे शुष्कमृत्पिण्डे | जलं जलबिन्दुः || १५ || श्रीवसिष्ठ उवाच | येन येन यथा यद्यद्यदा संवेद्यतेऽनघ | तेन तेन तथा तत्तत्तदा समनुभूयते || १६ || यद्यर्थसत्तनुसारिणी प्रतीतिः स्यात्तदा स्यादयं विरोधः प्रतीत्यनुसारिण्यां त्वनिर्वचनीयार्थसत्तायां प्रतिद्रष्ट्रर्थभेदान्न कालवैषम्यं दोष इत्याशयेनोत्तरमाह - येन येनेति || १६ || अमृतत्वं विषं याति सदैवामृतवेदनात् | शत्रुर्मित्रत्वमायाति मित्रसंवित्तिवेदनात् || १७ || तदेवोदाहरति - अमृतत्वमित्यादिना | अमृतत्वं अमृतवज्जिवनहेतुत्वम् | अमृतवेदनाज्जीवनसाधनत्ववेदनात् | तथाहि | तादृशदृढसंवेदनाविषकृमयो विषेणैव जीवन्ति | कथं तर्हि प्रमादाद्भोज्यबुद्ध्या विषं भुक्तवता मरणदर्शनमिति चेत्कृमिवत्तेषां विषे चिराभ्यस्तजीवनहेतुतादृढसंवेदनाभावाद्विषे मरणहेतुतानिश्चयसंस्कारसत्त्वाच्चेति || १७ || यथा भावितमेतेषां पदार्थानां निजं वपुः | तदेव हि चिराभ्यासान्नियतेर्वशमायतम् || १८ || एतदेव स्पष्टयति - तदेव हीति | तथाच नियतिवशीकारपर्यन्तचिराभ्यस्तसंवेदनानुसारिणी पदार्थेष्वर्थक्रिया नियतिरिति भावः || १८ || कचनैकात्मिकैषा चिद्यथा कचति यादृशम् | तथा तथाशु भवति तत्स्वभावैककारणात् || १९ || किंच संविदः स्फुरणं स्वभावः अर्थविशेषाकारता तु तस्या द्रष्टृसंस्कारानुरोधिनी | तथा चैकस्यामेव संविदि कस्यचित्संस्कारानुसारेण निमेषारोपः कस्यचित्कल्पाद्यारोपश्च न विरुध्यत इत्याह - कचनैकेति त्रिभिः || १९ || निमेषे यदि कल्पौघसंविदं परिविन्दति | निमेष एव तत्कल्पो भवत्यत्र न संशयः || २० || कल्पे यदि निमेषत्वं वेत्ति कल्पोऽप्यसौ ततः | निमेषीभवति क्षिप्रं तादृगूर्पात्मिका हि चित् || २१ || दुःखितस्य निशा कल्पः सुखितस्यैव च क्षणः | क्षणः स्वप्ने भवेत्कल्पः कल्पश्च भवति क्षणः || २२ || लोकेऽप्ययं प्रकारः प्रसिद्ध एवेत्याह - दुःखितस्येति || २२ || यथा च मृत्वा जातोऽहं तरुणो यौवनस्थितः | यातोऽस्मि योजनशतं स्वप्न इत्यनुभूयते || २३ || इति स्वप्नोऽनुभूयते कैश्चिदिति शेषः || २३ || रात्रिं द्वादशवर्षाणि हरिश्चन्द्रोऽनुभूतवान् | लवणो भुक्तवानायुरेकरात्र्या समाः शतम् || २४ || तदेवोदाहरति - हरिश्चन्द्र इति | प्रसिद्धं चेदं मार्कण्डेयपुराणादौ लवणो राजा | इदं चाग्रे वक्ष्यति || २४ || यन्मुहूर्तः प्रजेशस्य स मनोर्जीवितं मुनेः | जीवितं यद्विरिञ्चस्य तद्दिनं किल चक्रिणः || २५ || मनोर्यज्जीवितमायुः स मुनेरात्ममननशीलस्य प्रजेशस्य मुहूर्तः मुनेरित्युत्तरेऽपि संबध्यते || २५ || विष्णोर्यज्जीवितं राम रद्वृषाङ्कस्य वासरः | ध्यानप्रक्षीणचित्तस्य न दिनानि न रात्रयः || २६ || निर्विकल्पसमाधौ तु दिनरात्रिभेद एव नास्तीत्याह - ध्यानेति || २६ || न पदार्था न च जगत्सत्यमात्मनि योगिनः | मधुरं कटुतामेति कटुभावेन चिन्तितम् || २७ || मधुरं प्रियं विषयजातम् | कटुतां अप्रियताम् | कतुभावेन वैराग्यवासनया || २७ || कटु चायाति माधुर्यं मधुरत्वेन चिन्तितम् | मित्रबुद्ध्या द्विषन्मित्रं रिपुबुद्ध्या रिपुः सुहृत् || २८ || कटु प्रागप्रियं इन्द्रियमनःप्राणनिरोधादिमाधुर्यमात्मसुखप्रसादेन प्रियतमताम् | विषयलम्पटतां द्विषद्गुरुशास्त्रादिमित्रबुद्ध्या आप्ततमत्वबुद्ध्या सेवितः सुहृत्परमाप्ततओ भवति | एवं प्राक्तनो विषयभोगसहायः सुहृन्मूढः स्वजनो रिपुबुद्ध्या पुरुषार्थविघातीति बुद्ध्या भावितस्तथैव भवतीति || २८ || भातीति महाबाहो यथासंवेदनं जगत् | अनभ्यस्ताः पदार्था ये शास्त्रपाठजपादयः || २९ || उक्तं न्यायं जपोपासनश्राणादिष्वपि दर्शयति - अनभ्यस्ता इति || २९ || तेषां संवेदनाभ्यासान्नूनमभ्येति साम्यता | नौयायिनां भ्रमार्तानां वेदनाद्भूर्विवर्तते || ३० || सममेव साम्यं तद्भावः साम्यता अवैषम्यं स्वाधीनता अभ्येति प्राप्नोति | संपद्यत इति यावत् | भूर्विवर्तते चलति || ३० || अवेदनाभ्रमार्तानामपि नैषां विवर्तते | शून्यमाकीर्णतामेति वेदनात्स्वप्नदृक्ष्विव [स्वप्नदृष्टिवत् इति पाठः] || ३१ || वेदनाभ्रमार्तिशून्यानामेषां तीरस्थानां तु दृष्ट्या न विवर्तते || ३१ || प्. २७९) १७२ वेदनात्पीतमानीलं शुक्लं वाप्यनुभूयते | आपद्वदुत्सवः खेदं करोति परिमोहतः || ३२ || अनुभूयते नभः परिमोहत इति | तथाहि बालाः स्वोत्सवेष्वपि क्वचिद्रुदन्तो दृश्यन्ते || ३२ || कुड्येऽपि ख इवाचारो दृष्टो नन्वविचारिणः | असद्यक्षो विमूढानां प्राणानप्यपकर्षति || ३३ || मिथ्याभूतार्थानामर्थक्रियासामर्थ्यमपि लोकप्रसिद्धमित्याह - असद्यक्ष इत्यादिना || ३३ || वेदनात्स्वप्नवनिता जाग्रतीव रतिप्रदा | यद्यथाभासमायातं तत्तथा स्थिरतां गतम् || ३४ || असदेव नभश्चैव नभ एव चिदात्मनि | शतहस्ताम्बुदच्छायानटनृत्तमिवाततम् || ३५ || असदेवेति | नास्त्येवेत्यर्थः | तर्हि किमलीकं नेत्याह - नभश्चैवेति | कार्यस्य कारणमात्रत्वादव्याकृताकाशमेवेत्यर्थः | तथाच तन्नभ एव स्वाधिष्ठानचिदात्मनि शतहस्तस्य अम्बुदच्छायाकल्पितमिथ्यानटस्य नृत्तमभिनयविशेष इव जगद्वैचित्र्यभावेनाततं विस्तीर्णमिति कलितमित्यर्थः || ३५ || गगने [मूले गमने इति पाठः टीकायां च गगने इति भूलाननुगुणः प्रतीको मुद्रितपुस्तके लभ्यते] मानसं स्पन्दं जगद्विद्धि न वस्तु तत् | मिथ्याज्ञानपिशाचस्य स्पन्ददर्शनमाकृति || ३६ || सर्वमनःसमष्टिव्यष्टिकार्यत्वादपि तस्यासत्यतैवेत्याशयेनाह - गगने इति | बालस्य मिथ्याज्ञानकलिप्तपिशाचस्य यत्स्पन्ददर्शनं तन्मा तदुपमा मनोमात्राकृतिर्यस्य तत् || ३६ || मायामात्रकमेवेदमरोधकमभित्तिमत् | इदं भास्वरमाभातं स्वप्नसंदर्शनं स्थितम् || ३७ || वास्तवमूर्तत्वाभावात्स्वयमन्यस्यारोधकं अभित्तिमत्स्वरोधकवस्त्वन्तरशून्यं च भास्वरं स्फुटमाभातमिदं जगत् असुप्तस्य नरस्यापूर्वमेवोदितं स्वप्नसंदर्शनं विदुस्तत्त्वविद इति परेणान्वयः || ३७ || अपूर्वमेवासुप्तस्य नरस्येवोदितं विदुः | अचेता चेतति स्तम्भो यादृशं शालभञ्जिकाम् || ३८ || अचेता स्वस्फुरणानुकुल्लस्वव्यापारशून्यश्चेतति स्वात्मनि प्रथयति शालभञ्जिकां प्रतिमारूपम् | स्वयं यादृशो यादृशं यादृक्स्वरूपां सृष्टिं चेतति सर्गकाले पश्यति परमार्थमहास्तम्भः सर्वाधिष्ठानचिदात्मापि तादृशो भूत्वा तादृशीं सृष्टिं सर्गकाले पश्यतीत्यर्थः || ३८ || परमार्थमहास्तम्भः सृष्टिं चेतति तादृशम् | यादृशो मे नरः पार्श्वे स्वप्ने क्षुब्धो महाभटैः || ३९ || स्वप्ने मे मम पार्श्वे महाभटैः क्षुब्धः क्षोभितो नरो बुद्धोऽपि सुषुप्तवदज्ञानमात्रस्वभावो न वस्तुसन् ब्रह्मणः सर्गोऽपि तादृश एवेति परेणान्वयः || ३९ || तादृशो ब्रह्मणः स्वर्गो बुद्ध एव सुषुप्तवत् | तृणगुल्मलतायुक्तः शिशिरान्ते यथा रसः || ४० || शिशिरस्यान्ते वृक्षादीनां पत्रशातनकाले वासन्तः अग्रे वसन्ते पल्लवपुष्पाद्यात्मना आविर्भविष्यंस्तृणगुल्पलतायुक्तो रसो भूमौ उपादाने यथा संस्थितस्तथेत्यर्थः || ४० || वासन्तः संस्थितो भूमौ तथा सर्गः परे पदे | यथा द्रवत्वं कनके स्थितमन्तरनुन्मिषत् || ४१ || तथा स्थितः परे सर्ग आत्मवर्गादणावणौ | संनिवेशो यथाङ्गानामङ्गिनोऽनन्य आत्मनः || ४२ || आत्मवर्गाज्जीवसंघान्निमित्तादणावणौ तद्भोग्यः सर्गः परे स्थितः अस्ति भविष्यति चेत्यर्थः | अङ्गानामचयवानां संनिवेशः संस्थानभेदः अङ्गिन आत्मनः स्वस्मादनन्यः अव्यतिरेकतः | अपृथक्सत्ताक इति यावत् || ४२ || जगदेवमनङ्गस्य स्वात्मनो ब्रह्मणस्तथा | यादृगेकनरः स्वप्ने युद्धमन्यं नरं प्रति || ४३ || तथा जगत्स्वात्माभिन्नब्रह्मणः सकाशात् एवं अव्यतिरेकत इत्यर्थः | समसत्ताकत्ववारणायानङ्गस्येत्युक्तिः | एकस्य नरस्य स्वप्ने अन्येन नरेण सह युद्धं तत्काले तं प्रति सद्रूपमन्यं प्रत्यसद्रूपमपि द्रष्टुः स्वात्मैव तथेदं मायाव्योमगं जगदपि मायिकदृष्ट्या सदपि तदन्यशुद्धदृष्ट्या असदेवेत्यर्थः || ४३ || तादृशं सदसद्रूपं स्वात्मेदं व्योमगं जगत् | महाकल्पान्तसर्गादौ चित्स्वभावमिदं जगत् [वपुः इति पाठः] || ४४ || आद्यन्तकालयोः सद्ब्रह्ममात्राभावेन परिशेषादपि तन्मात्रस्वभावतेत्याह - महाकल्पान्तेति || ४४ || कारणत्वं मिथः पश्चादसदेति न वास्तवम् | मुक्तेऽस्मिन्ब्रह्मणि यदि ब्रह्मान्यः स्मृतिजो भवेत् | तत्स्मृतिज्ञप्तिजे सर्गे स्थितैव ज्ञप्तिमात्रता || ४५ || कारणत्वं कार्यविभागे सति मिथस्तत्सापेक्षकारणत्वकल्पनम् | सर्वजगदाकारपरिणतपूर्वपूर्वहिरण्यगर्भाहंभावकल्पनात्मकोपासनस ंस्कारजन्यस्मृतिकल्पितत्वादपि जगतोऽधिष्ठानसन्मात्रानतिरिक्ततेत्याह - मुक्ते इति || ४५ || श्रीराम उवाच | पौराणां मन्त्रिमुख्यानां विदूरथकुलक्रमः | सममेव कथं तत्र सर्वेषां प्रतिभासितः || ४६ || ब्रह्माण्डान्तरस्थानामिवैकनगरस्थानामपि प्राणिनां प्रत्येकं वासनाकर्मादिवैचित्र्यात्स्वप्न इव जागरेऽपि क्रमवैचित्र्याद्यारोपः किं न स्यादित्याशयेन रामः पृच्छति - पौराणामिति | समं एकरूपमेव यथा स्यात्तथा कथं प्रतिभासितो भातः | तत्र को हेतुरित्यर्थः || ४६ || श्रीवसिष्ठ उवाच | चितः समनुवर्तन्ते मुख्यायाः सर्वसंविदः | यथा विपुलवात्यायाः सामान्या वातलेखिकाः || ४७ || स्रष्टृसंकल्पकृता इतरजीवसंविदां प्रधानजीवसंविदनुवृत्तिनियतिरेव तत्र हेतुरित्याशयेन वसिष्ठ उवाच - चित इत्यादिना | सामान्या अल्पाः || ४७ || प्. २८०) १७३ परस्परानुसारेण तथारूपेण संविदः | कचितास्ताः प्रजापालप्रजावास्तव्यमन्त्रिणः || ४८ || तदनुरूपफलोन्मुखभोजकादृष्टमेलनं च तत्र हेतुरित्याशयेनाह - परस्परेति | तथा ऐकरूप्येण रूपयति संपादयतीति तथारूपमदृष्टजातं तेन प्रजापालश्च प्रजाश्च वास्तव्याः पुरवासिनश्च मन्त्रिणश्च परस्परानुसारेण कचिताः || ४८ || एवंरूपात्कुलाज्जातो राजास्माकमयं त्वसौ | कचिता इएव वास्तव्यविदो वैदूरथे पुरे || ४९ || कचने वैचित्र्यं प्रपञ्चयंस्तस्य मिथ्यात्वमाह - एवंरूपादिति | वैदूरथे पुरे वास्तुषु वेश्मभूमिषु भवा वास्तव्याः पदार्थास्तद्विदस्तदुपभोगिनो जना इति कचिता इव || ४९ || कचने चित्स्वभावस्य न च कारणमार्गणम् | युक्तं महामणेर्भासामिवान्यत्र स्वभावतः || ५० || ननूदासीनायाः संविदोऽध्यस्तविषयप्रथालक्षणे कचने को हेतुरितिचेन्नात्र हेतुचिन्ता युक्ता कचनस्यागन्तुकत्वादतोऽन्यत्र आगन्तुकविषयेष्वेव सा युक्ता | यथा उदासीनस्य चिन्तामणेर्भासां प्रसरे न हेत्वन्तरापेक्षा किंतु विचित्रार्थजनने चिन्तकजनमनोरथवैचित्र्यापेक्षा तद्वदित्याह - कचने इति || ५० || अहमेवं कुलाचारे राजा स्यामेवमित्यपि | विदूरथविदो रत्नादुदिता प्रतिभा यथा || ५१ || प्राक्तदनुकूलसंकल्पवैचित्र्योत्पत्तिरपि यथोक्तरीत्यैवेत्याह - अहमिति | विदूरथस्य विदो जीवचैतन्यान्निमित्तात् | तथाच चिन्तामणिरिव | चिन्मणिरपि यथामनोरथमेवार्थान् प्रसूते इति दर्शयति - रत्नादिति | प्रतिभा मनोरथः || ५१ || यावन्तो जन्तवो यस्मिन्ये ये सर्गे यदा यदा | ते सर्वगत्वाच्चिद्धातोरन्योन्यादर्शतां [सर्गगत्वात् इति पाठः] गताः || ५२ || अनेकेषु जीवचैतन्येषु तुल्यविषयारोपक्रमेण दर्पणानां परस्परान्तर्गतप्रतिबिम्बग्राहित्वमिव संपन्नमित्याह - यावन्त इति || ५२ || तीव्रवेगवती या स्यात्तत्र संविदकम्पिता | सैवायाति परं स्थैर्यमामोक्षं त्वेकरूपिणी || ५३ || नन्वेवं सति सतिबिम्बे प्रतिबिम्बोदयस्यावर्जनीयत्वात्कथं निर्विषयतालक्षणमोक्षप्राप्तिरित्याशङ्क्याह - तीव्रवेगवतीति | तत्र तासु जीवसंवित्सु मध्ये यैव जीवसंविद्ब्रह्माकारवृत्तिस्तीव्रवेगवती विषयदोषैरकम्पिता सती आमोक्षमेकरूपिणी भवति सैव परं सर्वोत्कृष्टं ब्रह्मभावेन स्थैर्यं मोक्षलक्षणमायाति नान्येत्यर्थः || ५३ || बलवच्चिद्विलासानामनुवृत्त्या परस्परम् | स्वभावाः प्रतिबिम्बन्ति चिदादर्शे स्वभावतः || ५४ || तां तथाच जगदाकारस्य ब्रह्माकारस्य वा जीवचितिप्रतिबिम्बने तीव्रवेगवत्तालक्षणबलवत्तत्तदाकारचिद्विलासा एव नियामकस्तथैव नियतिस्वभावत इत्याह - बलवदिति || ५४ || तत्रातियत्नाज्जयति सत्याः संविदः आत्मसात् | कुर्वन्ति सरिदम्भोधिगामिनी सरितो यथा || ५५ || नन्वेवं सति जगदुन्मुखत्वस्य चिराभ्यस्तत्वात्तत्रैव तीव्रवेगोदये न मोक्षं प्रत्याशेत्याशङ्क्याह - तत्रेति | अयत्नजवेगाद्यत्नजवेगस्य प्राबल्यदर्शनादतियत्नात्संपादितो ब्रह्माकारवेग एव जयति जगदाकारचिद्विलासवेगम् | किंच सत्यासत्यगोचरसंविदोः सत्यगोचराणां प्राबल्यदर्शनात्सत्या ब्रह्माकारसंविद एवैनमात्मसात् आत्माधीनं कुर्वन्ति | यथा अम्भोधिगामिनी महासरित्स्वमिलिताः क्षुद्रसरितः स्वाधीनवृत्तिः करोति तद्वदित्यर्थः || ५५ || ये समास्तत्र ते तावद्यतन्ते चित्स्वभावतः | यावदेको जयत्यत्र द्वितीयः स निमज्जति || ५६ || अस्तु ब्रह्माकारतायास्तीव्रवेगत्वे जयो यदा तु मन्दमध्यमाधिकाराच्चित्ताप्रतिष्ठितेर्विच्छिद्य विच्छिद्य ब्रह्माकारतोदयो बाह्याकारतोदयश्च तदा समत्वान्नैकतरजयं प्रत्याशेत्याशङ्क्याह - ये इति | येऽधिकारिण उक्तोभयाकारे समाः समवेगास्ते न तथैवावतिष्ठन्ते किंतु अत्र उक्ताकारद्वयमध्ये यावदेको ब्रह्माकारः प्रतिष्ठितः सन् जयति उत्कर्षकाष्ठां गच्छति द्वितीयः स बाह्याकारश्च निमज्जति तावद्यतन्ते श्रवणाद्यावृत्तिलक्षणं यत्नं कुर्वन्ति | तथा च तेषामप्यभ्यासक्रमात्तीव्रवेगोदयेनेतरजयसिद्धिरित्यर्थः || ५६ || जायमानेषु नश्यत्सु वर्तमानेषु भूरिशः | एवं सर्गसहस्रेषु परमाणुकणं प्रति || ५७ || एवं प्रासङ्गिकानिर्मोक्षप्रसङ्गनिरासमुपपाद्य प्रस्तुतं प्रतिजीवं समविषमसर्ववैचित्र्यमेवावलम्ब्याह - जायमानेष्वित्यादिना | औपाधिकपरिच्छेदारोपात्परमाणुकणं जीवजातं प्रति एवं उक्तप्रकारेषु समविषमेषु सर्गसहस्रेषु भ्रान्त्या जायमानेषु वर्तमानेषु नश्यत्सु च परमार्थतो न किंचित्केनचिज्जिवकणेन धावतापि प्राप्तं केनचिदुदासीनेनापि स्थितं न प्राप्तम् | अवस्तुनः प्राप्त्यप्राप्त्युभयायोग्यत्वादित्यर्थः || ५७ || न किंचित्केनचिद्ध्याप्तं [केनचिद्व्याप्तं इति क्वाचित्कः पाठः] न किंचित्केनचित्स्थितम् | चिदाकाशमिदं शान्तमतः सर्वमभित्तिमत् || ५८ || अयमाभासते स्वप्नो निर्निद्रो दृष्टिवर्जितः | अवश्यंभाविबोधस्तु स्वनुभूतोऽप्यसन्मयः || ५९ || दृष्टिवर्जितो विवेकदृष्टिशून्यः | अवश्यंभावी बोधः अधिष्ठान्त्मसाक्षात्कारो यस्य तथाविधस्तु सन् प्रागनुभूतोऽप्यसन्मयोऽलीकसदृशः || ५९ || पत्रपुष्पफलांशात्मा यथैकः स्वास्थितो द्रुमः | अनन्तसर्वशक्त्यात्मा ह्येक एव तथा विभुः || ६० || शुद्धदृष्ट्या प्रपञ्चस्यापृथक्सत्त्वमुक्त्वा मायाशबलदृशाप्याह - पत्रेति || ६० || मातृमेयप्रमाणादिमायात्मकमजं पदम् | बुद्धं विस्मृतिमायाति न कदाचन कस्यचित् || ६१ || जीवदृशापि आबोधं भिन्नरूपमपि बोधे पुनर्विस्मृतिहेत्वज्ञानाभावादेकमेवावतिष्ठत इत्याह - मात्रिति || ६१ || शून्योदयास्तमयवस्तु तमःप्रकाशं दिक्कालरूप्यपि सदैकमनादिशुद्धम् | आद्यन्तमध्यरहितं स्थितमच्छमम्बु सौम्यत्ववीचिवलनाढ्यमिवैकमेव || ६२ || मायावभासकत्वप्रयुक्ते नानात्वेऽपि शुद्धस्य न वास्तवैकरूप्यस्थितिविरोध इत्याशयेनोपसंहरति - शून्येति | तमः प्रकाशयति साक्षिभावेनेति तमः प्रकाशं तथाविधं सत् | दिक्कालरूप्यपि परमार्थतः सदा शुद्धम् | शून्यौ सर्वविकारोदयास्तमयौ यत्र तथाविधमात्मवस्तु आद्यन्तमध्यरहितं सदेकमेव स्थितम् | यथा अच्छं निर्मलमम्बु सौम्यत्वाढ्यं वीचिवलनाढ्यं वा अम्बुस्वरूपैकरूप्यादेकमेव तद्वदित्यर्थः || ६२ || प्. २८१) १७३ अहंत्वमित्यादिजगत्स्वरूपा विशुद्धबोधैकविभा विभाति आकाशकोशे निजशून्यतेव द्वैतैक्यसंकल्पविकल्पनाच्च || ६३ || विशुद्धबोधैकरूपस्य ब्रह्मणः स्वरूपभूता विभा प्रकाश एव द्वैतैक्यगोचरसंकल्पविकल्पनरूपान्मनसो निमित्ताच्चकारात्तन्मूलभूताविद्याकामकर्मवासनादिवशाच्चाहंममेत्याद्य अध्यस्तजगत्स्वरूपा विभाति | यथा आकाशलक्षणे कोशे निजा शून्यतैव तलमालिन्यमौक्तिककेशोण्ड्रककटाहाद्याकारतया भाति तद्वदित्यर्थः || ६३ || इत्यार्षे श्रीवासिस्.ठमहारामायणे वाल्मीकीये मोक्षोपायेषूत्पत्तिप्रकरणे लीलो० प्रयोजनवर्णनं नाम षष्ठितमः सर्गः || ६० || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पतीप्रकरणे प्रयोजनवर्णनं नाम षष्टितमः सर्गः || ६० || एकषष्टितमः सर्गः ६१ श्रीराम उवाच | अहं जगदिति भ्रान्तिः परस्मात्कारणं विना | यथोदेति तथा ब्रह्मन्भूयः कथय साधु मे || १ || प्रयोजनप्रसिद्ध्यर्थं वैराग्यार्थं च संसृतेः | असारत्वमसत्त्वं च युक्तिभेदेन वर्ण्यते || १ || अनहंभूतदेहादौ अहंभावकारणं विनाप्यहमिति भ्रान्तिः परमाणुक्षणोदरे वैपुल्यचिरभावलक्षणजगत्संनिवेशकारणं विनापि जगदिति भ्रान्तिर्यथा यादृशकल्पनाक्रमेण यादृशोपपत्त्या चोदेति तथा कथयेत्यर्थः | ननु महाकल्पान्तसर्गादौ चित्स्वभावमिदं वपुः इत्यादिना प्राक्कथितमेवेदं कथं पुनः पृच्छ्यते तत्राह - भूय इति | साधु याभिरुपपत्तिभिरनुभवमारोहति तादृशोपपत्तिपरिष्कृतं यथा स्यात्तथा कथयेत्यर्थः || १ || श्रीवसिष्ठ उवाच | समस्ताः समतैवान्ताः संविदो बुध्यते यतः | सर्वथा सर्वदा सर्वं सर्वात्मकमजस्ततः || २ || तत्र सर्वभ्रान्तीनां संविदन्तःप्रथमानत्वमेव मुख्योपपतीरिति प्रथमं श्रीवसिष्ठ उवाच - समस्ता इति | यतः असौ बोद्धा सर्वथा सर्वप्रकाराः समस्ताः भ्रान्तीः संविदः स्वरूपचैतन्यस्यैव आन्ता अन्तर्निविष्टाः सर्वदा बुध्यते न कदाचिदपि काश्चिदपि तद्बहिर्भूताः ततः सर्वं सर्वात्मकं सा च समतैव | न हि सर्वस्य सर्वात्मकत्वे वैषम्यं परिशिष्यते | न हि तदभावे जन्मादिविक्रिया उपपद्यन्त इत्यजः परमात्मैव वस्तुतोऽस्तीति जगद्भ्रान्तिः कारणं विनैवेति यदुक्तं तदुपपन्नमित्यर्थः || २ || सर्वा हि शब्दार्थदृशो ब्रह्मैवैताः पृथङ्ग तत् | सर्वार्थशब्दार्थकलारूपमासां न विद्यते || ३ || ननु चैतन्यान्तर्बुध्यमानत्वमात्रेण कथं सर्वस्य सर्वात्मतासिद्धिः | एकचित्तादात्म्यस्फुरणादिति चेन्न | विभिन्नविषयतादात्म्याद्घटज्ञानं पटज्ञानमिति चितोऽपि भेदानुभवेन भिन्नत्वादित्याशङ्क्याह - सर्वा हीति | न चितो भेदो यतः सर्वाः शब्दानामर्थानां च दृशो बोधा ब्रह्मैव | नहि ब्रह्मातिरिक्तचिद्धातुरस्ति | विषयभेदोपरागाद्धि चिति भेदो विभाव्यते विषयनिष्कर्षे तु तच्चिद्रूपान्न पृथक् | न भिद्यत इत्यर्थः | ननु विषयाकारतानुभवाद्विषयवद्भेदः किं स्यात्तत्राह - सर्वार्थेति | सर्वे ये अर्थ्यन्त इत्यर्था विषयभूताः शब्दार्थास्तत्कलास्तदंशभूतं यत्पृथुबुध्नोदराकाररूपं तदासां दृशां न विद्यते | चिति जडाकारसत्त्वे उपपत्त्यभावात् | यस्त्वनुभूयते आकारः स वृत्तेरेवेति भावः || ३ || कटकत्वं पृथग्घेम्नस्तरङ्गत्वं पृथग्जलात् | यथा न संभवत्येवं न जगत्पृथगीश्वरात् || ४ || एवं चिद्भेदे निरस्ते जडभेदोऽपि तदपृथक्सत्तस्फूर्तिकत्वान्निरसितुं शक्य इति सदृष्टान्तमाह - कटकत्वमिति || ४ || एष एव जगद्रूपं जगद्रूपं तु नेश्वरे | हेमैव कटकादित्वं कटकत्वं न हेमनि || ५ || तथापि कथं कारणं विनोत्पन्नमित्युक्तेरुपपत्तिश्चित एव कनकवत्कारणत्वात्तत्राह - एष एवेति | सति हि जगतस्तस्माद्भेदे तत्प्रति कारणता स्यादत्यन्ताभेदे तु चितो न कारणत्वमित्यर्थः | तर्हि किं जगद्रूपमेव ब्रह्म नेत्याह - जगद्रूपं त्विति | नहि विवर्तः पृथक् सन्नित्याशयः | एवं च कटककुण्डलादयोऽपि हेमात्मकब्रह्मविवर्ता एवेत्याशयेनाह - हेमैवेति || ५ || यथावयविनो रूपमनेकावयवात्मकम् | तथाऽनवयवायास्तु चितः सर्वात्मकं च यत् | ६ || नन्वेकस्यानेकात्मताविरोध इत्याशङ्क्य यत्र समसत्ताकैरप्यनेकैरवयवैरेकस्यावयविनः समसत्ताकं तादात्म्यं लोके न विरुद्धं तत्र किं वाच्यं कल्पितैरनेकैर्वास्तवं ब्रह्मैक्यमविरुद्धमितीत्याशयेनाह - यथेति | किंचैकात्म्ये सर्वस्य सर्वात्मतालाभादनेकत्वापगमादप्यविरोध इत्याशयेनाह - सर्वात्मकं चेति || ६ || यत्तुल्यकालमखिलं तन्मात्रावेदनं परे | अन्तस्थं तदिदं भाति जगदित्यहमित्यपि || ७ || किं तर्हि सर्वानुभवसिद्धं जगदित्यहमिति च नानात्वं तत्राह - यदिति | परे ब्रह्मणि सर्वप्राणिनामन्तस्थं तुल्यकालं यद्ब्रह्ममात्रस्वरूपस्यावेदनमज्ञानं तदेव जगदित्यहमिति नानात्वेन भातीत्यर्थः || ७ || प्. २८२) १७४ लेखौघानां यथा भेदसंनिवेशः शिलोदरे | तथानन्यज्जगदहं चेत्यन्तश्चिद्घने घनम् || ८ || लेखा राजयः यथा स्फटिकशिलोदरे अभेदेऽपि वनलेखौघानां प्रतिबिम्बानां संनिवेशोऽविरुद्धस्तद्वदत्रापीत्याह - लेखौघानामिति || ८ || स्थितास्तरङ्गाः सलिले यथान्तरतरङ्गिते | सृष्टिशब्दार्थरहितास्तथान्तः सृष्टयः परे || ९ || न सर्गे तिष्ठति परं सर्गस्तिष्ठति नो परे | अवयवावयविवत्सत्तानवयवैस्तयोः || १० || ननु लीनास्तरङ्गा यथा महाजले अवयवभावेन तिष्ठन्ति अवयवी वा समवायेनावयवेषु तिष्ठति किं तद्वद्ब्रह्मणि जगत्स्थितिर्नेत्याह - नेति | वस्तुतस्तु अवयवावयविनोरप्यन्योन्याधारता नोपपत्तिमतीत्याह - सत्तेति | तथाहि | अवयवेषु तिष्ठन्नवयवी किं प्रत्यवयवं कार्त्स्न्येन तिष्ठत्युतावयवैः | आद्ये प्रत्यवयवमवयविनानात्वापत्तिः | गोः कर्णादिप्रदेशेऽपि कृत्स्ना गौरस्तीति दोहनादिकार्यापत्तिः | अवयवविश्लेषेऽप्यवयविनो जातिवन्नाशानापत्तिश्च | द्वितीये तु अनवस्थया अनन्तावयवत्वे मेरुसर्षपयोस्तुल्यपरिमाणापत्तिः | एवमवयवा अप्यवयविनि किमेकदेशे तिष्ठेयुरुत कृत्स्ने | आद्येऽनवस्था | द्वितीये अवयवान्तरस्यासमावेशादद्वयस्यावयवत्वायोगात्सर्वद्रव्याणां निरवयवत्वापत्तिरिति तयोरवयवावयविनोरनवयवैरेव सत्ता पर्यवस्यतीत्यर्थः || १० || चिद्रूपेण स्वसंवित्त्या स्वचिन्मात्रं विभाव्यते | स्वमेव रूपहृदयं वातेन स्पन्दनं यथा || ११ || दृष्टसृष्ट्युपपादनक्रमेणापि जगतश्चिदनन्यत्वमनुभावयिष्यन् निष्क्रियस्यापि चैतन्यस्याविद्यान्तःप्रतिफलनेनान्यथा स्वविभावनं प्रथममाह - चिद्रूपेणेति | परमार्थचिद्रूपेण ब्रह्मणा प्रथममविद्याप्रतिफलितया दर्पणप्रतिहतनयनेन मुखमिव स्वसंवित्त्या स्वचिन्मात्ररूपात्मकप्रपञ्चस्य हृदयं रहस्यभूतमज्ञानावृतं स्वमेव विभाव्यते कल्प्यते | एवकारः प्राक्तनपारमार्थिकस्वरूपविस्मरणद्योतनार्थः || ११ || तत्कालमेष शब्दाणुश्चिच्चमत्काररूपधृक् | चेतते स्वमिवैवान्तः संकल्प इव चेतसा || १२ || तदानीमेव कारणे लीनस्य शब्दतन्मात्रस्याकाशात्मना आविर्भाव इत्याह - तत्कालमिति | शब्दाणुः शब्दतन्मात्रम् | चिच्चमत्कारः सर्वशक्तिमन्मायासंवलनं तद्रूपधृक् ब्रह्म खं चिद्रूपमिव चेत्यते सैवाकाशोत्पत्तिरिति भावः || १२ || तदेवानिलतां वेत्ति निजसत्तात्मिकां स्वयम् | अन्तर्गतस्पर्शरसां पवनस्पन्दतामिव || १३ || तदेवाकाशभूतं ब्रह्म अन्तर्गतस्पर्शरसां स्वान्तरुन्मिषितस्पर्शतन्मात्रसंस्कारां स्वयं स्वात्मन्यनिलतां वेत्ति अनुभवति | यथा स्थिरपवनः काले स्पन्दतामनुभवति तद्वत् || १३ || तदेवाभासतामेति निजसत्तात्मिकां स्वयम् | कोशस्थितालोकलवां तेजः प्रगटतामिव || १४ || तद्वायवात्मतापन्नं ब्रह्मैव | आभासतां तेजस्ताम् | कोशे गर्भे स्थित आलोकलवो रूपतन्मात्रं यस्यास्तथाविधाम् || १४ || तदेवं जलतां याति निजसत्तात्मिकां स्वयम् | अन्तःस्थितास्वादलवां सलिलं द्रवतामिव || १५ || तत्तेजोभूतं ब्रह्मैव | आस्वादलवो रसतन्मात्रम् || १५ || तदेदावनितां वेत्ति स्वचित्तैकात्मतामयीम् | अन्तःस्थगन्धतन्मात्रामुर्वी स्थैर्यकलामिव || १६ || तुल्यकालनिमेषांशलक्षभागप्रतीति यत् | निजं विदः प्रकचनं तत्सर्गौघपरम्परा || १७ || ननु चक्षुरुन्मेषक्षणे झटित्येव जगद्भानान्नात्रायमारोपक्रमो विभाव्यत इति कथं दृष्टसृष्ट्युपपत्तिस्तत्राह - तुल्यकालेति | ईदृशोऽयं चितश्चमत्कारो यत्तुल्ये तुलया संमिते इव दुर्लक्ष्ये इति यावत् | निमेषांशस्य लक्षतमभागे प्रतीतिर्यस्य तादृशमपि विदो जगदाकारप्रकचनं तत्कल्पकोटिविस्तृतकालानां सर्गौघानां परंपरा भवति | तथाच चित्कचने कालापरिच्छेद्यतत्तन्निमेषांशलक्षतमभागारोपः कल्पकोट्यारोपो वा मायिको न वस्तुतो विरुध्यत इति क्रमकल्पनोपपत्तिरित्यर्थः || १७ || शुद्धं सकृत्प्रभातान्तर्दृश्यमध्यमनामयम् | उदयास्तमयोन्मुक्तं ब्रह्म तिष्ठत्यनिष्ठितम् || १८ || यद्धि अशुद्धं जडं देशकालतः परिच्छिन्नं सदोषमाद्यन्तवत् काले निष्ठितं तत्कालेन परिच्छिद्यते ब्रह्म तु न तथेत्याह - शुद्धमिति | सकृत्प्रभातं न पुनःपुनर्विच्छिद्य प्रभातं नित्यस्वप्रकाशमिति यावत् | अन्तर्गता दृश्याः सर्गा मध्याः प्रलयाश्च यस्य तत् | अनिष्ठितं अनाधारम् || १८ || बुद्धं सदपवर्गं तत्ससर्गमपि सत्समम् | अबुद्धं सर्गरूपात्म विसर्गमपि तत्सदा || १९ || ननु यद्यन्तर्दृश्यमध्यं तत् तर्हि ससर्ग सप्रलयं वा नैकरूपापवर्गो भवितुमर्हति तत्राह - बुद्धं सदिति | सत् परमार्थसत्यम् | समं वैषम्यरहितम् | विसर्ग परमार्थतः सर्गशून्यमपि || १९ || चिद्ब्रह्म यद्यथा येन बुध्यते स्वात्मनात्मनि | तत्तत्तथा नु भवति सर्वं सर्वाङ्गशक्तिमत् || २० || यथा यथा बोद्धृभिर्बुध्यते तथा तथा तत्तत्प्रकारविशिष्टं तत्तद्ब्रह्म आत्मनि भवति तत्तदाकारं मायया धत्त इत्यर्थः | नु इति खल्वर्थे | यतः सर्वाङ्गशक्तिमत् सर्वानुगुणमायाशक्तिमदित्यर्थः || २० || तत्सत्यं चिद्विलासत्वान्नित्यानुभवरूपतः | तदसत्यं मनः षष्ठात्सर्वाख्या निगतं यतः || २१ || जगदपि शास्त्रीयचिद्विलासदृष्ट्या दृष्टं परमार्थसत्यं ब्रह्मैव | ब्रह्मापि बहिर्मुखचक्षुरादिमनःषष्ठजन्यदृष्ट्या दृष्टमनृतं जगदेवेत्याह - तत्सत्यमिति | सत्यस्य कुतोऽसत्यता तत्राह - सर्वाख्या इति | यतः सर्वाख्याः सर्वाणि नामानि नितरां गतं प्रापतम् | नहि वागगोचरस्य तद्गोचरं रूपं सत्यं भवितुमर्हतीत्यर्थः | सर्वार्थातिगतम् इति पाठे सर्वान् अर्थान् अतितरां गतं व्याप्तं तद्रूपापन्नं यत इत्यर्थः || २१ || यथैतत्सरणं वायौ तथा सर्गः स्थितः परे | असत्कल्पेऽपि संकल्पः सत्येऽसत्य इवापि च || २२ || यथा वायौ सरणं प्राक्सरणादसत्कल्पेऽपि आविर्भावात्सत्कल्पम् | सरणकाले वायोः सत्त्वावगमात्सत्ये स्थैर्यमात्रादसत्यमिव | तथा सर्गोऽपि असत्कल्पेऽपि मूलाज्ञाने अधिष्ठानसत्तया सत्कल्पः | सत्येऽप्यधिष्ठाने असत्यमायात्मकत्वादसत्य इवेत्यर्थः || २२ || प्. २८३) १७४ अन्यरूपा यथानन्या तेजस्यालोकतोदरे | तथा ब्रह्मणि विश्वश्रीः सत्यासत्यात्मिका चिति || २३ || तथाच दृष्टिभेदेन सत्यासत्यात्मत्वं विश्वस्येत्याह - अन्यरूपेति | आलोकता भास्वरता | अन्यरूपेण दृष्टा असत्या अनन्यरूपेण दृष्टा सत्या स्थितेत्यर्थः || २३ || अनुत्कीर्णा यथा पङ्के पुत्रिका चाथ दारुणि | यथा वर्णा मषीकल्के तथा सर्गाः स्थिताः परे || २४ || स्वप्नजाग्रदुपादानसौषुप्तात्मदृष्टान्तावाद्यौ विश्वसर्गोपादानब्रह्मदृष्टान्तस्तृतीयः || २४ || अनन्यान्येव कचति ब्रह्मतत्त्वमरुस्थले | असत्यात्मनि सत्येव त्रिजगन्मृगतृष्णिका || २५ || ब्रह्मणा चिन्मयेनात्मा सर्गात्मैव विभाव्यते | न भाव्यते चानन्यत्वाद्बीजेनान्तरिव द्रुमः || २६ || चिन्मयेन भ्रान्त्या चिदाभासलक्षणजीवभूतेन | तत्त्वदृशा तु परब्रह्मानन्यत्वान्न भाव्यते || २६ || यथा क्षीरस्य माधुर्यं तीक्ष्णत्वं मरिचस्य च | द्रवत्वं पयसश्चैव स्पन्दनं पवनस्य च || २७ || स्थितोऽनन्यो यथान्यः सन्नास्ति तत्र तथात्मनि | सर्गो निर्गलचिद्रूपः परमात्मात्मरूपभृत् || २८ || अनन्यः सन् स्थितः | अन्यः सन्नास्ति असन्नित्यर्थः | निर्गलीति निर्गलः प्रविलीनमात्रश्चिद्रूपः सन् परमात्ममात्रपरिशिष्टस्वरूपभृदित्यर्थः || २८ || कचनं ब्रह्मरत्नस्य जगदित्येव यत्स्थितम् | तदकारणकं यस्मात्तेन न व्यतिरिच्यते || २९ || अकारणोत्पन्नत्वमुपपादितमुपसंहरति - कचनमिति | यस्मात्तेन ब्रह्मणा न व्यतिरिच्यते तत्तस्मादकारणकमित्यर्थः || २९ || वासना चित्तजीवादिवेदनं वेदनोदितम् | नोदेत्यवेदनादेव यतनादेव पौरुषात् || ३० || यद्यकारणकं तर्ह्यजातमेवेति कथं तद्वेदनानुभवस्तत्राह - वासनेति | वासना चित्तजीवादेर्यद्वेदनमनुभवस्तद्वेद्यतेऽनेनेति वेदनं मनस्तस्मादुदितम् | कस्तर्हि तदनुदये उपायस्तमाह - नोदेतीति | अवेदनान्मनोनाशात् | तच्च कस्मात्तत्राह - यतनादेवेति | ज्ञानयोगदृढाभ्यासलक्षणात्पुरुषयत्नादित्यर्थः || ३० || नास्तमेति न चोदेति क्वचित्किंचित्कदाचन | सर्वं शान्तमजं ब्रह्म चिद्धनं सुशिलाघनम् || ३१ || कीदृशः स ज्ञानयोगस्तमभिनीयमाह - नास्तमेतीति || ३१ || पराणुं प्रति सर्गौघाश्चिताद्भ्रान्तिसहस्रशः | तेष्वप्यणावणावन्तः कैवात्रावासना कथम् || ३२ || सति चित्ते परमाणूदरेऽपि सर्गपरम्परा दुर्वारेत्याह - पराणुं प्रतीति | अत्र अण्वन्तः सर्गौघस्य आवसतिरावासना | ण्यन्ताद्भावे युच् | समावेशेन स्थितिः कैव कथं वा | न कापि न कथंचिदपि युक्तेति मिथ्यैवेत्यर्थः || ३२ || यथा जलान्त ऊर्म्याद्या गुप्तागुप्ताश्च शक्तयः | जाग्रत्स्वप्नसुषुप्ताद्यास्तथा जीवेऽन्तरास्थिताः || ३३ || अनिर्वचनीयमायाशक्तिरूपेणावस्थानं तु ऊर्म्यादिदृष्टान्तेऽपि सममित्याह - यथेति || ३३ || जाता चेदरतिर्जन्तोर्भोगान्प्रति मनागपि | तदसौ तावतैवोच्चैः पदं प्राप्त इति श्रुतिः || ३४ || तादृशपुरुषयत्ने च्द वैराग्यं हेतुरित्याशयेन श्रुतिमुदाहरति - जाता चेदिति | तथा अन्यापि | कामान्यः कामयते मन्यमानः स कामभिर्जायते तत्र तत्र | पर्याप्तकामस्य कृतात्मनश्च इहैव सर्वे प्रविलीयन्ति कामाः इति || ३४ || यतो यतो विरज्यते ततस्ततो विमुच्यते | अतोऽहमित्यसंविदन्क एति जन्मसंविदम् || ३५ || स्मृतिमप्युदाहरति - यत इति | निवर्तनाद्धि सर्वतो न वेत्ति दुःखमण्वपि इति स्मृतिशेषो बोध्यः | अतो ज्ञानवैराग्यदार्ढ्यादहमिति देहादिकमसंविदन्न पश्यन् को जन्मसंविदं जननमरणभ्रान्तिमेति प्राप्नोति | न कश्चिदित्यर्थः || ३५ || चितिं परापरामजामरूपिकामनामिकाम् | चराचराऽधरामयीं विदन्ति ये जयन्ति ते || ३६ || तदेव ज्ञानं तत्त्वंपदार्थाखण्डैक्यगोचरं दर्शयति -चितिमिति | परामीश्वरचैतन्यात्मिकामपरां जीवचैतन्यात्मिकां च चितिं क्राम्त्परामनामिकामरूपिकां नामरूपात्मकजगत्कल्पनोपाधिशून्यामपरां तु चराचरदेहादिलक्षणां ये अधरा निकृष्टोपाधयस्तन्मयताशून्याम् | मयडंतेन नञ्समासे अचराचराधरमयीमिति वक्तव्ये नञो मयटः प्राङ्निवेशश्छान्दसः | तथाच शोधितत्वंपदलक्ष्यार्थभूतामजां जन्मादिविकारशून्यां चितिमखण्डां ये गुरुशास्त्रस्वानुभवैर्विदन्ति ते जयन्ति संसारमित्यर्थः | चराचरात्मिका अधरा यास्तनवस्तन्मयीं तत्प्रायां जीवभूतामनामिकामरूपिकां च ये विदुरिति वा || ३६ || परे चितिः स्वप्रकटाद्वितीया- स्वावर्तलेखेव जले द्रवान्तः | साहं तयेमानि जगन्ति धत्ते न सन्ति नासन्ति परात्मकानि || ३७ || अहंमयी पद्मजभावना चित् संकल्पभेदाद्वितनोति विश्वम् | अन्तर्मुखैवानुभवत्यनन्त- निमेषकोट्यंशविधौ युगान्तम् || ३८ || व्यष्टाविव समष्टावप्यहंकारसंकल्पोभयवशादेव स्वान्तःसंसारकल्पनेति दर्शयन्नुपसंहरति - अहंमयीति | समष्टौ व्यष्ट्यपेक्षया यो विशेषस्तमाह - अन्तर्मुखैवेति | नास्मदादिवद्बहिर्मुखेत्यर्थः | अनन्तस्य विष्णोर्निमेषस्य यः कोट्यंशभूतो विदधातीति विधिः कालस्तस्मिन् युगान्तं द्विसप्ततिसहस्रसहस्रसंख्याकदिव्ययुगान्तं स्वायुरनुभवति | अहो मायेति भावः || ३८ || इत्यार्षे श्रीवासिष्ठमहारामायणे उत्पत्तिप्रकरणे लीलो० जगत्स्वरूपवर्णनं नामैकषष्टितमः सर्गः || ६१ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे जगत्स्वरूपवर्णनं नामैकषष्टितमः सर्गः || ६१ || प्. २८४) १७५ द्विषष्टितमः सर्गः ६२ श्रीवसिष्ठ उवाच | परमाणुनिमेषाणां लक्षांशकलनास्वपि | जगत्कल्पसहस्राणि सत्यानीव विभान्त्यलम् || १ || भ्रान्तिमात्रत्वमुदितं विश्वस्यादौ प्रपञ्चयते | महानियतिशक्तिश्च जीवन्मुक्त्यादिसिद्धये || १ || परमाणोर्लक्षतमांशस्य कल्पनायां तत्र जगच्छब्दितब्रह्माण्डसहस्राणि निमेषस्य लक्षांशकल्पनायां तत्र कल्पसहस्राणि च अलमन्त्यन्तं दृश्यमानब्रह्माण्डवदेव सत्यानीव भान्तीति क्रमेण संबन्धः || १ || तेष्वप्यन्तस्तथैवान्तः परमाणुकणं प्रति | भ्रान्तिरेवमनन्ताहो इयमित्यवभासते || २ || तेष्वपि प्रत्येकमेवंविधा कल्पना संभवतीत्यनवस्थितस्वभावत्वाद्भ्रान्तिरेवेयमित्याह - तेष्वपीति || २ || वहन्तीमाः पराः सत्तः शान्ताः सर्गपरमपराः | सलिलद्रवतेवान्तःस्फुटावर्तविवर्तिका || ३ || इमा वर्तमानाः परा आगामिन्यः शान्ता अतीताश्च सर्गपरम्परा अन्तःस्फुटा आवर्तानां विवर्तिकाः परिवृत्तयो यस्यां तथाविधा सलिलद्रवतेव प्रातीतिकीः सत्ता वहन्ति धारयन्ति प्रवहन्ति च || ३ || मिथ्यात्मिकैव सर्गश्रीर्भवतीह महामरौ | तीरद्रुमलतोन्मुक्तपुष्पालीव तरङ्गिणी || ४ || तीरद्रुमैर्लताभिश्चोन्मुक्ता अभिवृष्टा पुष्पालिर्यस्यां तथा कल्पिता तरङ्गिणी मृगतृष्णिका नदीव || ४ || स्वप्नेन्द्रजालपुरवत्संकथेहापुराद्रिवत् | संकल्पवदसत्यैव भाति सर्गानुभूतिभूः || ५ || श्रीराम उवाच | एकात्मैकतयैवं हि जाते सम्यग्विचारणात् | निर्विकल्पात्मविज्ञाने परे ज्ञानवतां वर || ६ || तत्त्वज्ञानोदयेन सर्वभ्रान्तिनाशे विदुषां देहस्थित्यसंभवं रामः शङ्कते - एकात्मेति | एवमुक्तप्रकारात्सम्यग्विचारणात् | एकोऽद्वितीय आत्मा ब्रह्म तदेकतया तदभेदेन परे उत्कृष्टे निर्विकल्पात्मविज्ञाने जाते सति || ६ || किमर्थमिह तिष्ठन्ति देहास्तत्त्वविदामपि | दैवेनैव समाक्रान्ता दैवमत्र च किं भवेत् || ७ || दैवेन सम्यगाक्रान्ता बलिप्रभृतय इव | अत्र तत्त्वज्ञविषये दैवं किं भवेत् | तस्य ह न देवाश्च नाभूत्या ईशत आत्मा ह्येषां स भवति | इति श्रुत्या तत्त्वविदि दैवस्यासामर्थ्योक्तेः किं तत्प्रबलतरं संभावितमित्यर्थः || ७ || श्रीवसिष्ठ उवाच | अस्तीह नियतिर्ब्राह्मी चिच्छक्तिः स्पन्दरूपिणी | अवश्यभवितव्यैकसत्ता सकलकल्पगा || ८ || प्राण्यदृष्टवस्तु शक्तिसहकृतेश्वरसंकल्पलक्षणमहानियतिवशादेव सर्वव्यवहारव्यवस्थावद्विदुषां देहधारणमपीत्याशयेन वसिष्ठ उत्तरमाह - अस्तीत्यादिना | स्पन्दः सर्वजगद्व्यवस्थितव्यवहारस्तेन रूपिणीव स्फुटा || ८ || आदिसर्गे हि नियतिर्भाववैचित्र्यमक्षयम् | अनेनेत्थं सदा भाव्यमिति संपद्यते परम् || ९ || कदाप्रभृति सा किंरूपा वा तदाह - आदिसर्गे इति | अनेन वह्न्यादिना इत्थमौष्ण्योर्ध्वज्वलनादिस्वभावेन सदा भाव्यमिति परं ब्रह्म स्वयं संकल्पात्मकवृत्तिरूपमक्षयमप्रतिहतं संपद्यते || ९ || महासत्तेति कथिता महाचितिरिति स्मृता | महाशक्तिरिति ख्याता महादृष्टिरिति स्थिता || १० || सर्वजगतां स्थितिप्रथासामर्थ्यविवेकनिर्माणजन्मार्थक्रियादिहेतुत्वात्क्रमेण महासत्तेत्यादिनामभिः ख्याता || १० || महाक्रियेति गदिता महोद्भव इति स्मृता | महास्पन्द इति प्रौढा महात्मैकतयोदिता || ११ || तृणानीव जगन्त्येवमिति दैत्याः सुरा इति | इति नागा इति नगा इत्याकल्पं कृतास्थितिः || १२ || जगन्ति एवं दृश्यमानविधया तृणानीव परिवर्तयन्तीति शेषः | दैत्या इति एवं क्रूरादिप्रकाराः सुरा देवा इति सौम्यादिप्रकारा इत्यादिरूपा आकल्पं कृता आस्थितिर्व्यवस्था यया || १२ || कदाचिद्ब्रह्मसत्ताया व्यभिचारोऽनुमीयते | चित्रमाकाशकोशे च नान्यथा नियतेः स्थितिः || १३ || परमार्थदृष्टौ ब्रह्मसत्तेव व्यवहारे साप्यव्यभिचरितेत्याह - कदाचिदिति | ब्रह्मसत्ताया व्यभिचार आकाशकोशे चित्रलेखनं चात्यन्तासंभावितमप्यनुमीयते नतु नियतेः स्थितिरन्यथा जातेत्यनुमातुं शक्यमित्यतिशयोक्तिः || १३ || विरिञ्चयाद्यात्मभिर्बुद्धैर्बोधायाविदितात्मनाम् | ब्रह्मात्मैव सा नियतिः सर्गोऽयमिति कथ्यते || १४ || इदं च व्यावहारिकदृशोक्तं तत्त्वज्ञदृशा तु न ब्रह्मनियतिसर्गशब्दार्था भिद्यन्त इत्याशयेनाह - विरिञ्च्यादीति | बुद्धैस्तत्त्वज्ञैः || १४ || अचलं चलवद्दृष्टं ब्रह्मापूर्य व्यवस्थितः | अनादिमध्यपर्यन्तं सर्गो वृक्ष इवाम्बरे || १५ || नन्वलं ब्रह्म चलः सर्गः कथमनयोरैक्यं तत्राह - अचलमिति | अनादिमध्यपर्यन्तं ब्रह्म आपूर्य अज्ञदृशा आपूर्येव सर्गो व्यवस्थितः || १५ || पाषाणोदरलेखौघन्यायेनात्मनि तिष्ठता | ब्रह्मणा नियतिः सर्गो बुद्धोऽबोधवतेव खम् || १६ || नन्वियं नियतिर्हिरण्यगर्भेण कथं बुद्धा येन तदनुरूपमेव ससर्ज तत्राह - पाषाणेति | स्फटिकपाषाणोदरप्रतिबिम्बितवनलेखौघन्यायेनात्मनि मायाशबले ब्रह्मणि तिष्ठता ब्रह्मणा हिरण्यगर्भेण अबोधवता प्रसुप्तपुरुषेण आत्मनि स्वाप्नकल्पनाश्रयं खमिव नियतिरेव भाविसर्गो बुद्धः || १६ || प्. २८५) १७५ देहे यथाङ्गिनोऽङ्गादि दृश्यते चित्स्वभावतः | ब्रह्मणा पद्मजत्वेन नियत्याद्यङ्गकं तथा || १७ || तथा नियत्यादिसर्गंजातमङ्गकं स्वावयवभूतं दृष्टमिति शेषः || १७ || एषा दैवमिति प्रोक्ता सर्वं सकलकालगम् | पदार्थमलमाक्रम्य शुद्धा चिदिति संस्थिता || १८ || शुद्धा मोहानास्कन्दिता चित् ईश्वरसंकल्पचैतन्यम् | इति जगद्व्यवस्थारूपेण || १८ || स्पन्दितव्यं पदार्थेन भाव्यं वा भोकृतापदम् | अनेनेत्थमनेनेत्थमवश्यमिति दैवधीः || १९ || एषैव पुरुषस्पन्दस्तृणगुल्मादि चाखिलम् | एषैव सर्वभूतादि जगत्कालक्रियादि वा || २० || अनया पौरुषी सत्ता सत्तास्याः पौरुषेण च | लक्ष्यते भुवनं यावद्द्वे एकात्मतयैव हि || २१ || प्राण्यदृष्टनित्ययोः परस्परसहायतामाह - अनयेति | पौरुषी पुरुषादृष्टसंबन्धिनी सत्ता फलावश्यंभावलक्षणा स्थितिर्लक्ष्यते | सत्ता नियतिसत्ता | कियत्कालमेवं व्यवस्था तत्राह - भुवनमिति | भुवनं त्रिभुवनं यावत्कालमस्ति तावदित्यर्थः | प्रलये तर्हि कथं तत्राह - द्वे इति | द्वे एते सत्ते एकात्मतयैव तदा आसाते इत्यर्थः || २१ || नरेण पौरुषेणैव कार्ये सत्तात्मके उभे | ईदृश्येतेन नियतिरेवं नियतिपौरुषे || २२ || द्वयोरपि पुरुषयत्नानुसारिता तथैव नित्यतिस्थितेरित्याह - नरेणेति | कार्ये निर्वाह्ये नियतिपौरुषे अपि एवं प्राण्यदृष्टनिर्वाह्ये | एतेन क्रमेण ईदृशी नियतिः स्थितेति शेषः || २२ || प्रष्टव्योऽहं त्वया राम दैवपौरुषनिर्णयः | मदुक्तं पौरुषं पाल्यं त्वयेति नियतिः स्थिता || २३ || किं बहुना तव शिष्यभावेन प्रष्टृत्वं मदुपदिष्टार्थानुष्ठातृत्वं च नियतिकृतमेवेत्याह - प्रष्टव्य इति | ननु गौणे कर्मणि दुह्यादेः प्रधाने नीहृकृष्वहाम् इति कात्यायनवचनात्प्रच्छेरकथिते गौणे कर्मणि तव्यप्रत्ययेन मुख्यस्य कर्मणोऽनभिहितत्वाद्दैवपौरुषनिर्णयमिति द्वितीयया भाव्यं तत्कथं प्रथमाप्रयोग इति चेत् | सत्यम् | त्वया अहं प्रष्टव्यस्तत्रापि दैवपौरुषनिर्णय एव प्रष्टव्य इत्यावृत्त्या नियतिद्वयबोधनाय तन्त्रेण कर्मद्वयस्यापि तव्यप्रत्ययेनाभिधानविवक्षोपपत्तेरिति || २३ || भोजयिष्यति मां दैवमिति दैवपरायणः | यत्तिष्ठत्यक्रियो मौनं नियतेरेष निश्चयः || २४ || यदपि कश्चिद्दैवमेवावलम्ब्य पौरुषप्रयत्नमकुर्वन्नाजगरं व्रतमास्थाय तिष्ठति तदपि तदनुगुणप्राक्तनकर्मोप्द्बोधितनियतिनिश्चयादेवेत्याह - भोजयिष्यतीति || २४ || न स्याद्बुद्धिर्न कर्माणि न विकारादि नाकृतिः | केवलं त्वित्थमाकल्पं स्थित्या भाव्यमिति स्थिताः || २५ || प्रागपि पुरुषो यदि केवलमक्रिय एव स्यात्तर्हि बुद्धिस्तत्प्रयुक्तकर्म तत्प्रयुक्ता भूतभौतिकविकारा विकृतीनां च गवादिसंस्थानाकृतिश्चेत्येते न स्युः | तथाच श्रुतिः - यर्ह्येतन्न कुर्यात्क्षीयेत ह इति | इत्थं पुरुषक्रियामूलतयैव तु आकल्पव्यवहारस्थित्या भाव्यमिति नियतिवशादेव सर्वे भावास्तथा स्थिता इत्यर्थः || २५ || अवश्यंभवितव्यैषा त्विदमित्थमिति स्थितिः | न शक्यते लङ्घयितुमपि रुद्रादिबुद्धिभिः || २६ || इयं च नियतिरीश्वरैरपि दुरतिक्रमेत्याह - अवश्यमिति || २६ || पौरुषं न परित्याज्यमेतामाश्रित्य धीमता | पौरुषेणैव रूपेण नियतिर्हि नियामिका || २७ || एतां निश्चितिमिति शेषः || २७ || अपौरुषं हि नियतिः पौरुषं सैव सर्गगा | निष्फलाऽपौरुषाकारा सफला पौरुषात्मिका || २८ || इदानीं नियतिपौरुषशब्दार्थैक्यमेव उपाधिभेदादेव व्यवहारभेद इत्याह - अपौरुषमिति | अपौरुषं पुरुषप्रयत्नात्मना अविवक्षिता ईश्वरसंकल्पनामात्रेण नियतिरित्युच्यते | सैव तदात्मना सर्गगा सृष्टिफलोपहिता पौरुषमित्युच्यते | यतः अपौरुषा पुरुषयत्नाकारेणापरिणता नियतिर्निष्फला | पौरुषात्मिका सफलेति पौरुषादेव पुरुषार्थलाभ इत्यर्थः || २८ || नियत्या मूकतामेत्य निष्पौरुषतयाऽक्रियम् | यस्तिष्ठति प्राणमरुत्स्पन्दस्तस्य क्व गच्छति || २९ || ननु तर्हि निष्पौरुषस्याप्यजगरवृत्तेस्तृप्त्यादिफललाभो दृष्टस्तत्राह ##- नियत्या तृप्तिः सेत्स्यतीति मूकतां वागादिक्रियाप्रयत्नशून्यतामेत्य निष्पौरुषतया अक्रियं ग्रसनादिक्रियारहितं यथा स्यात्तथा तिष्ठति न स तृप्यति | यदपि स क्षुधितोऽपि कंचित्कालं जीवति तदपि प्राणचलनानुकूलपुरुषयत्नादेवेत्याअह - प्राणेति || २९ || अथ प्राणक्रियारोधमपि कृत्वा विरामदम् | यदि तिष्ठति तत्साधुर्मुक्त एव किमुच्यते || ३० || यदि विरामदं निर्विकल्पसमाधौ चित्तविश्रान्तिदं प्राणनिरोधमधिकृत्वा स तिष्ठति तत्तस्माद्यत्नात्साधुस्तत्त्वविच्चेन्मुक्तः सर्वपौरुषफलावस्थालक्षणं मोक्षं प्राप्तो भवति तदपि प्राणनिरोधादिपौरुषस्यैव फलमित्यपौरुषं फलं किमुच्यते न किंचिदित्यर्थः || ३० || पौरुषैकात्मता श्रेयो मोक्षोऽत्यन्तमकर्तृता | आभ्यां तु सबलः पक्षो निर्दुःखैव महात्मनाम् || ३१ || तस्मात्पौरुषैकात्मता शास्त्रीयपौरुषैकपरता श्रेयोहेतुत्वात्साधनतः श्रेयः | अत्यन्तकर्मतालक्षणो मोक्षस्तु फलतः श्रेयः | आभ्यां साध्यसाधनश्रेयोभ्यां तु महात्मनां ज्ञानिनां पक्षः सबलः सकार्याविद्योपघातसमर्थ इति निर्दुःखैव तेषां नियतिरित्यर्थः || ३१ || नियतिर्ब्रह्मसत्ताभा तस्यां चेत्परिणम्यते | नूनं परमशुद्धाख्यं तत्प्राप्तैव परागतिः || ३२ || या चेयं निर्दुःखा नियतिः सैव ब्रह्मसत्ताया आभा स्फूर्तिस्तस्यां चेद्यत्नेन परिणम्यते स्थिरीभूयते तदेव परमशुद्धाख्यं पदं सा काष्ठा सा परा गतिः इति श्रुतिप्रसिद्धा परमागतिरपि तत्तस्मात्प्राप्तैवेत्यर्थः || ३२ || प्. २८६) १७६ एतैर्नियत्यादिमहाविलासै- र्ब्रह्मैव विस्फूर्जति सर्वगात्मा | तृणादिवल्लीतरुगुल्मजालैः सत्तेव तोयस्य धरान्तरस्था || ३३ || एतैरुक्तप्रकारैर्महद्भिरप्रतिहतैर्विलासैर्ब्रह्मैव धरान्तरस्था तोयस्य सत्ता द्रवता तृणकुशकाशादिभेदैर्वल्लीतरुगुल्मजालादिभावैश्च यथा विस्फूर्जति स्फुरति तथा विस्फूर्जतीत्यर्थः || ३३ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे लीलो० दैवशब्दार्थनिरूपणं नाम द्विषष्टितमः सर्गः || ६२ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे दैवशब्दार्थनिरूपणं नाम द्विषष्टितमः सर्गः || ६२ || त्रिषष्टितमः सर्गः ६३ श्रीवसिष्ठ उवाव | यदेतद्ब्रह्मतत्त्वं सर्वथा सर्वदैव सर्वत एव सर्वशक्ति सर्वाकारं सर्वेश्वरं सर्वगं सर्वमेवेति || १ || विस्फूर्जति यथा ब्रह्म सर्वतः सर्वरूपतः | मायाशक्तिविलासेन तथात्र प्रतिपाद्यते || १ || नियत्यादिविलासैर्ब्रह्मैव विस्फूर्जतीत्युक्तं तत्कस्य हेतोस्तत्राह - यदेतदिति | यद्यत एतन्मायाशबलं ब्रह्मतत्त्वं सर्वथा सर्ववस्तुतः सर्वदैव कालतः सर्वत एव देशतश्च सर्वशक्ति सर्वभावसमर्थमत एव सर्वाकारम् सर्वज्ञतया सर्वनियन्तुमीष्ट इति सर्वेश्वरम् | विप्रकर्षताटस्थ्ययोर्वारणाय सर्वगं सर्वमेवेति विशेषणे | इति अतो हेतोरित्यर्थः || १ || एष त्वात्मा सर्वशक्तित्वाच्च क्वचिच्चिच्छक्तिं प्रकटयति क्वचिच्छान्तिं क्वचिज्जडशक्तिं क्वचिदुल्लासं क्वचित्किंचिन्न किंचित्प्रकटयति || २ || कुतो न विप्रकर्षताटस्थ्ये तत्राह - एष त्वात्मेति | स तर्हि सर्वं सर्वत्र प्रकटयेन्नेत्याह - क्वचिदिति | क्वचिदन्तःकरणोपाधौ जीवभावेन प्रवेशाच्चिच्छक्तिं प्रकटयति सात्त्विकोपाधौ शान्तिम् तामसोपाधौ जडशक्तिम् राजसोपाधौ रागलोभप्रवृत्त्याद्युल्लासम् किंचिन्मिश्रितं गुणकार्यत्वाद्विशेषतो दुर्वचम् सुषुप्तिप्रलययोस्तु न किंचित्प्रकटयति || २ || यत्र यदा यदेवासौ यथा भावयति तत्र तदा तदेवासौ प्रपश्यति || ३ || तत्र चास्य सत्यसंकल्पतैव हेतुरित्याह - यत्रेति || ३ || सर्वशक्तेर्हि या यैव यथोदेति तथैव सा || ४ || शक्तीनामाविर्भावानुगुणैव स्थितिवैचित्र्यं चेत्याह - सर्वशक्तेरिति | या येति वीप्सा || ४ || तदास्ति शक्तिर्नानारूपिणी सा स्वभावत इमाः शक्तयोऽयमात्मेति || ५ || शक्तिशक्तिमद्भेदकल्पनेयं व्यवहारदृशैव न परमार्थत इत्याह - इमा इति || ५ || एवं विकल्पजालं व्यवहारार्थं धीमद्भिः परिकल्पितं लोके नवात्मनि विद्यते भेदः || ६ || यथोर्मितरङ्गपयसां सागरे कटकाङ्गदकयूरैर्वा हेम्नः | अवयवावयविनोः संवित्काल्पनिकी द्विता न वास्तवी || ७ || नत्वात्मनि विद्यते भेद इत्यत्रार्थे दृष्टान्तत्रयप्रदर्शनपरो यथेत्यादिर्न वास्तवीत्यन्तो ग्रन्थः | संवित्काल्पनिकी व्युत्पादकबुद्धिपरिकल्पिता द्विता भिदा || ७ || यथा यच्चेत्यते हि तथैव तन्न बाह्यतो नान्तरतश्चैतत्समुदेति हि || ८ || हि यस्माद्यद्यद्रज्ज्वादि यथा सर्पादिप्रकारेण चेत्यते बुध्यते तत्तथैव विवर्ततो भवति न परमार्थतः | कुतः यत एतत्सर्पादि रज्ज्वादेर्न बाह्यं समुदेति नाप्यन्तरतः || ८ || सर्वात्मत्वात्समाभासं क्वचित्किंचित्प्रपश्यति || ९ || समाभासं सर्वसाधारणप्रथारूपं साक्षिचैतन्यं भोजकादृष्टोद्बुद्धं क्वचित्किंचिदेव भ्रान्त्या प्रपश्यति न सर्वत्र नापि स्वरूपमित्यर्थः || ९ || सर्वाकारमयं ब्रह्मैवेदं ततं मिथ्याज्ञानवद्भिः शक्तिशक्तिमत्त्वे अवयवावयविरूपे कल्पिते न पारमार्थिके || १० || परमार्थतस्तु ततं विस्तृतमिदं सर्वाकारमयं ब्रह्मैव | तत्किं शक्तिविशिष्टं जगदवयवकं परमार्थतो ब्रह्म नेत्याह - मिथ्याज्ञानवद्भिरिति || १० || सद्वा भवत्वसद्वा चिद्यत्संकल्पयत्यभिनिविशति तत्तत्पश्यति सकला तत्सद्ब्रह्मैव चिद्भाति || ११ || एवंच मिथ्याज्ञानोपहिता चित्सत् शास्त्रानुगुणमसत् शास्त्रप्रतिकूलं वा यदेव कर्तव्यतया संकल्पयति तदभिनिविशति तद्विषये उद्युक्तं च भवतीत्यर्थः | अभिनिवेशेन च तत्तदनुरूपं विहितं निषिद्धं वा कृत्वा फलभोगकालेऽपि तत्तत्पश्यतीति आद्यसर्गसंकल्पमारभ्य भूतभौतिकदेहभोग्यादिसर्गेण पुरुषभोगान्तसकलप्रपञ्चरूपा ब्रह्मचिदेव भाति विस्फूर्जति नान्यदिति || ११ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे लीलो० चित्तविकारो नाम त्रिषष्टितमः सर्गः || ६३ || चिद्भावश्चित्ता तस्या अविकारः सर्गार्थः | इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे चित्तविकारो नाम त्रिषष्टितमः सर्गः || ६३ || प्. २८७) १७६ चतुःषष्टितमः सर्गः ६४ श्रीवसिष्ठ उवाच | योऽयं सर्वगतो देवः परमात्मा महेश्वरः | स्वच्छः स्वानुभवानन्दस्वरूपोऽन्तादिवर्जितः || १ || भोग्यस्य शक्तिवैचित्र्याद्याविर्भावो निरूपितः | भोक्तुर्जीवत्वसंपत्तिक्रमोऽत्र प्रतिपाद्यते || १ || एतस्मात्परमानन्दाच्छुद्धचिन्मात्ररूपिणः | जीवः संजायते पूर्वं स चित्तं चित्ततो जगत् || २ || अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि इति श्रुतेर्नामरूपव्याकरणलक्षणजगत्सर्गात्पूर्वं जीवोपाधिलिङ्गसमष्ट्युत्पत्त्या जीवः संजायते स एवोपाधिप्राधान्येन चित्तमित्युच्यते || २ || श्रीराम उवाच | स्वानुभूतिप्रमाणेऽस्मिन्ब्रह्मणि ब्रह्मबृंहिते | कथं सत्तामवाप्नोति जीवको द्वैतवर्जिते || ३ || अखण्डाद्वितीयस्वप्रकाशे ब्रह्मणि सखण्डसद्वितीयजीवसत्तानुपपत्तिं रामः शङ्कते - स्वानुभूतीति | ब्रह्मणि ब्रह्मत्वादेव बृंहिते निरतिशयापरिच्छेदलक्षणां वृद्धिं प्राप्ते | अल्पो जीवो जीवकः सत्तं पूर्वसिद्धब्रह्मताविरोधिनीं पृथक्सत्तां कथमवाप्नोतीत्यर्थः || ३ || श्रीवसिष्ठ उवाच | असदाभासमच्छात्म ब्रह्मास्तीह प्रबृंहितम् | बृहच्चिद्भैरववपुरानन्दाभिधमव्ययम् || ४ || सत्ये निरविद्ये ब्रह्मणि परमार्थदृशा न जीवसत्तासंभवः साविद्ये तु तत्संभवो न विरुध्यत इति विभज्य विवक्षुः प्रथमं साधारणं तत्स्वरूपमाह - असदिति | असन्त आभासा द्वैतप्रत्यया यत्र | प्रबृंहितमित्यस्यैव विवरणं बृहच्चिद्भैरववपुरिति | अनात्मयोगिनां भीषणत्वाद्भैरवं वपुः स्वरूपं यस्य | यथाहुर्वृद्धाः - अस्पर्शयोगो नामैष दुर्दर्शः सर्वयोगिनाम् | योगिनो बिभ्यति ह्यस्मादभये भयदर्शिनः || इति || ४ || तस्य यत्सममापूर्णं शुद्धं सत्वमचिह्नितम् | तद्विदामप्यनिर्देश्यं तच्छन्तं परमं पदम् || ५ || आद्यं दर्शयति - तस्येति || ५ || तस्यैवोद्यदिवाशान्ति यत्सत्त्वं संविदात्मकम् | स्वभावात्स्पन्दनं तत्तु जीवशब्देन कथ्यते || ६ || द्वितीयं दर्शयति - तस्यैवेति || आशान्ति आमोक्षं उद्भवबीजसत्त्वादुद्यदिव यद्रूपं तस्योपाधिस्वभावाद्यत्स्पन्दनं चलनशक्त्यात्मकप्राणधारणम् || ६ || तत्रेमाः परमादर्शे चिद्व्योम्न्यनुभवात्मिकाः | असंख्याः प्रतिबिम्बन्ति जगज्जालपरम्पराः || ७ || तत्रैव सर्वनामरूपव्याकरणमित्याह - तत्रेति || ७ || ब्रह्मणः स्फुरणं किंचिद्यदवाताम्बुधेरिव | दीपस्येवाप्यवातस्य तं जीवं विद्धि राघव || ८ || जगद्वैचित्र्यकल्पनानुकूलक्रियाशक्तिप्रधानप्राणभाव एव जीवभावश्चित इत्यत्र दृष्टान्तमाह - ब्रह्मण इति || ८ || शान्तत्वापगमेऽच्छस्य मनाक्संवेदनात्मकम् | स्वाभाविकं यत्स्फुरणं चिद्व्योम्नः सोऽङ्ग जीवकः || ९ || अच्छस्य ब्रह्मणः प्राणाधीनचलनाध्यासे शान्तत्वस्य निष्क्रियत्वस्यापगमे तिरोधाने सति मनागल्पं यत्संवेदनं तदात्मकम् || ९ || यथा वातस्य चलनं कृशानोरुष्णता यथा | शीतता वा तुषारस्य तथा जीवत्वमात्मनः || १० || तच्च जीवत्वमामोक्षं जीवस्य स्वाभाविकमिवेत्याह - यथेति || १० || चिद्रूपस्यात्मतत्त्वस्य स्वभाववशतः स्वयम् | मनाक्संवेदनमिव यत्तज्जीव इति स्मृतम् || ११ || स्वस्य अभावनमभावोऽज्ञानं तद्वशतो मनाक्संवेदनं ज्ञानस्वरूपस्य परिच्छेद इव यत्तत् || ११ || तदेव घनसंवित्त्या यात्यहंतामनुक्रमात् | वह्न्यणुः स्वेन्धनाधिक्यात्स्वां प्रकाशकतामिव || १२ || तस्याहंकारात्मकरुद्रभावमाह - तदेवेति | घनसंवित्त्या वासनादार्ढ्येन | अहंतां अहंकारताम् | वह्न्यणुरग्निकणः स्वस्य इन्धनं दीपनं यद्धृततैलादि तदाधिक्यात् || १२ || यथा स्वतारकामार्गे व्योम्नः स्फुरति नीलिमा | शून्यस्याप्यस्य जीवस्य तथाहंभावभावना || १३ || स्वस्य द्रष्टुस्तारका कनीनिकोपलक्षितं चक्षुस्तस्या मार्गे अविषये भागे व्योम्नि प्रसृतं हि चक्षुर्यावद्दूरं गन्तुं शक्नोति तावन्नीलिमानं न पश्यति | यत्र तु गत्वाग्रे कुण्ठीभवति ततः प्रभृति तस्या मार्गस्तत्र नैल्यशून्येऽपि नीलिमा स्फुरति तथा अहंताशून्यस्याप्यस्य जीवस्य स्वाविषये स्वात्मन्यहंभावभावनेत्यर्थः || १३ || जीवोऽहंकृतिमादत्ते संकल्पकलयेद्धया | स्वयैतया घनतया नीलिमानमिवाम्बरम् || १४ || संकल्पकला पूर्वसंकल्पसंस्कारस्तया इद्धया उद्बुद्धया स्वया स्वाध्यस्तया एतया प्रत्यक्षया घनतया स्निग्धेन्द्रनीलशिलाकल्पया निबिडतया || १४ || अहंभावो हि दिक्कालव्यवच्छेदी कृताकृतिः | स्वयं संकल्पवशतो वातस्पन्द इव स्फुरन् || १५ || दिक्कालव्यवच्छेदी आत्मनो दैशिककालिकपरिच्छेदकारी | स्वयं संकल्पवशतः कृतदेहाद्याकृतिः || १५ || संकल्पोन्मुखतां यातस्त्वहंकाराभिधः स्थितः | चित्तं जीवो मनो माया प्रकृतिश्चेति नामभिः || १६ || अहंभावाध्यासमूलाश्चित्तादिभेदा इत्याह - चित्तमित्यादिना | सोहंकारो रुद्रश्चित्तं विष्णुर्जीवो ब्रह्मा तेषामेव क्रमान्मनो माया प्रकृतिरिति क्रियानामानि || १६ || तत्संकल्पात्मकं चेतो भूततन्मात्रकल्पनम् | कुर्वंस्ततो व्रजत्येव संकल्पाद्याति पञ्चताम् || १७ || तत्तत्र संकल्पात्मकं चेतो ब्रह्मा संकल्पाद्भूततन्मात्रकल्पनां कुर्वस्ततश्चेतनात्मकपूर्वावस्थातो व्रजति प्रच्यवत एव जडां पञ्चतां च याति || १७ || प्. २८८) १७७ तन्मात्रपञ्चकाकारं चित्तं तेजःकणो भवेत् | अजातजगति व्योम्नि तारका पेलवा यथा || १८ || तस्य पञ्चीकरणेन हैमाण्डप्रकृतितेजोभावमाह - तन्मात्रेति | ब्रह्मभावदृष्ट्या अल्पत्वात्कण इत्युक्तम् | पेलवा अस्फुटप्रकाशा || १८ || तेजःकणत्वमादत्ते चित्तं तन्मात्रकल्पनात् | शनैः स्वस्मात्परिस्पन्दाद्बीजमङ्कुरतामिव || १९ || उक्तमेव स्पष्टमाह - तेजःकणत्वमिति || १९ || असौ तेजःकनोऽण्डाख्यः कल्पनात्कश्चिदण्डताम् | प्रयात्यन्तःस्फुरद्ब्रह्मा जलमापिण्डतामिव || २० || तत्र पूर्वकल्पे विराडात्मोपासनसंस्कृतस्य स्थूलसमष्टिविराड्भावस्तदन्यस्य व्यष्टिस्थूलदेहाहंभावसंस्कारात्तद्भाव इति विशेषमाह - असावित्यादिना | कल्पनात्प्राक्तनोपासनात्मकाण्डात्माहंभावकल्पनात् | तस्य सह सिद्धं चतुष्टयमिति स्मृतिसिद्धमात्मज्ञानमित्याशयेन विशिनष्टि ##- चतुर्मुखो यस्येत्यर्थः | आपिण्डतां करकादिघनीभावम् || २० || कश्चिद्द्रागिति देहादिकलनाद्याति देहताम् | भ्रान्तित्वं तदतद्रूपं गन्धर्वैश्च वसत्पुरम् || २१ || कश्चिदनुपासकस्तु पुण्यकृत् इति वक्ष्यमाणप्रकारेण दिव्यदेहादेः कलनाद्द्राक् शीघ्रमेव देवादिदेहतां तत्र देहे अतद्रूपं अनहमि अहंभावलक्षणभ्रान्तित्वं याति | गन्धर्वैश्चादन्यैर्वा देवैर्वसत् पालितं पुरममरावत्यादि याति || २१ || कश्चित्स्थावरतामेति कश्चिज्जंगमतामपि | कश्चिद्याति खचार्यादिरूपं संकल्पतः स्वतः || २२ || कश्चित्पापकृत्तु स्थावरताम् | खचारिणः पक्षिणो रक्षःपिशाचादयश्च | आदिपदाज्जलचरा गृह्यन्ते || २२ || सर्गादावादिजो देहो जीवः संकल्पसंभवः [भावनः इति पाठः] | क्रमेण पदमासाद्य वैरिञ्चं कुरुते जगत् || २३ || प्रथमजः सूक्ष्मदेहसमष्ट्युपाधिक एवात्मा विरिञ्चिजीवः स्वसंकल्पादण्डान्तर्जगत्सृजतीत्यर्थः || २३ || आत्मभूकलनात्मासौ यत्संकल्पयति क्षणात् | तत्स्वभाववशादेव जातमेव प्रपश्यति || २४ || तस्य सत्यसंकल्पतायां पूर्वतनसत्यसंकल्पात्मभूतादात्मोपासना हेतुरित्याशयेन विशिनष्टि - आत्मभूकलनात्मेति || २४ || चित्स्वभावात्समायातं ब्रह्मत्वं सर्वकारणम् | संसृतौ कारणं पश्चात्कर्म निर्माय संस्थितम् || २५ || प्रथाचलनोभयधर्मकस्य जगतश्चिदात्मा प्रथमं प्रथायां हेतुश्चलनविकारादौ तु पश्चात्तनं कर्मेत्याह - चित्स्वभावादिति | आद्यः कारणशब्दो भावप्रधानः || २५ || चित्तं स्वभावात्स्फुरति चित्तः फेन इवाम्भसः | कर्मभिर्बध्यते पश्चाड्डिण्डीरमिव रज्जुभिः || २६ || उक्तमेव मूलतः स्फुटयति - चित्तमिति | डिण्डीरं फेनपिण्डो नौकादिनिबन्धनरज्जिभिर्बध्यते निरुध्यते न जलं तद्वच्चित्तमेव देहनिबन्धनैः कर्मभिर्बध्यते न चिदात्मेति भावः || २६ || संकल्पः कलनाबीजं तदात्मैव हि जीवकः | कर्म पश्चात्तनोत्युच्चैरुत्थायाकर्मतः क्रमात् || २७ || लोकेऽपि संकल्पपूर्वकं कर्मणा घटादिरचनदर्शनादुक्तक्रमसिद्धिरित्याशयेनाह - संकल्प इति | अकर्मतः निष्क्रियात्मसंनिधानादिति यावत् || २७ || क्रोडीकृताङ्कुरं पूर्वं जीवो धत्ते स्वजीवितम् | पश्चान्नानात्वमायाति पत्राङ्कुरफलक्रमैः || २८ || पश्चात्तनैरपि कर्मभिः प्राग्जीवे बीजान्तरङ्कुरवद्वासनात्मना स्थितमेवाविष्क्रियते नापूर्वमित्याशयेनाह - क्रोडीकृताङ्कुरमिति | यथा बीजस्थो जीवः पूर्वं क्रोडीकृतः सूक्ष्मतयान्तर्धृतः अङ्कुरो येन तथाविधं स्वजीवितं धत्ते पश्चात्त्वङ्कुरपत्रकाण्डशाखापल्लवपुष्पफलक्रमैर्नानात्वमायाति तथा हिरण्यगर्भजीवोऽपीत्यर्थः || २८ || अन्ये स्व एव ये जीवा एवमेवाकृतिं गताः | पूर्वोत्पन्ने जगति ते यान्ति भूताश्रयां स्थितिम् || २९ || व्यष्टिजीवा अप्येवमेव स्वे स्वमिन् वासनात्मना स्थितामेवाकृतिं देहाद्याकारं गताः प्राप्ताः | एतावांस्तु विशेषः | ते हिरण्यगर्भजीवसंकल्पात्पूर्वोत्पन्ने जगति ब्रह्माणे मातापित्रादिरूपभूताश्रयां प्राणिनिमित्तां स्थितिं देहलाभं यान्तीति || २९ || स्वकर्मभिस्ततो जन्ममृतिकारणतां गतैः | प्रयान्त्यूर्ध्वमधस्ताद्वा कर्म चित्स्पन्द उच्यते || ३० || कर्मशब्दं व्याचष्टे - चित्स्पन्द उच्यत इति || ३० || चित्स्पन्दनं भवति कर्म तदेव दैवं चित्तं तदेव मवतीह शुभाशुभादि | तस्माज्जगन्ति भुवनानि भवन्ति पूर्वं भूत्वा निजाङ्गकुसुमानि तरोरिवाद्यात् || ३१ || कर्मशब्दार्थमेव विवृण्वन् सर्गद्वयवर्णितभोक्तृभोग्यसर्गमुपसंहरति - चित्स्पन्दनमिति | तरोर्निजाङ्गानि शाखादीनि कुसुमानि च यथा प्राग्भूत्वा पुनर्भवन्ति तथा आद्यात्कारणाद्ब्रह्मणः साकाशात्तस्माच्चित्स्पन्दनलक्षणाच्छुभाशुभलक्षणात्कर्मणो निमित्ताज्जगन्ति भोक्तृप्राणिनिकायास्तदाधारतद्भोग्यभुवनानि च पुनःपुनर्भवन्तीत्यर्थः || ३१ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे लीलो० उत्पत्तिबीजाङ्कुरनिर्णयो नाम चतुःषष्ठितमः सर्गः || ६४ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे उत्पत्तिबीजाङ्कुरनिर्णयो नाम चतुःषष्ठितमः सर्गः || ६४ || प्. २८९) १७७ पञ्चषष्टितमः सर्गः ६५ श्रीवसिष्ठ उवाच | परस्मात्कारणादेव मनः प्रथममुत्थितम् | मननात्मकमाभोगि तत्स्थमेव स्थितिं गतम् || १ || मनसो भोग्यवर्गस्य भोक्तुर्मूलस्य चाधुना | विमृश्य तत्त्वं चिन्मात्रपरिशेषः प्रदर्श्यते || १ || तत्रादौ सर्वकल्पनानां चिदनतिरेकं वक्तुं मूलभूतस्य मनस उत्पत्तिस्थित्योः कारणानन्यसत्ताकत्वात्तन्मात्रत्वमाह - परस्मादिति || १ || भावाभावलसद्दोलं तेनायमवलोक्यते | सर्गः सदसदाभासः पूर्वगन्ध इवेच्छया || २ || द्वैताभासस्य मनोधीनत्वमाह - भावाभावेति | इदमित्थं भवति इत्थं नेत्येवं भावाभावयोर्विषययोर्लसन्ती दोलेव परिवृत्तिर्यस्येति पूर्वान्वयि | तेन चित्तेन पूर्वानुभूतो गन्धः स्मर्यमाणो यथा इच्छया मनोरथेनासन्नप्यवलोक्यते तद्वत् || २ || न कश्चिद्विद्यते भेदो द्वैतैक्यकलनात्मकः | ब्रह्मजीवमनोमायाकर्तृकर्मजगद्दृशाम् || ३ || तथाच मनःकल्पितो भेदो मनोऽपगमादपगच्छतीत्याह - न कश्चिदिति || ३ || अपारावारविस्तारसंवित्सलिलवल्गनैः | चिदेकार्णव एवायं स्वयमात्मा विजृम्भते || ४ || भेदापगमे शिष्टमात्मस्वरूपं दर्शयति - पारेति | संविल्लक्षणस्य सलिलस्य वल्गनैरपरिच्छेदेन प्रसारैः || ४ || असत्यमस्थैर्यवशात्सत्यं संप्रतिभासतः | यथा स्वप्नस्तथा चित्तं जगत्सदसदात्मकम् || ५ || ननु चित्तजगतोर्बाधे कुतः सत्परिशेष इत्याशङ्क्य स्थिरास्थिरोभयसंवलितत्वेन जगतः सदसदात्मकत्वादस्थिरांशबाधे स्थिरपरिशेषोपपत्तिरित्याशयेनाह - असत्यमिति | स्वप्ने अस्थिरचिषयांशबाधेऽपि स्थिरतद्द्र्ऽष्टृपरिशेषदर्शनात्तद्वदित्यर्थः || ५ || न सन्नासन्न संजातश्चेतसो जगतो भ्रमः | अथ धीसमवायानामिन्द्रजालमिवोत्थितः || ६ || नन्वत्यन्तासतोऽपि न बाधो दृष्ट इत्याशङ्क्य तयोर्बाधयोग्यामनिर्वचनीयतामाह - न सदिति | ननु मिथ्यात्वे कथं बहूनामेकाकारता तत्राह - अथेति | अथेति तथापीत्यर्थे | तथापि सामाजिकधीसमूहानामिन्द्रजालमायाक्षुब्धानामेकाकारताभ्रमवदुत्थित इत्यर्थः || ६ || दीर्घः स्वप्नः स्थितिं यातः संसाराख्यो मनोबलात् | सम्यग्दर्शनात्स्थाणाविव पुंस्प्रत्ययो मुधा || ७ || कुतस्तर्हि चिरकालस्थायितास्य तत्राह - दीर्घ इति | मनोबलात् मनःकृतासक्तिबलात् || ७ || अनात्मालोकनाच्चित्तं चित्तत्वं नानुशोचति | वेतालकल्पनाद्बाल इव संकल्पिते भये || ८ || नन्वात्मा स्वपूर्णानन्दभावप्रच्युतिहेतुं सर्वदुःखनिदानं स्वस्य मनोभावमेव कुतो नानुशोचति तत्राह - अनात्मालोकनादिति | न आत्मालोकनमनात्मालोकनमात्मविषयकमज्ञानं अनात्मनामालोकनं दर्शनं च तस्मान्निमित्ताच्चित्तं चित्तभावमापन्नोऽप्यात्माचित्तत्वं चित्तभावकृतानर्थनानुशोचति यथा बालो वेतालकल्पनाद्भये सम्यक्कल्पिते सम्यङ्निरूढे सति तदभिनिविष्टचित्तत्वात्तद्धेतुं वेतालकल्पनां नानुशोचति तद्वदित्यर्थः || ८ || अनाख्यस्य स्वरूपस्य सर्वाशातिगतात्मनः | चेत्योन्मुखतया चित्तं चित्ताज्जीवत्वकल्पनम् || ९ || तथाच चितश्चेत्योन्मुखत्वस्वभाव एवानर्थपरम्परामूलमित्याह - अनाख्यस्येत्यादिना || ९ || जीवत्वादप्यहंभावस्त्वहंभावाच्च चित्तता | चित्तत्वादिन्द्रियादित्वं ततो देहादिविभ्रमाः || १० || देहादिमोहतः स्वर्गनरकौ मोक्षबन्धने | बीजाङ्कुरवदारम्भसंरूढे देहकर्मणोः || ११ || देहादौ मोहतोऽहंममेत्यभिमानतः || ११ || द्वैतं यथा नास्ति चिदात्मजीवयो- स्तथैव भेदोऽस्ति न जीवचित्तयोः | यथैव भेदोऽस्ति न जीवचित्तयो- स्तथैव भेदोऽस्ति न देहकर्मणोः || १२ || इयं सर्वाप्यनर्थपरंपरा जीवब्रह्मभेदभ्रममूलत्वात्तदैक्यबोधेन तद्भ्रमबाधे बाध्यत इत्याशयेन भेदमपवदति - द्वैतमिति चिदात्मा ब्रह्मजीवश्च तयोर्द्वैतं भेदः || १२ || कर्मैव देहो ननु देह एव चित्तं तदेवाहमितीह जीवः | स जीव एवेश्वरचित्स आत्मा सर्वः शिवस्त्वेकपदोक्तमेतत् || १३ || सकलशास्त्रविचाररहस्यमेकोक्त्यैव संक्षिप्य स्फुटमाह - कर्मैवेति || १३ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे लीलोपाख्याने जीवविचारो नाम पञ्चषष्टितमः सर्गः || ६५ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे जीवविचारो नाम पञ्चषष्टितमः सर्गः || ६५ || प्. २९०) १७८ षट्षष्टितमः सर्गः ६६ श्रीवसिष्ठ उवाच | एवमेकं परं वस्तु राम नानात्वमेत्यलम् | नानात्वमिव संजातं दीपाद्दीपशतं यथा || १ || मनोमात्रविलासत्वं द्वैतस्यात्र प्रपञ्च्यते | इष्टस्यागात्प्रबोधाच्च साज्ञानमनसः क्षयः || १ || एवं चेत्योन्मुखतया चित्तमित्यादिवर्णितक्रमेण | तत्र दृष्टान्तमाह - नानात्वमिति | नानात्वं संजातं संप्राप्तं दीपशतम् | अथवा न केवलं चेत्यस्यैव नानात्वं संजातं किंतु एवमुक्तदिशा चितोऽपि प्रत्युपाधिभेदं नानात्वमिव संजातम् | तत्र अग्र्निर्यथैको भुवनं प्रविष्टो रूपं रूपं प्रतिरूपो बभूव इति श्रुत्युक्तं दृष्टान्तमाह - दीपादिति || १ || यथाभूतमसद्रूपमात्मानं यदि पश्यति | विचार्यतेऽन्तस्तदनुभावहीनं न शोचति || २ || यथाऽस्य चित्तादीनजीवत्वकल्पनया बन्धः एवं चित्ताधीनाभ्यामेव विचारतत्त्वबोधाभ्यां मुक्तिरपीति गूढाशयेनाह - यथाभूतमिति | आदौ यदि विचार्यते तदनुभावो द्वैताभिनिवेशस्तद्धीनं अत एव यथाभूतं यथास्थितं असद्रूपम् | रूपग्रहणं नाम्नोऽप्युपलक्षणम् | नामरूपशून्यमित्यर्थः | तथाविधमात्मानं पश्यति तदा न शोचति | तरति शोकमात्मवित् इति श्रुतेरित्यर्थः || २ || चित्तमात्रं नरस्तस्मिन्गते शान्तमिदं जगत् | उपानद्रूढपादस्य ननु चर्मास्तृतैव भूः || ३ || ननु विचारेण चित्तोपशमेऽपि कथं सर्वद्वैतोपशमस्तत्राह - चित्तमात्रमिति | नरो जीवः | तस्य अचेत्यमानद्वैतसत्ताभावाच्चित्तोपरमे द्वैतोपरमसिद्धिरित्यर्थः || ३ || पत्रमात्रादृते नान्यत्कदल्या विद्यते यथा | भ्रममात्रादृते नान्यज्जगतो विद्यते तथा || ४ || चित्तभ्रमोपादानकस्य जगतस्तदतिरिक्तस्वरूपाभावादप्युपरमसिद्धिरित्याशयेनाह - पत्रमात्रादिति | पत्रग्रहणं त्वक्काण्डमूलानामप्युपलक्षणम् | अन्यत् स्वरूपमिति शेषः || ४ || जायते बालतामेति यौवनं वार्धकं ततः | मृतिं स्वर्गं च नरकं भ्रमाच्चेतो हि नृत्यति || ५ || उक्तमेव प्रपञ्चयति - जायत इति || ५ || विचित्रबुद्बुदोल्लासे स्वात्मनो व्यतिरेकिणि | यथा सुरायाः सामर्थ्यं तथा चित्तस्य संसृतौ || ६ || बुद्बुदोल्लासे नभसि अनेकसहस्रबुद्बुदाकारभ्रमजनने | तथा चित्तस्य ब्रह्माण्डबुद्बुदोल्लासे || ६ || यथा द्वित्वं शशाङ्कादौ पश्यत्यक्षिमलाविलम् | चिच्चेतनकलाक्रान्ता तथैव परमात्मनि || ७ || मलेन तिमिरेणाविलं कलुषमक्षि पश्यति | चेतनं चित्तं तस्य कला भ्रान्तिजननशक्तिस्तया आक्रान्ता परवशीकृता जीवचित् || ७ || यथा मदवशाद्भ्रान्तान्क्षीबः पश्यति पादपान् | तथा चेतनविक्षुब्धान्संसारांश्चित्प्रपश्यति || ८ || क्षीबो मदिरामत्तः || ८ || यथा लीलाभ्रमाद्बालाः कुम्भकृच्चक्रवज्जगत् | भ्रान्तं पश्यन्ति चित्तात्तु विद्धि दृश्यं तथैव हि || ९ || लीलया भ्रमाद्भ्रमणात् | कुम्भकृत्कुलालस्तदीयचक्रवत् || ९ || यदा चिच्चेतति द्वित्वं तदा द्वैतैक्यविभ्रमः | यदा न चेतति द्वैतं तदा द्वैतैक्ययोः क्षयः || १० || चित्ताधीनप्रतीतिकालिकैव द्वैतसत्ता चित्तोपरमे उपरमतीत्याह - यदेति || १० || यच्चेत्यते तदितरद्व्यतिरिक्तं चितोऽस्ति न | किंचिन्नास्तीति संशान्त्या चितः शाम्यति चेतनं || ११ || प्रतीतिकालेऽपि सा न पृथगस्तीत्याह - यदिति | तस्याश्चित इतरज्जडरूपम् | चित्तस्य तर्हि कुतः शान्तिस्तत्राह - किंचिदिति | विषयापह्नवे निरिन्धनाग्निरिव चित्तं स्वयमेव शाम्यतीत्यर्थः || ११ || चिद्घनेनैकतामेत्य यदा तिष्ठति निश्चलः | शाम्यन्व्यवहरन्वापि तदा संशान्त उच्यते || १२ || जीवन्मुक्तस्तर्हि कदा भवति तत्राह - चिद्घनेनेति | शाम्यन् समाधिलीनः || १२ || तन्वी चेतयते चेत्यं घना चिन्नाङ्ग चेतति | अल्पक्षीबः क्षोभमेति घनक्षीबो हि शाम्यति || १३ || नन्वल्पज्ञचितश्चिद्घनैक्ये सर्वज्ञतैव स्यान्न निर्विषयतालक्षणा संशान्तिरिति चेत्तत्राह - तन्वीति | अङ्गेति संबोधने | घनक्षीबोऽत्यन्तमत्तः | शाम्यति निर्व्यापाओ भवति | अयं भावः - चितः सविषयता न केवलचित्त्वप्रयुक्ता किंत्वविद्याविक्षिप्तचित्त्वप्रयुक्ता | सा च ज्ञानसमाधिदार्ढ्याभिव्यक्तचिद्घनैक्येनाविद्याविक्षेपापगमे अपैत्येव | या त्वीश्वरादीनां सर्वज्ञता सापि मायिक्येव न वास्तवीति न कश्चिद्दोष इति || १३ || चिद्घनैकप्रपातस्य रूढस्य परमे पदे | नैरात्म्यशून्यवेद्याद्यैः पर्यायैः कथनं भवेत् || १४ || एतदेवाभिप्रेत्याह - चिद्घनैकेति | चिद्घनेन एकप्रपातोऽनन्यविषयता नैरन्तर्यं च यस्य तथाविधस्य अत एव परमे पदे तस्मिन् रूढस्येति निर्विकल्पसमाधिसाक्षात्कारावुक्तौ | तथाविधस्य चित्तस्य नैरात्म्यं स्वरूपशून्यता शून्यवेद्यं निर्विषयतेत्यादिपर्यायैः || १४ || चिच्चेतनेन चेत्यत्वमेत्येवं पश्यति भ्रमम् | जातो जीवामि पश्यामि संसरामित्यसन्मयम् || १५ || चिति चेत्यजडसंसरणक्रमरूपताकल्पनापि चित्तनिमित्तैवेति तदुपशमे तदपगमोपपत्तिरित्याशयेनाह - चिदिति || १५ || स्वभावाद्व्यतिरिक्तं तु न चित्तस्यास्ति चेतनम् | स्पन्दादृते यथा वायोरन्तः किं नाम चेत्यते || १६ || ननु चेतनं चित्तव्यापारः समाधिज्ञानाभ्यासादुपरमतु चित्तं त्वनुपरतमेवेत्याशङ्कायामाह - स्वभावादिति | औष्ण्योपरमे वह्निपरिशेषवद्व्यापारोपरमेन चित्तं परिशिष्यते न हि तदन्तर्गतं स्वरूपान्तरं केनचिदनुभूयत इत्याह - अन्तरिति || १६ || प्. २९१) १७८ चेत्यत्वं संभवत्येवं किंचिद्यच्चेत्यते चिता | रज्जुसर्पभ्रमाभासं तमविद्याभ्रमं विदुः || १७ || एवं चित्तापगमे चितिचेत्याप्रथनादप्रथमानस्य च साधकान्तराभावादसिद्धेश्च तदप्यपगतमेवेत्याशयेनाह - चेत्यत्वमिति | प्राक्तर्हि चेत्यप्रतिभासः कीदृक् तमाह - रज्ज्विति || १७ || संविन्मात्रचिकित्स्येऽस्मिन्व्याधौ संसारनामनि | चित्तमात्रपरिस्पन्दे संरम्भो न च किंचन || १८ || एवंच रज्जुसर्पस्पन्द इव चित्तस्पन्दात्मकः संसारो बोधमात्रेण चिकित्सितुं शक्य इत्याहसंविदिति | संरम्भ आयासः किंचन कश्चन || १८ || यदि सर्वं परित्यज्य तिष्ठस्युत्क्रान्तवासनः | अमुनैव निमेषेण तन्मुक्तोऽसि न संशयः || १९ || उत्क्रान्तवासनो वासनामयचित्तशून्यः || १९ || यथा रज्ज्वां भुजङ्गाभा विनश्यत्येव वीक्षणात् | संविन्मात्रविवर्तेन नश्यत्येव हि संसृतिः || २० || संविन्मात्रस्य विवर्तः प्रत्यङ्मुखतया परावृत्त्य स्वतत्त्वदर्शनं तेन || २० || यत्राभिलाषस्तन्नूनं संत्यज्य स्थीयते यदि | प्राप्त एवाङ्ग तन्मोक्षः किमेतावति दुष्करम् || २१ || संवित्परावृत्तौ चेन्द्रियनिग्रहो हेतुस्तत्र च विषयाभिलाषत्यागो हेतुरित्याशयेनाह - यत्राभिलाष इति || २१ || अपि प्राणांस्तृणमिव जयन्तीह महाशयाः | यत्राभिलाषस्तन्मात्रत्यागे कृपणता कथम् || २२ || विषयत्यागं प्ररोचयति - अपीति || २२ || यत्राभिलाषस्तत्त्यक्त्वा चेतसा निरवग्रहम् | प्राप्तं कर्मेन्द्रियैर्मृह्णंस्त्यजन्नष्टं च तिष्ठ भोः || २३ || निरवग्रहं निरासङ्गम् | कथं तर्हि जीवनं तत्राह - प्राप्तमिति | नष्टं त्यजन् नानुशोचन्निति यावत् || २३ || यथा करतले बिल्वं यथा वा पर्वतः पुरः | प्रत्यक्षमेव तस्यालमजत्वं परमात्मनः || २४ || तस्य उक्तलक्षणस्य तत्त्वविदः अजत्वं जन्मादिविक्रियाशून्यब्रह्मत्वं अलमत्यन्तं प्रत्यक्षमेव न तिरोहितमित्यर्थः || २४ || आत्मैव भाति जगदित्युदितस्तरङ्गैः कल्पान्त एक इव वारिधिरप्रमेयः | ज्ञातः स एव हि ददाति विमोक्षसिद्धिं त्वज्ञात एव मनसे चिरबन्धनाय || २५ || उक्तार्थत्रयं संक्षिप्योपसंहरति - आत्मैवेति | आत्मैवाज्ञदृशां जगदिति वेषेण उदित आविर्भूतः सन् भाति | यथा कल्पान्तवारिधिस्तरङ्गभेदैर्भाति तद्वत् | स एव ज्ञातो ज्ञानाभिव्यक्तः सन् विमोक्षलक्षणां सिद्धिं पुरुषार्थं ददाति | अज्ञातस्तु प्रथमं मनसे सर्वार्थनिदानमनोभावाय तत्प्रयुक्तचिरबन्धनाय च भवतीति शेषः || २५ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे लीलोपाख्याने संसृतिपरमयोगो नाम षट्षष्टितमः सर्गः || ६६ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे संसृतिपरमयोगो नाम सट्षष्टितमः सर्गः || ६६ || सप्तषष्टितमः सर्गः ६७ श्रीराम उवाच | मनस्त्वयोग्यो जीवोऽयं को भवेत्परमात्मनः | कथं वास्मिन्समुत्पन्नः को वायं वद मे पुनः || १ || भोक्ता यः कथितो जीवस्तत्स्वरूपमिहोच्यते | व्यष्टिप्राधान्यतस्तस्य करणादेश्च संभवः || १ || समष्टिप्राधान्येनोक्तं जीवं व्यष्टिप्राधान्येन स्फुटं जिज्ञासुः श्रीरामः पुनः पृच्छति - मनस्त्वेति | मनः सृष्ट्वा तत्तादात्म्यस्य स्वस्मिन्नध्यासान्मनस्त्वयोग्यः परमात्मनः संबन्धी को भवेत् | किमंश उत कार्यमुत स एव | यदि स एव तर्हि कथं वास्मिन्समुत्पन्नः | किं परिणामेनोत विवर्तेन | आद्ये अनित्यता | द्वितीये बाध्यता | यद्यनुत्पन्नस्तर्हि भोक्तुरसिद्धिः | ब्रह्मणोऽशनायाद्यत्ययश्रुतेः | यद्यन्यस्तर्हि को वा | तत्सजातीय उत विजातीय इति विकल्पे नैकोऽपि पक्षो घटत इति संदेहपरिहाराय पुनर्वदेत्यर्थः || १ || श्रीवसिष्ठ उवाच | समस्तशक्तिखचितं ब्रह्म सर्वेश्वरं सदा | ययैव शक्त्या स्फुरति प्राप्तां तामेव पश्यति || २ || अचिन्त्यानन्तशक्तिसंपन्नमायाशक्तिशबलं ब्रह्म परमार्थत आविष्कृतमभिन्नमपि स्वस्मिन्नेव मायया द्वितीयतामिवापन्ने औपाधिकविकारानारोप्यानन्तजीववेषेण सर्वज्ञेश्वरभावेन च क्रीडितुं समर्थमिति न कश्चिद्दोष इत्याशयेन वसिष्ठः समाधातुमुपक्रमते - समस्तेति | सर्वेश्वरं सर्वसमर्थम् || २ || स्वयं यां वेत्ति सर्वात्मा चिरं चेतनरूपिणीम् | सा प्रोक्ता जीवशब्देन सैव संकल्पकारिणी || ३ || चिरमनादिकालाच्चेतनरूपिणीं चित्तसंस्कारोपहितचिद्रूपाम् || ३ || स्वभावात्कारणं द्वित्वं पूर्वसंकल्पचित्स्वयम् | नानाकारणतां पश्चाद्याति जन्ममृतिस्थितेः || ४ || आत्मनि स्वाभाविकं द्वितीयत्वमेवोत्तरसंसारप्रवृत्तेर्मुख्यं कारणं पूर्वपूर्वसंकल्पवासनावासितजीवचैतन्यं तु पश्चात्तनवैचित्र्यमात्रहेतुरित्याह - स्वभावादिति || ४ || श्रीराम उवाच | एवं स्थिते मुनिश्रेष्ठ दैवं नाम किमुच्यते | किमुच्यते तथा कर्म कारणं च किमुच्यते || ५ || एतावतैव प्रश्नशेषस्याप्युत्तरमुक्तप्रायमिति मन्यमानो राम उक्तजीवस्य जन्मादिनिमित्तदैवकर्मकारणानि तत्त्वतो जिज्ञासुः पृच्छति - एवमिति | एवमुक्तविधया जीवस्वरूपे स्थिते बुद्धौ प्रतिष्ठिते सति पृच्छामीति शेषः || ५ || प्. २९२) १७९ श्रीवसिष्ठ उवाच | स्पन्दास्पन्दस्वभावं हि चिन्मात्रमिह विद्यते | खे वात इव तत्स्पन्दात्सोल्लासं शान्तमन्यथा || ६ || स्पन्दस्वभावं रजःप्रधानमायोपहितम् | अस्पन्दस्वभावं शुद्धम् | सोल्लासं सृष्ट्युन्मुखं भवतीति शेषः | अन्यथा स्पन्दाभावे तु शान्तमेवावतिष्ठत इत्यर्थः || ६ || चित्त्वं चित्तं भावितं सत्स्पन्द इत्युच्यते बुधैः | दृश्यत्वभावितं चैतदस्पन्दनमिति स्मृतम् || ७ || तत्राद्यं विवृणोति - चित्त्वमिति | स्वीयं स्वाभाविकं चित्त्वमेव चित्तं चेत्याकारं स्वाविद्यया भावितं कल्पितं चेत्तदाकारं सत् स्पन्द इत्युच्यत इत्यर्थः | द्वितीयं विवृणोति - दृश्यत्वेति || ७ || स्पन्दात्स्फुरति चित्सर्गो निःसप्न्दाद्ब्रह्म शाश्वतम् | जीवकारणकर्माद्या चित्स्पन्दस्याभिधा स्मृता || ८ || स्पन्दास्पन्दाभ्यामेव चितः प्रपञ्चाप्रपञ्चात्मतेति निष्कर्षे स्पन्दस्यैव जीवकारणकर्मदैवादिनाम्ना व्यपदेश इति फलितमित्याह - स्पन्दादिति | चिदिति पृथक्पदम् | तत्र प्राणस्पन्दविवक्षया जीवः स्वान्तर्गतकार्याणामाविर्भावनलक्षणस्पन्दविवक्षया कारणं शरीरादिस्पन्दविवक्षया कर्म देव सूक्ष्मावस्थं चिरस्थितं फलारम्भोन्मुखं दैवमिति भेद इति भावः || ८ || य एवानुभवत्मायं चित्स्पन्दोऽस्ति स एव हि | जीवकारणकर्माख्यो बीजमेतद्धि संसृतेः || ९ || तेषां चानुभवसत्तालम्बनेनैव सत्ता स्वकार्यक्षमता चेत्याह - य एवेति || ९ || कृतद्वित्वचिदाभासवशाद्देहमुपस्थितम् | संकल्पाद्विविधार्थत्वं चित्स्पन्दो याति सृष्टिषु || १० || यत्पृष्टं कथं वास्मिन्समुत्पन्न इति तस्योत्तरमाह - कृतद्वित्वेति | तत्तत्कर्मानुसारेण प्राङ्मरणकाले बुद्धावुपस्थितं देवनरतिर्यगादिदेहं पूर्वसंकल्पानुसारिविविधभोग्यपदार्थभावं च याति प्राप्नोति || १० || नानाकारणतां यातश्चित्स्पन्दो मुच्यते चिरात् | कश्चिज्जन्मसहस्रेण कश्चिदेकेन जन्मना || ११ || नानाविधानि योनिसहस्राणि कारणानि जन्महेतूनि यस्य तद्भावं चिराद्यातः सन् कश्चिन्मन्दशास्त्रीयप्रवृत्तिश्चित्स्पन्दश्चिरान्मुच्यते | संपन्नज्ञानाधिकारस्त्वेकेन जन्मना || ११ || स्वभावात्कारणाद्वित्वं चित्समेत्याधिगच्छति | स्वर्गापवर्गनरकबन्धकारणतां शनैः || १२ || यदुक्तं नानाकारणतां यात इति तत्प्रकारमाह - स्वभावादिति | चितः स्वभावो येनोपाधिना संबध्यते तद्रूपेण स्फुरणम् | यथा आलोको नीलपटे नीलरूपो रक्तपटे रक्तरूपः पीते तद्रूप इति | तादृशस्वभाववशादेव देहजन्मकारणैरन्नरसैस्तद्द्वारा पित्रादिशरीरैश्चाद्वित्वमैक्यं समेत्य संप्राप्य क्रमेण शुक्रशोणितादिरूपेण परिणतं शनैः स्वर्गमोक्षनरकवधबन्धादिकारणदेहतामधिगच्छति प्राप्नोतीत्यर्थः | अपगच्छति इति पाठे स्वर्गादिहेतुं देहभावं प्राप्तुं शुक्रादिरूपेण पितृदेहादपगच्छति निर्गच्छतीत्यर्थः || १२ || हेम्नीव कटकादित्वं काष्ठलोष्टसमस्थितौ | देहे तिष्ठति नानात्वं जडे भावविकारजम् || १३ || तथा चोपाधीनां मेलनेनैक्ये पितापुत्रजीवयोर्भेदो न लक्ष्यते उपाधिपृथग्भावे तु भेदः प्रतीयत इति जीवानां परस्परभेद उपाधेरेव धर्मो न चैतन्यस्येत्याह - हेम्नीवेति | उपाधीनामपि भूतविकारत्वाद्भूतानां चोत्तरोत्तरं पूर्वपूर्वभूतविकारत्वादखण्डाकाशमात्रत्वेन सत्यभेदावकाश इत्याशयेन हेमकटकदृष्टान्तोपन्यासः | जन्मादयः षड्भावविकारास्तेभ्यो जातं नानात्वं भेदः || १३ || अजातमप्यसद्रूपं पश्यतीदं मनोभ्रमः | जातः स्थितो मृतोऽस्मीति भ्रमार्तः पत्तनं यथा || १४ || एवं भेदस्य मृसात्वेऽपि जन्मादिभेदप्रतीतिर्मनोभ्रम एवेत्याह - अजातमपीति || १४ || अहंममेत्यसद्रूपमेव चेतः प्रपश्यति | अदृष्टपरमार्थत्वादाशाविवशसंस्थिति || १५ || सर्वभेदप्रत्ययानामहंममेति भेदकल्पनामूलं तस्या अपि पूर्णात्मस्वरूपाज्ञानं भोगाशासंस्काराश्च क्रमेण मूलमित्याशयेनाह - अहमिति || १५ || मथुराधिपते राज्ञो यथा श्वपचसंभ्रमः | आसीदेवं हि चित्तस्य स्फुरतीयं जगत्स्थितिः || १६ || उक्तेऽर्थे वक्ष्यमाणलवणोपाख्यानार्थो निदर्शनमित्याह - मथुरेति || १६ || सर्वमेव मनोमात्रभ्रान्त्युलासविजृम्भणम् | इदं जगत्तया राम प्रस्फुरत्यम्बुभङ्गवत् || १७ || शिवात्प्राक्कारणात्पूर्वं चिच्चेत्यकलनोन्मुखी | उदेति सौम्याज्जलधेः पयःस्पन्दो मनागिव || १८ || उक्तमेवारोपक्रमं पुनः प्रत्येकं दृष्टान्तैर्बोधयति - शिवादित्यादिना || १८ || स्फुरणाज्जीवचक्रत्वमेति चित्तोर्मितां दधत् | चिद्वारिब्रह्मजलधौ कुरुते सर्गबुद्बुदान् || १९ || स्फुरणात् स्पन्दनात् | जीवचक्रत्वं जीवस्वरूपामावर्तताम् || १९ || स्वस्थः सौम्य समस्यैतद्यत्सिंहस्य विजृम्भणम् | ब्रह्मणः संविदाभासस्तत्संचेत्यमिव स्वयम् || २० || हे सौम्य स्वबोधमात्रेण सिंहः मायाबन्धनं हन्तीति सिंहस्तथाविधस्य सिंहवदचिन्त्यशक्तिमतो वा ब्रह्मणो यन्मायया विजृम्भणं गात्रविनमनं स एव स्वात्मस्थः संविदाभासो जीव इव स्थितं तदेव संचेत्यं विषयरूपमिव स्थितं न पृथगस्तीत्यर्थः || २० || चित्संवित्त्योच्यते जीवः संकल्पात्स मनो भवेत् | बुद्धिश्चित्तमहंकारो मायेत्याद्यभिधं ततः || २१ || कैरुपाधिभिस्तर्हि जीवमनोबुद्धिचित्ताहंकारादिशब्दभेदस्तानाह - चित्संवित्त्येति | चित्संवित्त्या चिदाभासात्मना अध्यवसायाद्बुद्धिः स्मरणाच्चित्तमभिमानादहंकारो विक्षेपशक्तित्वान्माया | आदिपदात् प्राणन्नेव प्राणो नाम भवति वदन्वाक्पश्यंश्चक्षुः इत्यादिश्रुत्युक्ताभिधासंग्रहः || २१ || प्. २९३) १७९ तन्मात्रकल्पना पूर्वं तनोतीदं जगन्मनः | असत्यं सत्यसंकाशं गन्धर्वनगरं यथा || २२ || तत्र संकल्पप्रधानस्य शब्दादिसूक्ष्मभूतकल्पनापूर्वकं जगत्कल्पकत्वमाह - तन्मात्रेति || २२ || यथा शून्ये दृशः स्फारान्मुक्तावल्यादिदर्शनम् | यथा स्वप्ने भ्रमश्चैव तथा चित्तस्य संसृतिः || २३ || मनःकल्पितस्य च मानोरथिकवस्तुवन्मिथ्यात्वमेवेत्याह - यथेति | शून्ये आकाशे दृशो दृष्टेः स्फाराद्विस्तारात् || २३ || शुद्ध आत्मा नित्यतृप्त इव शान्तः समस्थितः | अपश्यन्पश्यतीवेमं चित्ताख्यं स्वप्नविभ्रमम् || २४ || तत्साक्षिणस्तु नित्यशुद्धतैवेत्याह - शुद्ध इति | अशनायाद्यभावान्नित्यतृप्त इव || २४ || संसृतिर्जाग्रदित्युक्तं स्वप्नं विदुरहंकृतिम् | चित्तं सुषुप्तभावः स्याच्चिन्मात्रं तुर्यमुच्यते || २५ || तस्यैवेन्द्रियद्वारैर्बहिः संसृतिर्जाग्रत् | अन्तरहंभाववासितस्य हृदयात्कण्ठपर्यन्तं संसृतिः स्वप्नः | स्मृतिबीजवासनामात्रशेषेण हृदि स्थितिः सुषुप्तिस्तदतिक्रमस्तु तुर्यतेत्याह - संसृतिरिति || २५ || अत्यन्तशुद्धे सन्मात्रे परिणामनिरामयम् | तुर्यातीतं पदं तत्स्यात्तत्स्थो भूयो न शोचति || २६ || एवं शोधितस्य प्रत्यक्तत्त्वस्य ब्रह्मात्मनि परिणस्या निरामयं यथा स्यात्तथा स्थितिरेव तुर्यातीतत्वमित्याह - अत्यन्तेति || २६ || तस्मिन्सर्वमुदेतीदं तस्मिन्नेव प्रलीयते | न चेदं न च तत्रेदं दृष्टौ मुक्तावली यथा || २७ || अशोधिततत्पदार्थे प्रतिष्ठाशङ्कावारणाय तच्छोधनं तज्जलानिति शान्त उपासीत इति श्रुतिदर्शितदिशा दर्शयति - तमिन्निति | न चेदं तदिति शेषः | आद्यो ब्रह्मणि जगत्तादात्म्यस्य निषेधो द्वितीयस्तु संसर्गस्य || २७ || अरोधकत्वात्खं हेतुर्यथा वृक्षसमुन्नतेः | अकर्तापि तथा कर्ता चेतनाब्धिर्जगत्स्थितेः || २८ || यदि जगत्संबन्धशून्यस्तर्हि कथं जगद्धेतुरिति श्रुत्योक्तस्तत्राह - अरोधकत्वादिति | समुन्नतेरभिवृद्धेः | मायाकृतसर्गे अनिवारकत्वमात्रेण कर्तृत्वोपचार इत्यर्थः || २८ || संनिधानाद्यथा लौहः प्रतिबिम्बस्य हेतुताम् | यात्यादर्शस्तथैवायं चिन्मयोऽप्यर्थवेदने || २९ || लौहो लोहविकार आदर्शः || २९ || बीजमङ्कुरपत्रादियुक्त्या यद्वत्फलं भवेत् | चिन्मात्रं चित्तजीवादियुक्त्या तद्वन्मनो भवेत् || ३० || कथं तर्हि सर्वं न युगपज्जायते तत्राह - बीजमिति | युक्तिरत्र क्रमः | तथैवानादिनियतिस्थितेरित्यर्थः || ३० || स्वतोबीजफला विप्रुड् यथा बीजं पुनर्भवेत् | तथा चिच्चेत्यचित्तादि त्यक्त्वा स्वस्था न तिष्ठति || ३१ || ननु प्रलये सर्वविलये तथैव स्वस्था चित्सदा कुतो नावतिष्ठते तत्राह - यथेति | यथा अनुशयिजीवसंयुक्ता विप्रुड् वृष्टिजलबिन्दुर्वृक्षसस्याद्यनुप्रविश्य पुनर्बीजं भवत्येव नोदास्ते तथा जीववासनावासिता चिदपि चेत्यचित्तादिसर्गात्मना पुनर्भवत्येव न तत्त्यक्त्वा स्वस्था तिष्ठतीत्यर्थः || ३१ || यद्यप्यबोधे बोधे वा बीजान्तस्तरुबीजयोः | इयान्भेदोऽस्ति न जगद्ब्रह्मणोरपि चित्तयोः || ३२ || ननु बीजे सूक्ष्मतया स्थितस्य तरोस्तद्बीजस्य च अबोधे बोधे वा न तरुजननशक्तिरपैति तथा चित्तात्मतापन्नयोर्जगद्ब्रह्मणोरपि तत्त्वतो बोधाबोधयोर्विशेषो न स्यादिति बोधवैफल्यमित्याशङ्क्याह - यद्यपीति | इयान्परिदृश्यमानस्तरुजननशक्तिभेदोऽस्ति तथापि चित्तभूतयोर्जगद्ब्रह्मणोः स नास्त्येव | यतो बीजतरुबोधमात्रेण न तात्त्विकमखण्डितं रूपं व्यज्यते ब्रह्मबोधेन तु दीपेन रूपश्रीरिव तद्व्यज्यते इति इयान्भेदो वैलक्षण्यमस्तीत्यावृत्त्या परेण सह योज्यम् || ३२ || तथापि व्यज्यते बोधे सत्यात्मकमखण्डितम् | रूपश्रीरिव दीपेन चिन्मात्रालोकरूपि यत् || ३३ || यद्यन्निखन्यते भूमेर्यथा तत्तन्नभो भवेत् | या या विचार्यते विद्या तथा सा सा परं भवेत् || ३४ || कुतो बोधस्येदृशसामर्थ्यमिति चेद्विचारजन्यत्वेन तत्त्वावगाहित्वादित्याशयेनाह - यद्यदिति | अविद्या आविद्यकं पटादि | परं अधिष्ठानसत्तामात्रम् || ३४ || स्फटिकान्तःसन्निवेशः स्थाणुताऽवेदनाद्यथा | शुद्धेऽनानापि नानेव तथा ब्रह्मोदरे जगत् || ३५ || स्फाटिकान्तर्वनादिसंनिवेशः स्थाणुता कौटस्थ्यं तदवेदनाद्यथा भवति तथा शुद्धे ब्रह्मोदरे अनानापि जगन्नानेव भातीति शेषः || ३५ || ब्रह्म सर्वं जगद्वस्तु पिण्डमेकमखण्डितम् | फलपत्रलतागुल्मपीठबीजमिव स्थितम् || ३६ || पिण्डं स्फटिकघनम् | स्वप्रतिबिम्बितवनफलपत्रलतादयस्तेषां पीठमाधारभूस्तदन्तर्गतं बीजं चेत्येवंरूपमिव ब्रह्म जगद्रूपं स्थितमित्यर्थः || ३६ || श्रीराम उवाच | अहो चित्रं जगदिदमसत्सदिव भासते | अहो बृहदहो स्वस्थमहो स्फुटमहो तनु || ३७ || इत्थं वर्णितं जीवमनोबुद्धिचित्ताहंकारस्वरूपं तन्मात्रकल्पनान्तं प्रासङ्गिकं जगतो मायामात्रत्वं च श्रुत्वा विस्मितो गुरुवचनविश्वासाज्जगतो मायामात्रत्वमनुवादेनानुमोदमानस्तन्मात्राणां सेन्द्रियसमष्टिव्यष्टिस्थूलशरीरभावोत्पादक्रमं जिज्ञासुः पृच्छति - अहो इत्यादिना || ३७ || ब्रह्मणि प्रतिभासात्मा तन्मात्रगुणगोलकः | अवश्यायकणाभासो यथा स्फुरति तच्छ्रुतम् || ३८ || यथाऽसौ याति अपुल्यं यथा भवति चात्मभूः | यथा स्वभावसिद्धार्थात्तथा कथय मे प्रभो || ३९ || वैपुल्यं समष्टिव्यष्टिस्थूलदेहभावम् | यथार्थस्वभावसिद्धादर्थादात्मवस्तुनः सकाशाद्यथा आत्मभूर्व्यष्टिसमष्टिस्थूलभूग्विश्ववैश्वानरात्मा यथा भवति तथा कथय मे इत्यर्थः || ३९ || प्. २९४) १८० श्रीवसिष्ठ उवाच | अत्यन्तासंभवद्रूपमनन्यत्स्वस्वभावतः | अत्यन्ताननुभूतं सत्स्वानुभूतमिवाग्रतः || ४० || उल्लासफुल्लो फुल्लाङ्ग इति बालहृदि स्फुटम् | यथोदेति तथोदेति परे ब्रह्मणि जीवता || ४१ || पृष्ठं वर्णयितुं प्रथममत्यन्तासंभावितानिर्वचनीयस्थूलतान्तसर्ववासनाविजृम्भितजीवभ् आवाविर्भावं सदृष्टान्तं दर्शयति - अत्यन्तेत्यादिद्वाभ्याम् | जीवलक्षणमत्यन्तासंभवद्रूपमफुल्लाङ्गो वस्तुतः फुल्लाङ्गशून्योऽपि फुल्लाङ्गो वेतालो यथा बालहृदि स्फुटमुदेति तथोदेतीत्यन्वयः || ४० || मानमेयात्मिका शुद्धा सत्यैवासत्यवस्त्स्थिता | भिन्नेव च न भिन्ना स्याद्ब्रह्मणो बृंहणात्मिका || ४२ || अननुभूतमननायोगादनुभवस्य च मानमेयाधीनत्वान्मनोभावनिमित्तं मानमेयवासनोद्भवमाह - मानेति || ४२ || यथा ब्रह्म भवत्याशु जीवः कलनजीवितः | तथा जीवो भवत्याशु मनो मननवेदनात् || ४३ || मननवेदनान्मननवासनोद्भवाज्जीवो मनो भवति | मन्वानो मनः इति श्रुतेरित्यर्थः || ४३ || चित्तं तन्मात्रमननं पश्यत्याशु स्वरूपवत् | एष सद्योऽनिललवप्रख्यः स्फुरति खान्तरे || ४४ || तच्चित्तं मनस्तन्मात्रगोचरमननं स्वीयं स्वरूपवत्तन्मात्रात्मना आविर्भूतं पश्यतीत्यर्थः | अस्तनिमेषः अविच्छिन्नदृग्रूपः अनिललवप्रख्यः अतिसूक्ष्मः एष तन्मात्रात्मा खान्तरे चिदाकाशे स्फुरति | स्वतःप्रकाशमाने सति तत्स्फूर्त्या संवेदनात्मकं सृष्टिकालवशेन पञ्चीकरणद्वारोत्पादितं कान्तं हिरण्मयत्वात्सूर्यवत्प्रकाशमानं अपरिच्छिन्नचिद्दृष्ट्या अवश्यायकणोपमं ब्रह्माण्डरूपं मनुष्यादिदेहरूपं चात्मनि पश्यतीत्यनुषज्यते || ४४ || अस्तनिमेषोऽनुभवत्यवश्यायकणोपमम् | संवेदनात्मकं कालकलितं कान्तमात्मनि || ४५ || अहंकिमिति शब्दार्थवेदनाभोगसंविदम् | संविदं तत्त्वशब्दार्थं जीवः पश्यति सार्थकम् || ४६ || तस्मिन्पथमं शब्दार्थविभागास्फूर्त्या संमुग्धमहंताध्यासं ततः संसारतत्त्वस्मरणं चाह - अहमिति | अहं किमिति तत्त्वतो वा मनुष्याद्याकारतो वा विशिष्य वेदनां न भुङ्क्ते तां तथाविधां संविदं प्रथमं ततः सार्थकं पुरुषार्थविचारसहितं प्राक्तनजन्मसहस्रस्मृत्या गर्भे जगत्तत्त्वशब्दार्थं संविदं च पश्यतीत्यर्थः || ४६ || तादृक्षवेदनात्सोऽथ रसशब्दार्थवेदनम् | भाविजिह्वार्थनाम्नैकदेशेऽनुभवति क्षणात् || ४७ || तस्येन्द्रियकल्पनां क्रमेणाह - तादृक्षेत्यादिना | तादृक्षवेदनात्पिण्डे स्फुटाहंभाववेदनादिति सर्वत्रार्थः | जिह्वाशब्दो रसनेन्द्रियपरस्तदर्थस्य रसस्य नाम्ना उपलक्षितमिति शेषः | एकदेशे मुखविलादिप्रदेशे || ४७ || तादृक्षवेदनात्तेजःशब्दार्थोन्मुखतां गतः | भविष्यन्नेत्रनाम्नैकदेशे भवति भासनम् || ४८ || तादृक्षवेदनात्सोऽथ घ्राणं तद्वृष्टिवेदनात् | स्थितो यस्मिन्भवतीति तावद्दृश्यादिता स्थिता || ४९ || तद्दृष्टिर्घ्राणदृष्टिः | इति अनया रीत्या यस्मिन् श्रोत्रादिभावेऽपि यावत्कालं स्थितो भवति तावत्कालं शब्दादिदृश्यं अत्ति उपभुङ्क्ते तच्छीलता अस्य स्थितेत्यर्थः || ४९ || एवंप्रायः स जीवात्मा काकतालीयवच्छनैः | विशिष्टसंनिवेशत्वं भावितं पश्यति स्वतः || ५० || तस्य संघाताभिमानमाह - विशिष्टेति | भावितं प्राग्वासनाकल्पितम् || ५० || स तस्य संनिवेशस्य त्वसतोऽपि सतः सतः | शब्दभावैकदेशत्वं श्रवणार्थेन विन्दति || ५१ || तस्य श्रोतादिभिः शब्दादिभोगे तत्तदिन्द्रियतादात्म्याध्यासमाह - स तस्येत्यादिना | असतोऽपि सतः सतः सत्त्वेन संपन्नस्य | श्रवणक्रियालक्षणेनार्थेन प्रयोजनेन शब्दान् भावयति ग्राहयतीति शब्दभावः श्रोत्रं तल्लक्षणं देहैकदेशत्वं विन्दति लभते || ५१ || स्पर्शभावैकदेशत्वं त्वक्शब्दार्थेन विन्दति | रसभावैकदेशत्वं रसनात्वेन विन्दति || ५२ || रूपभावैकदेशत्वं नेत्रार्थाकृति पश्यति | गन्धभावैकदेशत्वं नासिकात्वेन पश्यति || ५३ || एवं भावमयैः सत्ताप्रकटीकरणक्षमम् | भविष्यदिन्द्रियाख्यं स रध्रं पश्यति देहके || ५४ || एवमुक्तानुक्तेन्द्रियमयैर्बाह्यार्थसत्ताप्रकटीकरणक्षमं इन्द्रस्य परमात्मनो लिङ्गत्वेन भाविना भविष्यदिन्द्रियाख्यम् || ५४ || इत्येवमादि जीवस्य राघवाद्यतनस्य च | उदेति प्रतिभासात्मा देह एवातिवाहिकः || ५५ || जीवस्य समष्टिरूपस्याद्यतनस्य व्यष्टिरूपस्य च || ५५ || अनाख्येयं परा सत्तास्यातिवाहिकतामिव | सा गच्छत्यप्यगच्छन्ती तादृक्सत्यात्मभावनात् || ५६ || ब्रह्मण एवाज्ञानाद्विविधातिवाहिकदेहभावो ज्ञानात्तदपगमश्चेति दर्शयति - अनाख्येति | इयमिति च्छेदः || ५६ || मातृमेयप्रमाणादि यदा ब्रह्मैव वेदनात् | तदातिवाहिकोक्तीनां कः प्रसङ्गस्तदेव तत् || ५७ || आतिवाहिकदेहादिमुखेनाध्यारोपापवादकल्पनाप्यात्मव्युत्पादकव्यवहारदृ ^इशैव न परमार्थदृशेत्याशयेनाह - मात्रिति || ५७ || अन्यत्ववेदनादन्यः परस्मादातिवाहिकः | ब्रह्मत्ववेदनाद्ब्रह्म सा संवित्तिर्हि नान्यजा || ५८ || यदि यथावेदनमेव वस्तु तर्हि को विशेषस्तत्राह - सा संवित्तिरिति | सा ब्रह्मत्ववेदनाख्या संवित्तिर्नान्यजा न भ्रान्तिजेत्यर्थः || ५८ || श्रीराम उवाच | असंभवादसंवित्तेर्ब्रह्मात्मैकतयाथवा | को मोक्षः को विचारश्चेत्यलं भेदविकल्पनैः || ५९ || यद्येवं तर्हि चिदेकरसे ब्रह्मण्यज्ञानस्यैवायोगात्तदभावे जीवभेदकल्पकाभावेन ब्रह्मात्मैकत्वस्य स्वतःसिद्धेर्वा स्वातिरिक्तमोक्षफलस्य तत्प्रापकविचारादेश्च संभव एव नास्तीति कथं तत्प्रवृत्तिरिति रामः शङ्कते - असंभवादिति || ५९ || प्. २९५) १८० श्रीवसिष्ठ उवाच | सिद्धान्त एवैष प्रश्नस्ते राम राजते | अकालपुष्पमाला हि शोभनापि न शोभते || ६० || किमयं तत्त्वं बुद्ध्वा प्रश्न उताबुद्ध्वा | आद्ये विचारानर्थक्ये इष्टापत्तिर्द्वितीये तु नास्यावसर इत्याशयेन वसिष्ठः समाधत्ते - सिद्धान्तकाले इत्यादिना | न शोभते औत्पातिकानर्थशङ्काभयहेतुत्वादिति भावः || ६० || सार्थैवानर्थिकाऽकालमाला विलासिता यथा | तथैवाऽकालमिज्जन्तौ सर्वं काले हि शोभते || ६१ || अर्थान्तरन्यासोक्तमर्थमुपमानेनापि स्पष्टमाह - सार्थैवेति | विलसिता शोभमानाप्यकालपुष्पमाला यथा तात्कालिकोपभोगेन सार्थैव सती औत्पातिकानर्थहेतुत्वेन जनहर्षाहेतुत्वादनर्थिका तथैव अपरिपाकदशापन्ने जन्तौ अकालोत्पन्ना मिनोत्यर्थ प्रमापयतीति मित् उक्तिरप्यनर्थिकेत्यर्थः || ६१ || प्रतिबन्धाभ्यनुज्ञानां कालो दातेति दृश्यते | ननु सर्वपाअर्थानां कालेन फलयोगतः || ६२ || तत्कुतस्तत्राह - प्रतिबन्धेति | हेमन्तादिकालशाल्याद्यङ्कुरोदयप्रतिबन्धस्य यवाद्यङ्कुरोदयाभ्यनुज्ञानस्य आनुकूल्यस्य च दातेत्यन्वयव्यतिरेकाभ्यां दृश्यते लोके | नत्वित्यवश्यमित्यर्थे || ६२ || एवमेव स जीवात्मा स्वप्नात्मा समुपस्थितः | पितामहत्वमुच्छ्रनं पश्यन्नात्मनि कालतः || ६३ || एवं रामस्य शङ्कां हेलनया समाधाय अनाख्येयं परं ब्रह्मास्यातिवाहिकतामिवेत्यन्तं यदुक्तं [वस्तुनो इति पाठः] तदेवानुसृत्यातिवाहिकदेहसमष्ट्युपहिते पितामहत्वकल्पनामाह - एवमेवेति | स्वप्नात्मा स्वप्नसमष्ट्यात्मा | उपासनापरिपाकेनोपास्यभावेन फलीभूतेन समुपस्थितः | कालतः कालेन तद्भावोचितेन || ६३ || ओंमुच्चारणसंवित्तिवेदनाच्च प्रपश्यति | यत्करोति मनोराज्यं भवत्याशु स तन्मयः || ६४ || तस्य प्रणवोच्चारणेन तदर्थसंवित्त्या सर्वप्रपञ्चस्रष्टृत्वं दर्शयति - ओंमुच्चारणेति || ६४ || इदमेवमसत्सर्वमिव व्योम्नि ततात्मनि | पर्वतोच्चाकृतिर्व्योम जगद्व्योम्नि विजृम्भते || ६५ || एवंच व्यष्टिमनोराज्यवत्समष्टिमनोराज्यभूतस्यास्य जगतः असत्त्वमेवेति फलितमित्याह - इदमेवमिति | व्योम्नि कल्पितं सर्वं तलमलिनत्वादीव | तथाच पर्वतानां मेर्वादीनामुच्चाकृतिरुन्नताकारोऽपि व्योमैव | किं पुनरन्यदल्पम् | यतो वायवादिक्रमेण जगद्व्योम्न्येवारोपेण विजृम्भते ततोऽस्य तलमालिन्यादिसाम्यमेवेत्यर्थः || ६५ || नेह प्रजायते किंचिन्नेह किंचिद्विनश्यति | जगद्गन्धर्वनगररूपेण ब्रह्म जृम्भते || ६६ || एवंच सृष्टिव्युत्पादनं प्रपञ्चमिथ्यात्वज्ञापनायैव न वास्तवसर्गप्रदर्शनायेत्यभिप्रेत्य न निरोधो न चोत्पत्तिः इत्यादिश्रुत्याशयमुद्घाटयति - नेहेति || ६६ || यथैव पद्मजादीनां जीवानां सदसन्मयी | सत्ता तथैव सर्वेषामासरीसृपमासुरम् || ६७ || जीवत्वमपि जगत्कोटावेवेति दर्शयितुं जगतो जीवसमसत्ताकत्वं दर्शयति - यथैवेति | यौक्तिकदृशा सदसन्मयी विचारासहा | अधः सासरीसृपं ऊर्ध्व आसुरं सुरानभिव्याप्येत्यर्थः || ६७ || संवित्संभ्रम एवायमेवमभ्युत्थितोऽप्यसन् | आब्रह्मकीटसंवित्तेः सम्यक्संवेदनात्क्षयः || ६८ || परमार्थदृशा त्वाह - संविदिति | आब्रह्मकीटं प्रसिद्धायाः संवित्तेरनुभवाभ्युत्थितोऽप्यसन् | कुतः यतोऽस्य सम्यक्संवेदनात्क्षयो बाध इत्यर्थः || ६८ || यथा संपद्यते ब्रह्मा कीटः संपद्यते तथा | कीटस्तु रूढभूतौघवलनात्तुच्छकर्मकः || ६९ || आब्रह्मकीटसंवित्तेरित्युक्तांशमुपपादयति - यथेति | तर्हि कथं कीटस्य क्षुद्रकर्मता तत्राह - कीटस्त्विति | भूतौघवलनात् चित्ते भौतिकमालिन्याधिक्यादिति यावत् || ६९ || यदेव जीवनं जीवे चेत्योन्मुखचिदात्मकम् | तदेव पौरुषं तस्मिन्सारं कर्म तदेव च || ७० || उपाध्यनुसारिणी जीवता तदनुसारिपौरुषं तदेव फलपर्यवसितं कर्म तच्च तदेव पौरुषमेवेत्यर्थः || ७० || ब्रह्मणः सुकृतात्पापात्कीटकस्य समुत्थितेः | चित्तन्मात्रात्मिका [अज्ञाता या चित् तन्मात्रात्मिका पूर्वं षट्पञ्चाशश्लोके अनाख्येयं परा सत्ता इति मूले अत्रतु अनाख्येयं परं ब्रह्म इति वर्तते तत्र सदसद्विशैर्विचारणीयम्] भ्रान्तिः प्रेक्षामात्रं भवेत्क्षयः || ७१ || तत्र सुकृतरूपसारोत्कर्षपरमावधिफलं ब्रह्मता दुष्कृतरूपसारोत्कर्षपरमावधिफलं कीटकतेति वैचित्र्यनिमित्तभेदेऽप्यज्ञातचिन्मात्रप्रयुक्ता द्वैतभ्रान्तिर्ज्ञानमात्रप्रयुक्तस्तदपगम इत्येतदुभयत्रापि तुल्यमेवेत्याह - ब्रह्मण इति || ७१ || मातृमानप्रमेयाणि न चिन्मात्रेतरद्यतः | ततो द्वैतैक्यवादार्थः शशशृङ्गाब्ज्नीसमः || ७२ || ननु यावन्माता मानेन प्रमेयं द्वैतं वेत्ति तावद्द्वैतं तदपगमे त्वैक्यमेवेति क्रमिकद्वैतैक्यस्वभावत्वमेव वस्तुतो [वस्तुनो इति पाठः] वास्तवं किं न स्यात्तत्राह - मात्रिति | न द्वैतं मातृमानप्रमेयं मातृमानप्रमेयद्वैतस्यापि मातृमानान्तरापेक्षापत्त्या अनवस्थापातात् | अतस्तेषां चिन्मात्रत्वे द्वैतैक्यसाधकान्तराभावाद्द्वैतैक्यवादार्थः शशशृङ्गनभोब्जिनीसम इत्यर्थः || ७२ || भावदार्ढ्यात्मकं मिथ्या ब्रह्मानन्दो विभाव्यते | आत्मैव कोशकारेण लालादार्ढ्यात्मकं यथा || ७३ || यदि न द्वैतं मानसेयं तर्हि कथं कुद्दालकोटिदुर्भेदभुवनादिभावदार्ढ्यात्मकं प्रतीयते तत्राह - भावदार्ढ्यात्मकमिति | ब्रह्मानन्दात्मक आत्मैव बन्धकभुवनादिभावदार्ढ्यात्मकं द्वैतमिति भ्रान्त्यानुभूयते | यथा कोशकारकीटेन स्वलालादार्ढ्यात्मकं बन्धनमनुभूयते तद्वदित्यर्थः || ७३ || प्. २९६) १८१ मनसा ब्रह्मणा यद्यद्यथा दृष्टं विभावितम् | तत्तथा दृश्यते तज्ज्ञैः स्वभावस्यैष निश्चयः || ७४ || यद्यात्मकल्पित एव बन्धस्तर्हि प्रतिपुरुषं यथाभिलषितकल्पनैव स्यान्नानिष्टकल्पनमित्याशङ्क्याह - मनसेति | सर्वमनःसमष्ट्यात्मना ब्रह्मणा भोक्तृकर्मानुसारेण यद्यद्वस्तु यथा स्रष्टव्यत्वेन दृष्टं यादृशकार्यार्थं विभावितं च तत्तत् अन्यैरपि तज्ज्ञैर्जीवैस्तथा दृश्यते | तत्कुतः | यतः स्वभावस्य नियतेरेष निश्चयो व्यवस्थित इत्यर्थः || ७४ || यथा यदुदितं वस्तु तत्तत्तन्न विना भवेत् | निमेषमपि कल्पं वा स्वभावस्यैष निश्चयः || ७५ || वटबीजादेव वटाङ्कुरो न कुटजबीजात् | बुद्बुदः कतिपयनिमेषं तिष्ठति ब्रह्माण्डं तु महाकल्पमिति हेतुफलादिनियतिबलादपि न यथेच्छं कल्पनप्रसक्तिरित्याह - यथेति || ७५ || अलीकमिदमुत्पन्नमलीकं च विवर्धते | अलीकमेव स्वदते तथालीकं विलीयते || ७६ || न चास्मदाद्यस्वातन्त्र्यबलान्नियतिकृतशक्तिकालादिव्यवस्थादर्शनाच्च सत्यमेवेदं जगदिति भ्रमितव्यमित्याह - अलीकमिति | अलीकशब्दो मिथ्यावचनः | स्वदते रोचते भोक्तॄणां भोगकाले || ७६ || शुद्धं सर्वगतं ब्रह्मानन्तमद्वितीयं [१] दुःखबोधवशाद- शुद्धमिवासदिवानेकमिवासर्वगमिवावबुध्यते || ७७ || सर्गत्रयेण पद्मैर्विस्तरेणोक्तमर्थजातं गद्यैः संक्षिप्य दर्शयति - शुद्धमित्यादिना | दुरवबोधो भ्रान्तिस्तद्वशात् || ७७ || जलमन्यत्तरङ्गोऽन्य इति बालकुकल्पनया भेदः कल्प्यत एवमवास्तवस्तस्माद्यो योऽयमाभाति भेदः स केवलमतत्त्वविद्भिः परिकल्पितो रज्ज्वां सर्प इव एवं भेदाभेदशक्त्योररिमित्रयोरेव ब्रह्मण्येव संभवेत् || ७८ || यथा जलमन्यत्तरङ्गोऽन्य इति बालानां मूर्खाणां कुकल्पनयैवाऽवास्तवो भेद एवं जगद्भेदोऽप्यवास्तव एव कल्प्यते | जले तरङ्गभेदस्य परिणामत्वदृष्टौ न विवर्तता स्फुटेति दृष्टान्तान्तरमाह - रज्ज्वां सर्प इवेति | भेदाभेदशक्त्योः स्थितिरिति शेषः | अरिमित्रयोर्विरुद्धाविरुद्धयोरेव न कदाचिदपि तत्स्वभावत्यजोरित्येवकारार्थः || ७८ || तेनात्मनाऽद्वितीयेनैव द्वित्वमिवाततं यथा सलिलेन तरंगकल्पनया सुवर्णेन कटककल्पनयैवमिति अतस्तेन स्वयमेवात्मनात्मान्य इव चेत्यते || ७९ || तेन ब्रह्मभूतेनात्मना प्रतीचा आततं विस्तारितम् || ७९ || अतः कलना जाता सैव स्फारतां प्राप्य मनः संपन्नं तेनाहंभावः कल्पितो निर्विकल्पप्रत्यक्षरूपमेतत्प्रथमं तन्मनस्तदहं भवति क्षिप्रमहंशब्दार्थभावनात् || ८० || कलना निर्विकल्पकजगत्स्फूर्तिः | स्फारतां सविकल्पताम् | तथैव तद्व्याचष्टे | निर्विकल्पप्रत्यक्षरूपमेतत्प्रथमं तन्मनस्तदहं भवतीति अहंशब्दार्थभावनात्तदुभयगोचरसंस्कारोद्भवात् || ८० || ततो मनोहंकाराभ्यां स्मृतिरनुसंहिता तैस्त्रिभिस्तदनुभूततन्मात्राणि कल्पितानि तन्मात्रेषु जीवेन चित्तात्मना स्वयं काकतालीयवद्ब्रह्मोपादानादियान्संनिवेशः कल्पितो दृश्यते || ८१ || अनुसंहिता यथानुभवमुत्पादिता | तया स्मृत्या अनुभूतानि यथानुभवं स्मृतानि | कल्पितानि सृष्टानि | जीवेन ब्रह्मलक्षणादुपादानकारणादियान् ब्रह्माण्डविस्तृतो जगत्संनिवेशः कल्पितः | हस्तपादादिमान् इति पाठान्तरे स्पष्टम् || ८१ || एवं यदेव मनः कल्पयति तदेव पश्यति | सद्वा भवत्वसद्वा चित्तं यत्कल्पयत्यभिनिविष्टम् | तत्तत्पश्यति यास्यति सदिव प्रतिभासमुपगतं सद्यः || ८२ || उपवर्णितः सृष्टिक्रमो लोकेऽप्येवमेव स्वप्ने प्रसिद्ध इत्याह - यदेवेति | पश्यति स्वसंभ्रमादाविति शेषः | ननु स्वाप्नं प्रातिभासिकमसत् कथं सतो व्यावहारिकस्य दृष्टान्तस्तत्राह - सद्वेति | चित्तं मनः अभिनिविष्टं चिरं तद्भावनोपचितं सद्यदेव कल्पयति तदवश्यं पश्यति दर्शनेन सत्सत्यमिव प्रतिभासमागतं प्राप्तं सत्सद्यो यास्यति व्यवहारोपयोगितया प्राप्स्यति चेत्यर्थः || ८२ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मोक्षोपाये उत्पत्तिप्रकरणे सत्योपदेशो नाम सप्तसष्टितमः सर्गः || ६७ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे सत्योपदेशो नाम सप्तषष्टितमः सर्गः || ६७ || अष्टषष्टितमः सर्गः ६८ श्रीवसिष्ठ उवाच | अत्रैवोदाहरन्तीममितिहासं पुरातनम् | राक्षस्योक्तं महाप्रश्नजालमावलिताखिलम् || १ || वर्ण्यते विस्तरेणात्र कर्कटी नाम राक्षसी | तस्याश्चोग्रं तपः सर्वजन्तुजालजिघांसया || १ || विस्तरसंक्षेपाभ्यां वर्णितेऽर्थे दृढीकाराय कर्कट्युपाख्यानाख्येतिहासमुखेन राक्षस्याः किरातराजमन्त्रिसंवादं विस्तरेण विवक्षुस्तमवतारयति - अत्रैवेति | आवलितं तत्त्वतो विमर्शेन व्याप्तमखिलं जगद्यत्र || १ || अस्ति कज्जलपङ्काद्रेरिवोग्रा शालभञ्जिका | हिमाद्रेरुत्तरे पार्श्वे कर्कटी नाम राक्षसी || २ || कज्जलमयात्पङ्कादद्रेर्वां निर्मिता शालभञ्जिका प्रतिमेव वर्णतः | कर्मतस्तूग्रा || २ || विषूचिकाभिधाना च नाम्नाप्यन्यायबाधिका | विन्ध्याटवीव देहेन शुष्का कार्श्यमुपागता || ३ || तस्या द्वे नामनी अन्ये दर्शयति - विषूचिकेति || ३ || प्. २९७) १८१ महाबलाग्निनयना रोदोरन्ध्रार्धपूरणी | नीलाम्बरधरा कृष्णा देहबद्धेव यामिनी || ४ || अग्निरिव प्रज्वलन्नयना | रोदस्योर्द्यावापृथ्व्यो रन्ध्रमन्तरालं तदर्धपूरणीति वैपुल्यातिशयोक्तिः || ४ || नीहारवसनच्छन्ना मेदुराभ्रशिरःपटा | लम्बाभ्रबिम्बोल्लसिता नित्योत्थतिमिरोर्ध्वजा || ५ || नीहारैर्वसनेन परिधानीयेनेव च्छन्ना | मेदुराण्यभ्राण्येव शिरःपट उत्तरीयं यस्याः | लम्बमानमभ्रबिम्बमिव उल्लसिता | नित्योत्थं तिमिरमिवोर्ध्वजाः केशा यस्याः || ५ || स्थिरविद्युल्लतानेत्रा तमालतरुजानुका | वैदूर्यशूर्पाग्रनखी भस्मनीहारहासिनी || ६ || वैदूर्यवर्णाः शूर्पाग्राकाराश्च नखा यस्याः || ६ || निर्मांसनरदेहौघपुष्पस्रग्दामभूषिता | सर्वाङ्गोदात्तसंप्रोतशवमालाविराजिता || ७ || वेतालावेशविचलत्कालकङ्कालकुण्डला | अर्कादानोत्कदीर्घाग्रभीमोग्रभुजमण्डला || ८ || वेतालैः सह आवेशो नर्तनाभिनिवेशस्तेन विचलती स्पन्दमाने कालवर्णे कङ्कालकुण्डले यस्याः | अर्कस्यादाने ग्रहणे उत्कमुत्कण्ठितमिव दीर्घाग्रम् || ८ || तस्या विपुलकायत्वाद्दुर्लभत्वान्निजान्धसः | अतृप्तोऽर्णवलेखाया इवाभूज्जाठरोऽनलः || ९ || निजस्य स्वजात्युचितस्यान्धस ओदनस्य | आहारस्येति यावत् || ९ || न कदाचन सा तृप्तिमुपयाता महोदरी | वडवानलजिह्वेव चिन्तयामास चैकदा || १० || जम्बूद्वीपगतान्सर्वान्निगिरामि जनान्यदि | अनारतमनुश्वासं जलराशिमिवार्णवः || ११ || अनुश्वासं प्रतिश्वासम् || ११ || मेघेन मृगतृष्णेव तन्मे क्षुदुपशाम्यति | अविरुद्धैव सा युक्तिर्ययापदि हि जीव्यते || १२ || मेघेन मृगतृष्णा स्वहेत्वातपनिवारणे कृते यथा शाम्यति तद्वत् | यया युक्त्या आपदि जीव्यते सा युक्तिर्हि अविरुद्धा संमता || १२ || मन्त्रौषधतपोदानदेवपूजादिरक्षितम् | सममेव जनं सर्वं निर्बाधं कः प्रबाधते || १३ || युगपत्सर्वजनग्रसनयुक्तिस्तु अशक्यत्वाद्विरुद्धैवेत्याशयेनाह - मन्त्रेति | समं युगपत् || १३ || तपः करोमि परममखिन्नेनैव चेतसा | तपसैव महोग्रेण यद्दुरापं तदाप्यते || १४ || तर्हि कथं सर्वजनग्रसनमनोरथसिद्धिस्तत्राह - तप इति || १४ || इति संचिन्त्य सा सर्वजन्तुजातजिघांसया | तपोर्थमथ सस्मार पर्वतं भूतदुर्गमम् || १५ || पर्वतं हिमवन्तम् || १५ || आरुरोह च तच्छृङ्गं स्थिरविद्युद्विलोचना | हस्तपादादिमद्देहा श्यामलेवाभ्रमण्डली || १६ || देहशब्दः स्वरूपपरः || १६ || तत्र गत्वाथ सा स्नात्वा तपः कर्तुं कृतस्थितिः | अतिष्ठदेकपादेन चन्द्रार्कास्पन्दलोचना || १७ || चन्द्रार्काविव दीप्ते अस्पन्दे लोचने यस्याः || १७ || क्रमेण दिवसाः पक्षास्तस्या मासर्तवो ययुः | शीतातपेषु लीनायाः कृताया इव शैलतः || १८ || शैलतः कृताया इवेति तपःक्लेशसहनादुत्प्रेक्षा || १८ || सा बभूवाभ्रमालायाः समासं स्तम्भिताकृतिः | कृष्णोर्ध्वगोर्ध्वकेशी च खमाहर्तुमिवोद्गता || १९ || नैल्यादभ्रोपमा | आहर्तुं आहारं कर्तुं | ग्रसितुमिति यावत् || १९ || आलोक्य तां पवनजर्जरिताङ्गकत्वक् चीराङ्गणाकृतिरणत्पवनावधूतैः | ऊर्ध्वस्थमूर्धजतमःपटलैर्दधानां तारौघमौक्तिकमजः समुपाजगाम || २० || पवनैः शीतोष्णपांसुरुक्षवायुभिर्जर्जरितानां शिथिलीकृतानामङ्गकानां कृशाङ्गानां लम्बमाना त्वगेव चीरं वल्कलमिव यस्यास्तथाभूताम् | गणाः सेनास्तदाकृति | तद्वदिति यावत् | रणद्भिः पवनैरवधूतैः कम्पितैः ऊर्ध्वदिक्स्थैर्मूर्धजलक्षणैस्तमःपटलैस्तारा नक्षत्राणि तत्समूहरूपं मौक्तिकं दधाना तां कर्कटीलोक्य तस्यै वरं दातुमजो ब्रह्मा समुपाजगामेति वक्ष्यमाणस्य संक्षिप्योक्तिः || २० || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे लीलोपाख्याने राक्षसीवर्णनं नामाष्टषष्टितमः सर्गः || ६८ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे राक्षसीवर्णनं नामाष्टषष्टितमः सर्गः || ६८ || एकोनसप्ततितमः सर्गः ६९ श्रीवसिष्ठ उवाच | अथ वर्षसहस्रेण तां पितामह आययौ | दारुणं हि तपः सिद्ध्यै विषाग्निरपि शीतलः || १ || दत्त्वात्र धातुः कर्कट्यै यथाभिलषितं वरम् | मन्त्रं च गुणिरक्षार्थं स्वलोके गतिरुच्यते || १ || कुतो दुर्वृत्तायामपि तस्यां दुर्लभतमो धातुः प्रसादस्तत्राह - दारुणमिति | सिद्ध्यै भवत्येवेति शेषः | यतस्तपःसिद्धौ विषसहितोऽग्निरपि शीतलो भवति | नासाध्यं तपसोऽस्तीति भावः || १ || मनसैव प्रणम्यैनं सा तथैव स्थिता सती | को वरः क्षुच्छमायालमिति चिन्तान्विताभवत् || २ || प्. २९८) १८२ आ स्मृतं प्रार्थयिष्येऽहं वरमेकमिमं विभुम् | अनायसी चायसी च स्यामहं जीवसूचिका || ३ || स्मरणेऽयमाकारो निपातो न त्वाङ् | अनायसी रोगरूपा | जीवयुक्ता सूचिका जीवसूचिका || ३ || अस्योक्त्या द्विविधा सूचिर्भूत्वा लक्ष्या विशाम्यहम् | प्राणिनां सह सर्वेषां हृदयं सुरभिर्यथा || ४ || अस्य ब्रह्मण उक्त्या वरेण सह युगपत् सुरभिर्घ्राणाकृष्टं सौगन्ध्यं यथा || ४ || यथाभिमतमेतेन ग्रसेयं सकलं जगत् | क्रमेण क्षुद्विनाशाय क्षुद्विनाशः परं सुखम् || ५ || एतेन क्रमेण उपायेन || ५ || इति संचिन्तयन्तीं तामुवाच कमलालयः | अन्यादृश्यास्तथा दृष्ट्वा स्तनिताभ्रारवोपमम् || ६ || शान्तिदान्तिदयादितपस्विधर्मविरुद्धलोकहिंसाभिलाषिणीत्वादन्या##- ब्रह्मोवाच | पुत्रि कर्कटिके रक्षःकुलशैलाभ्रमालिके | उत्तिष्ठ त्वं तु तुष्टोऽस्मि गृहाणाभिमतं वरम् || ७ || प्रशंसा भाविकल्याणद्योतनार्था || ७ || कर्कट्युवाच | भगवन्भूतभव्येश स्यामहं जीवसूचिका | अनायसी चायसी च विधेऽर्पयसि चेद्वरम् || ८ || श्रीवसिष्ठ उवाच | एवमस्त्विति तामुक्त्वा पुनराह पितामहः | सूचिका सोपसर्गा त्वं भविष्यसि विषूचिका || ९ || सूक्ष्मया मायया सर्वलोकहिंसां करिष्यसि | दुर्भोजना दुरारम्भा मूर्खा दुःस्थितयश्च ये || १० || सूक्ष्मया जनैर्दुर्लक्ष्यया | दुर्भोजना निषिद्धापक्वाकालभोजना अतिभोजनाश्च | दुरारम्भाः परानिष्टारम्भकाः | दुःस्थितयः अशास्त्रीयमार्गस्थाः || १० || दुर्देशवासिनो दुष्टास्तेषां हिंसां करिष्यसि | प्रविश्याऽहृदयं प्राणैः पद्मप्लीहादिबाधनात् || ११ || प्राणैः प्राणद्वारा आहृदयं अपानमारभ्य हृदयपर्यन्तं प्रविश्य हृदयपद्मस्य प्लीहस्य तत्संनिहितमांसग्रन्थेरादिपदाद्वस्तिशिरादीनां च बाधनात् पीडनात् || ११ || वातलेखात्मिका व्याधिर्भविष्यसि विषूचिका | सगुणं विगुणं चैव जनमासादयिष्यसि || १२ || सगुणं शास्त्रसदाचारनिष्ठम् | तदन्यं विगुणम् || १२ || गुणान्वितचिकित्सार्थं मन्त्रोऽयं तु मयोच्यते | ब्रह्मोवाच | हिमाद्रेरुत्तरे पार्श्वे कर्कटी नाम राक्षसी || १३ || चिकित्सा रोगप्रतीकारस्तदर्थम् || १३ || विषूचिकाभिधाना सा नाम्नाप्यन्यायबाधिका | तस्या मन्त्रः | ओं ह्रीं ह्रां रीं रां विष्णुशक्तये नमः | ओं नमो भगवति विष्णुशक्तिमेनां ओं हरहर नयनय पचपच मथमथ उत्सादय दूरे कुरु स्वाहा हिमवन्तं गच्छ जीव सः सः सः चन्द्रमण्डलगतोऽसि स्वाहा | इति मन्त्री महामन्त्रं न्यस्य वामकरोदरे | मार्जयेदातुराकारं तेन हस्तेन संयुतः || १४ || अन्याया न्यायपथातिवर्तिनस्तेषां बाधिका | द्विविधा हि विष्णुशक्तिराद्या माया यदधीना अन्याः सर्वाः शक्तयः | अपरा तु तदधीना प्रतिवस्तुनियता सात्त्विकादिभेदभिन्ना च | तत्र तामस्याः संहारशक्तेरंशाः प्राणिदुष्कर्मफलजननशक्तिविशेषा रोगाः | अतस्तन्निवृत्तये आद्या मायाशक्तिः प्रणवमायादिरहस्यबीजैः पञ्चभिः संबोध्य नमस्कृत्य प्रार्थ्यते | ओंमिति चतुर्थ्यन्तम् | नमःशब्दयोगात् | परब्रह्मात्मिकायै नम इत्यर्थः | भगो माहात्म्यं सर्वनियमनवीर्यं वा तद्वति आद्यविष्णुशक्ते त्वं द्वितीयां एनां त्वदंशभूतां रोगात्मिकां विष्णुशक्तिं | ओंकारवाच्ये कारणस्वरूपे हरहर भृशमुपसंहर | नित्यवीप्सयोः इति भृशार्थे द्विर्वचनम् | नय स्वस्थानं प्रापय | पच पाकेनेव सद्यो मृदूकुरु | मथ दधिवद्विलोडय | उत्सादय अस्मात्स्थानादन्यतो नय | उक्तैरन्यैर्वा प्रकारैर्दूरे कुरु | स्वाहेति हविर्दानादिना पूज्यत्वद्योतनार्थम् | एवमादिशक्तिं संप्रार्थ्य तदधीना रोगशक्तिः प्रार्थ्यते हिमवन्तं स्वस्थानं गच्छेति | ततो रोगिणं प्रत्याह | सः प्राक्तनदुष्कर्मणाभिभूतः स रोगेणाभिभूतः स मृत्युना वाकृष्यमाणस्त्वं मन्त्रसामर्थ्यान्मृतोज्जीवनसमर्थेनामृतेन [र्थ्याज्जिवमृतोज्जीवन इति क्वचित्] संपूर्णं चन्द्रमण्डलं मदीयभावनया गतः प्राप्तोऽसि | अन्ते स्वाहेति दीप्तेऽग्नौ हविष इव पूर्णचन्द्रमण्डले रोगिणो भावनया प्रक्षेपः कार्य इति द्योतनार्थम् | इति इमं मन्त्रं मन्त्री लिखित्वा वामकरस्योदरे तले न्यस्य || १४ || हिमशैलाभिमुख्येन विद्रुतां तां विचिन्तयेत् | कर्कटीं कर्कशाक्रन्दां मन्त्रमुद्गरमर्दिताम् || १५ || तां विषूचिकाम् | विद्रुतां पलायिताम् || १५ || आतुरं चिन्तयेच्चन्द्रे रसायनहृदि स्थितम् | अजरामरणं युक्तं मुक्तं सर्वाधिविभ्रमैः || १६ || रसायनहृदि अमृतगर्भे | युक्तं समाहितचित्तम् || १६ || साधको हि शुचिर्भूत्वा स्वाचान्तः सुसमाहितः | क्रमेणानेन सकलां प्रोच्छिनत्ति विषूचिकाम् || १७ || पाठक्रमादार्थक्रमबलीयस्त्वाच्छौचाचमनादिपूर्वमेव कार्यम् || सुसमाहितः अव्यग्रचित्तः || १७ || प्. २९९) १८२ इति गगनगतस्त्रिलोकनाथो गगनगसिद्धगृहीतसिद्धमन्त्रः | गत उपगतशक्रवन्द्यमानो निजपुरमक्षयमायमुज्ज्वलश्रीः || १८ || त्रिलोकनाथो ब्रह्मा गगनगैः सिद्धैर्गृहीतः सिद्धोऽव्याहतो मन्त्रो यस्य तथाविधः सन् कार्यान्तरसिद्धये उपगतेन शक्रेण वन्द्यमानः सन् अक्षयाः परैरुपहन्तुमशक्या मायाः सत्यसंकल्पसिधाः परचित्तसांकल्पिकपितृमातृभ्रातृगन्धमाल्यादिलोकरूपा विचित्रभोग्यमाया यत्र तथाविधं निजपुरं सत्यलोकं गतः || १८ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्ति० सूच्युपाख्याने विषूचिकामन्त्रकथनं नामैकोनसप्ततितमः सर्गः || ६९ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे विषूचिकामन्त्रकथनं नामैकोनसप्ततितमः सर्गः || ६९ || सप्ततितमः सर्गः ७० श्रीवसिष्ठ उवाच | अथ भूधरशृङ्गाभा सा महाकृष्णराक्षसी | कज्जलाम्बुदलेस्वेव तानवं गन्तुमुद्यता || १ || क्रमशस्तनुतापूर्वं सूचिरूपद्वयं गतिः | सूच्याः प्राणिशरीरेषु प्रवेशश्चोपवर्ण्यते || १ || तनु सूक्ष्मं तद्भावं तानवम् || १ || बभूवाभ्रोपमाकारा ततो विटपरूपिणी | पुंस्प्रमाणा ततोऽप्यासीदथाभूद्धस्तमात्रिका || २ || तदेव प्रपञ्चयति - बभूवेत्यादिना | विटपरूपिणी वृक्षशाखाप्रमाणा || २ || ततः प्रादेशमात्रा सा ततोऽप्यङ्गुलिरूपिणी | ततो माषशमीतुल्या ततः सूची बभूव ह || ३ || माषशमी माषशिम्बी | सूची स्थूलसूची || ३ || ततः कौशेयसूचित्वं पद्मकेसरसुन्दरी | प्राप सा शिखराकारा संकल्पाद्रिरिवाणुताम् || ४ || कौशेयसीवनयोग्या सूक्ष्मतमसूची तद्भावम् | अयंच स्थूलशरीरस्य क्रमेण सूक्ष्मीभावस्तस्याः स्वसंकल्पकल्पितस्यैव | पराविद्याकल्पितस्य त्वग्रे तत्रैव गलितत्वं वक्ष्यति || ४ || रराज सूचिका कृष्णा सूक्ष्मायसमनायसी | पुर्यष्टकेन चलिता व्योमगा व्योमवासिनी || ५ || सा सूक्ष्ममायसमयो विकारो भूत्वा कृष्णा सूचिका अनायसी जीवसूचिका च सती रराज | महाभूतकर्मेन्द्रियज्ञानेन्द्रियप्राणान्तःकरणाविद्याकामकर्मसंघातात् मकपुर्यष्टकेन || ५ || सूची दृश्यत एवासौ नत्वयो नाम विद्यते | संविद्भ्रमकुले चैषा स्वल्पसूचीव लक्ष्यते || ६ || इदं चास्याः सूचित्वं दृश्यभ्रान्तिकल्पितमेव न वास्तवम् | वरशापसहस्रैरपि वस्त्वन्यथाभावायोगादित्याशयेनाह - सूचीति | संविद्भ्रमाणां कुले समूहमध्ये एषाप्येका भ्रान्तिरित्यर्थः || ६ || रत्नसूचीव मसृणा मनोमननसंयुता | वैदूर्यरश्मिलेखेव भानुसंतानसुन्दरी || ७ || भानूनां सूर्यकिरणानां संतानेनान्तःप्रवेशेन सुन्दरी रत्नसूचीव वैदूर्यरश्मिलेखेव च लक्ष्यते | मनोमननसंयुतेत्यातावान् दृष्टान्ताद्विशेष इत्यर्थः || ७ || कज्जलाम्भोदसंकल्कलतेव पवनाहृता | सूक्ष्मरन्ध्रेक्षणस्वच्छदृष्टज्योतिःकनीनिका || ८ || सूर्यकिरणासंपर्के त्वाह - कज्जलेति | कज्जलमयोऽम्भोदो मेघस्तद्रूपस्य संकल्कस्य पिण्डस्य लताप्रतानो लेशः | पवनेनाहृता उपनीता | सूक्ष्मं यद्रन्ध्रं तत्र विशिष्टयोरीक्षणयोर्दृशोः स्वच्छदृष्टज्योतिषी इव कनीनिके कृष्णतारे यस्याः || ८ || सुमुखग्राह्यरूपेण श्लक्ष्णपुच्छशिखाणुना | तदा वैपुल्यशान्त्यर्थं परं मौनव्रतं गता || ९ || सूक्ष्मया पुच्छशिखया पुच्छाग्रेणाणुना परमाणुकल्पेन सुमुखं प्रसन्नवदनं यथा स्यात्तथा वरदानाद्ग्राह्येण अभीष्टतमेन सूचीरूपेण निमित्तेन पूर्वतनदेहवैपुल्यस्य शान्त्यर्थ तदा प्राक्काले मौनं मुनिसंबन्धि तपोव्रतं गता परं नूनं इत्युत्प्रेक्षा | अस्यास्तपोव्रतं स्ववैपुल्यशान्तावेव पर्यवसन्नं व्यर्थमिवासीदित्याशयः || ९ || सुदूराद्दीपवद्दृष्टं खतन्मात्रत्वमागता | दूरादेव मनोज्ञेन प्रोद्गिरन्ती मुखेन खम् || १० || कीदृशं कथं च तत्सूचीरूपं सा प्राप्ता तदाह - सुदूरादिति | सुदूराद्वीक्षणे ज्वलन्नेत्रयोः संध्यदर्शनादेकदीपवद्दृष्टं सूचीशरीरस्यादर्शनात्स्वतन्मात्रत्वमाकाशसाम्यमागता प्राप्ता | देहे अन्तर्गतस्याकाशस्य सौक्ष्म्यप्राप्तौ बहिरवस्थानान्मनोज्ञेन वरप्राप्तिप्रसन्नेन मुखेन खं प्रोद्गिरन्ती वमन्तीवेत्युत्प्रेक्षा || १० || कुञ्चितेक्षणसंदृश्या दीर्घदीपांशुकोमला | सद्यःस्नातसमुत्सन्नबालवालविलासिनी || ११ || पुनः सा कीदृशी तत्राह - कुञ्चितेत्यादिना | दीर्घा दूरप्रसृता दीपांशवो दीपकिरणा इव कोमला सूक्ष्मा | अत एवैकाग्र्याय कुञ्चितैरीक्षणैर्द्रष्टृदृष्टिभिः संदृश्या | सद्यःस्नातेन स्नानेन समुत्सन्नो बालानामर्भकाणां बालः केश इव विलासिनी विलसनशीला || ११ || तन्तुर्बिसादिवोड्डीना बाह्यसंचारकौतुकात् | ब्रह्मनाडिरिवोद्युक्ता बहीरन्ध्रं सुसुन्दरी || १२ || बिसान्मृणालादुड्डीना ऊर्ध्वं निर्गता ब्रह्मनाडिः सुषुम्ना बहीरन्ध्रं ब्रह्मरन्द्र्हाद्बहिर्निर्गत्य उत् ऊर्ध्व सूर्यमण्डलाभिमुखतया युक्ता || १२ || नियतेन्द्रियशक्तिः सा जीवेनैव बहिःस्थिता | बौधतार्किकविज्ञानसंतानवदलक्षिता || १३ || नियताः प्रतिनियतस्थाननिव्ष्टाश्चक्षुरादीन्द्रियशक्तयो यस्याः | जीवेन लिङ्गदेहेनैव बहिःसूच्याकारापन्नेन स्थिता | यथा बौद्धानामालयविज्ञानसंतानः स्वमात्रगोचरोऽपि परैरलक्षितो यथा वा तार्किकाणां धाराबाहिकज्ञानसंतानः साक्ष्यनभ्युपगमादलक्षितस्तद्वत्परैरलक्षिता || १३ || प्. ३००) १८३ शून्यसिद्धार्थसविका रन्ध्रानीलमयाऽरवा | अदृश्यया जीवसूच्या संततानुसृता स्थिता || १४ || अत्यन्तालक्ष्यत्वादेव शून्यवादिसिद्धार्थानां सविका प्रसवित्री वेत्युत्प्रेक्षा | रन्ध्रस्य नभसो यदा नीलं नैल्यं तन्मया तत्प्राया | अरवा निःशब्दा | मयटष्टित्वेऽपि ङीबभावश्छान्दसः | कर्मधारये पुंवद्भावो वा | एवमायसीं सूचीमुपवर्ण्य अनायस्या जीवसूच्यास्तदनुसारित्वमाह - अदृश्ययेति || १४ || कलाकलनधर्मिण्या वासनामात्रसारया | क्षीणदीपांशुसूचीवत्तीक्ष्णयानुपलभ्यया || १५ || कलास्तत्तद्वृत्तिषु प्रतिफलितचिदाभासास्तत्कलनधर्मिण्या | क्षीणस्य विनश्यदवस्थस्य दीपस्यांशूः किरणस्तल्लक्षणा सूची यथा चक्षुषाऽनुपलभ्यापि स्पृश्यमाना दाहकत्वात्तीक्ष्णा तादृश्या || १५ || ग्रासार्थं सूचितां याता सैवास्था नोपयुज्यते | विचारितं तया नैतदहो मौर्ख्यविजृम्भितम् || १६ || इदानीं तस्याः सूचीभावलक्षणं तपःफलमिष्टानुपयोगादुपहसति - ग्रासार्थमित्यादिना | सा ग्रासास्थैव निरुदरायाः सूच्या नोपयुज्यते || १६ || साग्रा संचिन्तयामास न सूचीरूपतुच्छताम् | चित्तमीहितमेवैकं पश्यन्त्यास्ते निरर्थकम् || १७ || अविचार्यैव सूचित्वं तया मूढधियाष्थितम् | नानर्थबुद्धेः स्फुरति पूर्वापरविचारणा || १८ || आस्थितं अभिलषितम् | अनर्थबुद्धेर्निरर्थकबुद्धेर्जन्तोः || १८ || स्वार्थक्रियोग्रसामर्थ्याद्याति भावनयान्यताम् | पदार्थोऽभिमतांशाढ्यो निःश्वासेनेव दर्पणः || १९ || विमर्शयोग्ये चित्ते कुतो न स्फुरति तत्राह - स्वार्थेति | अभिमते अभिलषितेंऽशे विषये वाढ्योऽभिनिविष्टश्चित्तपदार्थः | स्वार्थक्रिया अभिमतार्थे दृढप्रयत्नस्तस्योग्रादनतिक्रमणीयात्सामर्थ्याद्भावनया तद्रागानुरञ्जनेनान्यतां पूर्वनैर्मल्यवैपरीत्यम् | कालुष्यमिति यावत् | याति | यथा निःश्वासेन दर्पणः || १९ || सूचीभावं प्रपन्नायास्त्यजन्त्याः पीवरं वपुः | महामरणमप्यस्या राक्षस्याः सुसुखं स्थितम् || २० || किंच स्वार्थदृढानुरागादस्या महादुःखमपि सुखायितमित्याह - सूचीति || २० || एकवस्त्वतिरागाणामहो नु विषमा गतिः | देहोऽपि तृणवत्त्यक्तो राक्षस्या निजयेच्छया || २१ || एकवस्त्वतिगन्धेन भ्रश्यन्त्यन्या हि संविदः | राक्षस्या ग्रासगन्धेन देहनाशोऽपि नेक्षितः || २२ || नाशोऽपि सुखयत्यज्ञमेकवस्त्वतिरागिणम् | सूचीभूता विदेहापि परितुष्टैव राक्षसी || २३ || अन्या बभूव लग्ना [आयससूच्या संलग्ना | लग्नाशा इति पाठः तत्र लग्ना आशा प्राणिग्रसनेच्छा यस्या इत्यर्थः] सा तथा जीवविषूचिका | व्योमात्मिका निराकारा व्योमवृत्तिशरीरका || २४ || प्रसङ्गान्नीतिमुपवर्ण्य प्रस्तुतमनुसरन् जीवसूच्याख्यव्याधिस्वरूपमाह - अन्येत्यादिना | व्योमवृत्ति आकाशवत्सूक्ष्मस्वभावं लिङ्गशरीरं यस्याः || २४ || तेजस्तनुप्रवाहाभा प्राणतन्तुमयात्मिका | मूलसंवेदनाकारा चन्द्रार्कांशुकसुन्दरी || २५ || मूलसंवेदनं कुण्डलिनीशक्तिस्तदाकारा | चन्द्रार्कयोरल्पा अंशवोंऽशुकानि तानीव सुन्दरी || २५ || पृथगेवासिधाराभा परमाण्ववलीय सा | कौसुमी गन्धलेखेव कला कलनरूपिणी || २६ || तस्याः कर्कट्याः पापात्मिका अत एव असिधाराभा क्रूरा मनोवृत्तिरयः सूच्याः पृथगेव तथा जीवसूचीरूपेण स्थितेति परेणान्वयः | कौसुमी गन्धलेखेव परमाणु परमसूक्ष्मं यथा स्यात्तथा प्राणिदेहेष्ववलीयान्तः प्रविश्य हिंसादिकलानां चातुरीणां यत्कलनं संपादनं तेन रूपिणी प्रकटा स्थिता || २६ || पापात्मिका मनोवृत्तिः सा हि तस्यास्तथा स्थिता | परप्राणवशादेव परमार्थपरायणा || २७ || तदेव स्पष्टमाह - परेति | परेषां प्राणिनां प्राणवशात्प्राणाननुसृत्य परमोऽर्थः स्वमनोरथसिद्धिस्तत्र परायणा उद्युक्ता || २७ || एवमस्यास्तनुर्जाता सूचीद्वयमयी हि सा | नीहारांशुकवत्तन्वी कार्पासांशुसुपेलवा || २८ || तनुद्वयवर्णनमुपसंहरति - एवमिति || २८ || तनुद्वयेन तेनासौ प्रविश्य हृदयं नृणाम् | वेधयन्ती ततः क्रूरा प्रबभ्राम दिशो दश || २९ || अथ तस्याः संक्षेपतश्चरित्रमाह - तनुद्वयेनेति || २९ || सर्वः स्वसंकल्पवशाल्लाघुर्भवति वा गुरुः | कर्कट्योग्रं वपुस्त्यक्त्वा सूचीत्वमुररीकृतम् || ३० || संकल्पस्याघटितघटनासामर्थ्ये इदमेव निदर्शनमित्याह - सर्व इति || ३० || तुच्छोऽप्यर्थोऽल्पसत्त्वानां गच्छति प्रार्थनीयताम् | सूचीवृत्तपिशाचीत्वं राक्षस्या तपसा स्थितम् || ३१ || अल्पसत्त्वानां क्षुद्रमनसाम् | सूच्या वृत्तमिव वृत्तं यस्मिंस्तथाविधं पिशाचीत्वम् || ३१ || अपि पुण्यशरीराणां जातिबन्धो न शाम्यति | तनुसूचीपिशाचीत्वं राक्षस्या तपसार्जितम् || ३२ || ननु सा तपसा पूता पुण्यशरीरा संपन्ना तथाभूतायास्तस्याः परपीडाहेतुसूचीशरीरप्रार्थनं कथं युक्तं तत्राह - अपीति | जातिबन्धो जात्यनुसारी वासनानिबन्धः || ३२ || तस्यां दिगन्तभ्रमणे प्रवृत्तायां महानिलैः | तत्रैव सा तनुः स्थूला गलिता शरदभ्रवत् || ३३ || सा स्थूला सर्वसाधारणाऽविद्याकल्पिता कर्कटीतनुर्महद्भिरनिलैर्वायुभिर्गलिता विशीर्णा || ३३ || प्. ३०१) १८३ कस्यचिद्विवशाङ्गस्य क्षीणस्य विपुलस्य च | प्रविश्यान्तर्वातसूचिर्भवत्यतिविषूचिका || ३४ || अथ विषूच्याश्चरित्रं विस्तरेणाह - कस्यचिदित्यादिना | प्राग्रोगान्तरेण विवशाङ्गस्य | क्षीणस्य कृशाङ्गस्य | विपुलस्य पीनाङ्गस्य | वातलीना अयःसूचिरतिशयिता विषूचिकाप्रवृत्तिरोगो भवति || ३४ || कस्यचित्तनुदेहस्य स्वस्थस्य सुधियोऽपि वा | प्रविश्य जीवसूचित्वे भवत्यन्तर्विषूचिका || ३५ || अन्तर्विषूचिका दुर्बुद्धिरूपा || ३५ || एवं क्वचित्तृप्यति सा दुर्बुद्धिहृदयास्थिता | क्वचिदुच्छेद्यते पुण्यैर्मन्त्रौषधितपःक्रमैः || ३६ || क्वचित्कत्स्मिंश्चित्पुरुषे | उच्छेद्यते निवार्यते || ३६ || आसीद्बहूनि वर्षाणि भ्रमणैकपरायणा | देहद्वयेन गच्छन्ती व्योम्नि भूमितले तथा || ३७ || रजस्तिरोहिता भूमौ हस्तेऽङ्गुलितिरोहिता | प्रभातिरोहिता व्योम्नि वस्त्रे सूत्रतिरोहिता || ३८ || तस्यास्तिरोधानस्थलविशेषानाह - रज इत्यादिना || ३८ || अन्तःस्थस्नायुसरिति दुर्भगे पांशुपाण्डुरे | शुष्करेखासरित्खाते सूक्ष्मरेखाजरत्तृणे || ३९ || देहमध्येऽपि तानाह - अन्तःस्थेति | व्यभिचारादिदोषदुष्टे भगे उपस्थेन्द्रिये | पांशुभिरूषादिभूपांसुभिः पाण्डुरे धूसरावयवे | शुष्का रूक्षा या हस्तपादादिरेखास्तल्लक्षणे शुष्कसरित्खाते | सूक्ष्मा या रोमादिरेखास्तल्लक्षणे जरत्तृणे || ३९ || अर्थहीने गतच्छाये शून्या उच्छ्वासकारिणी | मक्षिकावातहरिते श्रीवृक्षपरिवर्जिते || ४० || अर्थ्यते इत्यर्थः सौभाग्यलक्षणं तद्धीनेऽङ्गे | गतच्छाये नष्टकान्तौ | शून्या अन्तःसद्भावशून्या | उच्छ्वासः पीडितानामूर्ध्वनिःश्वासः | देहाद्बहिर्देशेऽपि मक्षिकाभिः रूक्षदुर्गन्धवातैश्च युक्ते हरिततृणाद्यावृतप्रदेशे | श्रिया वृक्षैश्च श्रीकरैर्वा बिल्वाम्रादिवृक्षैः परिवर्जिते || ४० || स्थूलास्थिग्रन्थिवलिते नित्यकम्पस्फुरत्तमे | अनात्मीयाच्छनीहारेऽशुद्धंशुककृतभ्रमे || ४१ || स्थूलैः पशुनराद्यस्थिग्रन्थिभिर्वलिते | वात्यादिना नित्यं कम्पेन स्फुरत्तमे संचलत्तमे | आत्मीया आत्मनिष्ठास्त एव अच्छाः स्वच्छा नीहारवत्परसंतापहारिणः | न विद्यन्ते आत्मीयाच्छनीहारा यत्र | अशुद्धान्यंशुकानि येषां तथाविधैरशिष्टजनैः कृतसंचारे || ४१ || किणस्थाण्वङ्गविश्रान्तमक्षिकापिकवायसे | रौक्षरूढरसद्वाते विलोलाङ्गुलिशाखिनि || ४२ || किणेषु कोटरेषु स्थाण्वङ्गेषु च्छिन्नाग्रवृक्षेषु च क्रमाद्विश्रान्ता मधुमक्षिकाः पिकवायसाश्च यत्र | शीतातिशयेन रूक्ष एव रौक्षो रूढः प्रादुर्भूतो रसन् शब्दायमानो वातो यत्र | अत एव कम्पविलोलाङ्गुलिशाखिनि || ४२ || मालाभ्रलेखासंसारे स्वाङ्गुलिव्रणगर्तके | स्पन्दावश्यायपृषति पदवल्मीकपर्वते || ४३ || मालाभूतानामभ्रलेखानां नीहारपटलानां संसारः संचारो यत्र | विदीर्णस्वाङ्गुलिव्रणानां जनानां गर्तप्राये निवासदेशे | स्पन्दमाना अवश्यायपृषतो हिमबिन्दवो यत्र | पदे पुरुषपादाङ्किते देशे वल्मीके वामलूरे पर्वते च | समाहारैकत्वम् || ४३ || कचत्याशु जलभ्रान्तौ नखाजगरकर्कशे | क्वचित्कविसरद्भीतभीतयूककुपान्थके || ४४ || आशु जलभ्रान्तौ कचति प्रकाशमाने मरुदेशे | नखैर्नखप्रधानैर्व्याघ्रभल्लूकादिभिरजगरादिभिश्च कर्कशे कठिनतमे अरण्ये | क्वचिद्भवाः क्वाचित्का विसरन्तः पलायमाना भीतेभ्योऽपि भीता यूकाभिः कुत्सिताः पान्थाः पथिकजना यत्र || ४४ || विरूपाशुष्कसंदष्टवीटिकापूतिपल्वले | मध्यस्थलेखमार्गौघशीतश्वसनगोचरे || ४५ || विरूपैराशुष्कैश्च पिशाचादिभिः संदष्टानि ताम्बूलवीटिकाप्रायाणि शीर्णपर्णानि यत्र तथाविधे पूतिपल्वले दुर्गन्धजलगर्ते | मध्यस्था लेखाः कुल्यादिखातानि येषु तथाविधमार्गौधानां शीतस्य श्वसनस्य गोचरे विषये पान्थविश्रान्तिस्थाने || ४५ || ग्रस्तयूकानरौघासृक्पूर्णसृक्किनखास्यताम् | दधताङ्गुष्ठपक्षेण क्रान्ते सर्वत्र यायिनी || ४६ || ग्रस्तानां चर्वितानां यूकानामुदरस्थनरौघासृग्भिः पूर्णे सृक्किणी येषां तथाविधानां पामरनरवानरादीनां नखा एवास्यानि मुखानि यस्य तद्भावं दधता अङ्गुष्ठपक्षेण अङ्गुष्ठपरिवारायितेनाङ्गुलिजालेन क्रान्ते आक्रान्ते सर्वत्र देहप्रदेशे भूम्यादिप्रदेशे प्रागुक्तस्थानेषु च यायिनी गमनशीला सा अभूदिति शेषः || ४६ || नानाविरचनाचित्रपटपत्तनगामिनी | गमागमपरिश्रान्ता तत्रात्यन्तचिराध्वगा || ४७ || तथा नानाविधाभिर्गजतुरगादिविरचनाभिश्चित्राः पटा वस्त्राणि येषु तथाविधेषु पत्तनेषु नगरेषु गमनशीला | तत्र गमागमैः संचारैः परिश्रान्ता अभूदिति शेषः || ४७ || नगरानगरे व्यस्तसूत्रभाण्डैकभारिणी | तप्ते कलेवरारण्ये बलीवर्दापवर्तिनी || ४८ || सूचीस्वभावादेव च नगरेष्वनगरेषु ग्रामेषु च व्यस्तानां रथ्याप्रक्षिप्तानां कार्पासादिसूत्राणां तत्प्रोतानां काचमण्यादीनां भाण्डानामलंकाराणां च एकं भर्तु शीलमस्याः सौक्ष्म्येणान्यहरणाशक्तेः | किंच ज्वरादिना तप्ते प्राणिनां कलेवरारण्ये बलीवर्दापवर्तिनी | यथा हृष्टो बलीवर्दः शृङ्गाभ्यां वल्मीकाद्यपरिकरन्नपवर्तयति तद्वदियं सूच्यपि तच्छीलेत्यर्थः || ४८ || गुप्ता विश्रमणायैव मनाक्करपरिच्युता | तन्तुप्रोता मुखाकृष्टिः खिन्ना क्वापि विलीयते || ४९ || केनचित्सीवनाय गृहीता चिरं सीवने तन्तुप्रोतमुखाकृष्टिः खिन्ना श्रान्ता सती मनाक् तत्करपरिच्युता सती विश्रमणायैव क्वापि गुप्ता प्रच्छन्ना लीयते || ४९ || प्. ३०२) १८५ वेधनं कर्मसंश्लिष्टा कठिनापि न साकरोत् | न हि तीक्ष्णो वहिः कार्यो निजत्वं विजहाति चेत् || ५० || ननु सा सीवनकर्तुः करवेधनं कुतो नाकरोदित्याशङ्क्याह - वेधनमिति | कठिना क्रूरापि सा स्वयोग्ये सीवनकर्मणि सूचीत्वादेव संश्लिष्टा कौतुकादासक्ता सती वेधनं नाकरोत् | कुतः | सा सूची निजत्वं निजस्वभावं सीवनं विजहाति त्यजति न प्रकटयति चेत्तत्तुल्ययोगत्वात्स्वीयस्तीक्षणः क्रौर्यस्वभावोऽपि न बहिः कार्यो बहिः प्रकटयितुं शक्यः | तस्यापि निजत्वाविशेषादित्यर्थः || ५० || सायःसूची मनःसूच्या वलिता विजहार ह | दिक्ष्वाशेव शिलागुर्वी नावाङ्गपलिता सती || ५१ || सा अयःसूची मनःसूच्या जीवसूच्या | गुर्वी शीला नावेव अङ्गपलितायां वृद्धायां सती स्थिता आशेव च दिक्षु विजहार बभ्राम | अङ्गेति संबोधनं वा || ५१ || विससार दिगन्तेषु सान्तःकरणसत्तया | तुषलेखेव पवनशक्त्या संसृतिरूपया || ५२ || संसृतिर्भ्रमणं रूपयति प्रकटयतीति संसृतिरूपा तया || ५२ || मुखेन सूक्ष्मसूत्रान्तं चरन्तीव परोम्भितम् | परपूरोद्यमेनाशु जातेव हृदयान्विता || ५३ || परैरुम्भितं गुम्फितं सूक्ष्मं सूत्रान्तं चरन्ती भक्षयन्तीव अत एव हि परप्रयुक्तेनैवोदरपूरणोद्यमेन हृदयान्विता स्वस्थचित्ता जातेवेत्युत्प्रेक्षा || ५३ || परपूररसेनैव सूच्या हृत्सुविकासितम् | अनारतपतत्सूक्ष्मसूत्रान्त इव स्तम्भिता || ५४ || उचितैवेयमुत्प्रेक्षेत्याशयेनाह - परेति | यतः सूच्या प्रागपि परपूररसेनैव परवधप्रयुक्तोदरपूरणेच्छयैव तपःक्लेशितं स्वं मनः सुविकासितमुल्लासितमतः सा अनारतं मुखे पतति | सूक्ष्मसूत्रान्ते स्वाभिलषितप्राये स्तम्भिता निरुद्धेवेत्युत्प्रेक्षोचितैवेत्यर्थः || ५४ || तीक्ष्णैरपि चिरक्षीणं पूर्यते निर्विचारणा | दृष्टान्तोऽत्र क्षणात्सूच्या पूरितो जर्जरः पटः || ५५ || इदानीं सूच्या मौढ्याचरितं तपःसूत्रैः पटच्चरोदरपूरणायैव संपन्नं न स्वोदरपूरणायेत्युत्प्रेक्षितार्थो लोकप्रसिद्धसामान्योक्तिदृष्टान्तः संपन्नं इत्याह - तीक्ष्णैरपीति | चिराय क्षीणं दारिद्र्यकार्श्यादिपीडितं कुलं तीक्ष्णैः क्रूरैरपि पूर्यते दयया पोष्यते | निर्विचारणा नास्मिन्नर्थे विचारोऽस्ति | यतो दृष्टान्तोऽत्रार्थे सूच्या पूरितो जर्जरः पटः प्रत्यक्षं दृष्ट इत्यर्थः || ५५ || सूत्रांशुनिर्गमे योग्यं सूच्या हृदयमर्जितम् | परपूरणयैवाशु तेजश्च कवितार्करुक् || ५६ || कुतो न सूच्या स्वोदरपूरणं कृतं तत्राह - सूत्रेति | यतः सूच्या सूत्रस्यांशोरग्रभागस्य निर्गमे अन्तरप्रवेशे योग्यमच्छिद्रमेव हृदयं तपसा अर्जितं तथा तेजोबुद्धिप्रकाशोऽपि तत्त्वावबोधभाग्यशालित्वात्कविताया अभिज्ञताया अर्करुक् सूर्यकान्तिरिव प्रकाशस्वभावमपि परपूरणयैव पटादिसीवनेनैव आशु व्याप्तं नतु स्वभोगोपयुक्तमर्जितमित्यर्थः | आङ्पूर्वात् अशू व्याप्तौ इति धातोरौणादिक उप्रत्ययः || ५६ || अकस्मात्तेन रूढेन क्षीणपूरेण रूपिणी | हृदये राक्षई सूचिः कर्मणा तप्यते च सा || ५७ || अत एव तस्याः पश्चात्तापोऽभूदित्याह - अकस्मादिति | पूर्यत इति पूर उदरम् | क्षीणपूरेण तेन तपःकर्मणा अकस्माद्रूढेन प्रादुर्भूतेन तेन सूचीभावेन रूपिणी | सा सूचिः || ५७ || वेधं पूररयेणेव करोति स्वं प्रचारिता | प्रकृतेन निजेनापि वेधाय व्यवहारिता || ५८ || यदि पश्चात्तप्ता सा तर्हि किं प्राणिवेधनादुपरता नेत्याह - वेधमिति | तथापि सा पूररयेणेव नदीप्रवाहवेगसदृशेन निजेन राक्षसस्वभावेन प्रकृतेन सूचीस्वभावेनापि प्राणिवेधनाभिनिवेशेन वेधायैव स्वं स्वानुरूपं प्रचारिता प्रथममुद्योजिता पश्चाद्व्यवहारिता च सती वेधं करोत्येव || ५८ || संचारयति वस्त्रेषु सूत्रं चतुरवेधनात् | आदीर्घवासनातन्तुः शरीरेष्विव चेतनाम् || ५९ || अत एव केवलसूचीस्वभावप्रयुक्तं कार्यमपि करोतीति प्रागुक्तमर्थं सदृष्टान्तमाह - संचारयतीति | यथा पुत्रकलत्रादिविषयेष्वादीर्घो वासनारूपस्तन्तुर्मरणकाले उद्भूतस्तत्तद्वासनानुरूपस्त्र्यादिशरीरेषु जीवचेतनां संचारयति तद्वद्वस्त्रेषु सूत्रं संचारयतीत्यर्थः || ५९ || संचार्यमाणवेधेन धावन्तीवाक्षिपातने | अदर्शितमुखा एव दुर्जना मर्मवेधिनः || ६० || अत एव तुन्नवायैः पटेषु वेधेन संचार्यमाणा तेषामक्षिपातने चक्षुःसंनिकर्षे मुखं पटे निगूह्य धावन्तीव बभूवेति शेषः | दुर्युक्तमेवेदं तया कृतमित्यर्थान्तरन्यासेन द्रढयति - अदर्शितेति | पिशुनचोरादयो हि दुर्जना अदर्शितस्वमुखा एव परमर्मभेदिनः प्रसिद्धा इत्यर्थः || ६० || कण्ठवस्त्रदलप्रोता वेधाक्ष्णा मुखमीक्षते | कथमेता भिनद्मीति तीक्ष्णानामेतदीप्सितम् || ६१ || कदाचित्कण्ठसक्तस्योत्तरीयवस्त्रस्य गुणे प्रोता सती वेधाक्ष्णा स्वकीयच्छिद्रलक्षणेन नेत्रेण नारीणां मुखमीक्षते | केनाभिप्रायेणेति तमाह - कथमिति || ६१ || सममेव च कौशेये क्षौमे च वसने सृता | जडः क इव वा नाम गुणागुणमपेक्षते || ६२ || कौशेये मृदुस्निग्धत्वादिगुणवति पट्टवस्त्रे क्षौमे काठिन्यरूक्षत्वादिदोषवति क्षुमावल्कले च समं तुल्यवृत्त्यैव सृता प्रविष्टा | जडो मूर्खः | अगुणं दोषम् | अपेक्षते विमृशतीति यावत् || ६२ || सा दधाना ततं सूत्रमङ्गुष्ठाङ्गुलिपीडिता | आन्त्रतन्तुमिवामान्तमुद्गिरन्ती निरीक्षते || ६३ || सीवनकाले सूचीच्छिद्रात्तन्तुनिर्गमनं सीवकाङ्गुष्ठनिपीडितसूच्युदरान्तर्गतान्त्रतन्तूद्वमनत्वेनोत्प्रेक्षते - सेति | अमान्तं निरवकाशत्वादन्तःस्थितिमलभमानम् || ६३ || तीक्ष्णाप्यहृदयत्वेन सरसेष्वरसेष्ववित् | सूत्रितापि पदार्थेषु विशत्यरसगामिनी || ६४ || सूत्रिता सूत्रप्रोता तीक्ष्णापि सा सरसेष्वरसेष्वपि पदार्थेषु अहृदयत्वेन अन्तर्हृदयशून्यत्वेन अवित् विशेषानभिज्ञा अत एवारसगामिनी रसास्वादहीना सूची स्वभावादेव विशति || ६४ || प्. ३०३) १८५ अगर्दती मुखप्रोता सुतीक्ष्णापि च तापिधीः | सुवेधिताप्यहृदया राजपुत्र्यापि दुर्भगा || ६५ || अनपराधदण्डप्राप्तेरहो अस्या दुर्दशेत्याह - अगर्दतीति | नर्द गर्द शब्दे | अगर्दती निष्ठुरभाषणादिशब्दमकुर्वाणापि मुखे प्रोता सूत्रेण सुतीक्ष्णा परसंतापसमर्थापि स्वयमेव तापिनी संतापवती धीर्यस्याः | सुष्ठु वेधिता संजातच्छिद्रापि अहृदया अनुदरच्छिद्रा | यथा राजपुत्र्यापि दुर्भगा अभाग्या संपद्यते तद्वदियमपि संपन्नेत्यर्थः || ६५ || विना परापकारेण तीक्ष्णा मरणमीहते | वेदनाद्रोधिता सूची कर्मपाशे प्रलम्बते || ६६ || युक्तैवास्याः सा दुर्दशेत्याह - विनेति | यतः सा परेषां स्वापकारेण विनैव मरणं वधमीहते इच्छति अतस्तत्पापवशाद्वेदनात्स्वबुद्धिवशादेव सूत्रे रोधिता सती स्वकर्मपाशे एव प्रलम्बते इत्युत्प्रेक्षा || ६६ || शेते किंश्याममैत्र्येव दूरे करपरिच्युता | स्वरूपसदृशं मित्रं कस्मै नाम न रोचते || ६७ || दैवात्सीवकस्य करात्परिच्युता सती तस्यान्यस्य वा अङ्के [अङ्के इति निराधारशयनानुपपत्त्या आक्षिप्तं बोध्यम्] उत्सङ्गे दूरे करस्पर्शायोग्ये स्थाने किंश्यामैः कुत्सितश्यामवर्णैरधोरोमभिः सह मैत्र्येव मित्रत्ववशादिव तेषु शेते निद्राति | कुतोऽस्यास्तत्समागमो रोचते तत्राह - स्वरूपसदृशमिति || ६७ || मिश्रिता मूढचित्तानां वृत्तिभिः प्राकृते जने | तिष्ठत्यात्मसमां को हि संगतिं त्यक्तुमिच्छति || ६८ || अत एव मूर्खचित्तवृत्त्यापि सह संगतिस्तस्या रोचत इत्याह - मिश्रितेति || ६८ || भवत्ययस्कारवित्तौ संत्यज्यान्तर्धिगामिनी | भस्त्रावातैर्विचलिता गगनादुत्पतोन्मुखी || ६९ || नन्वेवं तस्या लोहसूच्यन्तरैः सहापि साम्यात्तन्मैत्र्या कदाचित्तैः सह दैवाल्लोहकारप्राप्तौ किं करोति तत्राह - भवतीति | अयस्काराणां वित्तौ प्राप्तौ सत्यां तैः संतापायाग्नौ न्यस्यमाना तदीयचर्मभस्त्रावातैर्विचलिता सती तान्संत्यज्यान्तर्धिगामिनी अन्तर्धानगता सती गगनादुत्पतोन्मुखी पलायनपरा भवतीत्यर्थः || ६९ || प्राणापानप्रवाहस्थहृत्पद्मान्तरचारिणी | दुःखशक्तिर्महाघोरा जीवशक्तिरिवोदिता || ७० || तस्याः प्राणिनां प्राणादिद्वारा देहान्तःसंचारमाह - प्राणेत्यादिना | दुःखप्रदा कर्मशक्तिरेव जीवशक्तिः सजीवा उदिता आविर्भूतेव || ७० || समानवैपरीत्येन समानसमगामिनी | उदानविपरीतत्वादुदानसमगामिनी || ७१ || व्यानस्था व्याधिजननी सर्वाङ्गरसचारिणी | हृत्कण्ठे शूलपवने वैवर्ण्योन्मादकारिणी || ७२ || शूलपवने शूलरोगात्मके वायौ प्रविश्येति शेषः || ७२ || प्रायशोऽविकहस्तस्था सुप्तोर्णागन्धकोटरे | बालहस्ताङ्गुलीतल्पवेधनैकविलासिनी || ७३ || प्रायशः कम्बलादिसीवनकाले अविकानां अविपालानां हस्तस्था कदाचित्तदीयोर्णानां गन्धस्य लेशस्य कोटरे सुप्ता कदाचित्तु बालानां हस्ताङ्गुल्यादिलक्षणस्य स्वतल्पस्य वेधने एकविलासिनी मुख्यकौतुकवती आसीदिति शेषः || ७३ || पादप्रविष्टा रुधिरपानोपार्जनविस्मिता | तुष्यत्यतितरां गुच्छभोजना तुच्छभोजनैः || ७४ || पुष्पगुच्छमालाग्रथनकाले गुच्छभोजना तुच्छभोजनैरल्पभोजनैस्तुष्यति तृप्यति || ७४ || शेते कर्दमकोशस्था चिरकालमधोमुखी | इच्छानुरूपमासाद्य क इवास्पदमुज्झति || ७५ || कर्दमकोशो मलपङ्किलमूलाधारकोशः || ७५ || क्रौर्येणापहतात्मानं दर्शयत्युपवेधनैः | उत्सवादपि नीचानां कलहोऽपि सुखायते || ७६ || अपहतं दूषितमात्मानं स्वाम् | उपवेधनैः परप्राणापहारपर्यन्तैर्वेधनैः | स्वार्थाभावे कथं परमारणे तस्याः प्रवृत्तिस्तत्राह - उत्सवादपीति | येषां परपीडाऽसामर्थ्येऽपि परैः सह कलहोऽपि सुखायते तेषां परमारणं सुखायते इति किं वक्तव्यमिति भावः || ७६ || कपर्दकार्धलाभेन कृपणो बहु मन्यते | दुरुच्छेदा हि भूतानामहंकारचमत्कृतिः || ७७ || अल्पतररक्तकणास्वादलोभाद्वास्याः परमारणे प्रवृत्तिरुपपन्नेत्याह - कपर्दकेति | राक्षसकुलोचितपरहिंसाविहाराभिमानाद्वा तदुपपत्तिरित्याह - दुरुच्छेदेति || ७७ || सूचिकायुग्मलभ्येन मोहितेनात्मना नृणाम् | मृतिमाशङ्कते चित्रा स्वार्थे नोदेति मूढता || ७८ || सा मोहितेन मूढेनात्मना क्रियमाणेन जीवसूचीलोहसूचीति स्वक्कियसूचिकाद्वयलभ्येन वेधनेन सर्वेषां नृणां मृतिमाशङ्कते तर्कयति | मूढानामावश्यके [मूढानां व्यर्थे इति पाठः] स्वार्थे मूढता नोदेति सा चित्रा आश्चर्यभूतेत्यर्थः || ७८ || वस्त्रतन्तुविभेदेन परमारणमाशु मे | इदं संपद्यत इति भवत्यन्तर्हि निर्मला || ७९ || इदानीं मे मम परमारणं प्राक् सीवनकाले वस्त्रतन्तुविभेदेनाभ्यस्तमिति हेतोराशु संपद्यत इति स्वकौशलानुसंधानेनान्तः अत्यन्तं निर्मला प्रसन्ना भवति | हृष्यतीति यावत् || ७९ || स्थापिता मलमादत्ते यथा मृद्घर्षणं विना | परापराधविरहाद्व्याधिस्तस्याः प्रवर्तते || ८० || यथा लोके प्रसिद्धा सूचिः सीवनेन [सीवनेत्याद्यर्थलब्धम्] मृदो घर्षणं विना तूष्णी स्थापिता मलमनैर्मल्यमादत्ते स्वीकरोति | तथा तस्या अपि परापराधविरहाद्व्याधिर्दुःखं प्रवर्तत इत्यर्थः || ८० || सूक्ष्माऽदृश्या चैव दात्री क्षणाद्विस्मृतिमेति सा | तीक्ष्णभेदकरी क्रूरा सूची चेष्टेव दैविकी || ८१ || अदृश्या दात्री खण्डयित्री | दैविकी औत्पातिकी चेष्टेव || ८१ || प्. ३०४) १८६ तन्तुवेधनमात्रेण हतोऽन्य इति तोषिता | दुर्जनो येन तेनैव नाशितेनैति हृष्टताम् || ८२ || मर्मस्थानाच्छादनोत्तरीयतन्तुवेधनमात्रकौशलेन || ८२ || पङ्के मज्जति याति खं विहरति व्योमानिलैर्दिक्तटे शेते पांसुषु भूतलेष्विव वने पट्टे गृहेऽन्तःपुरे | हस्ते श्रोत्रसरोरुहेऽथ मृदुनि स्वेच्छोर्णिकाखण्डके रन्ध्रे काष्ठमृदां च माति हृदये द्रव्यात्मशक्त्यैव सा || ८३ || विस्तरोक्तं सूचीचरित्रं संक्षिप्योपसंहरति - पङ्के इति | पल्वलादिपङ्के मज्जति | खमाकाशं याति | व्योमानिलैः सह दिक्तटे विहरति | इवकारो भिन्नक्रमः | अन्तःपुरे गृहे पट्टे पर्यङ्कपट्टास्तरण इव भूतले वने पांसुष्वपि शेते | तथा नराणां हस्ते श्रोत्रलक्षणे श्रोत्रस्थे वा सरोरुहे पद्मे स्वेच्छया ऊर्णिकानां मेषरोम्णां खण्डके राशौ च शेते | काष्ठानां मृदां कुड्यादीनां च रन्ध्रे अल्पतरेऽपि छिद्रे माति संमीयते तथा प्राणिनां हृदये च माति यथा मणिमन्त्रादिद्रव्यात्मशक्त्या मायावी योगी वा सर्वत्र यथेच्छं विहरति तद्वदित्यर्थः || ८३ || श्रीवाल्मीकिरुवाच | इत्युक्तवत्यथ मुनौ दिवसो जगाम सायंतनाय विधयेऽस्तमिनो जगाम | स्नातुं सभा कृतनमस्करणा जगाम् श्यामक्षये रविकरैश्च सहाजगाम || ८४ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे सूचिव्यवहारवर्णनं नाम सप्ततितमः सर्गः || ७० || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे सूचिव्यवहारवर्णनं नाम सप्ततितमः सर्गः || ७० || षष्ठो दिवसः | एकसप्ततितमः सर्गः ७१ श्रीवसिष्ठ उवाच | अथ सा बहुकालेन कर्कटी नाम राक्षसी | सर्वेषां नरमांसानां नतु तृप्तिमुपाययौ || १ || कर्कढ्याः सूचिभूतायाः पश्चात्तापोऽत्र वर्ण्यते | स्मरन्त्याः प्राक्तनं देहं विस्तरात्परिदेवनम् || १ || सर्वेषां सर्वजातीयानां नराणां मांसानामास्वादनेऽपीति शेषः | तृप्तिमलंबुद्धिम् || १ || पूर्वेणैव किलाह्ना सा तृप्ता रुधिरबिन्दुना | सूच्याः किमिव मात्यन्तस्तृष्णासूची सुदुर्भरा || २ || तृप्ता अपगतक्षुधा || २ || चिन्तयामास हा कष्टं किमहं सूचितां गता | सूक्ष्मास्मि हतशक्तिश्च अपि ग्रासो न माति च || ३ || हतशक्तिः कुण्ठितभक्षणसामर्थ्या | न माति | उदरे इति शेषः || ३ || क्व मे तानि विशालानि गतान्यङ्गानि दुर्धियः | कालमेघविशालानि वने शीर्णानि पर्णवत् || ४ || तानि प्राक्तनानि | अङ्गानि हस्तपादादीनि || ४ || मययस्यां मन्दभाग्यायां मनागपि न माति हि | स्वादुमांसरसग्रासो वसावासित आसयन् || ५ || अस्यामेतद्दशापन्नायाम् | वसया वासितः सुगन्धिः | आसनि आस्ये यन् प्रविशन् | एतेः शतृप्रत्ययः | पद्दन् - इति सूत्रे प्रभृतिग्रहणस्य प्रकारार्थत्वादासन्नादेशः || ५ || पङ्कान्तर्विनिमज्जामि पतामि धरणीतले | हस्तास्मि जनपादौघैः शुक्रेण मलिनास्मि च || ६ || पङ्कान्तर्मज्जनादि प्राक्सर्गे वर्णितम् | शुक्रेण चरमधातुना || ६ || हा हताहमनाथाहमनाश्वासा निरास्पदा | दुःखाद्दुःखे निमज्जामि संकटात्संकटेऽपि च || ७ || अनाश्वासा सखिबन्ध्वाद्याश्वासनशून्या | संकटात्प्राणसंकटात् || ७ || न सखी न च मे दासी न मे माता न मे पिता | न मे बन्धुर्न मे भृत्या न मे भ्राता न मे सुतः || ८ || तत्कुतस्तत्राह - नेति || ८ || न मे देहो न मे स्थानं न मे कश्चित्समाश्रयः | नैकस्थाने समावासो भ्राम्यामि वनपर्णवत् || ९ || समाश्रय उपजीव्यः || ९ || आपदां धुरि तिष्ठामि निविष्टास्मि सुदारुणे | अभावमपि वाञ्छामि सोऽपि संपद्यते न मे || १० || अभावं मरणम् || १० || स्वको देहः परित्यक्तो मूढचेतनया मया | काचबुद्ध्या विमूढेन हस्ताच्चिन्तामणिर्यथा || ११ || आपतद्धि मनो मोहं पूर्वमापत्प्रयच्छति | पश्चादनर्थविस्ताररूपेण परिजृम्भते || १२ || इदं च दुःखं मोहाविष्टमनःकृतमेवेत्याह - आपतद्धीति | मनः कर्तृ मोहमापतत्सत्पूर्वमापादयति दुःखसहस्रमित्यापद्दुर्बुद्धिस्ताम् | व्यत्ययेन प्रथमा || १२ || धूमेषु परितिष्ठामि मार्गे विलुलितास्मि च | तृणेषु प्रेषितास्म्यन्तर्हा मे दुःखपरम्परा || १३ || किंच कदाचिदहं कैश्चित्सूत्रे प्रोता धूमप्रदेशे बद्धा धूमेषु परि उपरि तिष्ठामि | कदाचिन्मार्गे पतिता खरोष्ट्रादिभिर्विलुलिता उपमर्दिता | कदाचित्कैश्चिन्नलिकादितृणेषु निधानायान्तः प्रेषिता प्रवेशितास्मि || १३ || परप्रैषकरी नित्यं परसंचारचारिणी | परं कार्पण्यमायाता जाता परवशास्म्यलम् || १४ || भ्रान्तिं करोमि तुच्छे च सापि वेधनरूपिणी | अहो ममाल्पभाग्याया दौर्भाग्यमपि दुर्भगम् || १५ || तुच्छेष्वान्तररक्ताद्यास्वादविषयेषु भ्रान्तिमभिलाषम् | सा भ्रान्तिरपि वेधनरूपिणी वेधनमात्रफला नास्वादनफला | निरुदरजिह्वत्वादित्यर्थः || १५ || प्. ३०५) १८६ उत्थितः स्फारवेतालः कुर्वत्याः शान्तिमद्य मे | सर्वनाशोऽवदातेन प्रवृत्ताया ममोदिता || १६ || सोऽयं वेतालशान्तिकर्मणि वेतालोदय इति लोकप्रसिद्ध आभाणकः स्वस्यां संपन्न इत्याह - उत्थित इति | अवदातेन तपसा || १६ || किं मन्दया मया तादृक्संत्यक्तं तन्महावपुः | यथा नाशेन वा भाव्यं तथोदेत्यशुभा मतिः || १७ || तत्प्राक्तनं महावपुः किंकारणं त्यक्तम् | वा अथवा येन प्रकारेण बुद्धौ सत्यां नाशेन भाव्यम् | आवश्यके कृत्यः || १७ || मामवान्तरनिर्मग्नां सूक्ष्मां कीटतनोरपि | उद्धरिष्यति को नाम पांसुराशिभिरावृताम् [हारितां पांसुराशिभिः इति पाठष्टीकानुगुणः] || १८ || नापूजयद्गणेशानं सूचीसृष्टौ स विश्वसृट् | नापसूत्रां ततः सूचीं नष्टां विन्दति मानवः || इत्याभाणकमनुसृत्याह-मामिति | अवान्तरे पथि दैवात्पांसुनिर्मग्नां को वा उद्धरिष्यति | दुर्लक्ष्यत्वान्न कश्चिदुद्धरिष्यतीत्यर्थः | हारितां हापिताम् | आवृताम् इति पाठे तु स्पष्टम् || १८ || विविक्तमनसांबुद्धौ क्व स्फुरन्ति हताशयाः | ग्राममार्गतृणानीव गिरेरुपरिवासिनाम् || १९ || यद्यप्यसूक्ष्मदृश उद्धर्तुमशक्तास्तथापि विविक्तमनसः सूक्ष्मदर्शिनो योगिनस्त्वामुद्धरिष्यन्तीत्याशङ्क्याह - विविक्तेति | हताशया मादृशा इति शेषः || १९ || स्थिताया अज्ञताम्भोधौ क्व ममाभ्युदयो भवेत् | अन्धस्योदेति प्राकाश्यं नखद्योतानुसेविनः || २० || ननु त्वयैव स्वात्मोद्धर्तव्यस्तत्राह - स्थिताया इति | प्रकाशयतीति प्रकाशस्तद्भावः प्राकाश्यमर्थदर्शनम् || २० || अतः कियन्तं नो जाने कालमावलितापदम् | मयापच्छ्वभ्रगर्तेषु लुठितव्यं हतेहया || २१ || आवलिता आपदा [आपदा इति टावन्तम्] यस्मिन्कर्मणि तद्यथा स्यात्तथा लुठितव्यम् || २१ || कदा स्यामञ्जनमहाशैलपुत्रकरूपिणी | द्यावापृथिव्योर्वैधुर्ये स्तम्भतामनुतिष्ठती || २२ || वैधुर्ये प्राणिसंहारेणावष्टम्भेन च भारोत्तारणे || २२ || मेघमालासमभुजा चिरं विद्युत्पदेक्षणा | नीहारजालवसना प्रोच्चकेशमिताम्बरा || २३ || विद्युत्पदे विद्युत्स्थानापन्ने ईक्षणे चक्षुषी यस्याः | प्रोच्चैः केशैर्मितमम्बरं यस्याः || २३ || लम्बोदराभ्रसंदर्शप्रनर्तितशिखण्डिनी | लम्बलोलस्तनी श्यामा देहवातद्रवत्स्तनी || २४ || उदरलक्षणस्याभ्रस्य संदर्शेन प्रेक्षणेन प्रनर्तिताः शिखण्डिनो मयूरा यया | देहवातेन श्वासेन द्रवन्तौ कम्पमानौ स्तनौ यस्याः || २४ || हासभस्मच्छटाच्छन्नसूर्यमण्डलरोधिनी | कृतान्तग्रसनोद्युक्तकृत्यैकाकृतिधारिणी || २५ || हासेनाट्टहासबिलासेन भस्मच्छटाभिर्दग्धारण्यधूलिपटलैश्च्छन्नस्य आच्छादितस्य सूर्यमण्डलस्य रोधिनी पिधानशीला | कृतान्त इव सर्वप्राणिग्रसनमेव उद्युक्तमारब्धं कृत्यं यया तथाविधा या एका आकृतिर्भीषणाकारस्तद्धारिणी || २५ || कृशानूलूखलदृशा सूर्यस्रग्दामहारिणी | पर्वतात्पर्वते शृङ्गे न्यस्य पादौ विहारिणी || २६ || कृशानुरिव ज्वलन्त्यौ उलूखलमिव निमग्ने दृशे नेत्रे यस्याः | आपं चैव हलन्तानाम् इति भागुरिमतेन दृशाशब्दः साधुः | कदा भविष्यामीति सर्वत्रानुषज्यते || २६ || कदा मे स्याद्गुरुश्वभ्रभासुरं तन्महोदरम् | कदा मे स्याच्छरन्मेघमेदुरा नखरावली || २७ || नखरा नखास्तेषामावली पङ्क्ति || २७ || कदा मे स्यान्महारक्षोविद्रावणकरं स्मितम् | स्वस्फिग्वाद्यैररण्यान्यां कदा नृत्येयमुन्मदा || २८ || महतां प्रौढानां रक्षसां हृदयविद्रावणकरं स्मितं ईषद्धसितम् | स्फिग्वाद्यैः स्फिजो वादनैः | अरण्यान्यां महारण्ये | इन्द्रवरुण - इत्यादिना ङीष्यानुक् || २८ || वसासवमहाकुम्भैर्मृतमांसास्थिसंचयैः | कदा करिष्येऽविरतं मेदुरोदरपूरणम् || २९ || कदा पीतमहालोकरुधिरा क्षीबतां गता | भवेयं मुदिता दृप्ता मुद्रिता निद्रया ततः || ३० || मयैव कुतपोवह्नौ तदग्र्यं भासुरं वपुः | भस्मत्वं कनकेनेव सूचित्वमुररीकृतम् || ३१ || दुःखफलपर्यवसितत्वात्कुत्सार्हे तपोवह्नौ तत्प्राक्तनं भासुरं वपुर्भस्मत्वं नीतमिति शेषः | यथा कनकेन स्वकनकत्वनाशकं भस्मत्वं लोहसूचित्वं वा उररीकृतं स्यात्तत्तुल्यम् || ३१ || क्व क्लिआञ्जनशैलाभं वपुर्भरितदिक्तटम् | क्व प्राचिकाखुरसमं सूचित्वं तृणपेलवम् || ३२ || प्राचिका दीर्घपादलूता जातिस्तस्याः खुरः पादाग्रं तत्समम् || ३२ || त्यजत्याशु मृदित्यज्ञः प्राप्यापि कनकाङ्गदम् | मया सूचित्वलोभेन संत्यक्तं भासुरं वपुः || ३३ || मृन्मलिनं कनकाङ्गदं प्राप्याप्यविचारेण मृदिति भ्रान्त्या त्यजति || ३३ || हा महोदर विन्ध्याद्रिसनीहारगुहोपम | अद्य नान्तं करोषि त्वं कथं सिंहेन हस्तिनाम् || ३४ || इदानीमुदराद्यङ्गानि प्रत्येकं संबोध्यानुशोचत्याह - हा इत्यादिना | विन्ध्याद्रेः सनीहारगुहा उपमा यस्य तथाविध हे महोदर त्वं सिंहेन सिंहसदृशेन स्वाविर्भावेन हस्तिसदृशानां त्वद्वियोगदुःखानामन्तं नाशं कथं न करोषि || ३४ || हा भुजौ भरनिर्भग्नशिखरौ शशभृन्नखैः | पुरोडाशधिया चन्द्रं कथमद्य न बाधतः || ३५ || भरेणातिशयेन निर्भग्नगिरिशिखरौ | शशभृत्सदृशैर्नखैर्देवभोग्यत्वात्पुरोडाशमिव स्थितं चन्द्रं कथं न बाधत इति दैर्घ्यातिशयोक्तिः || ३५ || प्. ३०६) १८७ हा वक्षः काचवैधुर्यगिरीन्द्रतटसुन्दर | नाद्य सिंहादि यौकं तद्धृतं रोमवनं तथा || ३६ || काचमणिमालानां वैधुर्येऽपि स्वत एव गिरीन्द्रतटमिव सुन्दर हे वक्षः त्वया सिंहादय इव सिंहादय एव वा सिंहानत्तुं शीलमस्य तथाविधं वा यूकानां समूहो यौकं यत्र तथाविधं रोमवनं यथा पूर्व धृतं तथाद्य न धृतमित्यर्थः || ३६ || हा नेत्रे कृष्णरजनीरजःशुष्केन्धनैजने | कस्मान्न मे भूषयतो दृग्ज्वालामालया दिशः || ३७ || कृष्णरजन्या कृष्णपक्षराज्या रज्यते आसञ्ज्यत इति कृष्णरजनीरजोऽन्धकारस्तद्रूपशुष्केन्धनस्य एजने प्रदीपने | एजृ दीप्तौ ल्युः | हे मे नेत्रे दृक् दर्शनं तद्वक्षणया ज्वालामालया दिशः कस्मान्न भूषयतः || ३७ || हा स्कन्ध बन्धो नष्टोऽसि निषिद्धोऽसि महीतले | कालेन विनिपिष्टोऽसि निपृष्टोऽसि शिलातले || ३८ || निषिद्धः परिहृतः | परित्यक्त इति यावत् || ३८ || हा मुखेन्दो तपसि किं नाद्य त्वं मम रश्मिभिः | कल्पान्तदावसंशान्तचन्द्रबिम्बमनोहर || ३९ || कल्पान्ते दावेन दवाग्निना संशान्तं दग्धं चन्द्रबिम्बमिव श्यामत्वान्मनोहर || ३९ || हा हा हस्तौ महाकारौ तावद्य क्व गतौ मम | संपन्नास्मि महासूचिर्मक्षिकाखुरदोलिता || ४० || मक्षिकाणां खुरैः पादाग्रैरपि दोलिता चालिता | अतिक्षुद्रेत्यर्थः || ४० || हा [त्वां शोचामीत्यर्थः] भगोग्रकरञ्जाढ्यसत्कन्दश्वभ्रशोभन | विन्ध्याद्वरेण्यविपुलनितम्बामलबिम्बक || ४१ || सत् विद्यमानं कन्दं स्थूलतरुमूलं यस्मिंस्तथाविधं श्वभ्रं गर्त इव शोभन || ४१ || क्वाकारोऽम्बरपूरकः क्व च नवं तुच्छात्मसूचीवपू रोदोरन्ध्रसमं क्व वास्य कुहरं क्वेदं च सूचीमुखम् | क्व ग्रासो बहुमांसभारबहुलः क्वाब्बिन्दुना भोजनं सूक्ष्मास्म्येतदहो मयैव रचितं स्वात्मक्षये नाटकम् || ४२ || बहुभिर्मासभारैर्बहुलो विपुलो ग्रास आहारः || ४२ || इत्यार्षे श्रीवासिष्ठमहारामायणे मोक्षोपाये उत्पत्तिप्रकरणे क० सूचिकापरिदेवनं नामैकसप्ततितमः सर्गः || ७१ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे सूचिकापरिदेवनं नामैकसप्ततितमः सर्गः || ७१ || द्विसप्ततितमः सर्गः ७२ श्रीवसिष्ठ उवाच | सूची सा संभवद्वाणी चिन्तयित्वेत्यकम्पनम् | पुनस्तद्देहलाभाय भवाम्याशु तपस्विनी || १ || वर्ण्यतेऽत्र पुनः सूच्यास्तप उग्रं हिमाचले | तद्विस्मितस्य शक्रस्य नारदोक्त्या विनिश्चयः || १ || सा शोकपरायणा सूची असंभवद्वाणी मौनमास्थिता सती अकम्पनं सैकाम्यनिश्चलं यथा स्यात्तथा इति प्रागुक्तरीत्या स्वदेहादिकं वक्ष्यमाणप्रकारं च चिन्तयित्वा | तमेव प्रकारमाह - पुनरिति || १ || इति संचिन्त्य चित्तस्थं संहृत्य जनमारणम् | तदेव हिमवच्छृङ्गं जगाम तपसे स्थितम् || २ || तपसे [तपसे इति क्वचिन्न लभ्यते] जगाम | स्थितं प्रागास्थितम् || २ || अपश्यदेव सूचित्वं सा तन्मानसमात्मनि | प्राणवातात्मिका प्राणैः प्रविश्य हतमानसम् || ३ || कथं जगामेति तदाह - अपश्यदेवेति | प्रथममात्मनि मानसं मनःकल्पितं सूचित्वमेवापश्यत् | क्रियाशक्तिशून्ये आत्मनि सूचित्वदर्शनेऽपि कथं गमनसिद्धिस्तत्राह - प्राणेति | या प्राणवातात्मिका जीवसूचिः सा स्वोपाधिभूतैः प्राणैः सूचित्वकल्पनाहतं मानसं प्रविश्य | मनःकल्पितां लोहसूचीं प्रविश्येति यावत् | हतमानवाम् इति पाठे हता मानवा यया लोहसूच्या तां प्रविश्येत्यर्थः || ३ || अथात्मन्येव सूचित्वं पश्यत्येव मनोमयम् | प्राणवातशरीरासौ जगाम हिमवच्छिरः || ४ || अथ जीवसूच्यात्मन्येव मनोमयं लोहसूचिभावं पश्यत्येव | तथाच लोहजीवसूच्योरन्योन्यतादात्म्याध्यासादसौ कर्कटी प्राणवाताऽभिन्नशरीरा सती क्रियाशक्तिं प्राप्य हिमवच्छिरो जगाम | वक्ष्यमाणरीत्या गृध्रशरीरं प्रविश्येत्यर्थः || ४ || दृढदावानले तत्र सर्वभूतविवर्जिते | महामहाशिलाभाभारूक्षे पांसुविधूसरे || ५ || महती विशाला या महाशिला गुणोत्कृष्टेन्द्रनीलशिला तदामेवाभा कान्तिर्यस्याः | आभाभिरातपै रूक्षे इति वा || ५ || तस्थावभ्युदितेवासौ निस्तृणे विपुले स्थले | मरावकस्मात्संजातशुष्का तृणशिखा यथा || ६ || अभ्युदिता तत्रैवाङ्कुरितेव || ६ || सुसूक्ष्मस्यैकपादस्य सार्धेनैवाश्रितोर्वरा | स्वसंविदेकपादात्म तपः कर्तुं प्रचक्रमे || ७ || सुसूक्ष्मस्य सूच्यग्ररूपस्यैकपादस्यार्धेन लेशेनैव आश्रिता उर्वरा भूमिर्यया | अत एव द्विपदामिवैकपादपरिहारेणैकपादात्मत्वासंभवेऽपि स्वसंविदा स्वीयकल्पनयैव कल्पितभागद्वयमध्ये अग्रार्धपरिहारेणैकपादात्म एकपादावस्थितिरूपं तपः || ७ || सूक्ष्मपादतलेनैषा वसुधारेणुसंकटी | निवार्य त्रिपदीं कृत्स्नाद्यत्नेनोर्ध्वमुखी स्थिता || ८ || पादतलेन निशिताग्रभागेन वसुधाया रेणुमपि संकटयति तुदतीति वसुधारेणुसंकटी | संकटशब्दात् तत्करोति - इति णिचि कर्मण्यण् | अङ्गोपस्य स्थानिवद्भावान्नोपधावृद्धिः | त्रिपदीं पुरःपार्श्वद्वयलक्षणत्रिभागप्रसृतां दृष्टिं कृत्स्नाद्विषयान्निवार्य || ८ || प्. ३०७) १८७ कृष्णत्वहिंस्रतातैक्ष्ण्यव्याप्त्यास्यपवनाशनैः | यत्नात्पदं निबध्नन्ती रेण्वणूपलसंकटे || ९ || ननु ऊर्ध्वमुखत्वे दृष्टेः सर्वतो निवारणे च रेण्वणूपलसंकटे कथं तस्याः पादस्थैर्यं सिद्धं तत्राह - कृष्णत्वेति | दृढत्वादेव स्थैर्यं सिद्धं दृढत्वं चास्याः कृष्णत्वेन कृष्णायसत्वेन हिंस्रत्वेन तैक्ष्ण्येन तीक्ष्णाग्रत्वेन च सर्वाङ्गव्याप्त्या आस्येन पवनस्याशनैर्ग्रसनैस्तद्विष्टम्भलक्षणयत्नाच्च सिद्धमित्यर्थः || ९ || अरण्ये क्षुभितां संपद्दूरालोकार्थमुत्थिताम् | पुच्छाकोटिस्थितां वातालोलामनुचकार सा || १० || सा सूची अरण्ये क्षुधाक्षुभितां अत एव सम्यक् पद्यन्ते समीपमुपसर्पन्तीति संपदोऽरण्याध्वगास्तेषां दूरादालोकनमालोकस्तदर्थमुत्थितामुर्ध्वीकृतमुस्वभागाम् | पुच्छेन आकोटौ तृणपर्णाद्यग्रभागे स्थिताम् | पथिकव्यामोहाय वातेनाप्यलोलामचनलाम् | अर्थात्तृनजलूकामनुचकार विडम्बितवती | दूरालोकायम् इति पाठे दूरादालोकाय आयं आयतं दीर्घ यथा स्यात्तथा उत्थितामित्यर्थः || १० || मुखरन्ध्रविनिष्क्रान्ता तस्या भास्करदीधितिः | सखी बभूव सूच्याभा पश्चाद्भागैकरक्षिणी || ११ || सूचीरन्ध्रनिःसृतातपस्यापि सूच्याकारत्वात्तत्सखीत्वमुत्प्रेक्षते - मुखेति द्वाभ्याम् || ११ || क्षुद्रेऽपि स्वजने भूतेऽप्येति वत्सलतां जनः | दीधीत्यापि सखीवृत्तं सूच्यां शुचितया भृतम् || १२ || बभूव तस्याः स्वच्छाया द्वितीया तापसी सखी | एवं सूचीव मलिना तया पश्चात्कृतेव सा || १३ || सूचीच्छायामपि तत्सख्यन्तरत्वेन कल्पयति - बभूवेति | एवं दीधितिवदेव | यो विशेषस्तमाह - सूचीवेति | तया सूच्या सा छायासूची पश्चात्कृता पृष्ठरक्षिका कृतेव || १३ || सूच्या तया सुनिर्गत्य सुपाताक्ष्यः स्म कूणितैः | पश्चात्सख्याभया साधुरन्योन्याचारकेवलम् || १४ || तासां तिसृणां सूचीनां परस्परशिरोमूलग्रन्थने परस्परविष्टम्भात्परस्परानुकूल्याचरणमिव वृत्तमित्युत्प्रेक्षते - सूच्येति | पश्चात्सख्या आभया सूर्यदीधित्या तया लोहसूच्या द्वारभूतया सुप्रु निर्गत्य सुपाताक्ष्या दीधीतिषुपात एव अक्षि नेत्रं यस्यास्तस्या छायासूच्या सह कूणितैर्ग्रथनैः | छायासूचीमूलग्रथनेन सह गणनाद्बहुत्वम् | अन्योन्याचारके परस्पराचरणीये स्थैर्यसाहायये बलं दार्ढ्य कृतमिति शेषः | स्म किल | अतः स आचारः साधुरित्यर्थः || १४ || सूच्याभिप्रेक्षिते याता मतिं द्रुमलतादयः | महातपस्विनीं सूचीं दृष्ट्वा नोत्कण्ठयन्ति के || १५ || एवं तपस्यन्त्याः सूच्याः अभिप्रेक्षिते पुरोदर्शनचिषये द्रुमलतादयोऽपि मतिं सद्बुद्धिं याताः प्राप्ताः | रतिम् इति पाठे स्पष्टम् || १५ || स्थिरबद्धपदामेनां स्वमनोवृत्तिमुत्थिताम् | अनिलं भोजयांचक्रुर्मुखनिर्गतभांकृतैः || १६ || तपोविषये स्थिरां स्वमनसो वृत्तिमिवोत्थितामेनां सूची द्रुमलतादयः स्वपुष्पफलादिवासितमनिलं वायुं भोजयांचकुरित्युत्प्रेक्षा | तस्यास्तद्भोजनसंभावने हेतुः - मुखनिर्गतभांकृतैरिति | सशब्दं हि भोजनं पामरेषु प्रसिद्धमिति भावः || १६ || प्रसूतानि भविष्याणि गीर्वाणान्यानि वा चिरम् | कौसुमानि रजांस्यस्या इत्यास्यं पर्यपूरयन् || १७ || दैवाद्रुमलताभिः कुसुमरजोभिः कृतं सूचीविलपिधानमुत्प्रेक्षते - प्रसूतानीति | यानि प्राक्प्रसूतानि यानि च भविष्याणि यानि गीर्वाणेभ्यो देवेभ्योऽन्यानि | अदेवतार्थानीत्यर्थः | तानि सर्वाणि कौसुमानि रजांसि अस्यै सूच्यै देयानीयु * * *? वेत्यर्थः || १७ || ततो महेन्द्रप्रहितं वातनुन्नामिषं रजः | तया त्वभ्रत्वव्याजेन न निगीर्णं मुखे विशत् || १८ || दैवाच्छिद्रे वातवुध्ना * * * * * *? रजसां प्रवेशं महेन्द्रकृतविघ्नत्वेन प्रविष्टानां यद्बहिर्निर्गमनं तत्तद्दियानि * * * *? न चोत्प्रेक्षते - तत इति द्वाभ्याम् | अभ्रत्वव्याजेन च्छिद्रत्वच्छ * *? स्थिते मुखे विशदपि तया न * * *? || १८ || न निगीर्णवती तानि रजांसि दृढनिश्चयात् | अन्तःसारतया कार्यं लघवोऽप्याप्नुवन्ति हि || १९ || कार्य तपोविघ्ननिवारणलक्षणं प्रयोजनम् || १९ || न पिबत्यास्यसंस्थानि तथा पुष्परजांस्यपि | विस्मयं पवनः प्राप सुमेरून्मूलनाधिकम् || २० || आशिरः पिहिता पङ्कैः पूरितापि महाजलैः | विधूतापि बृहद्वातैर्दग्धापि वनवह्निभिः || २१ || एवं विप्रान्तरैरपि सा न क्षुभितेत्याह - भाशिर इत्यादिना || २१ || भिन्नापि करकापातैर्भ्रामितापि तडिद्भ्रमैः | उद्वेजितापि जलदैः क्षोभिताप्यतिगर्जितैः || २२ || अपि वर्षसहस्रैः सा चित्तस्थदृढनिश्चया | पादाग्रं तु कुसुप्तेव नाकम्पत तपस्विनी || २३ || कुसुमा विषमूर्च्छादिषुवेव | पादार्थ सूच्यग्रमात्रम् | अणुमात्रमपीत्यर्थः | तुशब्दोऽप्यर्थे || २३ || निवृत्ताया बहिःस्पन्दाद्देशकाले वहौ गते | विचारयन्त्यास्तस्याः स्वमात्मा सत्यं सुचेतनम् || २४ || तपस्यन्त्यास्तस्याः पापक्षयाचिरं चित्तंकाभ्याच विचारपूर्वकं ज्ञानमुत्पन्नमित्याह - निवृत्ताया इत्यादिना | सत्यं शुचेतनं स्तं विचारयन्त्यस्तस्या आत्मैव ज्ञानां लोकस्तत्साक्षात्कारवृत्तिद्धबोधात्मा समुदभूदित्यर्थः || २४ || ज्ञानालोकः समुदभूत्सा परावरदर्शिनी | बभूव निर्मला सुच्चिर्विषूची पावनं परम् || २५ || जाता विदितवेद्या सा स्वयमेव तया धिया | तपसा दुष्कृते क्षीणे सूची स्वसुखसूचिनी || २६ || इति वर्षसहस्राणि साकरोद्दारुणं तपः | सप्तसप्तमहालोकसंतापकरमुन्मुखी || २७ || सप्तवर्षसहस्राणि सप्तसप्तानां चतुर्दशानां महतां भूरादिलोकानां संतापकरं तपः | उन्मुखी ऊर्ध्वमुखी || २७ || तस्याः कल्पाग्निभीमेन तपसा हि महागिरिः | बभूव तेन ज्वलितो जज्वालेव ततो जगत् || २८ || प्. ३०८) १८८ कस्येदं तपसाक्रान्तं जगदित्यथ वासवः | नारदं परिपप्रच्छ स तस्याकथयच्च तत् || २९ || तत्सूचीतपः || २९ || सप्तवर्षसहस्राणि सूची दीर्घतपस्विनी | महाविज्ञानदेहासौ तेनेदं ज्वलितं जगत् || ३० || नागाः श्वसन्ति विचलन्ति नगाः पतन्ति वैमानिका जलधिवारिधराः प्रयान्ति | शोषं दिशोऽर्कसहिता मलिनीभवन्ति सूच्याः सुरेन्द्र तपसा क्षयमाययेव || ३१ || जलधयो वारिधराश्च शोषं प्रयान्ति || ३१ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे क० सूचीतपःप्रभावो नाम द्विसप्ततितमः सर्गः || ७२ || इतिश्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे सूचीतपः प्रभावो नाम द्विसप्ततितमः सर्गः || ७२ || त्रसप्ततितमः सर्गः ७३ श्रीवसिष्ठ उवाच | कर्कटीकटुवृत्तान्तं सर्वमाकर्ण्य वासवः | नारदं परिपप्रच्छ पुनर्जातकुतूहलः || १ || जीवसूच्या इह पुनर्वर्ण्यते भोगविस्तरः | ततश्चान्वेषणं वायोः सर्वतः शक्रचोदनात् || १ || कर्कट्याः कटुमप्रियं तपोवृत्तान्तम् | जीवसूचीभोगप्रकारश्रवणे जातकुतूहलः || १ || शक्र उवाच | सूचीवृत्तपिशाचत्वं तपसोपार्ज्य तत्तया | कर्कट्या हिममर्कट्या के भुक्ता विभवा मुने || २ || सूचीव वृत्तं पिशाचत्वमिव अदृश्यं जीवसूचित्वम् | हिमसंबन्धादिव प्राप्तजाड्यबुद्ध्या मर्कटीव तुच्छभोगचपलया कर्कट्या || २ || श्रीनारद उवाच | जीवसूच्याः पिशाचत्वं गतायाः शक्र पेलवम् | आसीत्कार्ष्णायसी सूची तस्याः समवलम्बनम् || ३ || समवलम्बनमाश्रयः || ३ || तत्समालम्बनं त्यक्त्वा व्योमवातरथस्थया | प्राणमारुतमार्गेण तया देहप्रविष्टया || ४ || कदाचित्तस्या लोहसूच्याः समालम्बनं त्यक्त्वा व्योमवात आकाशगो वायुस्तद्रूपरथारूढया तया || ४ || सर्वेषामान्त्रतन्त्रीणां स्नायुमेदोवसासृजाम् | रन्ध्रेण पक्षिणेवान्तर्निलीनं मलिनात्मनाम् || ५ || तया जीवसूच्या मलिनात्मना पापिनामन्त्रतन्त्र्यादीनां रन्ध्रेण प्रविश्य देहान्तर्निलीनं चिरं निलीय स्थितमित्यर्थः || ५ || यस्यां नाड्यां नभोवायुर्माति तत्तामुपेतया | तत्र शूलं कृतं स्थूलन्यग्रोधाय इवोत्कटम् || ६ || नाड्यां शिरायाम् | नभोवायुः रोगाश्रयबाह्यवायुर्माति संमितो भवति | तत्तां तादृशप्रवहताम् | तत्र नाड्याम् | शूलं शूलाख्या वेदना | यथा स्थूलस्य श्रीदक्षिणामूर्तेर्न्यग्रोधस्य नाडीनामग्रे शैवं शूलं कृतं विषक्तं तद्वत् || ६ || तच्छरीरेन्द्रियैस्तानि तथान्यानि बहूनि च | भुक्तानि नरमांसानि भोजनान्युचितानि च || ७ || तेषां प्राणिनां शरीरेन्द्रियैः तत्प्राण्युचितभोजनानि भुक्तानि || ७ || सुप्तं विवलितान्ल्पमालया मुग्धबालया | कान्तवक्षःस्थलस्यूतसृष्टपत्रकपोलया || ८ || विवलिताः कान्ताश्लेषामृदिता अनल्पा मालाः स्रजो यस्यास्तया मुग्धबालया | तद्भावापन्नयेत्यर्थः | कान्तवक्षःस्थले स्यूतं कृतं सृष्टं संक्रामितं पत्रं याभ्यां तथाविधौ कपोलौ यस्यास्तया | तथाच मुग्धबालासुखमप्यनुभूतमेवेति भावः || ८ || विद्रुतं वीतशोकासु विहङ्ग्या वनवीथिषु | कल्पद्रुमौघपुष्पाग्रद्विगुणाम्भोजपङ्क्तिषु || ९ || विहङ्ग्या विहङ्गशरीरप्रविष्टया वनवीथिषु पद्मवनश्रेणिषु कल्पद्रुमपुष्पश्रेष्ठेभ्यो द्विगुणामोदादिशालिपद्मपङ्क्तिष्वित्यर्थः || ९ || पीत आमोदमन्दारमकरन्दकणासवः | वनेष्वमरऽऽऐलानामलिन्यामलिलीलया || १० || अलिन्यां प्रविष्टयेति शेषः || १० || चर्वितानि शवाङ्गानि गृध्न्याऽगर्तानि वृद्धया | खड्गपृष्ठ्येव संग्रामे वीराङ्गानि जवेद्धया || ११ || गृद्ध्र्या गृध्रदेहप्रविष्टया आगर्तान्यापादितगर्तानि शवाङ्गानि | खड्गपृष्ठ्या खड्गधारया | खड्गयष्ट्येव इति पाठे स्पष्टम् || ११ || सर्वाङ्गकोशनाडीषु दिक्ष्विवानिललेखया | उड्डीनमवडीनं च काचौघव्योमवीथिषु || १२ || काचौघनीलासु व्योमवीथिषु || १२ || विराडात्महृदि प्राणवातस्पन्दाः स्फुरन्ति तु | यथा तथा प्रस्फुरितं प्रतिदेहगृहं तया || १३ || समष्टिप्राणवातस्पन्दा यथा स्वच्छन्दं स्फुरन्ति तथा प्रस्फुरितम् || १३ || सर्वप्राणिशरीरेषु भान्ति चिच्छक्तयस्तथा | दीपप्रभाभासितया गृहिण्येव स्वसद्मसु || १४ || ननु प्रतिदेहगृहं तया केन प्रकाशेन व्यवहृतं तदाह [तमाह इति पाठः] - सर्वप्राणीति | सर्वप्राणिशरीरेषु यथा प्राणवाताः स्पन्दन्ते तथा चिच्छक्तयोऽपि भान्ति | अन्तःकरणोपाधिभेदाद्बहुवचनम् | अर्थात्तादृशचिच्छक्तिप्रभाभासितया तया दीपप्रभाभासितया गृहिण्या स्वसद्मस्विव व्यवहृतमित्यर्थः || १४ || विहृतं रुधिरेष्वन्तर्द्रवशक्त्येव वारिषु | अब्धिष्वावर्तवृत्त्येव जठरेषु विवल्गितम् || १५ || सुप्तं मेदःसु शुभ्रेषु शेषाङ्गेष्विव शौरिणा | स्वादितश्चाङ्गगन्धोऽन्तः पीतशक्त्यामृतं यथा || १६ || पीतशक्त्या पानशक्त्या || १६ || प्. ३०९) तरुगुल्मौषधादीनां हृदौजान्यनिलश्रिया | परिभुक्तान्यशुक्लानि हिंसयोधीकृतानि च || १७ || हृदि ओजयन्ति बलारोग्यादि जनयन्तीति हृदौजानि रसनिर्यासादीनि | अनिलश्रिया वायुरूपया | अशुक्लानि शुक्लेतरवर्णानि || १७ || अथो जीवमयी सूची स्यामिति स्थावरेण सा | संपन्ना तापसी सूची चेतना पावनी सिता || १८ || सैवेयं स्वसंकल्पा तपसि स्थैर्येण तापसी सती परमपावनी संपन्नेत्याह ##- अदृश्यया तया चेह मारुतोग्रतुरंगया | अयःसूच्याऽनिलतया वहन्त्या दिक्ष्वरुद्धया || १९ || अयःसूच्या करणेन अनिलतया वायुवेगेन वहन्त्या गच्छन्त्या || १९ || पीतं भुक्तं विलसितं दत्तं दापितमाहृतम् | नर्तितं गीतमुषितमनन्तैः प्राणिदेहकैः || २० || अदृश्ययाऽशरीरिण्या मनःपवनदेहया | कृतमाकाशरूपिण्या न तदस्ति न यत्तया || २१ || जीवसूच्याः पारमार्थिकरूपं मनसि निधायाह - अदृश्ययेति | समष्टिव्यष्टिमनःपवनदेहया सर्वं जगदेव कृतमिति भावः || २१ || मत्तया शक्तयास्वादरसाच्चलितमेतया | कालमालानमाश्रित्य करिण्येव विवल्गितम् || २२ || यद्येवंप्रभावा सा तर्हि तया सूचीभावे सर्वेऽपि कुतो न हिंसितास्तत्राह - शक्तयेति | शक्तयापि तया कतिपयप्राणिरक्ताद्यास्वादरसादेव मत्तया प्राण्यायुर्नियतिलक्षणं कालमालानं बन्धनस्तम्भमाश्रित्य करिण्येवाल्पप्रदेशेष्वेव विवल्गितं भ्रान्तमित्यर्थः || २२ || कल्लोलबहुलाधूतदेहदृष्टनदीष्वलम् | वेगैर्वेधुर्यकारिण्या मत्तया मकरायितम् || २३ || देहरूपासु दृष्टनदीषु प्रत्यक्षनदीषु | वैधुर्यं प्राणिनां देहवैधुर्य तत्कारिण्या || २३ || अशक्तया निगिरितुं मेदोमांसं तथा हृदि | नूनं रुदितमर्थाढ्यवृद्धातुरधिया यथा || २४ || हृदि स्वमनसि | अर्थेन धनेन आढ्यानां वृद्धानामातुराणां च धिया यथा भोजनाशक्त्या रुदितं तद्वत् || २४ || अजोष्ट्रमृगहस्त्यश्वसिंहव्याघ्रादिनर्तितम् | नर्तक्येव चिरं रङ्गे वलयाङ्गदमङ्गके || २५ || यथा नर्तक्या स्याङ्गके वलयाङ्गदादिनर्तितं तथा स्वपीडितमजोष्ट्राद्यप्यनया नर्तितमित्यर्थः || २५ || बहिरन्तश्च वायूनामेकत्वमनुजातया | गन्धलेखिकयेवान्तः स्थितं दुर्बलया तथा || २६ || बहिः वातस्कन्धेषु | अन्तः प्राणेषु | दुर्बलया | वायुगतिपरवशयेति यावत् || २६ || मन्त्रौषधितपोदानदेवपूजादिभिर्हता | बहिर्गिरिनदीतुङ्गतरङ्गवदुपद्रुता || २७ || बहिः उप समीपदेशे द्रुता पलायिता || २७ || दीपप्रभेवाविज्ञातगतिर्गत्याशु लीयते | अयःसूच्यां मातरीव तत्र निर्वृतिमेति सा || २८ || गत्या अन्तर्धानशक्त्या अविज्ञातगतिः | अयः सूच्यां लीयते | निर्वृतिं विश्रान्तिसुखम् || २८ || स्ववासनानुसारेण सर्व आस्पदमीहते | सूचित्वमेव राक्षस्या सूचीत्वेनास्पदीकृतम् || २९ || सर्वा विहृत्यापि दिशः स्वमेवास्पदमापदि | जीवसूची लोहसूचीमिवायाति जडो जनः || ३० || एवं प्रयतमाना सा विहरन्ती दिशो दश | मानसीं तृप्तिमायाता न शारीरीं कदाचन || ३१ || सति धर्मिणि धर्मा हि संभवन्तीह नासति | शरीरं विद्यते यस्य तस्य तत्किल तृप्यति || ३२ || अथ तृप्तस्य देहस्य स्मरणात्प्राक्तनस्य सा | बभूव दुःखितस्वान्ता पूर्णोदरसुखार्थिनी || ३३ || पूर्णोदरजन्यं यत्तृप्तिसुखं तदर्थिनी || ३३ || ततः प्राक्तनदेहार्थं करिष्ये विपुलं तपः | इति संचिन्त्य तपसे देशं निर्णीय सात्मना || ३४ || वेवेशाकाशगृध्रस्य हृदयं तरुणस्य सा | प्राणमारुतमार्गेण खं खगीव विलेशया || ३५ || आकाशगामिनो गृध्रस्य | सा जीवसूचिः | केन मार्गेण विवेश तमाह - प्राणेति | खं नीडच्छिद्रम् | बिलेशया नीडबिलशायिनी || ३५ || गृध्रः स्वामयसूचित्वं कश्चिदेतत्समाश्रितः | नितान्तप्रेरितः सूच्या कर्तुं मन उपाददे || ३६ || स्वामयसूचित्वं स्वान्तर्गतरोगसूचिभावमाश्रितः कश्चित्प्रागुक्तगृध्रः स्वप्रविष्टसूच्यभिलषितं कर्म कर्तुं मन उपाददे || ३६ || सूचीमादाय गृध्रोऽसौ ययौ तच्चिन्तितं गिरिम् | अन्तःसूचिपिशाच्यन्ते नुन्नोऽब्द इव वायुना || ३७ || सूचीं लोहसूचीम् | अन्तर्गतसूचिपिशाच्या अन्ते निवृत्तिकाले उपस्थिते सति || ३७ || तत्राजने महारण्ये स्थापयामास तामसौ | सर्वसंकल्परहिते पदे योगीव चेतनाम् || ३८ || चेतनां बुद्धिवृत्तिम् || ३८ || एकेनैवाशु सा तेन पादप्रान्तेन सुस्थिता | संप्रतिष्ठापितेवद्रिमूर्ध्नि गृध्रेण देवता || ३९ || गृध्रेणाद्रिमूर्ध्नि संप्रतिष्ठापिता देवताप्रतिमेव सुस्थिता लोहसूची बभूवेत्यर्थः || ३९ || रजःकणगृहस्थाणुशिरस्येकेन सानुना | पादेनातिष्ठदुद्ग्रीवं शिखीव गिरिमूर्धनि || ४० || रजःकण एव गृहं तत्स्थस्याणोः शिरसि एकेन अणुना सूक्ष्मतमेन पादेनाग्रेण | शिखी अग्निरिव | उद्ग्रीवं शिखीव इति पाठे तु मयूर इव || ४० || [उज्जिह्वं शिखीव इति पाठः साधीयान् | शिखी अग्निरिव इति व्याख्यानुरोधात्] प्. ३१०) १८९ उत्थितां स्थापितां सूचीं गृध्रेण जीवसूचिका | दृष्ट्वा बहिर्विनिर्गन्तुं खगदेहात्प्रचक्रमे || ४१ || खगदेहान्निर्जगाम सूची प्रोन्मुखचेतना | पवनाद्गन्धलेखेव घ्राणवातलवोन्मुखी || ४२ || प्रोन्मुखी निर्गमनोत्सुका चेतना बुद्धिर्यस्याः || ४२ || जगाम गृध्रः स्वं देशं भारं त्यक्त्वेव भारिकः | निवृत्तव्याधिरिव स बभूवान्तरनाकुलः || ४३ || निवृत्तव्याधिः पुरुष इव अनाकुलः स्वस्थः || ४३ || अतः सूचिस्तयाधारस्तपसे परिकल्पिता | दृढः सुसदृशोऽर्थानां विनियोगो हि राजते || ४४ || अतो वक्ष्यमाणहेतुतः | सूचिर्लोहसूचिः | तया जीवसूच्या || ४४ || न ह्यमूर्तस्य सिद्ध्यन्ति विनाधारं किल क्रियाः | इत्याधारैकनिष्ठत्वमाश्रित्यासौ तपःस्थिता || ४५ || जीवसूची लोहसूचीं पिशाची शिंशपामिव | सर्वतो वलयामास वात्येवामोदलेखिकाम् || ४६ || वलयामास व्याप्तवती || ४६ || ततस्ततः प्रभृत्येषा सूची दीर्घतपस्विनी | अरण्यान्यां स्थिता शक्र तत्र वर्षगणान्बहून् || ४७ || तस्या वरार्थं यत्नं त्वं कुरु कर्तव्यकोविद | चिरेण संभृतं लोकमलं दग्धुं हि तत्तपः || ४८ || वरार्थं तुच्छवरेण वञ्चनार्थम् || ४८ || श्रीवसिष्ठ उवाच | इति नारदतः श्रुत्वा शक्रः सूचीनिरीक्षणे | मारुतं प्रेषयामास दशदिङ्मण्डलान्यथ || ४९ || जगामाथ मरुत्संविदात्मना तामवेक्षितुम् | अथामुच्य नभोमार्गं विचचार त्वरान्वितः || ५० || मरुतः संवित् दिव्यदृष्टिलक्षणं ज्ञानं तामवेक्षितुं दिशो जगाम | गन्तुं दिव्यदृशा दिशः पर्यालोचितवानित्यर्थः | नभोमार्गमामुच्य विचचार भूमाविति शेषः || ५० || सा तस्य संवित्क्षिप्रार्धेनैव सर्वगता सती | परमार्चिरिवाविघ्नं सहसैव ददर्श ह || ५१ || क्षिप्रा त्वरावती | अर्धेनैकांशेनैव सर्वगता सर्वदिक्पर्यालोचनपरा सती परमं सर्वोत्कृष्टं अर्चिर्ब्रह्मज्योतिरिव | अविघ्नमप्रतिबन्धम् || ५१ || भूमेः सप्तसमुद्रान्ते निबद्धां विपुलस्थलीम् | लोकालोकाद्रिरसनां ततो मणिमयोपमम् || ५२ || सर्वं ददर्शेत्युक्तमेव प्रपञ्चयति - भूमेरित्यादिना | विपुलस्थलीं प्राणिशून्यकाञ्चनभूमिम् | अत्र द्वीपाम्भोधिक्रमः प्रागुक्तक्रमेण वा ब्रह्माण्डान्तरत्वादत्रत्यक्रमेण वा बोध्यः || ५२ || स्वादूदकाब्धिवलयं सकोटरककुब्गणम् | पुष्करद्वीपवलयं तदन्तर्गिरिमण्डले || ५३ || कोटरशब्देन पर्वतसंधिस्था देशा उच्यन्ते || ५३ || मदिराम्भोधिवलयं तज्जलेचरसंस्थितम् | गोमेदद्वीपकटकं तन्मध्यविषयव्रजम् || ५४ || तज्जलेचरैः संस्थितमाश्रितम् | अनेन तत्रत्यप्राणिनां जलस्थलोभयसंचारसामर्थ्यं गम्यते || ५४ || इक्षूदकाब्धिपरिखं शान्तं गिरिगणान्तरम् | क्रौञ्चद्वीपोर्वरापीठं शान्तं गतगिरिक्रमम् || ५५ || शान्तं निरुपद्रवम् || ५५ || क्षीराब्धिमुक्तावलयं समध्यगतनायकम् | श्वेताख्यद्वीपवलयं सभूतप्रविभागकम् [संभूत इति पाठः] || ५६ || क्षीराब्धिरेव मुक्ताखचितवलयो यस्य तत् | मध्यगतेन त्रैलोक्यनायकेन विष्णुना सहितम् | प्रविभागा अवान्तरखण्डभेदाः || ५६ || ततो घृतोदवलयस्वान्तस्थपुरमन्दिरम् | कुशद्वीपवृतिव्याप्तं समहाशैलकोटरम् || ५७ || दध्यम्भोराशिरशनासान्ताम्बरपुरोदरम् | शाकद्विपोर्वराकारं सान्तस्थविषयान्तरम् || ५८ || रसनया सान्तं साबधिकमम्बरं पुरोदरं यस्य || ५८ || क्षाराम्भोराशिपरिधिं सान्तस्थविषयान्तरम् | जम्बूद्वीपे महामेरुं कुलपर्वतसंकुलम् || ५९ || विषयशब्देन तद्वासिनो जना लक्ष्यन्ते || ५९ || वातस्कन्धेभ्य एवादौ पतितानिलवेदना | क्रमेणानेन पर्यन्ते तेनैव प्रसृतोऽञ्जसा || ६० || पतिता अवतीर्णा प्रागुक्ता वायोः संवित् | अनेन स्वसंविदवतारक्रमेण प्रसृतोऽवतीर्णो वायुः || ६० || वायुरालोकयन्नद्धा जम्बूद्वीपं निरीक्ष्य च | तत्प्राप हिमवच्छृङ्गं यत्र सूची तपस्विनी || ६१ || यत्र सा तपस्विनी सूचीस्थिता तामरण्यानीं वायुरवाप | प्राणिकर्मभिः प्राणिसंचारैः || ६१ || शृङ्गमूर्ध्नि महत्युग्रे सारण्यानीमवाप ताम् | द्वितीयाकाशविततां वर्जितां प्राणिकर्मभिः || ६२ || असंजाततृणव्यूहां निकटत्वाद्विवस्वतः | रजोमयीमेव ततां संसाररचनामिव || ६३ || निकटत्वादिति | अनेन शिखरौन्नत्यातिशयो गम्यते | रजोमयीं पांसुप्रचुरां रजोगुणविकारभूतां च | एवमन्ये अपि विशेषणे अरण्यानीसंसाररचनासाधारणे बोध्ये || ६३ || मृगतृष्णानदीसार्थपूरणीयाब्धितां गताम् | शक्रकोदण्डसंकाशमृगतृष्णासरिच्छताम् || ६४ || अमितानन्तपर्यन्तां लोकपालेक्षितैरपि | केवलं पवनस्पन्दप्रवहद्धूलिकुण्डलाम् || ६५ || लोकपालानामिन्द्रादीनामीक्षितैर्दृष्टिभिरप्यमिता इयत्तयानवधारिता अनन्ताः पर्यन्ता अवान्तरप्रदेशभेदा यस्याम् | पार्श्वद्वये वात्या पवनस्पन्देन प्रवहद्भूलिपटले एव कुण्डले यस्याः | एतदादिविशेषणैररण्यानी व्योमविलासिनीत्वेनोत्प्रेक्ष्यते || ६५ || सूर्यांशुकुङ्कुमालिप्तां लग्नचन्द्रांशुचन्दनाम् | विलासिनीमिव व्योम्नो वातसूत्कारपायिनीम् || ६६ || कान्तालिङ्गनसुखव्यञ्जकोध्वनिः सूत्कारस्तं पाययति श्रावयति तच्छीलाम् || ६६ || प्. ३११) १८९ सप्तद्वीपसमुद्रमुद्रणसमुच्छन्नैकदेशाश्रयं भूपीठं परितो विहृत्य पवनो दीर्घाध्वना जर्जरः | तां प्राप्योग्रगिरिस्थलीमलिवपुर्व्योमाङ्गलग्नामिव व्याप्तानन्तदिगन्तपूरकबृहद्देहो विशश्राम सः || ६७ || व्याप्तानन्तदिगन्तपूरकबृहद्देहः स पवनः सप्तभिर्द्वीपैः ससमुद्रैश्च मुद्रणेन लाञ्छनेन सम्यक् उत् उपरिभागे छन्नस्य व्याप्तस्यैकदेशस्याश्रयं भूलक्षणं पीठं परितो विहृत्य दीर्घेणाध्वना जर्जरः श्रान्तः सन् अलिसदृशवपुषो व्योम्नः अङ्गे लग्नामिव स्थितां तामुग्रगिरिस्थलीं प्राप्य विशश्राम विश्रान्तिं प्रापेत्यर्थः || ६७ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे सूचीतपोवर्णनं नाम त्रिसप्ततितमः सर्गः || ७३ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे सूचीतपो वर्णनं नाम त्रिसप्ततितमः सर्गः || ७३ || चतुःसप्ततितमः सर्गः ७४ श्रीवसिष्ठ उवाच | तस्य तत्रोर्ध्वशृङ्गस्य तस्यां भुवि महावनौ | ददर्श मध्यमां सूचीं प्रोत्थितां सशिखामिव || १ || दृष्ट्वाअ तां तापसीं सूचीं वायोः शक्रान्तिके गतिः | वरार्थं प्रार्थनं धातुर्ज्ञानं सूच्याश्च वर्ण्यते || १ || महती वनी प्राग्वर्णितारण्यानी यस्यां सा महावनिस्तथाविधायां भुवि | गोस्त्रियोरुपसर्जनस्य इति ह्रस्वः | शृङ्गस्य मध्यमां शिखामिव || १ || एकपादं तपस्यन्तीं शुष्यन्तीं शिर-ऊष्मणा | सततानशनां शुष्कपिण्डीभूतोदरत्वचम् || २ || स तत इति पाठे स ततो ददर्शेति पूर्वेणान्वयः | पिण्डीभूतोदरत्वचमिव | सूच्या उदरत्वगसंभवात् || २ || सकृद्विकसितास्येन गृहीत्वेवातपानिलान् | पश्चात्त्यजन्तीं हृदये मे न मान्तीत्यनारतम् || ३ || आतपाननिलांश्च | तेमयावेकवचनस्य इत्यत्र अपादादावित्यधिकारात्पादादौ मे इत्यादेशश्छान्दसः || ३ || शुष्कां चण्डांशुकिरणैर्जर्जरां वनवायुभिः | अचलन्तीं निजात्स्थानात्स्नापितामिन्दुरश्मिभिः || ४ || पूर्वं रजोणुनैकेन संविष्टच्छन्नमस्तकाम् | कृतार्थत्वं कथयतीं ददतान्यस्य नास्पदम् || ५ || सूचीमस्तके रजोन्तराऽसमावेशादन्यस्य रजोजातीयस्य रजोगुणस्य तत्सहचरिततमसोऽप्यास्पदं न ददता रजोणुना लिङ्गेन कृतार्थत्वं कथयतीमिवानुमापयन्तीम् || ५ || अरण्यान्येव दत्त्वार्थं चिरं जातशिखामिव | मूर्ध्न्यवस्थापितप्राणजटाजूटवलीमिव || ६ || पूर्वोक्तया अरण्यान्या स्वीयतरुगुल्ममृगादिरूपमर्थं स्वविभवं अरण्यान्तरेभ्यो दत्त्वा चिरं तपसा सूच्यात्मना जातां जनितां शिखां चूडामिव स्थिताम् | ततोऽपि योगपरिपाकान्मूर्ध्नि अवस्थापितप्राणानां जटाजूटस्य वलीं संवलनामिव स्थिताम् | सूच्यास्तप उपक्रमे सूक्ष्मत्वादरण्यानीशिखात्वेनोत्प्रेक्षा | चिरेण तपस्तेजसो बहलीभावेन पुञ्जीभावविवक्षया तु तज्जटाजूटवलित्वेनोत्प्रेक्षेति बोध्यम् | आद्य इवशब्द उत्प्रेक्षाद्योतकः | इतरौ तु औत्प्रेक्षिकोपमानार्थौ || ६ || तां प्रेक्ष्य पवनः सूचीं विस्मयाकुलचेतनः | प्रणम्यालोक्य सुचिरं भीतभीत इवागतः || ७ || देवानामपि ब्रह्मविदो वन्द्या इति द्योतनायोक्तं प्रणम्येति | भीतभीतो भृशं भीत इव || ७ || महातपस्विनी सूची किमर्थं तप्यते तपः | नेति प्रष्टुं शशाकासौ तत्तेजोराशिनिर्जितः || ८ || इति प्रष्टुं न शशाकेति योजना || ८ || भगवत्या महासूच्या अहो चित्रं महातपः | इत्येव केवलं ध्यायन्मारुतो गगनं ययौ || ९ || समुल्लङ्घ्याभ्रमार्गं तु वातस्कन्धानतीत्य च | सिद्धवृन्दानधः कृत्वा सूर्यमार्गमुपेत्य च || १० || ऊर्ध्वमेत्य विमानेभ्यः प्राप शक्रपुरान्तरे | सूचीदर्शनपुण्यं तमालिलिङ्ग पुरंदरः || ११ || विमानेभ्यो वैमानिकप्रधाननक्षत्रलोकेभ्यः | सूचीदर्शनेन पुण्यं पवित्रीभूतम् || ११ || पृष्टश्च कथयामास दृष्टं सर्वं मयेत्यसौ | सहदेवनिकायाय शक्रायास्थानवासिने || १२ || वायुरुवाच | जम्बूद्वीपेऽस्ति शैलेन्द्रो हिमवान्नाम सून्नतः | जामाता यस्य भगवान्साक्षाच्छशिकलाधरः || १३ || तस्योत्तरे महाशृङ्गपृष्ठे परमरूपिणी | स्थिता तपस्विनी सूची तपश्चरति दारुणम् || १४ || परमरूपिणी महातेजस्विनी || १४ || बहुनात्र कुमुक्तेन वाताद्यशनशान्तये | यया स्वोदरसौषिर्यं पिण्डीकृत्वा निवारितम् || १५ || पिण्डीकृत्वा लोहघनतां संपाद्य | समासस्याविवक्षणान्न ल्यप् || १५ || शान्तसंकोचसूक्ष्मार्थं विकास्यास्यं रजोणुना | तयाद्य स्थगितं शीतवाताशननिवृत्तये || १६ || तया शीतस्य वातस्याप्यशनस्य ग्रसनस्य निवृत्तये शान्तसंकोचं निवारितसंकोचनं सूक्ष्मार्थं अत्यल्पच्छिद्रमास्यं विकास्य रजोणुना स्थगितं पिहितम् || १६ || तस्यास्तीव्रेण तपसा तुहिनाकरमुत्सृजन् | अग्न्याकारमयो गृह्णन् देव दुःसेव्यतां गतः || १७ || तुहिनाकरमिति भावप्रधानो निर्देशः | तपोग्निद्रावितशिलानामयःपिण्डात्मतासंपत्तेरग्न्याकारं अयो गृह्णन् सशपथं तुहिनाकरतां त्यजन्निति भावः | दुःसेव्यतां गतो हिमवानिति शेषः | अगो गृह्णन् इति पाठे तु स्पष्टम् || १७ || प्. ३१२) १९० तदुत्तिष्ठाशु गच्छामः सर्व एव पितामहम् | तद्वरार्थमनर्थाय विद्धि तत्सुमहत्तपः || १८ || अनर्थाय उपेक्षितमिति शेषः || १८ || इति वातेरितः शक्रः सहदेवगणेन सः | जगाम ब्रह्मणो लोकं प्रार्थयामास तं विभुम् || १९ || सूच्या वरमहं दातुं गच्छामि हिमवच्छिरः | ब्रह्मणेति प्रतिज्ञाते शक्रः स्वर्गमुपाययौ || २० || एतावताथ कालेन सा बभूवातिपावनी | सूची निजतपस्तापतापितामरमन्दिरा || २१ || एतावता सप्तसहस्रवर्षपरिमितेन || २१ || मुखरन्ध्रस्थितार्कांशुदृशा स्वच्छाययैव सा | विकासिन्या विवर्तिस्था चोदितान्तमवेक्षिता || २२ || आसर्गसमाप्तेस्तत्तप एव वर्णयिष्यन्निर्जने कृतस्य सूचीतपसस्तच्छायैव साक्षिणीत्याह - मुखेति | विवर्तिनि विजृम्भमाणे तपसि स्था स्थिता सा सूची स्वच्छाययैव चोदितान्तं तत्संकल्पविदितकालमर्यादान्तं [विहित इति पाठः] अवेक्षिता | केन कारणेन | विकासिन्या प्रसृतया मुखरन्ध्रे स्थितो योऽर्कांशुरातपस्तल्लक्षणया दृशा दृष्ट्येत्यर्थः || २२ || कौशेयरूपया सूच्या मेरुः स्थैर्येण निर्जितः | मज्जनं नैति वृद्ध्वैवं मुक्तमाद्यन्तयोर्दिने || २३ || तर्हि तच्छायया संध्ययोर्निशि च किमर्थ तद्दर्शनं मुक्तं तत्राह - कौशेयेति | कौशेयतन्तुवत्तुच्छरूपया लध्व्या च सूच्या स्थैर्येण गुणेन निर्जितो मेरुर्लज्जयाम्बुधौ मज्जनं नैति न प्राप्नोति किं इति काकुना द्योत्यते | एवमनेनाभिप्रायेण तद्द्रष्टुमिव दिने आद्यन्तयोर्भागयोर्वृद्ध्वा दैर्घ्यमालाम्ब्य तद्दर्शनान्मुक्तमुपरतमिति यावत् || २३ || मध्याह्णे तापभीत्येव विशन्त्या मारुतान्तरम् | अन्यदा गौरवाद्दृष्ट्वा दूरतः प्रेक्षमाणया || २४ || तर्हि मध्याह्ने किमिति मूले निलीना तत्राह | मध्याह्ने इति | मारुतानां सूचीप्राणामन्तरमवकाशभूतं सूच्युदरं विशन्त्या मुक्तमित्यनुषज्यते | गौरवात् सन्मानहेतोः || २४ || सा तमावेक्षते क्षारात्तापादङ्गे निमज्जति | संकटे विस्मरत्येव जनो गौरवसत्क्रियाम् || २५ || सा छाया | तां सूचीम् | क्षारात्तीक्ष्णात् | तापादातपात् | कथं तर्हि मध्याह्ने गौरवत्यागस्तत्राह - संकटे इति || २५ || छयासूची तापसूची यश्चात्मा स तृतीयया | त्रिकोणं तपसा पूतं वाराणस्या समं कृतम् || २६ || यश्च आत्मा लोहसूची तेन सतृतीयया परस्परग्रथनान्तरालदेशरूपं त्रिकोणं असी वरणा गङ्गा ग्रथनान्तरालस्थया वाराणस्या समं कृतमित्यर्थः || २६ || गतास्तेन त्रिकोणेन त्रिवर्णपरिखावता | वायवः पांसवो येऽपि ते परां मुक्तिमागताः || २७ || शुष्कत्वेनामूर्ता श्यामा शुक्ला चेति त्रिवर्णसूचीसरिल्लक्षणपरिखावता | मुक्तिं स्वसंसर्गिजनमुक्तिप्रयोजनतां दोषमुक्तिलक्षणां पावनतां वा || २७ || विदितपरमकारणाद्य जाता स्वयमनुचेतनसंविदं विचार्य | स्वमननकलनानुसार एक- स्त्विह हि गुरुः परमो न राघवान्यः || २८ || विदितं साक्षात्कृतं परमकारणं ब्रह्म यया तथाविधा जाता | चेतनसंविदं प्रत्यगात्मानं स्वयमनुविचार्य | ननु कस्तस्या गुरुस्तत्राह - स्वेति | स्वस्य मननं युक्तिभिर्विचारस्तेन कलना स्वात्मपरिचयस्तदनुसरणं तदनुसार एवैको मुख्यो गुरुः | अन्यो गुरुस्तु न मुख्य इत्यर्थः | यद्यपि आचार्यवान्पुरुषो वेद इति श्रुतिराह तथापि सा दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मया सूक्ष्मदर्शिभिः इति श्रुत्यन्तरानुसाराच्छिष्यप्रज्ञामेवानुसरतीति भावः || २८ || इत्यार्षे श्रीवासिष्ठमहारामायणे उत्पत्तिप्रकरणे सूचीतपःपरिपाकवर्णनं नाम चतुःसप्ततितमः सर्गः || ७४ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे सूचीतपःपरिपाकवर्णनं नाम चतुःसप्ततितमः सर्गः || ७४ || पञ्चसप्ततितमः सर्गः ७५ श्रीवसिष्ठ उवाच | अथ वर्षसहस्रेण तां पितामह आययौ | वरं पुत्रि गृहाणेति व्याजहार नभस्तलात् || १ || प्रसन्नेऽपि विधौ सूच्याः प्रबोधाज्जोषमासनम् | तथाप्यस्या वराद्धातुर्देहोद्भूतिश्च कीर्त्यते || १ || अथ प्रबोधानन्तरं वर्षसहस्रेण || १ || सूची कर्मेन्द्रियाभावाज्जीवमात्रकलावती | न किंचिद्व्याजहारास्मै चिन्तयामास केवलम् || २ || कर्मेन्द्रियाभावे वागिन्द्रियस्याप्यभावात् | कर्मेन्द्रियाभावश्चास्याः सूचीत्वात् प्रबोधबाधितत्वाच्च || २ || पूर्णास्मि गतसंदेहा किं वरेण करोम्यहम् | शाम्यामि परिनिर्वामि सुखमासे च केवलम् || ३ || चिन्ताप्रकारमेव स्फुटमाह - पूर्णेत्यादिना || ३ || ज्ञातं ज्ञातव्यमखिलं शान्ता संदेहजालिका | स्वविवेको विकसितः किमन्येन प्रयोजनम् || ४ || अखिलं ज्ञातम् | एकविज्ञानेन सर्वविज्ञानात् || ४ || यथा स्थितेयमस्मीह संतिष्ठेयं तथैव हि | सत्यासत्यकलामेव त्यक्त्वा किमितरेण मे || ५ || सत्या परमार्थरूपा | तां सत्यकलामेव त्यक्त्वा इतरेण मिथ्यार्थेन किं न किंचिदित्यर्थः || ५ || प्. ३१३) १९० एतावन्तमहं कालमविवेकेन योजिता | स्वसंकल्पसमुत्थेन वेतालेनेव बालिका || ६ || इदानीमुपशान्तोऽसौ स्वविचारणया स्वयम् | ईप्सितानीप्सितैरर्थः को भवेत्कलितैर्मम || ७ || असौ अविवेकः | कलितैः प्राप्तैः || ७ || इति निश्चययुक्तां तां सूचीं कर्मेन्द्रियोज्झिताम् | तूष्णीस्थितां सनियतिः स पश्यन्भगवान्स्थितः || ८ || नियत्या कर्मफलावश्यंभावनियामकेश्वरसंकल्पेन सहितः | सनियतिः स पितामहः || ८ || ब्रह्मा पुनरुवाचेदं वीतरागां प्रसन्नधीः | वरं पुत्रि गृहाण त्वं किंचित्कालं च भूतले || ९ || किंचिदिति पदसंस्कारपक्षे सामान्ये नपुंसकम् || ९ || भोगान्भुक्त्वा ततः पश्चाद्गमिष्यसि परं पदम् | अव्यावृत्तिस्वरूपाया नियतेरेष निश्चयः || १० || अव्यावृत्तिस्वरूपायाः अस्मदादिभिरपि निवर्तयितुमशक्यायाः प्रागुक्तनियतेः || १० || तपसानेन संकल्पः सफलोऽस्तु तवोत्तमे | पीना भव पुनः शैले हिमकाननराक्षसी || ११ || अनेन तपसा फलितेनेति शेषः | पीना अभिवृद्धशरीरा || ११ || यया पूर्वं वियुक्तासि तन्वा जलदरूपया | बीजान्तर्वृक्षता पुत्रि बृहद्वृक्षतया यथा || १२ || बीजान्तर्लीना वृक्षता जातिर्बृहद्दृक्षतया व्यक्त्या यथा वियुक्ता तथा यया तन्वा वियुक्तासि तया योगमेष्यसीति परेण संबन्धः || १२ || योगमेष्यसि भूयश्च तन्वान्तर्बीजरूपिणी | तयैव रससेकेन लतयेवाङ्कुरस्थितिः || १३ || ननु नष्टायाः कथं पुनरुद्भव इत्याशङ्क्याह - अन्तर्बीजरूपिणीति | न सा नष्टा किंतु सूच्यन्तरेव बीजभावेन लीनेति भावः || १३ || बाधां विदितवेद्यत्वान्न च लोके करिष्यसि | अन्तःशुद्धा स्पन्दवती शारदीवाभ्रमण्डली || १४ || लोकबाधाहेतुना मम किं तया तन्वा तत्राह - बाधामिति || १४ || अश्रान्तध्याननिरता कदाचिल्लीलया यदि | भविष्यसि बहीरूपा सर्वात्मध्यानरूपिणी || १५ || यदि कदाचिद्बहीरूपा निर्विकल्पसमाधिव्युत्थिता भविष्यसि तदा न्यायेन भूतबाधां करिष्यसीति परेणान्वयः || १५ || व्यवहारात्मकध्यानधारणाधाररूपिणी | वातस्वभाववद्देहपरिस्पन्दाद्विलासिनी || १६ || किं ध्यानधारणदीनां सत्यता नेत्याह - व्यवहारेति | एवं स्पन्दादिव्यवहारोऽपि न वास्तव इत्याशयेनाह - वातस्वभाववद्देहेति || १६ || तदा विरोधिनी पुत्रि स्वकर्मस्पन्दरोधिनी | न्यायेन क्षुन्निवृत्त्यर्थं भूतबाधां करिष्यसि || १७ || स्वकर्म राक्षसोचितमशास्त्रीयहिंसादि तदेव स्पन्दस्तस्य रोधिनी || १७ || भविष्यसि न्यायवृत्तिर्लोके त्वन्यायबाधिका | जीवन्मुक्ततया देहे स्वविवेकैकपालिका || १८ || इत्युक्त्वा गगनतलाज्जगाम देवः सूची सा भवतु ममेति किं विरोधः | रागो वाब्जजवचनार्थवारणेऽस्मि- न्नित्यन्तः स्वतनुमयी मनाग्बभूव || १९ || देवो ब्रह्मा जगाम | सा सूची अचिन्तयत् | इति ब्रह्मणोक्तं मम भवतु नाम किं विरोधोऽस्ति नास्तीत्यर्थः | अब्जजवचनार्थस्य वरस्य वारणे मम रागो वा किं किमर्थ इति विचिन्त्य अन्तर्मनसि मनाक् स्वतनुमयी प्राक्तनस्वशरीराकारा बभूव || १९ || प्रादेशः प्रथममभूत्ततोऽपि हस्तो व्यामश्चाप्यथ विटपस्ततोऽभ्रमाला | सोद्यत्स्वावयवलता बभौ निमेषा- त्संकल्पद्रुमकणिकाङ्कुरक्रमेण || २० || मानसकल्पनाक्रमेणैव स्थूलदेहाविर्भावमाह - प्रादेश इति | प्रादेशः प्रादेशप्रमाणो देहः | प्रमाणे लः इति द्वयसचो लुक् | एवमग्रेऽपि | विटपो वृक्षशाखाग्रप्रमाणः | ततो विस्तृतः | अभ्रमाला तत्प्रमाणः | एवं क्रमेण सा सूची निमेषात्स्वसंकल्पद्रुमकणिकाया बीजस्याङ्कुरक्रमेण उद्यत्स्वावयवलता सती बभौ || २० || तद्गात्राण्यविकलशक्तिमन्ति देहा- दुद्भूतान्यथ करणेन्द्रियाणि सम्यक् | संकल्पद्रुमवनपुष्पवत्समन्ता- द्बीजौघान्यलमभवंस्तिरोहितानि || २१ || गात्राणि अङ्गानि करणानीन्द्रियस्थानानि इन्द्रियाणि च उद्भूतानि | प्राक्तिरोहितानि बीजौघभूतानि सन्ति तदा अलं पर्याप्तानि पुनराविर्भूतान्यभवन् | तथाच मनःकल्पनामूलकत्वान्मिथ्याभूतान्येवेत्यर्थः || २१ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे सूच्युपाख्याने सूचीशरीरलाभो नाम पञ्चसप्ततितमः सर्गः || ७५ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे सूचीशरीरलाभो नाम पञ्चसप्ततितमः सर्गः || ७५ || षट्सप्ततितमः सर्गः ७६ श्रीवसिष्ठ उवाच | अथाभवदसौ सूची कर्कटीराक्षसी पुनः | सूक्ष्मैव स्थौल्यमायाता मेघलेखेव वार्षिकी || १ || लब्ध्वा देहं समाधिस्था षण्मासा क्षुधितोत्थिता | कर्कटी वायुवचसा किरातविषय ययौ || १ || अथ सर्वावयवप्रादुर्भावानन्तरम् || १ || निजमाकाशमासाद्य किंचित्प्रमुदिता सती | बृहद्राक्षसभावं तद्बोधात्कञ्चुकवज्जहौ || २ || निजं स्वात्मभूतं ब्रह्माकाशं आसाद्य पुनः प्रतिसंधाय तस्य बोधात्साक्षात्काराच्चिरप्ररूढत्वाद्बृहद्राक्षसभावं जहौ || २ || प्. ३१४) १९१ तत्रैव ध्यायती तस्थौ बद्धपद्मासनस्थितिः | व्यालम्ब्य संविदं शुद्धां संस्थिता गिरिकूटवत् || ३ || शुद्धां निष्प्रपञ्चां संविदमात्मानं वृत्तिधारया व्यालाम्ब्य आश्रित्य || ३ || अथ सा मासषट्केन ध्यानाद्बोधमुपागता | महाजलदनादेन प्रावृषीव शिखण्डिनी || ४ || महाजलदनादेन बोधं समाधिव्युत्थानम् | शिखण्डिनीपक्षे कामोद्बोधम् || ४ || प्रबुद्धा सा बहिर्वृत्तिर्बभूव क्षुत्परायणा | यावद्देहं स्वभावोऽस्य देहस्य न निवर्तते || ५ || अस्य देहस्य यावद्देहं यावदवस्थानं तावत्क्षुधादिस्वभावो न निवर्तते || ५ || अथ सा किं ग्रस इति चिन्तयामास चिन्तया | भोक्तव्यः परजीवश्च न्यायेन न विना मया || ६ || चिन्तया चिन्तनहेतुना चित्तेन || ६ || यदार्यगर्हितं यद्वा न्यायेन न समर्जितम् | तस्माद्ग्रासाद्वरं मन्ये मरणं देहिनामिदम् || ७ || आर्यैः पूज्यैर्महद्भिर्यद्गर्हितं निन्दितम् || ७ || यदि देहं त्यजामीदं तन्न्यायोपार्जितं विना | न किंचिदस्ति निर्न्यायं भुक्तोऽर्थो हि गरायते || ८ || न्यायोपार्जितं ग्रासं विना देहं यदि त्यजामि तदा निर्न्यायमन्याययं न किंचिदस्ति | अन्यायोपार्जितस्त्वर्थो भुक्तः सन् गरायते विषवदाचरति | अनर्थकोटिषु पर्यवस्यतीति यावत् || ८ || यत्र लोकक्रमप्राप्तं तेन भुक्तेन किं भवेत् | न जीवितेन नो मृत्या किंचित्कारणमस्ति मे || ९ || लोकसंमतः क्रमो लोकक्रमस्तेन यन्न प्राप्तम् | मृत्या मरणेन | कारणं इष्टमनिष्टं वा प्रयोजकम् || ९ || मनोमात्रमहं ह्यासं देहादिभ्रमभूषणम् | तच्छान्तं स्वावबोधेन देहादेहदृशौ कुतः || १० || देहादेहदृशौ जीवनमरणभ्रमौ || १० || श्रीवसिष्ठ उवाच | एवं स्थिता मौनवती शुश्राव गगनाद्गिरम् | रक्षःस्वरूपसंत्यागतुष्टेनोक्तां नभस्वता || ११ || रक्षःस्वरूपस्य तद्देहाभिमानस्य संत्यागाद्धेतोस्तुष्टेन नभस्वता वायुना || ११ || गच्छ कर्कटि मूढांस्त्वं ज्ञानेनाश्ववबोधय | मूढोत्तारणमेवेह स्वभावो महतामिति || १२ || तां गिरं दर्शयति - गच्छेत्यादिना | मूढाननात्मज्ञान् | महतां तत्त्वविदाम् | इति हेतोः || १२ || बोध्यमानो भवत्यापि यो न बोधमुपैष्यति | स्वनाशायैव जातोऽसौ न्याययो ग्रासो भवेत्तव || १३ || असौ मूढः | न्याययो न्यायादनपेतः ग्रासः कवलः || १३ || श्रुत्वेत्यनुगृहीतास्मि त्वयेत्युक्तवती शनैः | उत्तस्थौ शैलशिखरात्क्रमादवरुरोह च || १४ || इति गिरं श्रुत्वा | त्वया वायुना | परमार्थदृशा अनुग्रहाभावात्तथा वक्तुं लज्जमानेव शनैरुक्तवती || १४ || अधित्यकामतीत्याशु गत्वा चोपत्यकातटान् | विवेश शैलपादस्थं किरातजनमण्डलम् || १५ || अधित्यकां पर्वतोर्ध्वभागम् | उपत्यका पर्वतासन्नभूमिस्तत्तटान् | शैलस्य हिमवतः पादेषु प्रत्यन्तपर्वतेषु स्थितम् || १५ || वह्नन्नपशुलोकौघद्रव्यशष्पौषधामिषम् | अनन्तमूलपानान्नमृगकीटखगादिकम् [मूलपानान्नेति पाठेऽन्नेति पौनरुक्त्यम् पाठान्तरे तु मूलपा वृक्षाः | अदन्ता दन्तरहिताः प्राणिविशेषाः | अनन्तमूलपादन्ता इति पाठः] || १६ || अन्नादीनां सप्तानां द्वन्द्वे बहुव्रीहिः | एवं मूलादीनामपि | शष्पाणि बालतृणानि | आमिषाणि मांसानि || १६ || प्रचलितवलिताञ्जनाचलाभा हिमगिरिपादनिवेशितं सुदेशम् | तदनुगतवती निशाचरी सा निशि सुघनान्धतमिस्रमार्गभूमौ || १७ || प्रचलितः प्रस्थितो यो वलिताञ्जनः कज्जललिप्तोऽचलस्तदाभासा निशाचरी हिमगिरेः पादेषु निवेशितं सुदेशं गतवतीति संबन्धः || १७ || इत्यार्षे श्रीवासिष्ठमहारामायणे मोक्षोपायेषूत्पत्तिप्रकरणे अन्यायबाधिको नाम षट्सप्ततितमः सर्गः || ७६ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे अन्यायबाधिको नाम षट्सप्ततितमः सर्गः || ७६ || सप्तसप्ततितमः सर्गः ७७ श्रीवसिष्ठ उवाच | एतस्मिन्नन्तरे तत्र किरातजनमण्डले | हस्तहार्यतमःपिण्डा बभूवासितयामिनी || १ || तमिस्रा वर्ण्यते पश्चाद्दर्शनं राजमन्त्रिणोः | कर्कट्यास्तत्परीक्षार्थं प्रश्नेच्छा चात्र विस्तरात् || १ || तमः पिण्ड इव तमःपिण्डः | हस्तेन हर्तुं शक्यो हस्तहार्यः | हस्तहार्यस्तमः पिण्डो यस्याम् | यामिनी रात्रिः || १ || नीलमेघपटच्छन्ना निरिन्दुगगनान्तरा | तमालवनसंपिण्डा मांसलोड्डीनकज्जला || २ || तां रात्रिं कर्कटीसखी भूतराक्षस्यन्तररूपेण वर्णयति - नीलमेघेत्यादिना | निरिन्दु अमृतलुण्ठनभयात्पलायितेन्दु गगनान्तरं यया | तमालवनानि संपिण्डयति एकघनीकरोतीव तमालवनसंपिण्डा | मांसला पुष्टा | सर्वत्रोड्डीनं श्यामीकुर्वत् नेत्रकज्जलं यस्याः || २ || लताघनतया ग्रामकोटरैकान्ध्यमन्थरा | गृहचत्वरसंबाधे नगरे नवयौवना || ३ || गिरिग्रामेषु लतानां घनतया नक्षत्रज्योतिषोऽप्यप्रसरान्मुख्येनान्ध्येन जरतीव मन्थरा कुण्ठितगतिः | गृहचत्वरैः संबाधे निबिडिते नगरे नवयौवनेव दीपिकाभिः संचरन्ती || ३ || प्. ३१५) १९१ चत्वरेषु तमःपिण्डी प्रजिह्मीकृतदीपिका | कुञ्चितच्छिद्रनिष्क्रान्ताऽदीपिकारोचिराजिता || ४ || बहिश्चत्वरेषु वायुना प्रजिह्मीकृता वक्रीकृता दीपिका यया | अत एव तमांसि पिण्डयतीति तमःपिण्डी | कुञ्चितानां कुटिलगवाक्षाणां छिद्रेभ्यो निष्क्रान्तैरीषद्दीपिकारोचिर्भिः राजिता शोभमाना | आदीपिकारोचिरितीषदर्थे आङ् ढ्रलोप इति दीर्घाभावश्छान्दसः || ४ || सुवयस्येव कर्कट्याः परिनृत्यत्पिशाचिका | मत्तवेतालकङ्कालकाष्ठमौनमिवास्थिता || ५ || सुवयस्या शोभमाना सखीव | मत्तवेतालानां कंकालादिहरणप्रसङ्गे निवारणाभावात्काष्ठमौनं व्रतमास्थितेव || ५ || सुषुप्तमृगभूतौघघननीहारहारिणी | मन्दमन्दमरुत्स्पर्शलसत्प्रालेयसीकरा || ६ || सुषुप्तैर्मृगादिप्राणिनिकायैर्घनैर्नीहारैश्च हारिणी अलंकृता || ६ || सरःसु विवटद्वारि काकभेकतरङ्गिता | अन्तःपुरेषु रमणरणन्नारीनरानना || ७ || इतःपरं राक्षसीरूपकं विहाय स्वरूपेणैव वर्णयति - सरःस्वित्यादिना | विवटानां गर्तानां विवृद्धवटानां च द्वारि काकैर्भेकैश्च तरङ्गिता व्याप्ता | रमणे क्रीडने रणन्ति नारीनराननानि यस्याम् || ७ || जङ्गलेषु जगज्ज्वाला जटालज्वलनोज्ज्वला | केदारेष्वम्बुसंसेकपृष्ठपाकमिलच्छला || ८ || जगतो ज्वाला प्रलयानल इव जटालेन ज्वलनेनोज्ज्वला | अम्बुसेकेन आर्द्रीभावेन शल्यकपृष्ठे पाकेन परिपक्वदशया चोन्मूलनात्केदारेषु मिलन्ति शलानि शललीकण्टका यस्याम् || ८ || नभस्थलेक्षितस्पन्दप्रविविक्तर्क्षचक्रिका | वनेषु विसरद्वातपतत्पुष्पफलद्रुमा || ९ || अक्षीणीव संजातान्यक्षितानि स्पन्दादिव प्रविविक्तानि विभक्तानि ऋक्षचक्राणि नक्षत्रवृन्दानि यस्याम् || ९ || श्वभ्रेषु कौशिकस्यान्तर्वायसव्याहतारवा | तस्कराक्रान्तपर्यन्तग्राम्याक्रन्दनकर्कशा || १० || श्वभ्रेषु वृक्षकोटरेष्वन्तः कौशिकस्य रवं श्रुत्वेति शेषः || १० || विपिने विपिनामौना नगरे सुप्तनागरा | वनेषु विसरद्वाता नीडेष्वस्पन्दपक्षिका || ११ || विपिनमिव आमौना ईषदशब्दा || ११ || गुहासु सुप्तसिंहाढ्या कुञ्जेषुस्वपदेणका | खे सावश्यायनिकरा विपिने मौनचारिणी || १२ || कज्जलाम्भोदमध्याभा काचशैलोदरोपमा | पङ्कपिण्डान्तरघना खड्गच्छेद्यान्ध्यमांसला || १३ || पङ्कपिण्डो मृत्पिण्डस्तस्यान्तरमिव घना निबिडा || १३ || प्रलयानिलविक्षुब्धकज्जलाचलचञ्चला | एकार्णवमहापङ्कपर्वतोदरमेदुरा || १४ || विक्षुब्धो विचूर्णितो विचलितो वा | एकार्णवमहापङ्कमिव पर्वतोदरमिव च मेदुरा || १४ || अङ्गारकोटरघना सौषुप्तपदसुन्दरी | अज्ञाननिद्रानिबिडा भृङ्गपृष्ठच्छदच्छविः || १५ || अङ्गारस्य दग्धकाष्ठस्य कोटरमिव श्यामघना | सौषुप्तपदं गाढाज्ञानमिव सुन्दरी | अज्ञाननिद्रा मूलाज्ञानमिव निबिडा घना | भृङ्गानां पृष्ठानीव च्छदाः पक्षा इव च च्छविर्यस्यास्तथाविधा | असितयामिनी बभूवेत्युपक्रमेणान्वयः || १५ || तस्यां रजन्यां भीमायां किरातजनमण्डले | मन्त्रिणा सह भूपालस्तस्मिन्नवसरे तदा || १६ || निर्जगाम सुधीरात्मा नगरात्सुप्तनागरात् | अटवीं विक्रमो नाम विषमां वीरचर्यया || १७ || वीरोचितया तस्करादिवधार्थया चर्यया || १७ || अटव्यां कर्कटी सा तौ चरन्तौ राजमन्त्रिणौ | अपश्यद्धृतधैर्यास्त्रौ वेतालालोकनोन्मुखौ || १८ || धृतानि धैर्यं च अस्त्राणि च याभ्यां तौ | ग्रामाद्बहिष्ठस्य ग्रामदैवतस्य वेतालस्य आलोकने उन्मुखौ || १८ || अथ सा चिन्तयामास लब्धो भक्षो ह्यहो मया | मूढावेतावनात्मज्ञौ भारो देहः किलानयोः || १९ || सा कर्कटी || १९ || इहामुत्र च नाशाय मूढो दुःखाय जीवति | यत्नाद्विनाशनीयोऽसौ नानर्थः परिपाल्यते || २० || इह लोके अमुत्र परलोके च | मूढोऽनात्मज्ञः || २० || अपश्यतः स्वमात्मानं मृतिर्मूढस्य जीवितम् | मरणेनोदयोऽस्यास्ति पापासंपत्तिहेतुतः || २१ || मृतिरेव जीवितं | जीविताद्वरमिति यावत् | तदेवोपपत्त्या दर्शयति - मरणेनेति || २१ || आदिसर्गे च नियमः कृतः पङ्कजजन्मना | हिंस्राणां भोजनायास्तु मूढात्मानात्मवानिति || २२ || तस्मादिमौ मयैवाद्य भोक्तव्यौ भोज्यतां गतौ | अभव्य एव निर्दोषं प्राप्तमर्थमुपेक्षते || २३ || अभव्यः अभाग्य एव || २३ || कदाचित्ताविमौ स्यातां गुणयुक्तौ महाशयौ | तादृङ्न रविनाशो हि स्वभावान्मे रोचते || २४ || आत्मज्ञानलक्षणगुणेन युक्तौ || २४ || तदेतौ संपरीक्षेऽहं यदि तादृग्गुणान्वितौ | तद्भक्षं न करोम्येतौ न हिंस्यां गुणिनः क्वचित् || २५ || तत्तर्हि || २५ || अकृत्रिमं सुखं कीर्तिमायुश्चैवाभिवाञ्छता | सर्वाभिमतदानेन पूजनीया गुणान्विताः || २६ || सर्वेषाममिमतानामिष्टानां दानेन || २६ || अपि नङ्क्ष्यामि देहेन नैव भोक्ष्ये गुणान्वितम् | सुखयन्ति हि चेतांसि जीवितादपि साधवः || २७ || देहेन नत्वात्मना अविनाशित्वात् || २७ || प्. ३१६) १९२ अपि जीवितदानेन गुणिनं परिपालयेत् | गुणवत्संगमौषध्या मृत्युरप्येति मित्रताम् || २८ || वशीकरणौषध्या || २८ || यत्राहमपि रक्षामि राक्षसी गुणशालिनम् | तत्रान्यः को न कुर्यात्तं हृदि हारमिवामलम् || २९ || तं गुणिनम् || २९ || उदारगुणयुक्ता ये विहरन्तीह देहिनः | धरातलेन्दवः सङ्गाद्भृशं शीतलयन्ति ते || ३० || धरातले इन्दवश्चन्द्राः || ३० || मृतिर्गुणितिरस्कारो जीवितं गुणिसंश्रयः | फलं स्वर्गापवर्गादि जीविताद्गुणिसंश्रितात् || ३१ || फलं सिध्यतीति शेषः || ३१ || तस्मादिमौ परीक्षेऽहं कयाचित्प्रश्नलीलया | किंमात्रज्ञानकावेताविति तामरसेक्षणौ || ३२ || परीक्षे परीक्षिष्ये || ३२ || आदौ विचार्य सगुणागुणलेशयुक्तिं पश्चात्स्वतोऽधिकतरं च गुणैर्यदि स्यात् | कुर्यात्ततः समुपपत्तिवशेन दण्डं दड्यस्य युक्तिसदृशं घनसंभवेन || ३३ || आदौ सगुणोऽयमगुणो वेति गुणलेशेनापि युक्तिं योगं विचार्य पश्चात्स्वतः स्वस्मादधिकतरं च गुणिनं विचार्य यदि गुणैर्हीनः स्यात्ततस्तदनन्तरं सम्यक् शास्त्रोक्तदृशा उपपत्तिवशेन युक्तिसदृशं दण्ड्यस्य दण्डं कुर्यात् स्वतो गुणैर्घनसंभवे अतिशयस्य संभवे तु न कुर्यादित्यर्थः || ३३ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे क० राक्षसीविचारो नाम सप्तसप्ततितमः सर्गः || ७७ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे राक्षसीविचारो नाम सप्तसप्ततितमः सर्गः || ७७ || अष्टसप्ततितमः सर्गः ७८ श्रीवसिष्ठ उवाच | अथ सा राक्षसी रक्षःकुलकाननमञ्जरी | तमस्येवाभ्रलेखेव गम्भीरं विननाद ह || १ || भीषणोक्त्याप्यभीतस्य राज्ञः कर्कटिदर्शनम् | मन्त्रिवाक्यानुनीतायाः प्रश्नारम्भश्च कीर्त्यते || १ || रक्षोवंशलक्षणस्य काननस्य बोधसौरभमकरन्दमधुरत्वात्पुष्पमञ्जरीव स्थिता || १ || नादान्ते समुवाचेदं हुंकारापरुषं वचः | गर्जितानन्तरं जातकरकाशनिशब्दवत् || २ || शब्दतो हुंकारभीषणत्वेऽप्यर्थतोऽपरुषमनिष्ठुरम् || २ || भो भो घोराटवीव्योमपदवीशशिभास्करौ | महामायातमःपीठशिलाकोटरकीटकौ || ३ || घोराटवीलक्षणाया व्योमपदव्याः प्रकाशकत्वाच्छशिभास्करौ | महामायातमोलक्षणायाः सर्वभूताधारपीठभूतायाः कोटरान्तर्गतकीटकौ | अनेन स्वस्या आत्मज्ञता सूचिता || ३ || कौ भवन्तौ महाबुद्धी दुर्बुद्धी वा समागतौ | मद्ग्रासपदमापन्नौ क्षणान्मरणकोचितौ || ४ || आत्मज्ञाने सति बुद्धेः साफल्यान्महाबुद्धी पूज्यबुद्धी | तदभावे बुद्धिवैयर्थ्याद्दुर्बुद्धी | कुत्सितं मरणं मरणकं तदुचितौ || ४ || राजोवाच | भो भो भूतक किं स्यास्त्वं क्व तिष्ठसि च देहकम् | दर्शयास्यास्तव गिरः को बिभेत्यलिनीध्वनेः || ५ || अल्पं देहं देहकं दर्शय | अलिनीध्वनेर्भ्रमरिकाध्वनितुल्याया अस्यास्तव गिरः सकाशात्को बिभेति | न कश्चिदित्यर्थः || ५ || सिंहवत्सर्ववेगेन पतन्त्यर्थे किलार्थिनः | त्यज संरम्भमारम्भं स्वसामर्थ्यं प्रदर्शय || ६ || संरम्भं कोपम् | आरम्भं भीषणोद्योगम् || ६ || किं प्रार्थयसि मे ब्रूहि ददामि तव सुव्रत | किं वा संरम्भशब्दाभ्यां भीषयास्मान्बिभेषि किम् || ७ || त्वत्सूचिता आत्मज्ञता मया ज्ञातेति द्योतनाय सुव्रतेति संबोधनम् | अस्मान्प्रति संरम्भशब्दाभ्यां भीषया वा किम् | त्वमेव वा किं बिभेषि || ७ || क्षिप्रमाकारशब्दाभ्यां मायया सन्मुखीभव | न किंचिद्दीर्घसूत्राणां सिद्ध्यत्यात्मक्षयादृते || ८ || मायया परदृश्यशरीरकल्पनशक्त्या | दीर्घसूत्राणामक्षिप्रकारिणाम् || ८ || राज्ञेत्युक्ते रम्यमुक्तमिति संचिन्त्य सा तयोः | प्रकाशायाप्य धैर्याय ननाद च जहास च || ९ || ततो ददृशतुस्तां तौ शब्दपूरितदिग्गणाम् | साट्टहासप्रभापिण्डपूरप्रकटिताकृतिम् || १० || अट्टहासदशनप्रभापिण्डपूरैः प्रकाशितस्वाकाराम् || १० || कल्पाभ्राशनिकाषेण घृष्टामद्रितटीमिव | स्वनेत्रविद्युद्वलयबलाकोज्ज्वलिताम्बराम् || ११ || अशनिकाषेण वज्रनिष्पेषेण घृष्टां निष्पिष्टाम् | स्वनेत्रविद्युद्भ्यां शङ्खवलयलक्षणबलाकाभिश्च दीपिताकाशाम् || ११ || तिमिरैकार्णवौर्वाग्निज्वालाविवलनामिव | गर्जद्घनघटातो.पपीवरासितकन्धराम् || १२ || तिमिरलक्षणस्यैकार्णवस्य || १२ || रणद्दशनसंरम्भहाहाहतनिशाचराम् | रोदसीकज्जलस्तम्भां लीलयोल्लसितां पुनः || १३ || ऊर्ध्वकेशीं शिरालाङ्गीं कपिलाक्षीं तमोमयीम् | यक्षरक्षःपिशाचानामप्यनर्थभयप्रदाम् || १४ || रणद्भ्यः कटकटायमानेभ्यो दशनेभ्यः संरम्भाद्भयात् हाहाकारपूर्वकं हता मारिता निशाचराश्चोरव्याघ्रजम्बुकादयो यया | रोदस्यौ द्यावापृथिव्यौ कज्जलैः स्तम्भयति विष्टभ्रातीति तथोक्ताम् || १३ || १४ || देहरन्ध्रविशच्छ्वासवातभांकारभीषणाम् | मुसलोलूखलालातहलशूर्पकशेखराम् || १५ || हलं शूर्पकाणि भग्नशूर्पाणि शेखरे यस्याः || १५ || प्. ३१७) १९२ स्फुरन्तीमिव कल्पान्ते वैदूर्यशिखरस्थलीम् | हासघट्टितविश्वेशां कालरात्रिमिवोदिताम् || १६ || कल्पान्ते विदीर्णामिति शेषः | हासैर्घट्टिता हिंसिता विश्वस्येशा दानवा यया तथाविधां कालरात्रिं शिवदूतीमिव || १६ || शरद्व्योमाटवीं साभ्रां कृतदेहामिवागताम् | शरीरिणीं महाभ्राढ्यां यामिनीमिव मांसलाम् || १७ || शरीरसंनिवेशेन पङ्कपीठमिवोत्थिताम् | तनुं चन्द्रार्कयुधाय तमसेव समाश्रिताम् || १८ || पङ्कपीठं पृथिवीपीठम् | तमसा राहुणा || १८ || इन्द्रनीलमहाशुभ्रलम्बाभ्रयुगलोपमौ | उलूखलादिहारौघौ दधानामसितौ स्तनौ || १९ || इन्द्रनीलमिव महाशुभ्रं नीलं यल्लम्बाभ्रयुगलं तदुपमो || १९ || लग्नामङ्गारकाष्ठेन समानां च महातनुम् | द्रुमाभास्पन्दसशिरलसद्भुजलतातनुम् || २० || लग्नां लाञ्छितां समानां सवर्णां च | द्रुमाभाभ्यां अस्पन्दाभ्यां शिरासहिताभ्यां लसद्भ्यां भुजलताभ्यां अतनुं अनल्पाम् || २० || तामवेक्ष्य महावीरौ तथैवाक्षुभितौ स्थितौ | न तदस्ति विमोहाय यद्विविक्तस्य चेतसः || २१ || विविक्तस्य सत्यमिथ्याविवेकशालिनः || २१ || मन्त्र्युवाच | महाराक्षसि संरम्भो महात्मा किमयं तव | लघवो ह्यथवा कार्ये लघावप्यतिसंभ्रमाः || २२ || यदि त्वं महत्यसि तर्ह्यल्पकार्ये नैतावान्संरम्भो युक्त इति साम्ना समाधित्सुर्मन्त्री उवाच - महाराक्षसीति | हे महाराक्षसि तव स्वाभिमतसिद्धौ महात्मा निरतिशयस्वरूपोऽयं संरम्भः कोपः किं किमर्थ इत्यर्थः | वाङ्मात्रलभ्ये आहारलाभलक्षणे कार्ये न क्रोधसाहसादेः प्रयोजनमस्तीति भावः | अथवा यदि लघुरसि तर्हि न त्वत्संरम्भेण बिभीव इत्याशयेनाह - लघवो हीति || २२ || त्यज संरम्भमारम्भो नायं तव विराजते | विषये हि प्रवर्तन्ते धीमन्तः स्वार्थसाधकाः || २३ || साम्ना पुनः प्रथमकल्पमेवाश्रित्याह - त्यजेति | बुद्धिमन्तः सामसाध्येऽर्थे न दण्डमनुसरन्तीति भावः || २३ || त्वादृशानां सहस्राणि मशकानामिवाबले | अस्माकं धीरतावात्याव्यूढानि तृणपर्णवत् || २४ || पुनर्द्वितीयकल्पमाश्रित्य दण्डोद्योगवैयर्थ्यमाह - त्वादृशानामिति | धीरतालक्षणया वात्या वात्यया | वातशब्दात्पाशादित्वात्समूहे यप्रत्यये व्यत्ययेन ङीपि हलस्तद्धितस्य इति यलोपे तृतीयान्तोऽत्र वात्येति | व्यूढानि निरस्तानि || २४ || संरम्भद्वारमुत्सृज्य समतास्वच्छया धिया | युक्त्या च व्यवहारिण्या स्वार्थः प्राज्ञेन साध्यते || २५ || तर्हि कथं स्वार्थसिद्धिस्तत्राह - संरम्भेति | व्यवहारिण्या प्राज्ञव्यवहारोचितया || २५ || स्वेनैव व्यवहारेण कार्यं सिद्ध्यतु वा न वा | महानियतिरित्येव भ्रमस्यावसरो हि कः || २६ || कार्यसिद्धिसंशयेऽप्यनादिनियतिसिद्धः सामोपायो न हेयः किं वाच्यं तन्निश्चये इत्याशयेनाह - स्वेनैवेति | भ्रमस्य भ्रान्तोचितसंरम्भस्य || २६ || कथयाभिमतं किं ते किमर्थयसि चार्थिनी | अर्थी स्वप्नेऽपि नास्माकमप्राप्तार्थः पुरो गतः || २७ || कथं तर्हि साम्ना सिद्धिस्तत्राह - कथयेति || २७ || इत्युक्ता सा तदा तेन चिन्तयामास राक्षसी | अहो नु विमलाचारं सत्त्वं पुरुषसिंहयोः || २८ || सत्त्वं धैर्य बुद्धिबलं च || २८ || न सामान्याविमौ मन्ये विचित्रेयं चमत्कृतिः | वचोवक्रेक्षणेनैव वदत्यन्तर्विनिश्चयम् || २९ || वक्रेक्षणेन मुखदर्शनेनैव प्रसादादिलिङ्गैरन्तस्तत्त्वविनिश्चयं वदति सूचयति || २९ || वचोवक्रेक्षणद्वारैर्धीमतामाशया मिथः | एकीभवन्ति सरितां पयांसि वलनैरिव || ३० || वलनैः संगमैः || ३० || आभ्यां प्रायः परिज्ञातो मम भावोऽनयोर्मया | न विनाश्यौ मया चेमौ स्वयमेवाविनाशिनौ || ३१ || मन्ये भवेतामात्मज्ञौ नात्मज्ञानादृते मतिः | प्रमृष्टसदसद्भावाद्भवत्यस्तभया मृतौ || ३२ || मिथ्यात्वनिश्चयेन प्रमृष्टौ सदसद्भावौ जीवनमरणप्रत्ययौ यस्मात्तथाविधादात्मज्ञादृते || ३२ || तदेतौ परिपृच्छामि किंचित्संदेहमुत्थितम् | प्राज्ञं प्राप्य न पृच्छन्ति ये केचित्ते नराधमाः || ३३ || इति संचिन्त्य पृच्छायै तन्वानावसरं ततः | अकालकल्पाभ्ररवं हासं संयम्य साव्रवीत् || ३४ || हासं हास्यम् | संयम्य निरुध्य || ३४ || कौ भवन्तौ नरौ धीरौ कथ्यतामिति मेऽनघौ | जायते दर्शनादेव मैत्री विशदचेतसाम् || ३५ || मन्त्र्युवाच | अयं राजा किरातानामस्याहं मन्त्रितां गतः | उद्यतौ रात्रिचर्येण त्वादृग्जनविनिग्रहे || ३६ || त्वादृग्जनानां हिंस्राणां विनिग्रहे उद्यतौ उद्युक्तौ || ३६ || राज्ञो रात्रिंदिवं धर्मो दुष्टभूतविनिग्रहः | स्वधर्मत्यागिनो ये तु ते विनाशानलेन्धनम् || ३७ || राक्षस्युवाच | राजंस्त्वमसि दुर्मन्त्री दुर्मन्त्री न नृपो भवेत् | सद्रूपस्य भवेन्मन्त्री राजा सन्मन्त्रिणो भवेत् || ३८ || करिष्यमाणप्रश्नस्योपोद्घातं रचयन्त्याह - राजन्निति | दुष्टो मन्त्री यस्य स तथा असि | संभावित इति शेषः || ३८ || राजा चादौ विवेकेन योजनीयः सुमन्त्रिणा | तेनार्यतामुपायाति यथा राजा तथा प्रजाः || ३९ || आर्यतां श्रेष्ठताम् || ३९ || समस्तगुणजालानामध्यात्मज्ञानमुत्तमम् | तद्विद्राजा भवेद्राजा तद्विन्मन्त्री च मन्त्रवित् || ४० || समस्तेति | तथाचाहुः - तत्कर्मयन्न बन्धाय सा विद्या या विमुक्तये | आयासायापरं कर्म विद्यान्या शिल्पनैपुणम् || इति | मन्त्रविद्विचाररहस्यवित् || ४० || प्. ३१८) १९३ प्रभुत्वं समदृष्टित्वं तच्च स्याद्राजविद्यया | तामेव यो न जानाति नासौ मन्त्री न सोऽधिपः || ४१ || प्रभुत्वं समदृष्टित्वाधीनत्वादायुर्घृतमितिवत्ताद्रूप्यारोपात्समदृष्टित्वं विद्यानां राजा राजविद्या आत्मविद्या तया स्यात् | शुनि चैव श्वपाके च पण्डिताः समदर्शिनः इति भगवद्वचनात् || ४१ || भवन्तौ तद्विदौ साधू यदि तच्छ्रेय आप्नुथः | नो चेदनर्थदौ स्वस्याः प्रकृतेरद्म्यहं युवाम् || ४२ || यथा राजा तथा प्रजा इति प्रागुक्तत्वाद्राज्ञो मौर्ख्ये प्रजानामपि तदनिवारणात्तत्प्रयुक्तानर्थदौ युवां अद्मि भक्षयामि || ४२ || एकोपायेन मत्पार्श्वाद्बालकावुत्तरिष्यथः | मत्प्रश्नपञ्जरं सारं चेद्विचारयथो धिया || ४३ || बालकाविव पित्रोः प्रीतिविषयौ || ४३ || प्रश्नानिमान्कथय पार्थिव वा च मन्त्रिं- स्तत्रार्थिनी भृशमहं परिपूरयार्थम् | अङ्गीकृतार्थमददत्क इवास्ति लोके दोषेण संक्षयकरेण न युज्यते यः || ४४ || हे पार्थिव त्वमिमान् प्रश्नान् पृष्ठानर्थान्कथय | अथवा हे मन्त्रिंस्त्वं च वा कथय | तत्र तस्मिन्विषयेऽहं भृशमर्थिनी उपयाचनवती अस्मि | अर्थ मदभिलषितं परिपूरय | योऽङ्गीकृतं दास्यामीति प्रतिज्ञातमर्थमदददप्रयच्छन्सन्संक्षयकरेण दोषेण न युज्यते स तादृशः क इवास्ति को वास्ति | न कश्चिदित्यर्थः || ४४ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे क० राक्षसीवर्णनं नामाष्टसप्ततितमः सर्गः || ७८ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे राक्षसीवर्णनं नामाष्टसप्ततितमः सर्गः || ७८ || एकोनाशीतितमः सर्गः ७९ श्रीवसिष्ठ उवाच | इत्युक्त्वा राक्षसी प्रश्नान्सा वक्तुमुपचक्रमे | उच्यतामिति राज्ञोक्ते तानिमान्शृणु राघव || १ || अनात्मविद्वज्रसमानात्मविद्धृदयंगमान् | चक्रे द्विसप्ततिप्रश्नान्क्रमात्सर्गेऽत्र कर्कटी || १ || उच्यतामिति राज्ञा उक्ते अभ्यनुज्ञाते सति वा वक्तुमुपचक्रमे || १ || राक्षस्युवाच | एकस्यानेकसंख्यस्य कस्याणोरम्बुधेरिव | अन्तर्ब्रह्माण्डलक्षाणि लीयन्ते बुद्बुदा इव || २ || प्रश्नानामाशय उत्तरसर्गयोः स्फुटो भविष्यतीति नेहातिविस्तरः क्रियते | उपाधिभेदादनेकसंख्यस्य दुर्लक्ष्यत्वादणोरपरिच्छेदाच्चाम्बुधेरिव || २ || किमाकाशमनाकाशं न किंचित्किंचिदेव किम् | कोऽहमेवासि संपन्नः को भवानप्यहं स्थितः || ३ || अनाकाशमशून्यम् | लौकिकप्रसिद्धं न किंचित्तत्त्ववित्प्रसिद्धं किंचिदेव || ३ || गच्छन्न गच्छति च कः कोऽतिष्ठन्नपि तिष्ठति | कश्चेतनोऽपि पाषाणः कश्चिद्व्योम्नि विचित्रकृत् || ४ || अतिष्ठन् गतिनिवृत्तिमकुर्वन् | पाषाण इव चैतन्यानाश्रयः || ४ || वह्नितामजहच्चैव कश्च वह्निरदाहकः | अवह्नेर्जायते वह्निः कस्माद्राजन्निरन्तरम् || ५ || अचन्द्रार्काग्नितारोऽपि कोऽविनाशः प्रकाशकः | अनेत्रलभ्यात्कस्माच्च प्रकाशः संप्रवर्तते || ६ || अविनाशः सन् प्रकाशकः || ६ || लतागुल्पाङ्कुरादीनां जात्यन्धानां तथैव च | अन्येषामप्यनक्षाणामालोकः क इवोत्तमः || ७ || अनक्षाणामनाविर्भूतेन्द्रियाणाम् || ७ || जनकः कोऽम्बरादीनां सत्तायाः कः स्वभावदः | को जगद्रत्नकोशः स्यात्कस्य कोशो मणेर्जगत् || ८ || स्वभावदः सत्ताप्रदः || ८ || कोऽणुस्तमःप्रकाशः स्यात्कोऽणुरस्ति च नास्ति च | कोऽणुर्दूरेऽप्यदूरे च कोऽणुरेव महागिरिः || ९ || निमेष एव कः कल्पः कः कल्पोऽपि निमेषकः | किं प्रत्यक्षमसद्रूपं किं चेतनमचेतनम् || १० || प्रत्यक्षं भासमानमपि मूढदृशा असद्रूपम् || १० || कश्च वायुरवायुश्च कः शब्दोऽशब्द एव कः | कः सर्वं न च किंचिच्च कोऽहं नाहं च किं भवेत् || ११ || किं प्रयत्नशतप्राप्यं लब्ध्वापि बहुजन्मनि | लब्धं न किंचिद्भवति किंतु सर्वं न लभ्यते || १२ || प्राग् बहुजन्मनि स्वात्मत्वादेव लब्ध्वाप्यज्ञानावृतत्वादलब्धप्रायत्वात्प्रयत्नशतप्राप्यम् | सर्व पूर्णम् || १२ || स्वस्थेन जीवितेनोच्चैः केनात्मैवापहारितः | केनाणुनान्तः क्रियते मेरुस्त्रिभुवनं तृणम् || १३ || आत्मा स्वात्मैव केनापहारितो नाशितप्रायः कृतः | त्रिभुवनं तृणं क्रियत इति पृथक्प्रश्नः || १३ || केनाप्यणुकमात्रेण पूरिता शतयोजनी | कोऽणुरेव भवन्माति न योजनशतेष्वपि || १४ || केनालोकनमात्रेण जगद्बालः प्रनाट्यते | कस्याणोरुदरे सन्ति किलावनिभृतां घटाः || १५ || प्रनाड्यते प्रनर्त्यते अनर्द्राटि इति णोपदेशपर्युदासान्न णः | घटाः समूहाः || १५ || अणुत्वमजहत्कोऽणुर्मेरोः स्थूलतराकृतिः | वालाग्रशतभागात्मा कोऽणुरुच्चैः शिलोच्चयः || १६ || शिलोश्चयः पर्वतनिभः || १६ || प्. ३१९) १९३ कोऽणु प्रकाशतमसां दीपः प्रकटनप्रदः | कस्याणोरुदरे सन्ति समग्रानुभवाणवः || १७ || अनुभवाणवो वृत्त्यवच्छिन्नज्ञानलवाः || १७ || कोऽणुरत्यन्तनिःस्वादुरपि संस्वदतेऽनिशम् | केन संत्यजता सर्वमणुना सर्वमाश्रितम् || १८ || निःस्वादुर्मधुरादिरसशून्यः | आश्रितं स्वीकृतमिति यावत् || १८ || केनात्माच्छादनाशक्तेनाणुनाच्छादितं जगत् | जगल्लये न कस्याणोः सद्भूतमपि जीवति || १९ || लयेन तिरोहितमपि जगत्कस्याणोः सत्तया सद्भूतं पुनः सर्गे जीवत्यपि || १९ || अजातावयवः कोऽणुः सहस्रकरलोचनः | को निमेषो महाकल्पः कल्पकोटिशतानि च || २० || अणौ जगन्ति तिष्ठन्ति कस्मिन्बीज इव द्रुमः | बीजानि निष्कलान्तानि स्फुटान्यनुदितान्यपि || २१ || जगन्ति अनुत्पन्नान्यपि प्रलये कस्मिंस्तिष्ठन्ति | सर्गकाले च निष्कलं निरवयवमव्यक्तमन्तो बीजपरम्परावधिर्येषां तानि सर्वाणि बीजानि सर्गकाले जगदात्मना स्फुटानि विकासितान्यपि कस्मिन्सदैवानुदितानि || २१ || कल्पः कस्य निमेषस्य बीजस्येवान्तरस्थितः | कः प्रयोजनकर्तृत्वमप्यनाश्रित्य कारकः || २२ || एवंकल्पः प्रलयोऽपि कस्यान्तः स्थितः | प्रयोजनं तत्तत्कारकप्रवर्तनं तत्र कर्तृत्वं अक्रियत्वात्कारकव्यापारयितृत्वमनाश्रित्यापि कः कारकः कर्तेत्यर्थः | अथवा प्रयोजनकर्तृत्वं क्रियाफलनिष्पादकत्वम् || २२ || दृश्यसंपत्तये द्रष्टा स्वात्मानं दृश्यतां नयन् | दृश्यं पश्यन्स्वमात्मानं को हि पश्यत्यनेत्रवान् || २३ || दृश्यसंपत्तये भोग्यसिद्धये | बहिर्दृशा दृश्यं पश्यन् || २३ || अन्तर्गलितदृश्यं च क आत्मानमखण्डितम् | दृश्यासंपत्तये पश्यन्पुरो दृश्यं न पश्यति || २४ || ज्ञानेनान्तर्गलितदृश्यं यथा स्यात्तथा पश्यन् || २४ || आत्मानं दर्शनं दृश्यं को भासयति दृश्यवत् | कटकादीनि हेम्नेव विकीर्णं केन च त्रयम् || २५ || आत्मानं द्रष्टारम् | दर्शनं वृत्तिम् | दृश्यवच्चक्षुर्दृश्यमिवापरोक्षं को भासयति | विकीर्ण विक्षिप्तं | विक्षेपशक्त्या प्रकटितमिति यावत् | तत्त्रयं द्रष्टा दर्शनं दृश्यम् || २५ || कस्मान्न किंचिच्च पृथगूर्म्यादीव महाम्भसः | कस्येच्छया पृथकास्ति वीचितेव महाम्भसः || २६ || दिक्कालाद्यनवच्छिन्नादेकस्मादसतः सतः | द्वैतमप्यपृथक्कस्माद्द्रवतेव महाम्भसः || २७ || असतः अस्थूलत्वादसत्कल्पात्सतः || २७ || आत्मानं दर्शनं दृश्यं सदसच्च [सदसच्च गतक्रमम् इति पाठः] जगत्त्रयम् | कोऽन्तर्बीजमिवान्तस्थं कृत्वा त्रिकालगः || २८ || सदुद्भूतावस्थं असत्तिरोहितावस्थं च अन्तस्थं कृत्वा स्थितः त्रिकालगः सदैवेत्यर्थः || २८ || भूतं भवद्भविष्यच्च जगद्वृन्दं बृहद्भ्रमम् | नित्यं समस्य कस्यान्तर्बीजस्यान्तरिव द्रुमः || २९ || कस्यान्तर्नित्यमस्तीति शेषः || २९ || बीजं द्रुमतयेवाशु द्रुमो बीजतयेव च | स्वमेकमजहद्रूपमुदेत्यनुदितोऽपि कः || ३० || दृष्टान्तद्वयाद्दार्ष्टान्तिके विशेषमाह - स्वमेकमिति | अविकृत एवेति यावत् | उदेति जगद्विकारात्मनेति शेषः || ३० || बिसतन्तुर्महामेरुर्भो राजन्यदपेक्षया | तस्य कस्योदरे सन्ति मेरुमन्दरकोटयः || ३१ || यदपेक्षया यद्दार्ढ्यमपेक्ष्य महामेरुर्बिसतन्तुरत्यन्तादृढतम इत्यर्थः | अथवा यस्यापेक्षया संकल्पेन बिसतन्तुरपि महामेरुरिव दृढ इत्यर्थः | तस्य तथाविधस्य वस्तुन उदरे अन्तः || ३१ || केनेदमाततमनेकचिदेव विश्वं किंसार एवमतिवल्गसि हंसि पासि | किंदर्शनेन न भवस्यथवा सदैव नूनं भवस्यमलदृग्वदनः स्वशान्त्यै || ३२ || अनेकाश्चितश्चेतना यस्मिंस्तथाविधमिदं विश्वं केन आततं सृष्ट्या विस्तारितम् | त्वं च कः सारो वास्तवं रूपं यस्य तथाविधः सन्सर्वव्यवहारेष्वतिशयेन वल्गसि व्यवहरसि पासि प्रजा हंसि च वध्यान् | तथाच सृष्ट्यादिनिर्वाहाः सर्वेषां किंनिमित्तका इत्यर्थः | कस्य दर्शनं किंदर्शनं तेन त्वममलदृग्रूपः संस्तदन्यो न भवसि | अथवा तद्रूप एव सदैव नूनं भवसि तद्वस्तुनः अस्मभ्यं स्वशान्त्यै स्वमृत्युमोक्षार्थं वदेत्युपसंहारः || ३२ || एषोऽसौ प्रगलतु संशयो ममोच्चै- श्चित्तश्रीमुखमिहिकामलानुलेपः | यस्याग्रे न गलति संशयः समूलो नैवासौ क्वचिदपि पण्डितोक्तिमेति || ३३ || एष उक्तलक्षणोऽसौ चित्तश्रियो मुखं स्वात्माकारवृत्तिस्तस्याश्चन्द्रस्येव मिहिकालक्षणस्य मलस्यानुलेप आवरणभूतो मम संशयो गलतु | समूलो मूलाज्ञानसहितः | पण्डितोक्तिं पण्डितशब्दयोग्यतां नैवैति || ३३ || एवं मे यदि न विनेष्यथः क्रमोक्तं संशान्तं लघुतरसंशयं [मसंशयं इति क्वचित्] सुबुद्धी | तद्रक्षोजरठहुताशनेन्धनत्वं निर्विघ्नं झटिति गमिष्यथः क्षणेन || ३४ || एवंरूप मे लघुतरसंशयं यदि न विनेष्यथो नापाकरिष्यथस्तत्तर्हि रक्षोजातेः स्वदेहस्य जठरहुताशनेन्धनत्वं | भक्ष्यतामिति यावत् | झटिति क्षणेन निर्विघ्नं गमिष्यथः | अनात्मज्ञानां देहमात्रात्मभावानां [भावनां इति पाठः] रक्षोन्नभावस्य दुर्वारत्वादिति भावः || ३४ || पश्चात्तां जनपदमण्डलीं समन्ता- द्भावत्कीमुरुजठरा क्षणाद्ग्रसेऽहम् | एवं ते भवतु सुराजतेति मन्ये मूर्खाणामतिरस एव संक्षयाय || ३५ || न केवलं युवयोरेवानर्थः किंतु सर्वस्य जनपदस्याप्युपस्थित इत्याह - पश्चादिति | उरुजठरा बृहत्कुक्षिः | एवमुक्तप्रश्नोत्तरदानेन ते स्वात्मना सह सर्वप्रजापालनात्सुराजता स्यादिति मन्ये | मूर्खाणामनात्मज्ञानामतिरसो भोगलाम्पट्यातिशयो राजत्वनिमित्तः संक्षयायैव भवति | मद्भक्षणाभावेऽपि राज्यान्ते नरकावश्यंभावादिति भावः || ३५ || प्. ३२०) १९४ इत्युक्त्वा विपुलगभीरमेघनाद- प्रोल्लासप्रकटगिरा निशाचरी सा | तूष्णीमप्यतिविकटाकृतिस्तदासी- च्छुद्धान्तः शरदमलाभ्रमण्डलीव || ३६ || विपुलगभीरमेघनादप्रोल्लास इव प्रकटया तारया गिरा सा निशाचरीत्युक्त्वा बहिरतिविकटाकृतिरपि अन्तः शुद्धा शरदमलाभ्रमण्डलीव तूष्णीमासीदित्यर्थः || ३६ || इत्यार्षे श्रीवासिष्ठमहारामायणे उत्पत्तिप्रकरणे क० राक्षसीप्रश्नो नामैकोनाशीतितमः सर्गः || ७९ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे राक्षसीप्रश्नो नामैकोनाशीतितमः सर्गः || ७९ || अशीतितमः सर्गः ८० श्रीवसिष्ठ उवाच | महानिशि महारण्ये महाराक्षसकन्यया | इति प्रोक्ते महाप्रश्ने महामन्त्री गिरं ददौ || १ || समादधेऽत्र प्रथमं मन्त्री प्रश्नगणान्क्रमात् | व्युत्क्रमाच्च यथान्यायं सूक्ष्माभिरुपपत्तिभिः || १ || गिरं वक्ष्यमाणप्रतिज्ञानलक्षणाम् || १ || मन्त्र्युवाच | शृणु तोयदसंकाशे प्रश्नमेतं भिनद्मि ते | अनुक्रमात्मकं मत्तं गजेन्द्रमिव केसरी || २ || प्रश्नं प्रश्नगणं भिनद्मि उपपत्तिभिर्विदारयामि || २ || भवत्या परमात्मैष कथितः कमलेक्षणे | अनयैव वचोभङ्ग्या प्रश्नविद्बोधयोग्यया || ३ || सर्वान्प्रश्नान् शिथिलीकर्तु सर्वप्रश्नहृदयं तावत्प्रथमं दर्शयति ##- अनाख्यत्वादगम्यत्वान्मनःषष्ठेन्द्रियस्थितेः | चिन्मात्रमेवमात्माणुराकाशादपि सूक्ष्मकः || ४ || कस्याणोरम्बुधेरिवेति प्रथमप्रश्नविशेष्येऽणुशब्दप्रयोगस्याभिप्रायमुद्घाटयति - अनाख्यत्वादिति | तथाच अणुः पन्था विततः पुराणः इत्यादिश्रुतिषु प्रसिद्ध इति भावः || ४ || चिदणोः परमस्यान्तः सदिवासदिवापि वा | बीजेऽन्तर्द्रुमसत्तेव स्फुरतीदं जगत्स्थितम् || ५ || अन्तर्ब्रह्माण्डलक्षाणीति पृष्टांशं दर्शयति - चिदणोरिति | एतेन अणौ जगन्ति तिष्ठन्ति कस्मिन्बीज इव द्रुमः इति प्रश्नोऽप्युत्तरितः || ५ || सत्किंचिदनुभूतित्वात्सर्वात्मकतया स्वतः | तदात्मकतया पूर्वं भावाः सत्तां किलागताः || ६ || सदिवासदिवापि वा इत्युक्त्या सूचितं सत्तायाः कः स्वभावद इति प्रश्नस्योत्तरमाह - सत्किंचिदिति | सर्ववस्तुसत्ताया अनुभवसत्ताधीनत्वात्तत्सत्ताया अन्याधीनत्वेऽनवस्थापातात्स्वतःसिद्धसत्ताकानुभवादेव सर्वे भावाः सत्तां प्राप्ता इत्यर्थः || ६ || आकाशं बाह्यशून्यत्वादनाकाशं तु चित्त्वतः | अतीन्द्रियत्वान्नो किंचित्स एवाणुरनन्तकः || ७ || किमाकाशमनाकाशम् इति प्रश्नतात्पर्यमुद्घाटयति - आकाशमिति | न किंचित्किंचिदेव किम् इति प्रश्नोत्तरमाह - अतीन्द्रियत्वादिति | नेन्द्रियगम्यं किंचिदेव यत्तदित्यर्थः || ७ || सर्वात्मकत्वाद्भुक्ते च तेन किंचिन्न किंचन | चिदणोः प्रतिभा सा स्यादेकस्यानेकतोदिता | असत्येव [असत्येवापि सत्येव हेम्नः कटकता यथा इति क्वाचित्कः पाठः] यथा हेम्नः कटकादि तथा परे || ८ || यदि तु किंचिदपि न किंचिद्यदात्मभावे तदिति प्रश्नार्थस्तदाप्याह - सर्वात्मकत्वादिति | स्वस्यैव सर्वात्मकत्वात्स्वात्मनैव साक्षात्कृतेन सर्वस्मिन्भुक्ते निगीर्णे सति तदेव किंचित् | न किंचनात्मना परिशिष्यत इत्याशय इत्यर्थः | एकस्यानेकसंख्यस्येति प्रश्नोपक्रमाभिप्रायमाह - चिदणोरिति | एकस्यैव चिदणोस्त्वदुदितानेकताप्रतिभामात्र प्रातीतिकी न वास्तवीत्यर्थः | एतेन कटकादीनि हेम्नेवेति प्रश्नोऽप्युक्तप्राय एवेत्याशयेनाह - यथा हेम्न इति || ८ || एषोऽणुः परमाकाशः सूक्ष्मत्वादप्यलक्षितः | मनःषष्ठेन्द्रियातीतः स्थितः सर्वात्मकोऽपि सन् || ९ || कोऽणुस्तमःप्रकाशः स्यात् इत्यादिप्रश्नेषु पुनःपुनरणुशब्दप्रयोगस्यापि प्रागुक्त एवाभिप्राय इत्याह - एषोऽनुरिति || ९ || सर्वात्मकत्वान्नैवासौ शून्यो भवति कर्हिचित् | यदस्ति न तदस्तीति वक्ता मन्ता इति स्मृतः || १० || कोऽणुरस्ति च नास्ति च इति प्रश्ने नास्ति चेत्यंशो बाधित एवेति दूषयति - सर्वात्मकत्वादित्यादिना | कथं बाधितस्तत्राह - यदस्तीति | यद्यस्माद्धेतोस्तदस्ति नास्तीति च वक्ता मन्ता च पुरुषः स आत्मैवेति वक्तृमन्त्रादिरूपेण स्मृतः प्रसिद्धः | तथाच स्वात्मापलापायोगान्नास्तितास्य न घटत एवेत्यर्थः || १० || कयाचिदपि युक्त्येह सतोऽसत्त्वं न युज्यते | सर्वात्मा स्वात्मगुप्तेन कर्पूरेणेव दृश्यते || ११ || सतोऽसत्त्वविरोधादपि न युक्तमिदमित्याह - कयाचिदपीति | यद्यस्त्येव तर्हि कुतो न दृश्यत इत्याशङ्क्य निष्कृष्टरूपेणादर्शनेऽपि सर्वानुगतसद्रूपेणापिधानगुप्तेनापि कर्पूरेण स्वगन्धात्मनेव दृश्यत एवेत्याह - सर्वात्मेति | स्वात्मना प्रत्यग्रूपेण गुप्तेन छन्नेन सर्वात्मा सर्वानुगतसदात्मा दृश्यत इत्यर्थः || ११ || चिन्मात्राणु स एवेह सर्वं किंचिन्मनःस्थितम् | न किंचिदिन्द्रियातीतरूपत्वादमलः स्थितः || १२ || कः सर्व न च किंचिच्च इत्यस्योत्तरमाह - चिन्मात्राणुरिति | नन्वपरिच्छिन्नं कथं परिच्छिन्नसर्वरूपं तत्राह - किंचिदिति | मन इन्द्रियवृत्तिभिर्नानात्मताप्रत्ययात्किंचिन्मनःपरिच्छिन्नरूपेणैव सर्वमित्यर्थः | अत एव मन इन्द्रियाद्यपरिच्छिन्नस्वाभाविकरूपेण न किंचिदपीत्याशयेन त्वया तथोक्तमित्याह - न किंचिदिति || १२ || प्. ३२१) १९४ स एव चैकोऽनेकश्च सर्वसत्त्वात्मवेदनात् | स एवेदं जगद्धत्ते जगत्कोशस्तथैव हि || १३ || एतदभिप्रायेण वा तव एकस्यानेकसंख्यस्येत्युपक्रम इत्याह - स एवैक इति | नित्यं समस्य कस्यान्तः इति प्रश्नस्य को जगद्रत्नकोशः स्यात् इत्यस्य चोत्तरमाह - स एवेति || १३ || इमाश्चित्तमहाम्भोधौ त्रिजगल्लववीचयः | प्रज्ञास्तस्मिन्कचन्त्यप्सु द्रवत्वाच्चक्रता इव || १४ || कस्मान्न किंचिच्च पृथगूर्म्यादीव महाम्भसः इत्यस्योत्तरमाह - इमा इति | चित्तात्मना महाम्भोदिवद्विकारिणि | प्रज्ञाश्चित्तविकल्पमात्ररूपाः | एतेन कस्येच्छया पृथक्चास्तीत्येतदपि समाहितमेव || १४ || चित्तेन्द्रियाद्यलभ्यत्वात्सोऽणु शून्यस्वरूपवत् | स्वसंवेदनलभ्यत्वादशून्यं व्योमरूप्यपि || १५ || दिक्कालाद्यनवच्छिन्नादेकस्मादसतः सतः इति शून्याशून्योभयात्मतोक्तेस्तात्पर्यमाह - चित्तेन्द्रियादिति || १५ || सोऽहं भवानेव भवान्संपन्नोऽद्वैतवेदनात् | स भवान्न भवेन्नाहं जातो बोधबृहद्वपुः || १६ || को भवानेव संपन्नः इत्यस्योत्तरमाह - सोऽहमिति | अहमद्वैतवेदनात्स आत्मैव संपन्नः सन् भवान् त्वदात्मैव भवान्स संपन्नः अहमेव | इदमपि अहंताभवत्ताप्रतिसंधानव्यवहारे अव्यवहारदृशा तु स आत्मा न भवान्नाहं च किंतु बोधबृहद्वपुरेव जातः प्रादुर्भूत इत्यर्थः || १६ || त्वंताहंतात्मकं सर्वं विनिगीर्यावबोधतः | न त्वं नाहं न सर्वं च सर्वं वा भवति स्वयम् || १७ || उक्तार्थमेव स्फुटमाह - त्वंतेति || १७ || गच्छन्न गच्छत्येषोऽणुर्योजनौघगतोऽपि सन् | संवित्त्या योजनौघत्वं तस्याणोरन्तरे स्थितम् || १८ || गच्छन्न गच्छति च कः इत्यस्योत्तरमाह - गच्छन्निति | योजनौघगत आकाशवद्योजनौघव्याप्यपि सन् | संवित्त्या स्वप्न इव कल्पनया || १८ || न गच्छत्येष यातोऽपि संप्राप्तोऽपि च नागतः | स्वसत्ताकाशकोशान्तर्वासित्वाद्देशकालयोः || १९ || को तिष्ठन्नपि तिष्ठति इत्यस्योत्तरमपि तयैव दिशा आह - न गच्छतीति || १९ || गम्यं यस्य शरीरस्थं क्व किलासौ प्रयाति हि | कुचकोटरगः पुत्रः किं मात्रान्यत्र वीक्ष्यते || २० || उक्तमुभयं दृष्टान्तेनोपपादयति - गम्यमित्यादिना | गम्यं गमनेन प्राप्तव्यं देशान्तरम् || २० || गम्यो यस्य महादेशो यावत्संभवमक्षयः | अन्तस्थः सर्वकर्तुर्हि स कथं क्वेव गच्छति || २१ || यथा देशान्तरप्राप्ते कुम्भे वक्रसमुद्रिते | तदाकाशस्य गमनागमने न तथात्मनः || २२ || स्फुटं दृष्टान्तान्तरमाह - यथेति | वक्रसमुद्रिते बद्धमुखे गमनागमने न स्तस्तथेत्यर्थः || २२ || चित्तता स्थाणुता स्वान्तर्यदा स्तोऽनुभवात्मिके | चेतनस्य जडस्यैव तदासौ द्वयमेव च || २३ || कश्चेतनोऽपि पाषाणः इत्यस्य प्रश्नस्य यदि चिद्रूपो जडरूपश्चेति विरुद्धोभयात्मक इत्यर्थस्तदाह - चित्ततेति | यदा जडस्यैव देहादेरात्मतादात्म्याध्यासाच्चेतनस्य चित्तता प्रकाशस्वभावता स्थाणुता जडता चानुभवात्मिके स्वानुभवसाक्षिके स्तस्तदासावविमर्शाद्द्वयं जडबोधोभयरूपो भवत्येवेत्यर्थः || २३ || यदा चेतनपाषाणसत्तैकात्मैकचिद्वपुः | तदा चेतन एवासौ पाषाण इव राक्षसि || २४ || यदा तु चेतनोऽपि पाषाण इव घनरूपः क इति प्रश्नार्थस्तदा पारमार्थिकमात्मरूपमेव चिद्घनं स इत्याह - यदा चेति || २४ || परमव्योम्न्यनाद्यन्ते चिन्मात्रपरमात्मना | विचित्रं त्रिजगच्चित्रं तेनेदमकृतं कृतम् || २५ || कश्चिद्व्योम्नि विचित्रकृत् इत्यस्योत्तरमाह - परमव्योम्नीति | मिथ्यात्वादकृतमेव कृतम् || २५ || तत्संवित्त्या वह्निसत्ता तेनात्यक्तानलाकृतिः | सर्वगोऽप्यदहत्येव स जगद्द्रव्यपावकः [स सर्वद्रव्यपावकः इति पाठः साधुः] || २६ || वह्नितामजहच्चैव कश्च वह्निरदाहकः इत्यस्योत्तरमाह - तत्संवित्त्येति | आत्मसत्ताया एव वह्निसत्तात्वे तस्याः सर्वगतत्वात्सर्वगोऽपि सः अदहति न दहत्येव | अमानोनाः प्रतिषेधे इति नञर्थको निपातोऽकारः | नैतावता स सर्वगतो नेति मन्तव्यम् | यतः स सर्वद्रव्याणां पावक इव प्रकाशक इत्यर्थः || २६ || प्रज्वलद्भास्वराकारान्निर्मलाद्गगनादपि | प्रज्वलच्चेतनैकात्मा तस्मादग्निः स जायते || २७ || अवह्नेर्जायते वह्निः कस्मादिति प्रश्नस्योत्तरमाह - प्रज्वलदिति || २७ || संवेदनाद्यदर्कादिप्रकाशस्य प्रकाशकः | न नश्यत्यात्मभारूपो महाकल्पाम्बुदैरपि || २८ || अचन्द्रार्काग्नितारोऽपि कोऽविनाशः प्रकाशकः इत्यस्योत्तरमाह - संवेदनादिति || २८ || अनेत्रलभ्योऽनुभवरूपो हृद्गृहदीपकः | सर्वसत्ताप्रदोऽनन्तः प्रकाशः परमः स्मृतः || २९ || अनेत्रलभ्यात्कस्माच्च प्रकाशः संप्रवर्तते इत्यस्योत्तरमाह - अनेत्रलभ्य इति || २९ || प्रवर्ततेऽस्मदालोको मनःषष्ठेन्द्रियातिगात् | येनान्तरापि वस्तूनां दृष्टा दृश्यचमत्कृतिः || ३० || तस्य स्वयंज्योतिष्ट्वमनुभावयति - प्रवर्तत इति | अस्मदालोकोऽहंकारादिप्रथा मनःषष्ठेन्द्रियातिगादात्मनः सकाशात्प्रवर्तते | यथा गाढान्धकारस्थितोऽपि त्वं क्वासीति पृष्ठोऽहमिहास्मीति वक्ति | येन हेतुना अन्तरा आलोकदीपादिकमिति शेषः | वस्तूनां स्वदेहेन्द्रियादीनां विषये दृश्यचमत्कृतिरपरोक्षप्रथा दृष्टा | सर्वानुभवप्रसिद्धेति यावत् || ३० || प्. ३२२) १९५ लतागुल्माङ्कुरादीनामनक्षाणां च पोषकः | उत्सेधवेदनाकारः प्रकाशोऽनुभवात्मकः || ३१ || लतागुल्म इत्यादिप्रश्नस्योत्तरमाह - लतेति | पोषकः स्वसंनिधानेन वृद्धिनिमित्तम् | उत्सेधस्य च तत्फलस्य वेदनमेव आकारो यस्य तत्साक्षिणः || ३१ || कालाकाशक्रियासत्ता जगत्तत्रास्ति वेदने | स्वामी कर्ता पिता भोक्ता आत्मत्वाच्च न किंचन || ३२ || जनकः कोऽम्बरादीनाम् इत्यस्योत्तरमाह - कालाकाशेति | व्यवहारदृशा चेदं परमार्थदृशा त्वाह - आत्मत्वादिति || ३२ || अणुत्वमजहत्सोऽणुर्जगद्रत्नसमुद्गकः | मातृमानप्रमेयात्म जगनास्तीति केवले || ३३ || को जगद्रत्नकोशः स्यात् इत्यस्योत्तरं पुनराह - अणुत्वमिति | समुद्गकः संपुटकः | कस्य कोशी मणेर्जगत् इत्यस्योत्तरमाह - मात्रित्यादिसार्धेन || ३३ || स एव सर्वजगति सर्वत्र कचति स्फुटम् | यदा जगत्समुद्रेऽस्मिंस्तदासौ [जगत्समुद्रे इति पाठः] परमो मणिः || ३४ || दुर्बोधत्वात्तमः सोऽणुश्चिन्मात्रत्वात्प्रकाशदृक् | सोऽस्ति संवित्तिरूपत्वादक्षातीतस्तथा न सन् || ३५ || कोऽणुस्तमःप्रकाशः स्यात् इत्यस्योत्तरमाह - दुर्बोधत्वादिति | कोऽणुरस्ति च नास्ति च इत्यस्योत्तरमाह - सोऽस्तीति || ३५ || दूरे सोऽनक्षलभ्यत्वाच्चिद्रूपत्वान्न दूरगः | सर्वसंवेदनाच्छैलो ह्यसावेवाणुरेव सन् || ३६ || कोऽणुर्दूरेऽप्यदूरे च इत्यस्योत्तरमाह - दूरे स इति | कोऽणुरेव महागिरिः इत्यस्योत्तरमाह - सर्वसंवेदनादिति | विनैव करणं सर्वैरप्यहमहमिति पुरोवर्तिशैल इवापरोक्षतया संवेदनादिति त्वयोक्त इत्यर्थः || ३६ || तत्संवेदनमात्रं यत्तदिदं भासते जगत् | न सत्यमस्ति शैलादि तेनाणावेव मेरुता || ३७ || तत्राणुरेव सन् इत्यंशस्य तात्पर्यमाह - तत्संवेदनेति || ३७ || निमेषप्रतिभासो [निमेषकृतिभासः इति पाठः] हि निमेष इति कथ्यते | कल्पेति प्रतिभासो हि कल्पशब्देन कथ्यते || ३८ || निमेष एव कः कल्प इत्यस्योत्तरमाह - निमेषेत्यादिनवभिः || ३८ || कल्पक्रियाविलासो हि निमेषः प्रतिभासते | बहुयोजनकोटिस्थं मनस्येव महापुरम् || ३९ || उक्तार्थमुपपादयति - कल्पेति | निमेष एव कल्पे यावन्त्यः क्रियास्तैर्विलसतीति कल्पक्रियाविलासः प्रतिभासत इत्यर्थः | अल्पान्तर्विस्तृतस्य प्रतिभासे दृष्टान्तमाह - वह्विति || ३९ || निमेषजठरे कल्पसंभवः समुदेति हि | महानगरनिर्माणं मुकुरेऽन्तरिवामले || ४० || तदसंभावनावारणाय दृष्टान्तान्तरमाह - निमेषेति | मुकुरे दर्पणे || ४० || निमेषकल्पशैलादिपूरयोजनकोटयः | यत्राऽणावेव विद्यन्ते तत्र द्वैतैक्यते कुतः || ४१ || निमेषाः कल्पाः शैलादिपूरा योजनकोटयश्च स्वसत्यत्वे विरोधादाश्रय भेदका यत्राऽणावतिसूक्ष्मेऽपि विद्यन्ते मिथ्यात्वमालम्ब्य समाविशन्ति तत्र द्वैतैक्ययोरपि तथैव मिथ्यात्वेनैव समावेशादित्यर्थः || ४१ || कृतवान्प्रागिदमहमिति बुद्धावुदेति हि | क्षणात्सत्यमसत्यं च दृष्टान्तः स्वप्नविभ्रमः || ४२ || सत्यं व्यावहारिकमसत्यं प्रातिभासिकं च || ४२ || दुःखे कालः सुदीर्घो हि सुखे लघुतरः सदा | रात्रिर्द्वादशवर्षाणि हरिश्चन्द्रस्य चोदिता || ४३ || उक्तेऽर्थे लोकानुभवमाख्यायिकां चोदाहरति - दुःख इति | उदिता आविर्भूता || ४३ || निश्चयो य उदेत्यन्तः सत्यात्मा सत्य एव च | हेम्नीव कटकादित्वं स एव चिति राजते || ४४ || चित्तवृत्त्यनुसारेणैव चितः प्रतिभासो न वस्तुवृत्तानुसारेणेत्याह - निश्चय इति || ४४ || न निमेषोऽस्ति नो कल्पो नादूरं न च दूरता | चिदणुप्रतिभैवैवं स्थितान्यान्यान्यवस्तुवत् [नान्यान्यवस्तुवत् इति पाठः] || ४५ || किं तर्हि वस्तुवृत्तं तदाह - नेति || ४५ || प्रकाशतमसोर्दूरादूरयोः क्षणकल्पयोः | एकचिद्देहयोरेव न भेदोऽस्ति मनागपि || ४६ || एवमन्येष्वपि विरुद्धेष्वधिष्ठानचिदभेदादेव भेदो नेत्याह - प्रकाशेति || ४६ || प्रत्यक्षमक्षसारत्वादप्रत्यक्षं ततोऽतिगम् | दृश्यत्वेनैष वोदेति चेता द्रष्टैव सद्वपुः || ४७ || किं प्रत्यक्षमसद्रूपम् इति प्रश्नस्योत्तरमाह - प्रत्यक्षमिति | अक्षाणां बाह्यान्तरकरणानां सारत्वात्स्वस्वविषयापरोक्षप्रथानिर्वाहकत्वात् | ततोऽतिगं तदविषयः | अथवा प्रत्यक्षादिप्रमाणगम्यदृश्यारोपेणोदयादप्यस्य प्रत्यक्षत्वमित्याह ##- प्रत्यक्ष इत्यर्थः || ४७ || यावत्कटकसंवित्तिस्तावनास्तीव हेमता | यावच्च दृश्यतापत्तिस्तावन्नास्तीव सा कला || ४८ || यदि स एव दृश्यात्मा तर्हि कुतो दृश्यस्य हेयता तत्राह - यावदिति | सा कला वास्तवी चिदेकरसता | तथाच न दृश्यरूपेण परमपुरुषार्थतेति हेयत्वमिति भावः || ४८ || कटकत्वेऽकृतेऽदृष्टे सुवर्णत्वमिवाततम् | केवलं निर्मलं शुद्धं ब्रह्मैव परिदृश्यते || ४९ || अत एव दृश्यात्मना अकल्पने कल्पितस्य वा अदर्शने तस्य ब्रह्मरूपत्वात्पुरुषार्थतेत्याशयेनाह - कटकत्वे इति | अकृते अदृष्टे चेति च्छेदः || ४९ || सर्वत्वादेव सद्रूपो दुर्लक्ष्यत्वादसद्वपुः | चेतनश्चेतनात्मत्वाच्चेत्यासंभवतस्त्वचित् || ५० || असद्रूपमिति प्रश्नांशाशयमाह - सर्वत्वादिति | सर्वानुविद्धसद्रूपेण प्रथनात्सद्रूपः | निष्कृष्टरूपेण दुर्लक्ष्यत्वाच्चासद्वपुरसद्रूपः | असद्वा इदमग्र आसीत्ततो वै सदजायत इति श्रुतौ तथा व्यवहारदर्शनादित्याशयः | किं चेतनमचेतनम् इति प्रश्नोत्तरमाह - चेतन इति | अचित् अचेतन इत्युक्तस्त्वयेत्यर्थः || ५० || प्. ३२३) १९५ चिच्चमत्कारमात्रात्मन्यस्मिंश्चित्प्रतिभात्मनि | जगत्यनिलवृक्षाभे चिच्चेत्यकलने कुतः || ५१ || चेत्याभावमुपपादयति - चिच्चमत्कारेत्यादिना | चित्प्रतिभात्मनि चित्प्रतिभारूपे अनिललोलितवृक्षवदस्थिरे अनिलमयवृक्षवदत्यन्तासति च | चिच्चेत्यकलने चैतन्याश्रयविषयताकल्पने || ५१ || यथा तापस्य पीनस्य भासनं मृगतृष्णिका | एवं पीवरमद्वैतं तथा चिद्भासनं जगत् || ५२ || चिच्चमत्कारमात्रे दृष्टान्तमाह - यथेति | तापस्य आतपस्य | पीनस्य प्रचुरस्य || ५२ || अर्कांशुभिः सूक्ष्मतरनिर्माणं यदनामयम् | अस्तितानास्तिते तत्र कल्पादेरिव कैव धीः || ५३ || यथा अर्करश्मिभिर्वक्ष्यमाणकाञ्चनादिनिर्माणं तत्र निर्माणे अस्तितानास्तिते ब्राह्मकल्पादिरूपस्य जगत इवेत्यसत उपमाभूतस्य असत्त्वं स्फुटमेव | एवंच चिच्चेत्यभेदधीः कैव | निर्विषयेत्यर्थः || ५३ || माययांशुकणाङ्के खे यथा कचति काञ्चनम् | तथा जगदिदं भाति चिच्चेत्यकलने कुतः || ५४ || मायया अविद्यया यथा अंशुकणाङ्के सूर्यांशुलेशाञ्चिते खे आकाशे काञ्चनं कचति प्रथते || ५४ || स्वप्नगन्धर्वसंकल्पनगरे कुड्यवेदनम् | न सन्नासद्यथा तद्वद्विद्धि दीर्घभ्रमं जगत् || ५५ || तथा चैवंविधन्यायभावनाभ्यासनिर्मलात् | चिदाकाशेन निर्याति यथा भूतार्थदर्शिनः || ५६ || अस्त्वेवं जगद्भ्रान्तिसिद्धं किं ततस्तत्राह - तथाचेति | तथाच एवंविधानां मिथ्यात्वोपपादकन्यायानां पुनःपुनर्भावनालक्षणेनाभ्यासेन निर्मलान्मनसो यथाभूतार्थदर्शिनः पारमार्थिकं ब्रह्म दृष्टवतः पुंसोऽविद्यानाशे सति चिदाकाशे पुनः संसारो न निर्याति पुनरावृत्तिर्नास्तीति सिद्धमित्यर्थः | अथवा न्यायपरिष्कृततत्त्वदृशा सृष्टिरेव नाभूदित्यर्थः || ५६ || न कुड्याकाशयोर्भेदो दृश्यसंवेदनादृते | आब्रह्मजीवकलनाद्यद्रूढं रूढमेव च || ५७ || अथवा विषयरूपभेदकसंवेदनमेदादेव भिन्नमिव न वस्तुतस्तथैव आब्रह्मस्तम्बपर्यन्तनिरूढजीवानुभवादित्याह - नेति || ५७ || प्रतिभासाच्चिदाकाशे सत्त्वशून्यं भवन्ति ताः | प्रकचन्ति ह्यनिर्भाव्याः प्रभापिण्ड इव प्रभाः || ५८ || यदि न भेदस्तर्हि कथं कुड्यादिभेदकलना जायन्ते तत्राह - प्रतिभासादिति | ताः कलनाः सत्त्वशून्यं यथा स्यात्तथा भवन्तीत्यर्थः | अत्यन्तासत्त्वे खपुष्पवद्भानानुपपत्तेराह - अनिर्भाव्या इति | यौक्तिकदृशा अनिर्वचनीया इत्यर्थः || ५८ || पृथक्तामतिभासस्य स्वचमत्कारयोगतः | सर्वात्मिका हि प्रतिभा परा वृक्षात्मबीजवत् || ५९ || एवं सोपपत्ति प्रासङ्गिकं किं चेतनमचेतनम् इति प्रश्नोत्तरमुक्त्वा शिष्टानां प्रश्नानामुत्तरं राजार्थे परिशेषयंस्तदज्ञानशङ्कानिवृत्तये तेष्ववयुत्य द्वित्राणामुत्तरं विवक्षुर्द्वैतमिथ्यात्वोपवर्णनप्रसञ्जितं द्वैतमप्यपृथक्कस्मात् इत्यस्योत्तरमाह - पृथक्तेति | पृथक्तासंस्कारसंस्कृताया मतेर्बुद्धिवृत्तेर्यो भासोऽन्तर्गत आत्मप्रकाशस्तस्य यः स्वचमत्कारः पृथक्ताप्रकटनशक्तिलक्षणस्तद्योगतो द्वैतं प्रतिभातमपि अपृथगेवेत्यर्थः | तत्र हेतुमाह - सर्वात्मिकेति | प्रतिभा आत्मप्रकाशः || ५९ || बीजमन्तस्थवृक्षत्वं नानाऽनाना यथैकदृक् | तथाऽसंख्यजगद्ब्रह्म शान्तमाकाशकोशवत् || ६० || वृक्षात्मबीजवदिति दृष्टान्तं विवृण्वन् कोऽन्तर्बीजमिवान्तस्थं स्थितः कृत्वा त्रिकालगः इत्यस्योत्तरमाह - बीजमिति | एकदृक् एकरूपं बीजं नाना पृथग्भूतं अनाना अपृथग्भूतं च अन्तस्थवृक्षत्वं अन्तर्गतवृक्षाकारं कृत्वा स्थितं तथा ब्रह्माप्यसंख्यजगदित्यर्थः || ६० || बीजस्यान्तस्थवृक्षस्य व्योमाद्वैता स्थितिर्यथा | ब्रह्मणोऽन्तस्थजगतः साक्षित्वाच्चित्स्थितिस्तथा || ६१ || आकाशकोशवदित्युक्तेस्तात्पर्यं स्फुटयति - बीजस्येति | व्यधिकरणे षष्ठ्यौ | बीजान्तर्गतवृक्षस्यातिसूक्ष्मत्वात्स्थितिर्यथा व्योमाद्वैता आकाशतुल्या तथा ब्रह्मान्तर्गतजगतोऽप्यात्मसाक्षित्वात्तत्साक्षिणः पृथगनुपलम्भाच्चिद्रूपेणैव स्थितिरिति चितिभेदकाभावादाकाशकोशसाम्यमित्यर्थः || ६१ || शान्तं समस्तमजमेकमनादिमध्यं नेहास्ति काचन कलाकलना कथंचित् | निर्द्वन्द्वशान्तमतिरेकमनेकमच्छ- माभासरूपमजमेकविकासमास्ते || ६२ || एतावतैव सर्वप्रश्नानामुत्तरमुक्तप्रायमिति सूचयन्सर्वप्रश्नपरमतात्पर्यविषयाद्वितीयचिन्मात्रपरमार्थस्थितिप्रदर्शन् एनोपसंहरति - शान्तमिति | निर्द्वन्द्वैः शान्तमतिभिरेव रिच्यते मायातत्कार्यमलनिरासेन परिशोध्यत इति निर्द्वन्द्वशान्तमतिरेकम् | अनेकमेकत्वाख्यगुणेनापि शून्यम् | एकमेव परितो निरङ्कुशं विकसति बृहत्तमत्वादित्येकविकासम् | आभासरूपं चिन्मात्रमास्ते परमार्थत इत्यर्थः | अजपदाभ्यां जन्मादिविकाराणां तद्वतां च निरासः || ६२ || इत्यार्षे श्रीवासिष्ठमहारामायणे मोक्षोपायेषुत्पत्तिप्रकरणे क० प्रश्नभेदनं नामाशीतितमः सर्गः || ८० || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे प्रश्नभेदनं नामाशीतितमः सर्गः || ८० || प्. ३२४) १९६ एकाशीतितमः सर्गः ८१ राक्षस्युवाच | अहो नु परमार्थोक्तिः पावनी तव मन्त्रिणः | राजा राजीवपत्राक्ष इदानीमेष भाषताम् || १ || इह राजाऽवशिष्टानां प्रश्नानामुत्तरं क्रमात् | वदन्वक्ति विशेषज्ञो युक्तिमुक्तेष्वपि क्वचित् || १ || मन्त्रिवचनचमत्कारदर्शनादेव राज्ञोऽपि तत्त्वज्ञत्वे परिज्ञातेऽपि राजोक्तौ चमत्कारातिशयं संभाव्य श्रोतुकामा राक्षस्युवाच - अहो इति || १ || राजोवाच | जागतप्रत्ययाभावो यस्याहुः प्रत्ययं परम् | सर्वसंकल्पसंन्यासश्चेतसा यत्परिग्रहः || २ || राजा च तदभिप्रायमालक्ष्य सर्वप्रश्नमुख्यतात्पर्यविषयं ब्रह्म विरोधाभासोक्तिमुखचमत्कारातिशयेन दर्शयति - जागतेत्यादिचतुर्भिः | अवस्थात्रयदर्शनलक्षणस्य जागतप्रत्ययस्याभावो बोधलक्षणा निवृत्तिरेव स्वतःस्फुरदधिष्ठानरूपतुरीयलक्षणा यस्य दर्शनमित्यर्थः | स च तदेकनिष्ठतारूपेण तत्परिग्रहेण भवतीति तत्परिग्रहं लक्षणेन दर्शयति - सर्वेति || २ || यत्संकोचविकासाभ्यां जगत्प्रलयसृष्टयः | निष्ठा वेदान्तवाक्यानामथ वाचामगोचरः || ३ || यस्य मायिकाभ्यां संकोचविकासाभ्याम् | वाचामगोचरो य इति शेषः || ३ || कोटिद्वयान्तरालस्थं मध्ये कोटिद्वयीमयम् | यस्य चित्तमयी लीला जगदेतच्चराचरम् || ४ || सत्त्वासत्त्वभानाभानकोटिद्वयस्यान्तरालस्थमनिर्वचनीयमित्यर्थः | अत एवाद्यन्तयोरसत्कोट्यैव ग्रस्तत्वेऽपि मध्ये दैशिकपरिच्छेदेन क्वचिदस्ति क्वचिन्नास्तीति कोटिद्वयीमयम् | एवमाद्यन्तयोरभानग्रस्तत्वेऽपि मध्ये तत्तदिन्द्रिययोग्यरूपेण भाति रूपान्तरेण तत्त्वतश्च न भातीति मध्ये कोटिद्वयीमयम् | अत एव सदसत्संधिरूपस्य चिज्जडसंधिरूपस्य च हिरण्यगर्भात्मकस्य यदीयचित्तस्य विकारत्वाल्लीलाभूतमेतज्जगदित्यर्थः || ४ || यस्य विश्वात्मकत्वेऽपि खण्ड्यते नैकपिण्डता | सन्मात्रं तत्त्वया भद्रे कथ्यते ब्रह्म शाश्वतम् || ५ || एकपिण्डता अखण्डवस्तुता | कथ्यते पृच्छ्यते || ५ || एषोऽणुर्वेदनाद्वायुः स्वभ्रान्तिर्दृगदृश्यत [भ्रान्तिदृगदृश्यत इति पाठः साधुः] | अतो न किंचिद्वायवादि केवलं शुद्धचेतनम् || ६ || मन्त्र्युक्तशिष्टेषु प्रथमं कश्च वायुरवायुश्च इति प्रश्नं समाधत्ते ##- [स्वात्मन्येवेत्यादिफलितार्थकथनम्] वायुत्ववेदनाद्भ्रान्तिरन्यथाग्रहो यस्य तथाविधः सन् वायुरदृश्यत | परमार्थतस्त्ववायुरेवेत्याह - अत इति || ६ || शब्दसंवेदनाच्छब्दः शब्दस्य भ्रान्तिदर्शनम् | ततोऽत्र शब्दशब्दार्थदृष्टेर्दूरतरं गतः || ७ || कः शब्दोऽशब्द एव चेत्यस्याप्येवमेवोत्तरं बोध्यमित्याह - शब्देति || ७ || सोऽणुः सर्वं न किंचिच्च सोऽहं नाहं स एव च | सर्वशक्यात्मनोऽस्यैव प्रतिभैकात्र कारणम् || ८ || कः सर्व नच किंचिच्च इत्यस्योत्तरमाह - सोऽणुरिति | कोऽहं नाहं च किं भवेत् इत्येतत्समाधत्ते - सोऽहमिति | अहंकारनिष्कर्षे सोऽहं तद्रूपेण तु नाहम् | अथवा अहंकारतत्ताभ्यामुपलक्षणे सोहम् | ताभ्यामनुपलक्षणे तु नाहं स च नैवेत्यर्थः | एवं वास्तवावास्तववैचित्र्ये किं कारणं तदाह ##- वास्तवप्रतिभाशक्तिर्वास्तवरूपव्यक्तौ च कारणमित्यर्थः || ८ || आत्मा यत्नशतप्राप्यो लब्धेऽस्मिन्न च किंचन | लब्धं भवति तच्चैतत्परमं वा न किंचन || ९ || किं प्रयत्नशतप्राप्यम् लब्धं न किंचिद्भवति इत्यनयोरुत्तरमाह - आत्मेति | लब्धेऽस्मिन्नच किंचन इत्येतदुपपादयति - लब्धमिति | तदेतदात्मरूपत्वादेव प्रागेव लब्धं भवतीति यत्नस्तेन न सफलः | ततः परममुत्कृष्टमन्यद्वा यत्नफलं न किंचनेत्याशयेन त्वया तथा पृष्टमित्यर्थः || ९ || तावज्जन्म वसन्तेषु संसृतिव्रततिश्चिरम् | विकसत्युदितो यावन्न बोधो मूलकाषकृत् || १० || तर्हि किं ज्ञानप्रयत्नो व्यर्थ एवेति शङ्कां परिहरन् किंतु सर्वं न लभ्यते इत्यस्य तात्पर्यमाह - तावदिति | तथाच यावत्संसारमूलाज्ञाननाशो न वृत्तस्तावल्लब्धमप्यात्मतत्त्वं सर्वं पूर्णरूपं न लब्धम् | बोधेन तु पूर्णं लभ्यत इति न तद्यत्नवैयर्थ्यमित्यर्थः || १० || अणुनानेन रूपत्वं दृश्यतामिव गच्छता | तापेनाम्बुधियेवेदं स्वस्थेनैवापहारितम् || ११ || स्वस्थेन जीवितेनोच्चैः केनात्मैवापहारितः इत्यस्योत्तरमाह - अणुनेति | रूपत्वं साकारभावं प्राप्येति शेषः | तापेन मरुभूम्यातपेन | इदं वास्तवात्मरूपम् || ११ || अनेन संविदणुना मेरुस्त्रिभुवनं तृणम् | वमित्वा बहिरन्तस्थं मायात्मकमवेक्ष्यते || १२ || केनाणुनान्तः क्रियते मेरुस्त्रिभुवनं तृणम् इत्यनयोरुत्तरमाह - अनेनेति | मेरुरन्तः क्रियते त्रिभुवनं च तृणमिव क्रियत इत्यर्थः | यद्यन्तः क्रियते तर्हि बहिः कथमवेक्ष्यते तत्राह - वमित्वेति | बहिर्वमित्वेव अन्तरेव बाह्यमिव कल्पयित्वेति यावत् || १२ || चिदणोरन्तरे यद्यदस्ति तद्दृश्यते बहिः | संकल्पेष्टालिङ्गनदिदृष्टान्तोऽत्र [संकल्पेष्वालिङ्गनादि इति पाठः] हि रागिणः || १३ || आन्तरीमपि सांकल्पिकाङ्गनां तदालिङ्गनं च बाह्यसंस्कारबीजत्वाद्बहिरिव पश्यामीति रागिणामनुभवादित्यर्थः || १३ || प्. ३२५) १९६ आदिसर्गे सर्वशक्तिश्चिद्यथैवोदितात्मना | तथाशु पश्यत्यखिलं संकल्पे पर्वतः स्वतः || १४ || ईदृशनियमे को हेतुस्तत्राह - आदिसर्ग इति | आदिसर्गे प्रवृत्ता नियतिरेव हेतुरित्यर्थः | यथा इक्षोर्वेण्वादेर्वा प्रथमपर्वतो यादृशशाखापत्राङ्कुराद्युद्गमस्तथैव द्वितीयादिपर्वभ्योऽपीति स्वतो नियमस्तथा आदिसर्गसंकल्पे पर्वतोऽपि इदानींतनसंकल्पे स्वतो नियम इति शेषः || १४ || अभिजातस्य यस्यान्तर्यद्यथा प्रतिभासते | तत्तथा पश्यतीवासौ दृष्टान्तोऽत्र शोशोर्मनः || १५ || अभिजातस्य आविर्भूतचित्तस्य च || १६ || परमाणुतयैवापि चिन्मातेणानुनामुना | परिसूक्ष्मतमेनैव विष्वग्विश्वं प्रपूरितम् || १६ || केनाप्यणुक्रमात्रेण पूरिता शतयोजनी इत्यस्योत्तरमाह - परमाणुतयेति | देशतः परमाणुतया वस्तुतश्चिन्मात्रेणाणुना कालतः परिसूक्ष्मतमेनेति त्रिविधपरिच्छेदकल्पनस्याप्यवधिभूतेनापीत्यर्थः | विष्वक् सर्वतः || १६ || अणुरेव न मात्येष योजनानां शतेष्वपि | सर्वगत्वादनादित्वादरूपत्वादनाकृतिः || १७ || कोऽणुरेव भवन्माति न योजनशतेष्वपि इत्यस्योत्तरमाह - अणुरेवेति || १७ || यथा दूर्तेन ख्ड्गेन [खिङ्गेन इति पाठः] पुंसा बालः प्रतार्यते | सुभ्रूविकारनयननिरीक्षणविचेष्टितैः || १८ || खिड्गेन वि.एतन बालो मुग्धः स्त्रीजन शोभनैर्भ्रूविकारैर्नयनाभ्यां निरीक्षणैर्विचेष्टितैश्च प्रतार्यते वशीकृत्याकृश्यते || १८ || चिदालोकेन शुद्धेन सपर्वततृणं जगत् | नाट्यतेऽविरतं तद्वद्विवृत्त्याभिनयं सदा || १९ || यथायं दृष्टान्तस्तद्वच्चिदालोकेनापि अभिनयं व्यञ्जकचेष्टां विवृत्त्य जगन्नाट्यते सदेत्यर्थः || १९ || तेनैवानन्तरूपत्वादणुना वाससा यथा | संविदा [संविदन्तर्भवद्बाह्ये इति पाठः साधुः] तद्भवद्बाह्ये कृत्वा मेर्वादिवेष्टितम् || २० || कस्याणोरुदरे सन्ति किलावनिभृतां घटाः इत्येतत्प्रत्याह - तेनेति | यथा वाससा स्वान्तर्भवन्मेर्वादिचित्रं बाह्य इव कृत्वा वेष्टितं तद्वदित्यर्थः || २० || दिक्कालाद्यनवच्छिन्नरूपत्वान्मेरुतो बृहत् | वालाग्रशतभागात्माप्येष सूक्ष्मः परोऽनुकः || २१ || अणुत्वमजहत्कोऽणुर्मेरोः स्थूलतराकृतिः इत्यस्योत्तरमाह - दिक्कालेति || २१ || शुद्धसंवेदनाकाशरूपस्य परमाणुना | शोभते नहि साम्योक्तिर्मेरुसर्षपयोरिव || २२ || प्रतिप्रश्नमात्मन्यणुशब्दप्रयोगस्य मन्त्रिणा योऽभिप्राय उक्तः अनाख्यत्वादगम्यत्वान्मनःषष्ठेन्द्रियस्थितेः | चिन्मात्रमेवमात्माणुराकाशादपि सूक्ष्मकः || इति कर्कट्या च स एवाभिप्रेतोऽभ्युपगतश्चेति निश्चित्य राजा स्वस्य विशेषज्ञतां दर्शयितुं तं दूषयति - शुद्धेति | सौक्ष्म्यमात्रेण नापरिच्छिन्नः परिच्छेदोत्कर्षावधिपरमाणुसादृश्यमालम्ब्य गौण्याऽनुरिति व्यपदेष्टुं शक्य इति भावः || २२ || मायाकलापिनाणुत्वं निर्माय परमात्मनि | हेम्नीव कटकत्वेन नानात्र समता भवेत् || २३ || कथं तर्हि अणोरणीयान्महतो महीयान् एषोऽणुरात्मा चेतसा वेदितव्यः इत्यादिशुतिषु तथा व्यपदेश इति चेत्सर्वशक्तिमत्त्वान्महत्त्वमिवाणुत्वमपि आत्मनि मायया निर्माय स्थितत्वान्मुख्यवृत्तिरेवात्राणुशब्दो नात्र समतानिमित्तमित्याह - मायेति | मायया कलापिना भूषितेन |शबलेनेति यावत् | हेम्नि स्वनिर्मितकटकादित्वेनेव अत्र समता न भवेत् | नानेत्यनेकविनार्थयोरित्यनुशासनान्नञो नाञः स्वार्थे विधानाच्च नानाशब्दो निषेधार्थः | इत्थमेव हि वालाग्रशतभागस्य शतधा कल्पितस्य च | भागो जीवः स विज्ञेयः इत्यादिश्रुतयो वालाग्रशतभागात्मा इति त्वदुक्तिश्च समंजसेति भावः || २३ || प्रकटोऽनेन दीपेन प्रकाशोऽनुभवात्मना | स्वसत्तानाशपूर्वो हि विनानेन भवेत्ततः || २४ || कोऽणुः प्रकाशतमसां दीपः इत्यस्योत्तरमाह - प्रकट इति | यद्यनेनात्मदीपेन विनैव प्रकाशोऽन्यो वा भवेत् | ततो हि तर्हि स्वस्य सत्ताया नाशोऽदर्शनं तत्पूर्वः असन्नेव भवेदित्यर्थः || २४ || यदि सूर्यादिकं सर्वं जगदेकं जडं भवेत् | ततः किमात्मकं रूपं प्रकाशः स्यात्क्व वाथ किम् || २५ || किंचैवं सति जगदान्ध्यमपि स्यादित्याह - यदिति || २५ || शुद्धसन्मात्रचित्त्वं यत्स्वतः स्वात्मनि संस्थितम् | तदेतदणुना तेजो दृष्टं बहिरवस्थितम् || २६ || चिदणुना स्वान्तरेव तेजस्तम-आदेः कल्पितत्वादपि तस्य तदधीनः प्रकाश इत्याह - शुद्धेति | तदेतदणुना तेनैतेनाणुना || २६ || तेजांस्यर्केन्दुवह्नीनां न भिन्नानि तमोघनात् | एतावानेव भेदोऽस्ति यद्वर्णे शौक्ल्यकृष्णते || २७ || ननु अर्केन्द्वादिभिरेव प्रकाशसिद्धेः किं चिदणुना तत्राह - तेजांसीति | तमोघनात् स्वकारणाज्ञानात् | एतावानिति | जाढ्यांशे तु न भेद इत्याशयः || २७ || यादृक्कज्जलनीहारे मेघनीहारयोर्भवेत् | तादृक्प्रकाशतमसोर्भेदो नेति तयोः स्थितिः || २८ || कज्जलवर्णे नीहारे सति मेघ इति व्यपदेशान्मेघनीहारयोर्यादृग्भेदो भवेत् प्रकाशतमसोरपि तादृगेवेति तयोर्न स्वतो भेदोऽस्तीति स्थितिरित्यर्थः || २८ || जडयोरुपलम्भाय चिदादित्यः किलैतयोः | यदा तपति तेनैते लब्धसत्तैकतां गते || २९ || चिदधीनप्रकाशसत्तावत्त्वेनापि तयोर्न भेद इत्याह - जडयोरिति || २९ || तपत्येकश्चिदादित्यो रात्रिंदिवमतन्द्रितः | अन्तर्बहिः शिलाद्यन्तरप्यनस्तमयोदयः || ३० || चैतन्यस्य तु न क्वचिदप्यप्रकाशप्रसक्तिरित्याह - तपतीति || ३० || त्रिलोकी भाति तेनेयं जीवस्य प्रथितात्मनः | नानोपलम्भभाण्डाढ्या कुटी कठिनकोटरा || ३१ || नानाविधैरुपलम्भैर्भोगैर्भाण्डैस्तत्साधनैश्चाढ्या कुटीव कठिनकोटरा || ३१ || प्. ३२६) १९७ तमस्त्वं तमसो देहमविनाशयतामुना | तप्यतेऽभासया भासा सर्वमाभास्यते तमः || ३२ || ननु यद्यात्मना तमः प्रकाश्यते तर्हि तस्य तमस्त्वमेव नश्येत् नह्यप्रथास्वभावं तत्तदनाशे प्रथमानं कर्तुं शक्यमित्याशङ्क्याह - तमस्त्वमिति | अमुना अभासया स्वतत्त्वप्रतिभासशून्यया भासा चैतन्येन तमसो देहं स्वरूपभूतं तमस्त्वमविनाशयता तमस्तप्यते कार्यभावाय क्षोभ्यते | ततः सर्वजगद्भूतं तम आभास्यत इत्यर्थः || ३२ || पद्मोत्पले यथार्केण तपता प्रकटीकृते | प्रकाशतमसो सत्ते चितैवं प्रकटीकृते || ३३ || तत्सत्ताप्रकटनहेतुत्वादप्यसौ न तन्निवर्तक इत्याशयेनाह - पद्मोत्पले इति || ३३ || अर्कः कुर्वन्नहोरात्रे दर्शयत्याकृतिं यथा | चितिः सदसती कृत्वा दर्शयत्याकृतिं तथा || ३४ || सदसती आविर्भावतिरोभावलक्षणे प्रकाशतमसी || ३४ || चिदणोरन्तरे सन्ति समग्रानुभवाणवः | यथा मधुरसस्यान्तः पुष्पपत्रफलश्रियः || ३५ || कस्याणोरुदरे सन्ति समग्रानुभवाणवः इत्यस्योत्तरमाह - चिदणोरिति | यथेति | मधुकरैः पत्रफलादिरसस्याप्याहरणेन मधूत्पादनसंभवादित्याशयः | अथवा मधुरसस्य वसन्तशोभायास्तात्कालिकवृक्षादिरसस्य वा || ३५ || उद्यन्ति चिदणोरेते समग्रानुभवाणवः | मधुमासरसाच्चित्रा इव खण्डपरम्पराः || ३६ || तदेव स्पष्टमाह - उद्यन्तीति | खण्डपरम्परा वनखण्डसौन्दर्यक्रमाः || ३६ || परमात्माणुरत्यन्तनिःस्वादुः सूक्ष्मतावशात् | समग्रस्वादुसत्तैकजनकः स्वदते स्वयम् || ३७ || कोऽणुरत्यन्तनिस्वादुरपि संस्वदतेऽनिशम् इत्यस्योत्तरमाह - परमात्मेति || ३७ || यो यो नाम रसः कश्चित्समस्तोऽप्यप्स्ववस्थितः | प्रतिबिम्बमिवादर्शे तं विना नास्त्यसौ स्वतः || ३८ || सर्वजलान्तर्गतरसाविर्भावस्यात्मनिमित्तत्वादपि स स्वदत इति वक्तुं शक्यमित्याह - यो य इति | असौ रसः || ३८ || त्यजता संस्थितं सर्वं चिन्मात्रपरमाणुना | त्यक्तं जगदसंवित्त्या संवित्त्या सर्वमाश्रितम् || ३९ || केन संत्यजता सर्वमणुना सर्वमाश्रितम् इत्यस्योत्तरमाह - त्यजतेति | असंवित्त्या अस्फुरणेन || ३९ || अशक्तया स्वात्मगुप्तौ सर्वमाच्छादितं जगत् | चित्ताणुतामेव [चिताणुतां इति पाठः] परां संप्रसार्य वितानवत् || ४० || केनात्माच्छादनाशक्तेनाणुनाच्छादितं जगत् इत्येतस्योत्तरमाह - अशक्तयेति | गुप्तौ परिच्छिद्य तिरोधाने || ४० || आत्मगुप्तौ न शक्नोति परमात्माम्बराकृतिः | मनागपि क्षणमपि गजो दूर्वावने यथा || ४१ || उक्तस्याशयं स्फुटमाह - आत्मगुप्ताविति || ४१ || तथाप्याक्रान्तवान्विश्वं ज्ञातो गोपायति क्षणात् | जगद्धानाकणं बाल इवाहो घनमायिता || ४२ || जगत् जगदन्तःपातिजीवजातं ज्ञातः सन् स्वात्मलाभेन गोपायति रक्षति यथा बालो ज्ञातः प्रबुद्धः सन् धानाकणं गोपायति न सुप्तस्तद्वत् | नन्वीदृशस्वप्रकाशपूर्णात्मनः कथं बालवत् स्वात्मविस्मृतिस्तत्राह ##- चिन्मात्रानुनयेनेदं जगत्सन्नपि जीवति | वसन्तरसबोधेन विचित्रेव वनावली || ४३ || जगल्लये न कस्याणोः सद्भूतमपि जीवति इत्यस्योत्तरमाह - चिन्मात्रानुनयेनेति | सन्नपि सन्नमपि जगत् | छान्दसो मलोपः | प्रलयेन लीनमपीत्यर्थः | चिन्मात्रस्यानुनयेनावलम्बेन जीवति | प्रलयेऽपि चित्सत्तयैव जगत्संस्कारशेषं तिष्ठतीत्यर्थः | वसन्तकाले पल्लवादिहेतुरसोद्बोधेन निमित्तेन || ४३ || चित्तसत्तैवमखिलं स्वतो जगदिवोदितम् | मधुमासरसोल्लासाच्चित्रो हि वनखण्डकः || ४४ || यदि प्रलये सर्गे च ब्रह्मसत्तयैव जगज्जीवति तर्हि सर्गे को विशेषो येनाविर्भवतीत्याशङ्क्याह - चित्तसत्तेति | प्रलये च न चित्तसत्ता पृथगस्तीति विशेष इति भावः || ४४ || सत्यं चिन्मयमेवेदं जगदित्येव विद्ध्यलम् | वसन्तरसमेव त्वं विद्धि पल्लवगुल्मकम् || ४५ || सर्वावयविसारत्वात्सहस्रकरलोचनः | परमाणुरसावेव नित्यानवयवोदयः || ४६ || एवंच न चिज्जगतोस्तत्त्वतो भेद इत्याह - सत्यमिति || ४५ || ४६ || निमेषांशावबोधो हि चिदणोः प्रतिभासते | यतः कल्पसहस्रौघः स्वप्ने वार्धकबाल्यवत् || ४७ || अजातावयवः कोऽणुः सहस्रकरलोचनः इत्यस्योत्तरमाह - सर्वेति | सर्वे येऽवयविनश्चतुर्विधा भूतग्रामास्तत्सारत्वात्तदात्मत्वादित्यर्थः | को निमेषो महाकल्पः कल्पकोटिशतानि च इत्यस्योत्तरमाह - निमिषेति | इदं च लीलोपाख्यानेन दर्शितमेव || ४७ || ततः सोऽपि निमेषोणुः कल्पकोटिशतान्यलम् | सर्वसत्ताविलासेन प्रतिभैका विजृम्भते || ४८ || अभुक्तवत्येव यथा भुक्तवानहमित्यलम् | जायते प्रत्ययस्तद्वन्निमेषे कल्पनिश्चयः || ४९ || अभुक्त्वा भुक्तवानस्मीत्येवं प्रत्ययशालिनः | दृश्यन्ते वासनाविष्टाः [वासनानिष्ठा इति पाठः] स्वप्ने स्वमरणं यथा || ५० || जगन्ति परितिष्ठन्ति परमाणौ चिदात्मनि | प्रतिभासाः प्रवर्तन्ते तत एव हि जागताः || ५१ || अणौ जगन्ति तिष्ठन्ति कस्मिन्बीज इव द्रुमे इत्यस्योत्तरमाह - जगन्तीति || ५१ || यदस्ति यत्र तत्तस्मात्समुदेति तदेव तत् | आकारिणि विकारादि दृष्टं न गगनेऽमले || ५२ || यद्यत्रास्ति तत्ततः समुदेति यथा स्तम्भात्पुत्रिका तदेव च तद्भवति || ५२ || प्. ३२७) १९७ चिति भूतानि भूतानि वर्तमानानि संप्रति | भविष्यन्ति च भूतानि सन्ति बीजे द्रुमा इव || ५३ || बीजानि निष्कलान्तानि इत्यादेस्तात्पर्यमाह - चितीति | भूतान्यतीतानि संप्रति वर्तमानानि अग्रे भविष्यन्ति च भूतानि चिति सदा तिष्ठन्तीत्यर्थः || ५३ || निमेषकल्पावेतेन तुषेणान्नकणाविव | वलिता वेषचेत्याभ्यामणुः स्वात्माङ्गकं श्रितः || ५४ || कल्पः कस्य निमेषस्य बीजस्येवान्तरस्थितः इत्यस्य तात्पर्यमाह - निमेषेति | अन्नकणौ तण्डुलतदवयवौ तुषेण व्रीहित्वचेव वलितौ परितो वेष्टितौ | एषोऽणुश्चेत्याभ्यां कल्पनिमेषाभ्यां स्वात्माङ्गकं स्वैकदेशं श्रित आश्रितः | विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् इति भगवद्वचनादिति भावः || ५४ || उदासीनवदासीनो न संस्पृष्टो मनागपि | एष भोक्तृत्वकर्तृत्वैः स्वात्मा सर्वजगत्यपि || ५५ || कः प्रयोजनकर्तृत्वमप्यनाश्रित्य कारकः इत्यस्योत्तरमाह - उदासीनवदित्यादिना || ५५ || जगत्सत्तोदिते यं हि शुद्धचित्परमाणुतः | परमाणोश्च भोक्तृत्वकर्तृत्वे केवलं स्थिते || ५६ || केवलं विनैव क्रियाभोगसंबन्धं स्थिते || ५६ || जगन्न किंचित्क्रियते सर्वदैव न केनचित् | विलीयते च नो किंचिन्मानुष्याद्दृश्यखण्डनम् || ५७ || कुतो न क्रियाभोगसंबन्धस्तत्राह - जगदिति | क्रियाविषयस्यान्त्यतासत्त्वादित्यर्थः | किमर्थं तर्ह्यसतो दृश्यस्य खण्डनं वेदान्तेषु क्रियते तत्राह - मानुष्यादिति | मनुष्यभावाद्व्यावहारिकयौक्तिकदृग्वशान्न परमार्थदृष्टिबलादित्यर्थः || ५७ || सर्वं समसमाभासमिदमाकाशकोशकम् | जगत्तयोपशब्दं च विद्ध्यनाद्यं निशाचरि || ५८ || कीदृशी तर्हि परमार्थदृष्टिस्तां दर्शयति - सर्वमिति | जगत्तया उपशब्दं शब्दमात्रेण व्यवहृतम् | वाचारम्भणं विकारो नामधेयं इति श्रुतेरिति भावः || ५८ || चिदणुर्दृश्यसिद्ध्यर्थमान्तरीं चिच्चमत्कृतिम् | बहीरूपतया धत्ते स्वात्मनि परिसंस्थिताम् || ५९ || दृश्यसंपत्तये द्रष्टा स्वात्मानं दृश्यतां नयन् | दृश्यं पश्यन्स्वमात्मानं को हि पश्यत्यनेत्रवात् || इति प्रश्नस्योत्तरमाह - चिदणुरिति | चिच्चमत्कृतिं चिद्व्याप्तमायाशक्तिम् | बहीरूपतया बाह्यप्रपञ्चतया || ५९ || एतद्बहिष्ठमन्तस्थमस्ति शब्दे न वस्तुनि | उपदेशाय सत्त्वानां चिद्रूपत्वाज्जगत्त्रये || ६० || ननु तदेतद्ब्रह्मापूर्वमनपरमनन्तरमबाह्यम् इति श्रुत्या अन्तर्बहिर्भेदशून्यत्वेनावगते ब्रह्मणि कथमुच्यते आन्तरीं चिच्चमत्कृतिं बहीरूपतया धत्ते इति तत्राह - एतदिति | बहिष्ठमन्तस्थमित्येतज्जगत्त्रये सत्त्वानामधिकारिप्राणिनामुपदेशाय कल्पितं शब्दे एवास्ति न वस्तुनि | तस्य चिदेकरूपत्वादित्यर्थः || ६० || द्रष्टाऽदृष्टपदं गच्छन्नात्मनां संप्रपश्यति | नेत्रदृश्याभिपातीव सदेवासदिव स्थितम् || ६१ || दृश्यतां नयन्नित्यन्तस्य तात्पर्यमुक्त्वा प्रश्नशेषस्य तदाह - द्रष्टेति | नित्यापरोक्षोऽप्यात्मा अविद्यानावृतत्वादन्तःकरणावच्छेदेन सदैव स्फुरंस्तदभिमानेन द्रष्टा बहिर्विषयावच्छेदेनावृतत्वाददृष्टं पदं विषयं नेत्रदृश्याभिपातीव भूत्वा नेत्रद्वारा निर्गतान्तःकरणप्रणाड्या बहिर्गच्छन् सदेवात्मरूपमसद्घटादिरूपमिव स्थितमात्मानं संप्रपश्यति स्वात्मचितैव प्रकाशयति न नेत्रेण तस्य द्वारमात्रत्वादित्यनेत्रवानित्युक्तमित्यर्थः || ६१ || नच गच्छति दृश्यत्वं द्रष्टा ह्यसदवास्तवम् | आम्तन्येव न यत्किंचित्तत्तामेति कथं परः || ६२ || सदेवासदिव स्थितम् इत्येतदुपपादयति - नचेति | कुतो न गच्छति तत्राह - आत्मनीति | सतोऽसद्रूपेण भवितुमशक्यत्वादिति भावः || ६२ || दृगेव लोचने सा च वासनान्तं निजं वपुः | बहीरूपतया दृश्यं कृत्वा द्रष्टृतयोदिता || ६३ || एवं द्रष्टृतापि मिथ्यादृश्यसापेक्षत्वान्मिथ्यैवेत्याह - दृगेवेति | न चक्षुषी लोचने द्वारमात्रत्वात्किंतु दृक् अपरोक्षात्मचैतन्यमेव लोचने | चक्षुषश्चक्षुः इति श्रुतेः | सा च दृक् आविर्भावादारभ्य पुनस्तिरोभावेन वासनाभावान्तं दृश्यं कृत्वा तद्द्रष्टृतया स्वयमुदिता आत्मानं कल्पितवतीत्यर्थः || ६३ || न विना द्रष्टृतामस्ति दृश्यसत्ता कथंचन | पितृतेव विना पुत्रं द्वितेवैक्यपदं विना || ६४ || एवंच परस्परसापेक्षकल्पनयोर्द्वयोरपि मिथ्यात्वमित्याह - न विनेत्यादिना || ६४ || द्रष्टैव दृश्यतामेति न द्रष्टृत्वं विनास्ति तत् | विना पित्रेव तनयो विना भोक्रेव भोग्यता || ६५ || द्रष्टुर्दृश्यविनिर्माणे चित्त्वादस्त्येव शक्तता | कनकस्यावदातस्य कटकादिकृताविव || ६६ || दृश्यस्य द्रष्टृनिर्माणे जडत्वान्नास्ति शक्तता | कटकस्य तु हैमस्य यथा कनकनिर्मितौ || ६७ || चेतनादृश्यनिर्माणं चित्करोत्यसदेव सत् | अकारणं मोहहेतुं हेमेव कटकभ्रमम् || ६८ || चिद्यतश्चेतना चेत्यप्रकाशनादिसमर्था अतो दृश्यनिर्माणं करोति | मोहहेतुमज्ञानमात्रहेतुकम् || ६८ || कटकत्वावभासे हि यथा हेम्नो न हेमता | सत्येव प्रकचत्येवं द्रष्टृदृश्यस्थितौ वपुः || ६९ || यदि द्रष्टैव दृश्यतां गच्छति तर्हि द्रष्टैवेदमिति दृश्यं कुतो न विभाव्यते तत्राह - कटकत्वेति | न हेमता सत्येव स्फुटं कचति कल्पितव्या मूढबुद्धौ सत्यास्फुरणात् | एवं दृश्यात्मना द्रष्टुः स्थितौ द्रष्टृवपुर्न कचतीत्यर्थः || ६९ || द्रष्टा दृश्यतया तिष्ठन्द्रष्टृतामुपजीवति | सत्यां कटकसंवित्तौ हेम काञ्चनतामिव || ७० || तर्हि द्रष्टुरस्फुरणे तन्निरपेक्षसत्ताकमेव किं न स्यादिति चेत्तदुपजीवकताभावप्रसङ्गान्नैवमित्याशयेनाह - द्रष्टेति | सत्यां पूर्वसिद्धां काञ्चनतामिव || ७० || प्. ३२८) १९८ एकस्मिन्प्रतिभासे हि न सत्ता द्रष्टृदृश्ययोः | पुंप्रत्ययप्रकचने क्व पशुप्रत्ययोदयः || ७१ || कटकत्वावभासे हि यथा हेम्नो न हेमता सत्येव प्रकचतीत्येतदयुक्तं कटकमिदं हेमेति सामानाधिकरण्यप्रत्यये उभयसत्त्वप्रतिभासादेवमहं द्रष्टेति प्रत्ययेऽपीति चेत्तत्राह - एकस्मिन्निति | यथा दूरस्थे विषये पुमान्पशुर्वेति संशये पुंस्प्रत्ययकोटौ न पशुत्वं प्रतिभासते पशुप्रत्ययांशे च न पुंस्त्वम् एवं सामानाधिकरण्यप्रत्ययेऽपि नोभयांशस्यैकप्रत्ययप्रमेयतासंभव इत्यर्थः || ७१ || दृश्यं पश्यन्स्वमात्मानं न द्रष्टा संप्रपश्यति | द्रष्टुर्हि दृश्यतापत्तौ सत्ताऽसत्तेव तिष्ठति || ७२ || बहिर्मुखतया हि दृश्यं पश्येदन्तर्मुखतया च द्रष्टारम् नचोभयमुखता चितो युगपत्संभवतीत्याशयेनाह - दृश्यमिति | सत्ता द्रष्टृसत्ता | असत्तेव असतीवेति यावत् || ७२ || बोधाद्गलितदृश्यस्य द्रष्टुः सत्तेव भासते | अबुद्धे कटके स्वस्य हेम्नोऽकटकता यथा || ७३ || अन्तर्गलितदृश्यं च क आत्मानमखण्डितम् | दृश्यासंपत्तये पश्यन् पुरो दृश्यं न पश्यति || इति प्रश्नस्योत्तरमाह - बोधादिति | अबुद्धे हेमैकतत्त्वपरीक्षणे दत्तदृष्टितया उपेक्षणादप्रतिसंहिते || ७३ || दृश्ये सत्यस्ति वै द्रष्टा दृश्यं द्रष्टरि भासते | द्वयेन च विना नैकं नैकमप्यस्ति चानयोः || ७४ || दृश्यादर्शनेऽपि द्रष्टुर्दर्शनमपरिहार्यमिति कथमात्यन्तिकं दृश्यादर्शनं सिद्ध्येदित्यत आह - दृश्यते इति | द्रष्टरि सतीति शेषः | बोधाद्गलितदृश्यस्य पुंसः अनयोर्द्रष्टृदृश्ययोर्मध्ये एकमपि नास्ति | छत्रापाये छायापायवद्दृश्यापाये द्रष्टुरप्यपायाद्दृङ्मात्रपरिशेषादित्यर्थः || ७४ || सर्वं यथावद्विज्ञाय शुद्धसंविन्मयात्मना | वाचामविषयं स्वच्छं किंचिदेवावशिष्यते || ७५ || आत्मानं दर्शनं दृश्यं दीपेनेवावभासितम् | कृतं च सर्वमेतेन चिन्मात्रपरमाणुना || ७६ || आत्मानं दर्शनं दृश्यं को भासयति दृश्यवत् इत्यस्योत्तरमाह - आत्मानमिति | आत्मानं द्रष्टारम् | एतेन चिन्मात्रपरमाणुना च भासितं प्रथमानं कृतं द्रष्टादि सर्व मातृमानप्रमेयाख्यं त्रयं बुधो निगिरतीति परेणान्वयः || ७६ || मातृमानप्रमेयाख्यं बुधो निगिरति त्रयम् | हेमेव कटकादित्वमसन्मयमुपस्थितम् || ७७ || कटकादीनि हेम्नेव विकीर्णं केन च त्रयम् इति प्रश्नं प्राक्तनोक्तदृष्टान्तोपन्यासेनैवार्थात्परिहरति [प्राक्तनोक्ति इति पाठः] - हेमेति || ७७ || यथा न जलभूम्यादेः पृथक्किंचिन्मनागपि | तथैतस्मात्स्वभावाणोर्न किंचित्पृथगस्ति हि || ७८ || कस्मान्न किंचिच्च पृथक् इति प्रश्नस्योत्तरमाह - यथेति | किंचिद्भौतिकम् || ७८ || सर्वगानुभवात्मत्वात्सर्वानुभवरूपतः | एकत्वानुभवन्याये रूढे सर्वैकतास्य हि || ७९ || अपृथक्त्वं युक्त्याप्यनुभावयति - सर्वगेति || ७९ || अस्येच्छया पृथङ्गास्ति वीचितेव महाम्भसः | इच्छानुरूपसंपत्तेर्भावितार्थैकता किल || ८० || कस्येच्छया पृथक् चास्तीत्येतद्दूषयति - अस्येति | किलेति हेतौ | इच्छानुरूपस्य फलस्य संपत्तेरिच्छाभावितार्थस्य च एकता अपृथक्ता यत इत्यर्थः || ८० || दिक्कालाद्यनवच्छिन्नः परमात्मास्ति केवलः | सर्वात्मत्वात्स सर्वात्मा सर्वानुभवतः स्वतः || ८१ || दिक्कालाद्यनवच्छिन्नादेकस्मादसतः सतः | द्वैतमप्यपृथक्कस्मात् इत्यस्योत्तरमाह - दिक्कालेति द्वाभ्याम् | सः सर्वेषामात्मत्वात्सर्वमात्मा अपृथग्भूतं यस्य सर्वात्मा स्वतस्तु सर्वानुभव एव न जडः || ८१ || सन्नेष चेतनात्मत्वाद्दर्शनानवबोधतः | द्वैतैक्ये नात्र विद्येते सर्वरूपे महात्मनि || ८२ || असतः सतः इत्येतदर्थमाह - सन्नेष इति | असंदिग्धात्मसत्त्वानां चेतनानामात्मत्वात् दर्शने चक्षुरादिभिरालोचनेऽनवबोधतोऽत्रात्मनि द्वैतमैक्यं च लौकिकसद्रूपे न विद्येते इत्यसन्नित्युच्यते श्रुतौ न वास्तवासत्त्वाभिप्रायेणेत्यर्थः || ८२ || यदि कश्चिद्द्वितीयः स्यात्तदैकस्यैकता भवेत् | द्वैतैक्ययोर्मिथः सिद्धिरातपच्छाययोरिव || ८३ || ननु द्वैतं सापेक्षरूपत्वान्मिथ्यास्तु ऐक्यं तु द्वितीयनिरपेक्षत्वाद्वास्तवमेवेति तत्कथं न विद्यत इत्युच्यते तत्राह - यदीति || ८३ || यत्र नास्ति द्वितीयो हि तत्रैकस्यैकता कथम् | एकतायामसिद्धायां द्वयमेव न विद्यते || ८४ || द्वितीयव्यावर्तनाय कल्पितं संख्यारूपमपि द्वितीयसापेक्षं द्वित्वदितुल्यमेवेत्याशयेनाह - यत्रेति || ८४ || एवं स्थिते तु यस्तिष्ठंस्तत्तादृक्तदिवास्ति हि | तस्मान्न व्यतिरिक्तं तद्रूपं द्रव इवाम्भसः || ८५ || द्वैतमप्यपृथक्कस्माद्द्रवतेव महाम्भसः इत्यंशं विवृणोति - एवं स्थिते त्विति | एवं द्वैतैक्यशून्यत्वेन तत्त्वे स्थिते सति यस्तादृग्द्वैतैक्यवानिव द्वैतैक्यमिव च यस्तिष्ठन् प्रतिभासते तस्मात्तद्द्वैतैक्यरूपमम्भसो द्रवतेव न व्यतिरिक्तमित्यर्थः || ८५ || नानारम्भविभासं [विनाशं च इति पाठः] च साम्येनाक्षुब्धरूपिणः | बीजस्यान्तस्तरुरिव ब्रह्मणोऽन्तः स्थितं जगत् || ८६ || आत्मानं दर्शनं दृश्यं सदसच्च जगत्त्रयम् | कोऽन्तर्बीजमिवान्तस्थं स्थितः कृत्वा त्रिकालगः || इत्यस्योत्तरमाह - नानेति | बीजपक्षे भूजलादीनां ब्रह्मपक्षे सत्त्वरजस्तमसां साम्येन अक्षुब्धरूपिणः पूर्वावस्थातोऽप्रच्युतस्य || ८६ || द्वैतमप्यपृथक्तस्माद्धेम्नः कटकता यथा | सम्यग्बुद्धावबोधो हि द्वैतं तच्च न सन्मयम् || ८७ || सम्यगबुद्धस्यावगतवतोऽवबोधो ज्ञानात्मकमेव द्वैतम् | तच्च ज्ञानं सदेव न सन्मयम् || ८७ || यथा द्रवत्वं पयसः स्पन्दनं मातरिश्वनः | व्योम्नः शून्यत्वमेवं हि न पृथग्द्वैतमीश्वरात् || ८८ || प्. ३२९) १९८ द्वैताद्वैतोपलम्भो हि दुःखायैव क्रियात्मने | निपुणोऽनुपलम्भो यस्त्वेतयोस्तत्परं विदुः || ८९ || किर्यात्मने प्रवृत्तिसिद्धये एव न निवृत्तये || ८९ || मातृमानप्रमेयादिद्रष्टृदर्शनदृश्यता | एतावज्जगदेतच्च परमाणौ चिति स्थितम् || ९० || भूतं भवद्भविष्यच्च इत्यस्योत्तरमाह - मात्रिति | यद्भूतभव्यादि जगत् शास्त्रीयमातृमानप्रमेयं आदिपदात्प्रमितिश्चेत्येतावत् लौकिकसाधारणं तु द्रष्ट्रादित्रिपुटीत्येतावदेव नातोऽधिकमस्ति | तत्सर्वं तत्साक्षिचिति परमाणौ स्थितमित्यर्थः || ९० || अयं जगदणुर्नित्यमेतेनाणुसुमेरुणा | स्पन्दनं पवनेनेव स्वाङ्ग एव कृताकृतः || ९१ || एतेनात्मरूपेणाणुसुमेरुणा पवनेन स्पन्दनमिवायं जगल्लक्षणोऽणुः स्वाङ्गे एव बहुशः कृतः अकृत उपसंहृतश्चेत्यर्थः || ९१ || अहो नु भीमा मायेयमथवा मायिनां परा | परमाण्वन्तरेवास्ति यत्त्रैलोक्यपरम्परा || ९२ || बृहद्भ्रममित्यंशमुपपादयति - अहो इति | इयमात्मचितिर्मायाशबलत्वान्माया | अथवा मायिनां जनव्यामोहकानां परा श्रेष्ठा | यद्यस्माद्धेतोः परमाण्वन्तरेव त्रैलोक्यपरम्परास्तीति दर्पणोदरप्रतीतो गिरिरिव नास्त्येवेति बृहद्भ्रम एवेत्यर्थः || ९२ || अथासंभवमायित्वमेवैतत्सर्वदा स्थितम् | चिन्मात्रपरमाणुत्वमात्रमेव जगत्स्थितिः || ९३ || यदि तु एकमेवाद्वितीयम् इत्यादिश्रुत्या मायाया अप्यसत्त्वं तदापि जगच्चिदणुरेव न वस्त्वन्तरमस्तीति जगत्प्रत्ययो बृहद्भ्रम एवेत्याशयेनाह - अथेति | अथेति पक्षान्तरे | न संभवतीत्यसंभवं मायित्वं यस्मिंस्तथाविधमेवैतदात्मरूपं सर्वदा स्थितमिति पक्षेऽपीत्यर्थः || ९३ || अन्तर्गतजगज्जालोऽप्येषोऽणुः साम्यमत्यजन् | स्थितोऽन्तस्थबृहद्वृक्षं बीजं भाण्डोदरे यथा || ९४ || नित्यं समस्य कस्यान्तर्बीजस्यान्तरिव द्रुमः इत्यस्योत्तरमाह - अन्तर्गतेति | बीजं भाण्डोदरे यथा इति दृष्टान्तपरमाण्वाद्यन्तर्गतब्रह्मचित्यपि सर्वजगदुत्पादनशक्तिसंभृतत्वलाभाय || ९४ || बीजेऽन्तर्वृक्षविस्तारः स्थितः सफलपल्लवः | परया दृश्यते दृष्ट्या जगच्च चिदणूदरे || ९५ || बीजस्यान्तरिव द्रुमः इत्यंशं वर्णयति - बीजेऽन्तरिति द्वाभ्याम् | परया | योगपरिष्कृतया ब्राह्म्या च || ९५ || स शाखाफलपुष्पं स्वमजहद्बीजकोटरे | यथा तरुः स्थितस्तद्वद्विकासि चिदणोर्जगत् || ९६ || संस्थितं द्वैतमद्वैतं बीजकोश इव द्रुमः | जगच्चित्परमाण्वन्तर्यः पश्यति स पश्यति || ९७ || स्वमेकमजहद्रूपमुदेत्यनुदितोऽपि कः इति प्रश्ने स्वमेकमजहद्रूपमित्यंशमुपपादयितुमध्यारोपितं स्थूलसूक्ष्मादिप्रपञ्चमपवदति - संस्थितमित्यादिसार्धत्रयेण || ९७ || न द्वैतं नैव चाद्वैतं न च बीजं न चाङ्कुरः | न स्थूलं न च वा सूक्ष्मं नाजातं जातमेव च || ९८ || न चास्ति न च नास्तीदं न सौम्यं क्षुभितं न च | त्रिजगच्चिदणोरन्तः खवायवपि न किंचन || ९९ || न जगन्नाजगच्चास्ति विद्यते चित्परा शुभा | सर्वात्मिका यदा यत्र सा यथोदेति तत्तथा || १०० || उदेत्यनुदितोऽपि कः इत्यंशमुपपादयति - सर्वात्मिकेत्यादिना | सा चित् | यथा यादृशप्राग्वासनानुगुण्येन उदेति सृष्टिप्रतिभात्मना आविर्भवति || १०० || उदेत्यनुदितोऽप्येष स्वयंवेदनजृम्भितः | परमात्माणुरेकात्मा समग्रात्मतयैव खे || १०१ || स्वयंवेदनेन स्वात्मरूपेण सर्गप्रतिभासेन जृम्भितो बृंहितः जृम्भितोऽपि खे निष्प्रपञ्चस्वरूपाकाशे एकात्मा सन् समग्रात्मतयैवास्ते इत्यर्थः || १०१ || द्रुमो भूमौ स्वबीजत्वमिवोदेत्यनुदेत्यपि | परं तत्त्वं जगद्भङ्ग्या जगत्तां स्वोदयेन च || १०२ || तत्र दृष्टान्तमाह - द्रुम इति | यथा वृक्षो बीजानि जनयन् वृक्षस्वभावं अनुत् अनपनयन्स्वबीजत्वं उदेति ततो भूमौ एति प्राप्नोत्यपि तथा परं तत्त्वमपि जगद्भङ्ग्या उदेति तथा स्वोदयेन जगत्तां जन्ममरणादिकल्पनां च एति प्राप्नोतीत्यर्थः || १०२ || द्रुमो बीजतयैवाशु न संत्यक्तसमस्थितिः | तिष्ठत्यपगतस्पन्दस्त्यागात्यागपरोऽणुकः || १०३ || एतावांस्तु विशेषो यत् द्रुमो बीजतयैव संत्यक्ता समस्थितिर्येन तथाविधो विकारी न किंतु वृक्षतयापि | उभयात्मना विकारवैषम्यदर्शनात् | आत्माणुकस्तु त्यागात्यागपरः असङ्गाद्वितीयत्वात्सर्वत्यागपरः | सर्वानुगतसद्रूपत्वाच्च सर्वात्यागपरश्च सन् अपगतस्पन्दो निर्विकारः एव सदा तिष्ठतीत्यर्थः || १०३ || बिसतन्तुर्महामेरुः परमाणोरपेक्षया | दृश्यं किल विशेत्तन्तुरदृश्याक्ष्णा पराणुता || १०४ || बिसतन्तुर्महामेरुर्भो राजन्यदपेक्षया इत्यस्योत्तरमाह - बिसतन्तुरिति | परमाणोरपेक्षया स्थूलत्वादिति शेषः | तत्र युक्तिमाह - दृश्यमिति | भावप्रधानो निर्देशः | दृग्गोचरतां विशेदाविशेत् || १०४ || बिसतन्तुर्महामेरुः परमाणोः किलात्मनः | तस्यैव तद्घनाः स्वान्तः स्थिता मेर्वादिकोटयः || १०५ || दृष्टान्तोक्तं दार्ष्टान्तिकेऽप्युपपादयन् तस्य कस्योदरे सन्ति मेरुमन्दरकोटयः इत्यस्योत्तरमाह - बिसतन्तुरिति | परमाणोरप्यान्तरस्यात्मनो ब्रह्मणोऽपेक्षया बिसतन्तुरपि मेरुस्तस्यैव स्वान्तस्तद्घनाश्चिद्घनाः परमार्थस्वभावा मेरुमन्दरकोटयः स्थिताः || १०५ || एकेन तेन महता परमाणुना च व्याप्तं ततं विरचितं जनितं कृतं च | दृश्यं प्रपञ्चरचितं नभसेव विश्वं शून्यत्वमच्छमभितः परिलब्धमेव || १०६ || विरचितं जनितं कृतं चेति चतुर्धा उत्तरम् | अपञ्चीकृतभूतात्मना ततम् पञ्चीकरणेन ब्रह्माण्डभुवनात्मना विरचितम् तत्र देवनरासुरतिर्यग्भेदेन जनितम् | तेषां भोगाय तत्तद्विषयभेदेन कृतं चेत्यर्थः | यथा नभसा गन्धर्वनगरादि दृश्यं नाना वैचित्र्यप्रपञ्चेन रचितमपि अभितः अच्छं शून्यत्वं आकाशैकस्वभावतां परिलब्धमेव तद्वदित्यर्थः | एतेन किंसार एव परिवल्गसि पासि हंसि इत्येतदपि विश्वान्तर्गतत्वात्तत्सार एवेत्यर्थात्समाहितमेव || १०६ || प्. ३३०) २०० द्वैतेन सुन्दरतरं स्वमनुज्झितेन रूपं सुषुप्तसदृशेन यथावबोधात् ऐक्यं गतं स्थितिगमागममुक्तमेव- मित्थं स्थितं तनु जगत्परमार्थपिण्डः || १०७ || किंदर्शनेन न भवस्यथ वा सदैव नूनं भवसि इत्यस्योत्तरमाह - द्वैतेनेति | यदा यथास्थितात्मतत्त्वावबोधाच्चित्संभिन्नजडाविद्यामात्ररूपत्वात्सुषुप्तसदृस् हेन स्वकालेऽपि सत्तास्फूर्तिव्यवहारसिद्धये सच्चिदानन्दैकरसत्वत्सुन्दरतरं स्वं रूपमधिष्ठानात्मतत्त्वमनुज्झितेनात्यक्तवता [अत्यक्तवता इति क्वचिन्न पठ्यते] द्वैतेन स्थितिगमागमैः सत्ताक्रियातन्निवृत्तिभिर्मुक्तमैक्यं गतं प्राप्तं तदा तनु क्षुद्रं जगदित्थं परमार्थपिण्ड एव स इत्थं ब्रह्मैकस्वाभाव्येन स्थितमिति संसाररूपो न भवामि सदैवाद्वितीयब्रह्मैकरूपश्च भवामीत्यर्थः || १०७ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे कर्क० परमार्थापिण्डीकरणं नामैकाशीतितमः सर्गः || ८१ || इति श्रीवसिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे परमार्थापिण्डीकरणं नामैकाशीतितमः सर्गः || ८१ || द्व्यशीतितमः सर्गः ८२ श्रीवसिष्ठ उवाच | इति राजमुखाच्छ्रुत्वा कर्कटी वनमर्कटी | अवबुद्धपदान्तं स्वं जहौ मत्सरचापलम् || १ || ग्रसन्नया मन्त्रदानं वर्ण्यतेऽत्रानया तयोः | वध्यभोज्यार्पणं चास्यै व्युत्थितायै समाधितः || १ || अवबुद्धं ब्रह्मपदमेवान्तो मूलोच्छेदेन नाशो यस्य तथाविधं स्वं स्वजात्युचितं मत्सरचापलं जहौ || १ || अन्तःशीतलतामेत्य विश्रान्तिमपतापताम् | प्राप्ता प्रावृण्मयूरीव सज्योत्स्नेव कुमुद्वती || २ || अपतापतां अपगतबाह्यदृष्टिसंतापताम् || २ || तथा राजगिरा तस्या आनन्द उदभूद्भृशम् | गर्भेऽन्तः खे बलाकाया रवेणेव पयोमुचः || ३ || खे पयोमुचो रवेण बलाकाया अन्तर्गर्भे सतीव || ३ || राक्षस्युवाच | अहो बत पवित्रेयं भवतोर्भाति शेमुषी | अनस्तमितसारेण प्रबोधार्केण भासिता || ४ || शेमुषी बुद्धिः || ४ || शीता समरसा शुद्धा ज्योत्स्नेव शशिमण्डलात् | विवेककणिकां श्रुत्वा भवतो हृदयादियम् || ५ || शशिमण्डलात्प्रवृत्ता ज्योत्स्नेव भातीति सर्वत्रान्वयः | भवतो हृदयाद्बुद्धेः सकाशाद्वाग्द्वारा प्रसृतां विवेकामृतस्य कणिकां श्रुत्वा इयमहं भवादृशा विवेकिनो जगत्पूज्याः सेवनयोग्याश्च मुमुक्षुभिरिति मन्ये इत्युत्तरेणान्वयः || ५ || विवेकिनो जगत्पूज्याः सेव्या मन्ये भवादृशाः | सत्सङ्गात्सविकासास्मि चन्द्रेणेव कुमुद्वती || ६ || सौरभं कुसुमासङ्गादेव सत्सङ्गमाच्छुभम् | वर्तते ह्यर्कसंपर्काद्विकासोऽम्बुरुहामिव || ७ || कुसुमासङ्गादेव यथेति शेषः || ७ || महतामेव संपर्कात्पुनर्दुःखं न बाधते | को हि दीपशिखाहस्तस्तमसा परिभूयते || ८ || सकृद्विवेकबाधितं दुःखं पुनर्न बाधते || ८ || मयेमौ जङ्गलप्राप्तौ भवन्तौ भूमिभास्करौ | पूजनीयावतः शीघ्रमीहितं कथ्यतां शुभम् || ९ || पूजनीयौ इष्टार्थदानेन प्रीणनीयौ | ईहितं वाञ्छितम् || ९ || राजोवाच | अस्मिन् जनपदे रक्षःकुलकाननमञ्जरि [रक्षःकुलकाननमञ्जरि इति राक्षस्याः संबोधनम्] | जनस्य बाधतेऽत्यन्तं सदा हृदयशूलनम् || १० || यतः सर्वैव जनता तप्ता दृढविषूचिका | मण्डले ननु तेनाहं निर्गतो रात्रिचर्यया || ११ || जनता जनसमूहो दृढविषूचिका सती यतस्तप्ता संतप्ता || ११ || शूलादि हृदये नॄणां न शाम्यति यदौषधैः | ततोऽहं त्वद्विधप्रोक्तमन्त्रार्थेन विनिर्गतः || १२ || त्वद्विधैः प्रोक्तस्य मन्त्रस्य अर्थनमर्थोऽभिलाषस्तेन हेतुना || १२ || त्वादृशस्य च लोकस्य मुग्धलोकाभिघातिनः | निग्रहार्थं प्रवृत्तिर्मे सा च संपत्तिमेत्यलम् || १३ || संपत्तिमेति तत्त्वज्ञमनोरथस्य मोघत्वासंभवाद्यं यं लोकमिति प्राक्प्रदर्शितश्रुतेरिति भावः || १३ || एतावदेव च शुभे त्वयाङ्गीक्रियतां वचः | भूयो भवत्या प्राणा हि हिंसनीया न कस्यचित् || १४ || ततो मन्त्रप्राप्तिमसंभावयन्नन्यद्वृणीते - एतावदेवेति || १४ || राक्षस्युवाच | बाढमेवं करोम्यद्यप्रभृत्यवितथं प्रभो | सत्यमेव न किंचिद्धि हिंसनीयं मयाधुना || १५ || राजोवाच | यद्येवं फुल्लपद्माक्षि परदेहैकभोजने | किं स्याच्छरीरवृत्त्यै [भृत्यै इति पाठः] ते स्थिताया मत्समीहिते || १६ || मत्समीहिते अहिंसने व्रते स्थितायाः || १६ || प्. ३३१) २०० षड्भिर्मासैर्गिरौ राजन्प्रबुद्धायाः समाधितः | जाता भोजनसंकल्पाद्भोजनेच्छेयमद्य मे || १७ || इदानीं शिखरं गत्वा तदेव ध्याननिश्चला | यावदिच्छं सुखेनासे सजीवा शालभञ्जिका || १८ || शालभञ्जिका दार्वादिपुत्रिकेव || १८ || आमृतीं धारणां बद्ध्वा धारयामि शरीरकम् | यथेच्छमथ कालेन त्यक्ष्यामीति मतिर्मम || १९ || आमृतीं अमृतात्मभावनारूपाम् || १९ || आशरीरपरित्यागमिदानीं न मया नृप | हिंसनीयाः परप्राणास्तेनेदं मद्वचः शृणु || २० || हिमवान्नाम शैलोऽस्ति शरच्चन्द्रांशुनिर्मलः | य उत्तराशाहृदये स्पृष्टपूर्वापरार्णवः || २१ || उत्तराशाया उत्तरदिशो हृदये मध्यमे | स्पृष्टौ अवगाढौ पूर्वापरार्णवौ येन || २१ || तत्राहं निवसाम्यग्रे हेमशृङ्गदरीगृहे | आयसी मेघलेखेव कर्कटीनाम राक्षसी || २२ || तपसोपार्जितो ब्रह्मा जनतामारणेच्छया | विषूचिका प्राणहरा स्यां सूच्यात्मेति भो मया || २३ || उपार्जितः स्ववशीकृतः इत्यन्त इच्छाभिलापः [इच्छाभिलाष इति क्वाचित्कः पाठः] || २३ || तस्मात्संप्राप्तवरया बहून्वर्षगणान्मया | भुक्ता विषूचिकात्वेन जनता जीवबाधनैः || २४ || त्वया न गुणिनो हिंस्या इति मे ब्रह्मणा ततः | नियमार्थं महामन्त्रस्तदायत्तास्मि संस्थिता || २५ || नियमार्थं मर्यादार्थं दत्त इति शेषः | अतस्तदायत्ता मन्त्राधीना || २५ || सोऽयं प्रगृह्यतां तेन सर्वं हृदयशूलनम् | शममेष्यति लोकेऽस्मात्का कथा मत्कृते भ्रमे || २६ || सर्वं मत्कृतादन्यदपि सर्वम् || २६ || विततैवास्मि हिंसायां यत्पुरा हिंसितं मया | जनस्य हृदयं तेन नाड्यो वैधुर्यमागताः || २७ || वितता विस्तृता चिरं प्रवृत्तेति यावत् | हृदयं हिंसितं रक्तचोषणेन शोषितं तेन हेतुना जनस्य जाड्यो वैधुर्यं रक्तविधुरताम् || २७ || हिंसित्वा रक्तमांसानि संत्यक्ता ये महाजनाः | तेभ्यो विधुरनाडीभ्यो ये जातास्तेऽपि तादृशाः || २८ || कथंचित्तेषां जीवनेऽपि तद्वंश्यानामपि नीरक्ततैव संपन्नेत्याह - हिंसित्वेति | तस्माद्धिंसा महाननर्थं इत्यर्थः || २८ || राजन्विषूचिकामन्त्रः सोऽयं संपन्न एव ते | नहि सत्त्ववतामस्ति दुःसाध्यमिह किंचन || २९ || संपन्नः प्राप्तो भविष्यतीति सिद्धवत्कारेण सूचयति || २९ || अतो दुर्नाडिकोशेषु शूलानां परिशान्तये | मन्त्रो यो ब्रह्मणा प्रोक्तो राजञ्शीघ्रं गृहाण तम् || ३० || आगच्छ निकटं नद्या गच्छामस्तत्र भूमिप | स्वाचान्ताभ्यां संयताभ्यां भवद्भ्यां सुमता ददे || ३१ || सुमता सुप्रीताऽहं ददे || ३१ || श्रीवसिष्ठ उवाच | इति तस्यां तदा रात्र्यां राक्षसीमन्त्रिभूभृतः | जग्मुस्ते सरितस्तीरं मिथः संजातसौहृदाः || ३२ || अन्वयव्यतिरेकेण राक्षस्याः सौहृदं तदा | ज्ञात्वा स्थितौ तौ स्वाचान्तावुभावन्तेनिवासिनौ || ३३ || अन्वयव्यतिरेकेण भावपरीक्षणलिङ्गेन | अन्तेनिवासिनौ शिष्यौ भूत्वेति शेषः || ३३ || तया ब्रह्मोपदिष्टोऽसु ततस्ताभ्यां यथाक्रमम् | स्नेहाद्विषूचिकामन्त्रः प्रदत्तो जपसिद्धिदः || ३४ || ब्रह्मणा प्रागुपदिष्टोऽसौ मन्त्रः || ३४ || ततः संजातसौहार्दौ तौ विसृज्य निशाचरी | यदा गन्तुं प्रवृत्तासौ तदा राजाब्रवीद्वचः || ३५ || सौहार्दं सुहृद्भावः || ३५ || राजोवाच | गुरुस्त्वं नौ महादेहे वयस्या च सुनिर्वृता | निमन्त्रयावहे यत्नाद्ग्रासाय तव सुन्दरि || ३६ || हे महादेहे इति राक्षसीसंबोधनम् | गुरुर्वयस्या सखी च | हृदयसौन्दर्यात् सुन्दरीति संबोधनम् || ३६ || नचास्मत्प्रणयं प्रीता वितथीकर्तुमर्हसि | सौहार्दं सुजनानां हि दर्शनादेव वर्धते || ३७ || लघुसौभाग्यसंयुक्तं कृत्वाकारं मनोरमम् | आगच्छास्मद्गृहं भद्रे तत्र तिष्ठ यथासुखम् || ३८ || लघु अल्पप्रमाणं सौभाग्येन सौन्दर्यालंकारादिना युक्तं च | आकारं देहम् || ३८ || राक्षस्युवाच | मुग्धस्त्रीरूपधारिण्यै दातुं शक्तोऽसि भोजनम् | संतर्पयसि मां केन राक्षसाकारघारिणीम् || ३९ || भोजनमन्नपानादि मनुष्ययोग्यम् || ३९ || रक्षोन्नमेव संतुष्ट्यै न सामान्यजनाशनम् | पूर्वसिद्धस्वभावोऽयमादेहं न निवर्तते || ४० || राजोवाच | हेमस्रग्दामवलिता दिनानि कतिचिद्गृहे | मम स्त्रीरूपिणी तिष्ठ यावदिच्छमनिन्दिते || ४१ || मम गृहे | यावदिच्छं ददे इति परेणान्वयः || ४१ || ततो दुष्कृतिनश्चौरान्वध्याञ्छतसहस्रशः | मण्डलेभ्यः समानीय ददे तुभ्यं सुभोजनम् || ४२ || वध्यान् वधार्हान् || ४२ || कान्तारूपं परित्यज्य गृहीत्वा राक्षसं वपुः | आदाय वध्याञ्छतशः पुरुषांस्तान्सुसंचितान् || ४३ || नयस्व हिमवच्छृङ्गं तत्र भुङ्क्ष्व यथासुखम् | महाशनानामेकान्ते भोजनं हि सुखायते || ४४ || तृप्ता निद्रां मनाक्कृत्वा भव भूयः समाधिभाक् | समाधिविरता भूयोऽप्यागत्य पुनरन्यदा || ४५ || प्. ३३२) २०१ नेष्यस्यन्यान्वध्यजनान् हिंसा नैषां च धर्मतः | स्वधर्मेण च हिंसैव महाकरुणया समा || ४६ || त्वं समेष्यसि चावश्यं मां समाधिविरागिणी | असतामपि संरूढं सौहार्दं न निवर्तते || ४७ || अपगतेच्छा व्युत्थितेति यावत् | संरूढं प्ररूढम् || ४७ || राक्षस्युवाच | युक्तमुक्तं त्वया राजन्करोम्येवमहं सखे | सौहार्देन प्रवृत्तस्य को वाक्यं नाभिनन्दति || ४८ || श्रीवसिष्ठ उवाच | इत्युक्त्वा राक्षसी तत्र संपन्ना सुविलासिनी | हारकेयूरकटकपट्टस्रग्दामधारिणी || ४९ || सुविलासिनी सुन्दरस्त्री | पट्टं कौशेयं काञ्चीपट्टं वा || ४९ || राजन्नागच्छ गच्छाम इत्युक्त्वा भूपमन्त्रिणौ | अग्रे गन्तुं प्रवृत्तौ तौ रात्रावनुससार सा || ५० || अनु पश्चात्ससार जगाम् || ५० || अथ ते पार्थिवगृहं प्राप्य तां रजनीं मिथः | कथयैकगृहे रम्ये क्षपयामासुरादृताः || ५१ || एकगृहे एकस्यां शालायाम् | रजनीं क्षपयामासुः || ५१ || प्रभातेऽन्तःपुरे तस्थौ पुरन्ध्रीजनलीलया | राक्षसी मन्त्रिराजानौ स्वव्यापारौ बभूवतुः || ५२ || स्वस्वोचितो व्यापारो जनपालनवध्यसंपादनव्यापारो ययोस्तौ || ५२ || ततो दिवसषट्केन संचितानि महीभृता | नृप्तः परपुरेभ्योऽपि स्वमण्डलगणात्तथा || ५३ || नृपो ददाविति परेणान्वयः || ५३ || त्रीणि वध्यसहस्राणि तानि तस्यै तदा ददौ | सा बभूव निशा काले सैवोग्रा कृष्णराक्षसी || ५४ || तानि वध्यसहस्राणि जग्राह भुजमण्डले | धारानिकरजालानि मेघमालेव कोटरे || ५५ || कोटरे लम्बमानानीति शेषः || ५५ || ययौ राजानमापृच्छ्य तदेव हिमवच्छिरः | दरिद्रा लब्धहेमेव ग्रहेषूग्रशरीरिणी || ५६ || ग्रहेषु पूतनारक्षःपिशाचादिषु मध्ये उग्रशरीरिणी बृहच्छरीरत्वेन श्रेष्ठेति यावत् || ५६ || तत्र तृप्ता भृशं भुक्त्वा सुखं सुप्त्वा दिनत्रयम् | आसीत्प्रबोधसुस्वस्था सा समाधिमतिः पुनः || ५७ || समाधौ परिणता मतिर्यस्याः सा || ५७ || पञ्चभिर्वा चतुर्भिर्वा वर्षैः सा संप्रबुध्यते | तत्ततो मण्डलं याति तेन राजसभाजने || ५८ || ततः प्रबोधानन्तरम् | तेन प्राक्तनराजवचनेन हेतुना | राज्ञः सभाजने प्रीतिसंगमे चिकीर्षिते सति तत्किरातमण्डलं याति || ५८ || तत्र विश्रम्भगर्भाभिः कथाभिः कंचिदेव सा | स्थित्वा कालं गृहीत्वा तान्वध्यान्स्वास्पदमेत्यथ || ५९ || विस्रम्भगर्भाभिर्विश्वासयुक्ताभिः | स्वास्पदं स्वस्थानं हिमवच्छिखरम् || ५९ || जीवन्मुक्ततयैवमेव विपिने साद्यापि रक्षोङ्गना तस्मिन्नेव गिरौ स्थिता विचलितध्यानैकतानाशया | तस्मिन्राजनि शान्तिमागतवति त्यक्तैषणेनात्मना तद्राष्ट्राधिपसौहृदैः स्वकवलानास्वादयन्ती चिरं || ६० || सा रक्षोङ्गना कर्कटी अद्यापि पूर्वोक्तरीत्यैव जीवन्मुक्ततया तस्मिन्नेव गिरौ विपिने विचलितः कदाचिद्व्युत्थाने व्यवहारभाक् कदाचित्समाधौ ज्ञानैकतानश्च आशयश्चित्तं यस्यास्तथा भूत्वा स्थिता | तस्मिन्किरातानां राजनि कालेन त्यक्तसर्वैषणेनात्मना मनसा विदेहकैवल्यलक्षणां परमां शान्तिमागतवति सति तत्संततिजानां तद्राष्ट्राधिपानां सौहृदैः पूर्ववदेव स्वकवलान्वध्यांश्चिरमास्वादयन्ती चिरं स्थितेत्यर्थः || ६० || इत्यार्षे श्रीवासिष्ठमहारामायणे मोक्षोपाये उत्पत्तिप्रकरणे कर्क० राक्षसीसौहार्दं नाम द्व्यशीतितमः सर्गः || ८२ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे राक्षसीसौहार्दं नाम द्व्यशीतितमः सर्गः || ८२ || त्र्यशीतितमः सर्गः ८३ श्रीवसिष्ठ उवाच | किरातमण्डले तस्मिन्ये भवन्ति महीभृतः | तैस्तैः सह परा मैत्री तस्याः समभिजायते || १ || अव्युत्थिता समाधेः सा चिरात्कैरातमण्डले | प्रतिष्ठिताऽभवद्देवी कन्दरेत्यत्र वर्ण्यते || १ || तद्राष्ट्राधिपसौहृदैः स्वकवलानास्वादयन्तीति यदुक्तं तत्प्रपञ्चयति ##- सर्वांस्तत्र महोत्पातान्पिशाचादिभयान्यपि | रोगांश्च योगसंसिद्धा निवारयति राक्षसी || २ || उत्पातादिशमनसामर्थ्योपपादनाय विशिनष्टि - योगसंसिद्धेति || २ || बहुवर्षगणेनैषा ध्यानाद्विरतिमागता | तत्रागत्य समस्तांस्तान्वध्याञ्जन्तून्सुसंचितान् || ३ || वध्यान्भुङ्क्ते इति शेषः || ३ || अद्यापि तत्र ये वध्यास्ते तदर्थं महीभुजा | नीयन्ते मित्रसन्माने के हि नाध्यवसायिनः || ४ || नाध्यवसायिनो योद्युक्ताः || ४ || तस्यां ध्याननिषण्णायां किरातजनमण्डले | अनायान्त्यां चिरं कालं जनैर्दोषप्रशान्तये || ५ || दोषाणां प्रागुक्तोत्पातादीनां प्रशान्तये जनैः साकं शिरो दारयति वध्यानामिति मङ्गलेतरन्नामास्या अस्तीति मङ्गलेतरनामिका | अथवा मङ्गला इति इतरन्नाम यस्याः सा | गगनकोटरे गगनस्पर्शिप्रासादोदरे || ५ || सा देवी कन्दरानाम्नी मङ्गलेतरनामिका | संप्रतिष्ठापिता मूर्त्या पुरे गगनकोटरे || ६ || प्. ३३३) २०१ ततःप्रभृति तत्रत्यो [तत्रान्य इति पाठः] यो यो भवति भूमिपः | स कन्दरां भगवतीं प्रतिष्ठापयति स्वयम् || ७ || प्रतिष्ठापयति कालेन पूर्वप्रतिमायां गतायामन्यां प्रतिमां कारयित्वेति भावः || ७ || यः कन्दराप्रतिष्ठां [कन्दरां प्रतिष्ठां च इति पाठः] च न करोति नृपाधमः | तस्योपतापनिचयाः प्रजा निघ्नन्ति यत्नतः || ८ || किमर्थ प्रतिष्ठापयतीत्यत्र हेतुं व्यतिरेकमुखेनाह - य इति || ८ || तत्पूजनादवाप्नोति जनस्तन्निखिलं फलम् | स्ववासनावशोच्छूनमनर्थं यात्यपूजनात् || ९ || अन्वयमुखेनाप्याह - तदिति | तत् उत्पातरोगशान्त्यादिफलम् | कुतो नियमेनोत्पादादिप्रसक्तिस्तत्राह - स्ववासनेति | स्वस्ववासनावशेन उच्छूनमाविर्भूतम् || ९ || वध्यलोकोपहारेण सा देवी परिपूज्यते | प्रतिमा सा स्थिताद्यापि चित्रस्था फलदायिनी || १० || सा प्रतिमा अद्यापि स्थिता | अन्यत्रापि चित्रस्था चित्रलिखिता फलदायिनीति वा || १० || सकलकोमलमङ्गलकारिणी कवलिताखिलवध्यमहाजना | जयति सात्र किरातजनास्पदे परमबोधवती चिरदेवता || ११ || सकलजनानां कोमलस्य बालवत्ससस्यादिविभवस्य मङ्गलानां संपदां च कारिणी | चिरकालानुवृत्ता देवता || ११ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे कर्क० कन्दरापूजनं नाम त्र्यशीतितमः सर्गः || ८३ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे कन्दरापूजनं नाम त्र्यशीतितमः सर्गः || ८३ || चतुरशीतितमः सर्गः ८४ श्रीवसिष्ठ उवाच | एतत्ते कथितं सर्वं मयाख्यानमनिन्दितम् | कर्कट्या हिमराक्षस्या यथावदनुपूर्वशः || १ || निमित्तं कर्कटीनाम्ना [कर्कटीनाम्न इति पाठः] उपदेशार्थकल्पनम् | दृष्टान्तोक्त्युपयोगश्च विस्तरादत्र वर्ण्यते || १ || हिमशब्देन हिमवानुच्यते नामैकदेशे नामग्रहणन्यायात् || १ || श्रीराम उवाच | हिमवद्गह्वरे प्रोत्था सा कथं कृष्णराक्षसी | बभूव कर्कटीनाम्ना यथावद्वद मे प्रभो || २ || तस्याः कृष्णवर्णत्वे कर्कटीनामप्राप्तौ च किं निमित्तमिति रामः पृच्छति - हिमवदिति || २ || श्रीवसिष्ठ उवाच | कुलानि सन्त्यनेकानि राक्षसानां स्वभावतः | तानि शुक्लानि कृष्णानि हरितान्युज्ज्वलानि च || ३ || तत्राद्यस्य निमित्तमाह - कुलानीति || ३ || कर्कटप्राणिसादृश्यात्कर्कटो नाम राक्षसः | बभूव तज्जा सा कृष्णा कर्कटी कर्कटाकृतिः || ४ || द्वितीयस्य निमित्तमाह - कर्कटेति | कर्कटः कुलीरः स एव प्राणी तत्सादृश्यात् | बृहदुदरदीर्घहस्तपादादिमत्त्वात्कर्कटाकृतिः || ४ || कर्कटीप्रश्नसंस्मृत्या मयैषा कथिता तव | अध्यात्मोक्तिप्रसङ्गेन विश्वरूपनिरूपणे || ५ || विश्वरूपस्य जगत्तत्त्वस्य निरूपणे प्रस्तुते अध्यात्मोक्तिप्रसङ्गेन कर्कटीकृतानां प्रश्नानां संस्मृत्या एषा आख्यायिका कथिता || ५ || संपन्नमेव मे कस्मादसंपन्नमिव स्फुटम् | इदं जगदनाद्यन्तात्पदात्परमकारणात् || ६ || उदाहृतामाख्यायिकां प्रकृते योजयति - संपन्नमिति || ६ || प्लाविन्यो वीचयो वारिण्यन्यानन्याः स्थिता यथा | वर्तमाना अपि परे सृष्टयः संस्थितास्तथा || ७ || प्लाविन्य उत्प्लवनवत्यः | अपिशब्दादतीतानागतसमुच्चयः || ७ || अज्वलन्नेव काष्ठेषु वह्निरर्थक्रियां यथा | करोति मर्कटादीनां शीतापहरणादिकम् || ८ || यदि वर्तमानानामप्यतीतानागतसाम्यं तर्हि कथमर्थक्रियाकारित्वं विशेषस्तत्राह - अज्वलन्नित्यादिना | प्रज्वलन् इति पाठे मर्कटादीनां बुद्ध्या प्रज्वलन्नतु वस्तुतः || ८ || समं सौम्यत्वमजहदेव नित्योदयस्थिति | तथा ब्रह्म करोतीदं नाना कर्तेव सज्जगत् || ९ || कर्तेव सत् नाना जगत्करोति || ९ || अप्यनागत एवायमेवं सर्ग उपागतः | भोः शालभञ्जिकासंविद्दारुण्येव मुधोदिता || १० || भो इति रामसंबोधनम् | शालभञ्जिकासंवित्प्रतिभाबुद्धिः || १० || बीजे यथाऽनन्यदपि फलाद्यन्यदिवोदितम् | चितौ तथाऽनन्यदपि चेत्यमन्यदिवोदितम् || ११ || फलादि अङ्कुराति फलान्तं व्युत्क्रमेण फलादीत्युच्यते || ११ || अच्छेदादेकसत्ताया न भेदः फलबीजयोः | चिच्चेत्ययोश्च वार्यूर्म्योरिव वस्तुनि कश्चन || १२ || बीजादिफलान्ते अनुस्यूतैकद्रव्यसत्ताया अविच्छेदान्न भेदः || १२ || अविचारात्कुतो भेदो नैतयोरुपपद्यते | यतःकुतश्चिदुदितः स विचारेण नश्यति || १३ || भ्रान्तिरेषा यथाऽयाता तथा यातु रघूद्वह | ज्ञास्यसे तत्प्रबुद्धस्त्वमेनां केवलमुत्सृज || १४ || यथा निर्हेतुकतयैव आयाता तथा यातु गच्छतु | किं तर्हि मया कार्य तत्राह - एनामिति | एनां भ्रान्तिम् | तद्ब्रह्म प्रबुद्धः सन् ज्ञास्यसे || १४ || प्. ३३४) २०२ भ्रान्तिग्रन्थौ वित्रुटिते मदुक्तिश्रवणात्ततः | ज्ञानशब्दार्थभेदानां वस्तु ज्ञास्यस्यलं स्वयम् || १५ || यदि भ्रममुत्सृजामि तर्हि कथं त्वदुक्तश्रवणे शब्दार्थबोधभेदं प्रतिपत्स्ये तत्राह - भ्रान्तीति | यद्यपि न भेदं प्रतिपत्स्यसे तथापि तत्तत्पर्यगोचरं वस्तु स्वयमेव ज्ञास्यसीत्यर्थः || १५ || चित्तादियमनर्थश्रीस्तच्च सा चेतरा च ते | मदुक्तिश्रवणादेव शान्तिमेष्यत्यसंशयम् || १६ || तथापि कथमनर्थनिवृत्तिसिद्धिस्तत्राह - चित्तादिति | तच्चित्तम् | सा चित्तजा अनर्थश्रीः इतरा चित्तहेतुरविद्या च || १६ || ब्रह्मणः सर्वमुत्पन्नं सर्वं ब्रह्मैवमेति च | मद्गीर्भिः संप्रबुद्धः सन् ज्ञास्यस्यलमनिन्दितम् || १७ || जगत उत्पत्त्यादिनिरूपणस्यापि निष्प्रपञ्चवस्तुबोध एव प्रयोजनमित्याशयेनाह - ब्रह्मण इति | सर्वं जगद्विलयेन ब्रह्म एति प्राप्नोति च | अलं पूर्णम् || १७ || श्रीराम उवाच | तस्मादियमिति ब्रह्मन्व्यतिरेकार्थपञ्चमी | ननु किं विद्धि देवेशादभिन्नं सर्वमित्यपि || १८ || यदि भेदोऽसन्नेव तर्हि ब्रह्मणः सर्वमुत्पन्नमिति त्वदुक्तौ तस्माद्वा एतस्मादात्मन आकाशः संभूतः इत्यादिश्रुतिषु च तस्मादितीयं व्यतिरेकार्थभेदप्रतिपादिका पञ्चमी किं सर्वं देवेशादभिन्नं विद्धीत्यपि किम् | लक्ष्यालक्ष्यभेदस्य तत्प्रतियोग्यादीनां चासत्त्वे शब्दाप्रसराल्लक्षणेन लक्ष्यबोधनव्यवहारासिद्धेरुपदेशासिद्धिश्चेति शङ्काशयः || १८ || श्रीवसिष्ठ उवाच | उपदेशाय शास्त्रेषु जातः शब्दोऽथवार्थजः | प्रतियोगिव्यवच्छेदसंख्यालक्षणपक्षवान् || १९ || तात्कालिकभेदकल्पनया व्यावहारिकदृष्टिसिद्धभेदाद्युपादानाद्वा शब्दप्रसराद्बिम्बप्रतिबिम्बलक्षणव्यवहारवदुपदेशोपपत्तेर्न कोऽपि दोष इत्याशयेन वसिष्ठः परिहरति - उपदेशायेत्यादिना | जातः कल्पितः | अथवा लोकसिद्धार्थजो व्यावहारिकभेदोपजीवी शब्दः प्रसरिष्यतीति शेषः || १९ || भेदो दृश्यत एवायं व्यवहारान्न वास्तवः | वेतालो बालकस्येव कार्यार्थं परिकल्पितः || २० || कल्पितेन प्रयोजनवद्व्यवहाअसिद्धिर्लोकेऽपि प्रसिद्धेत्याह - भेद इति || २० || द्वैतैक्यमपि नो यस्यां तथा भूतार्थसंस्थितौ | अस्ति तस्यामीदृशः स्यात्कुतः संकल्पविप्लवः || २१ || यत्र स्वप्नगन्धर्वनगरादिसंस्थितौ द्वैतमैक्यं च नास्ति तस्यामपीदृशो लक्षणादिव्यवहारोऽस्ति सत्यसंकल्पानामुपदेशादिव्यवहारे संकल्पविप्लवः कुतः स्यादित्यर्थः || २१ || कार्यकारणभावो हि तथा स्वस्वामिलक्षणम् | हेतुश्च हेतुमांश्चैवावयवावयविक्रमः || २२ || त्वदुपदेशादिव्यवहारे च मयैव संकल्पात्कार्यकारणादिभेदः कल्पित इत्याह - कार्यकारणेत्यादिना || २२ || व्यतिरेकाव्यतिरेकौ परिणामादिविभ्रमः | तथा भावविलासादि विद्याविद्ये सुखासुखे || २३ || एवमादिमयी मिथ्यासंकल्पकलना मिता | अज्ञानामवबोधार्थं नतु भेदोऽस्ति वस्तुनि || २४ || मिता कल्पिता || २४ || अविबोधादयं वादो ज्ञाते द्वैतं न विद्यते | ज्ञाते संशान्तकलनं मौनमेवावशिष्यते || २५ || अयं च व्यवहार उपदेश्यस्याज्ञदशायामेव न प्रबोधदशायामिति नाद्वैतहानिरित्याह - अविबोधादिति | मौनमशब्दः || २५ || सर्वमेकमनाद्यन्तमविभागमखण्डितम् | इति ज्ञास्यसि सिद्धान्तं काले बोधमुपागतः || २६ || विवदन्ते ह्यसंबुद्धाः स्वविकल्पविजृम्भितैः | उपदेशादयं वादो ज्ञाते द्वैतं न विद्यते || २७ || असंबुद्धा अज्ञाततत्त्वाः पुरुषाः स्वविकल्पविजृम्भितैस्तैर्कैः | अयं वादः सर्वोऽपि वेदान्ततत्व्वोपदेशात्प्रागेव यतो ज्ञाते द्वैतं न विद्यते इत्यर्थः || २७ || वाच्यवाचकसंबोधो विना द्वैतं न सिद्ध्यति | नच द्वैतं संभवति मौनं वापादयत्यलम् || २८ || मास्तु द्वैतं तथापि कथं विवादासंभवस्तत्राह - वाच्येति | तर्ह्यस्तु द्वैतं तत्राह - नचेति | वेत्यवधारणे अतो मौनमेवापादयतीत्यर्थः || २८ || महावाक्यार्थनिष्ठान्तां बुद्धिं कृत्वा रघूद्वह | वचोभेदमनादृत्य यदिदं वच्मि ते शृणु || २९ || यतो वेत्यादिलक्षणवाक्ये तर्हि पञ्चम्याद्यर्थो न प्रतिपत्तव्यस्तत्राह - महावाक्येति | पञ्चम्याद्युपात्तं वचोभेदमनादृत्य तां लक्षणवाक्योत्थां बुद्धिमखण्डे महावाक्यार्थे एव निष्ठापदवाच्यलक्ष्यार्थव्यत्पत्तिद्वारा पर्यवसानं यस्यास्तथाविधां कृत्वा यदिदं वक्ष्यमाणं वच्मि तच्छृण्वित्यर्थः || २९ || यतःकुतश्चिदुच्छ्रायं गन्धर्वपुरवन्मनः | भ्रान्तिमात्रं तनोतीदं जगदाख्यं स्वजृम्भणम् || ३० || यतःकुतश्चिदनिर्वाच्याद्धेतोरुच्छ्राय आविर्भावो यस्य || ३० || यथा चेतस्तनोतीमां जगन्मायां तथानघ | शृणु त्वं कथयामीदं दृष्टान्तं दृष्टिवेदनम् || ३१ || उक्तार्थे वक्ष्यमाणाख्यायिकां दृष्टान्तत्वेनावतारयति - यथेति | स्वदृष्ट्यैव वेद्यते दार्ष्टान्तिकं येन तद्दृष्टिवेदनम् || ३१ || यं श्रुत्वा सर्वमेवेदं भ्रान्तिमात्रमिति स्वयम् | राम निश्चयवान्भूत्वा दूरे त्यक्ष्यसि वासनाम् || ३२ || मनोमनननिर्माणमात्रमेव जगत्त्रयम् | सर्वमुत्सृज्य शान्तात्मा स्वात्मन्येव निवत्स्यसि || ३३ || मद्वाक्यार्थावधानस्थो मनोव्याधिचिकित्सने | विवेकौषधलेशेन प्रयत्नं च करिष्यसि || ३४ || एवं स्थिते जगद्रूपं चित्तमेवेह जृम्भते | न विद्यते शरीरादि सिकतान्तरतैलवत् || ३५ || एवं वक्ष्यमाणाख्यायिकरीत्या स्थिते || ३५ || चित्तमेव हि संसारो रागादिक्लेशदूषितम् | तदैव तैर्विनिर्मुक्तं भवान्त इति कथ्यते || ३६ || भवस्य संसारस्यान्तो नाशः || ३६ || प्. ३३५) २०२ चित्तं साध्यं पालनीयं विचार्यं कार्यमार्यवत् | आहार्यं व्यवहार्यं च संचार्यं धार्यमादरात् || ३७ || लौकिकशास्त्रीयसाध्यपालनीयादिसर्वपदार्थरूपेण चित्तमेव विजृम्भते नान्यदित्याह - चित्तमिति | सिद्धेषु साधनेष्वसिद्धं साध्यम् | पूर्वसिद्धं पालनीयम् | असिद्धेषु नानासाधनेषु प्रसक्तेषु प्रयत्नगुरुलाघवविमर्शेन साधनानि संपाद्य पश्चात्साध्यं विचार्यम् तत्रापि शिष्टैकसंमतोपायसाध्यमार्यवत्कार्यम् | देशान्तरे सिद्धमेव स्वगृहे आनेतुं योग्यमाहार्यम् | स्वगृहस्थमेव क्रयविक्रयाद्युपयुक्तं व्यवहार्यम् | तेष्वप्यश्वरथादि संचार्यम् | भूषणादि तु धार्यम् | आदरादिति सर्वत्र संबध्यते | एतत्सर्वं चित्तमेव | नहि निश्चित्तस्य किंचित्साध्यादिकं प्रसिद्धमित्याशयः || ३७ || सर्वमभ्यन्तरे चित्तं बिभर्ति त्रिजगन्नभः | अहमापूरमिव तद्यथाकालं विजृम्भते || ३८ || त्रिजगत्कल्पनाया नभ आकाशभूतं चित्तं सर्वं दृश्यमभ्यन्तरे बिभर्ति | तदेव चित्तं यथाकालं देहप्राणेन्द्रियादिषु व्यापृतेषु अहमेव व्यापृतोऽस्मीत्यहमापूरमहंताप्रवाह इव विजृम्भते इत्यर्थः || ३८ || योऽयं चित्तस्य चिद्भागः सैषा सर्वार्थबीजता | यश्चास्य जडभागश्च तज्जगत्सोऽङ्ग संभ्रमः || ३९ || तत्र चिदंशप्राधान्येन द्रष्टृतापरपर्याया सर्वकल्पनाबीजभूता अहंताऽजडांशप्राधान्येन तु दृश्यभ्रान्तिरूपतेति विभागमाह - योऽयमिति || ३९ || अविद्यमानमेवेदमादिसर्गे धरादिकम् | निराकृतिरजः स्वप्नं पश्यतीव न पश्यति || ४० || उक्तमर्थं प्रागुक्तसृष्टिक्रमस्मारणेनोपपादयति - अविद्यमानमेवेति | अजो ब्रह्मा || ४० || सर्गादिदीर्घसंवित्त्या शैलादिजडसंविदा | सूक्ष्मं सूक्ष्मविदा चेति देहं शून्यं न वास्तवम् || ४१ || कथं पश्यति तदाह - सर्गादीति | शैलादिस्थूलं विराड्देहं दीर्घसंवित्त्या सृष्टिस्थितिप्रलयकोटिसाधारण्या साक्षिसंविदा सर्गादि जडसंविदा जडाहंभावनारूपया वैश्वानरसंविदा सूक्ष्मं लिङ्गसमष्टिसूत्रात्मकहिरण्यगर्भदेहं सूक्ष्मविदा तदहंभावसंविदा चेति शून्यमेव देहत्रयं पश्यतीत्यर्थः || ४१ || सर्वगेनात्मना व्याप्तं स्वचेत्यात्मवपुर्मनः | आततं सौम्य विमलं वारीव रवितेजसा || ४२ || योऽयं चित्तस्य चिद्भागः सैषा सर्वार्थबीजतेत्येतदुपपादयति - सर्वगेनेति | तथाच चिद्व्याप्तिबलादेव बीजतेत्यर्थः || ४२ || चित्तबालो जगद्यक्षं मिथ्या पश्यत्यबोधतः | बोधितोऽसौ परं रूपं स्वं पश्यति निरामयम् || ४३ || चिद्व्याप्तिबलादेव चित्तस्य अविचारे जगद्दृष्टृता विचारे आत्मदर्शनं चेत्याह - चित्तबाल इति || ४३ || यथात्मा दृश्यतामेति द्वित्वैक्यभ्रमदायिनीम् | शृणु तत्ते प्रवक्ष्यामि वक्ष्यामाणकथागमैः || ४४ || एवंच शुद्धात्मैव चित्तभावद्वारा दृश्यभावं प्राप्त इवेति फलितं तत्संभावनार्थं वक्ष्यमाणकथामवतारयति - यथेति || ४४ || यत्कथ्यते हि हृदयंगमयोपमान- युक्त्या गिरा मधुरयुक्तपदार्थया च | श्रोतुस्तदङ्ग हृदयं परितो विसारि व्याप्नोति तैलमिव वारिणी वार्य शङ्काम् || ४५ || ऐन्दवोपाख्यानोपमानयुक्त्या कथं जगतो मनोमात्रत्वनिश्चयस्तत्राह - यदिति | हृदयंगमया मनोनुरञ्जिन्या | शङ्कां वार्य निरस्य | ल्यप् छान्दसः | श्रोतुर्हृदयं व्याप्नोति || ४५ || त्यक्तोपमानममनोज्ञपदं दुरापं क्षुब्धं धराविधुरितं विनिगीर्णवर्णम् | श्रोतुर्न याति हृदयं प्रविनाशमेति वाक्यं किलाज्यमिव भस्मनि हूयमानम् || ४६ || उक्तमर्थं व्यतिरेकमुखेनाप्युपपादयति - त्यक्तोपमानमिति | यद्वाक्यं त्यक्तोपमानं दृष्टान्तोपन्यासरहितम् | अमनोज्ञानि शब्दशास्त्रासंमतानि कठोरवर्णादिघटितानि वा पदानि यस्मिंस्तथाविधम् दुरापमनभिव्यक्तवर्णत्वात्स्फुटतया [वर्णास्फुटतया इति पाठः] श्रोत्रेण प्राप्तुमशक्यम् क्रोधावेशादिवशात्क्षुब्धं सत् धराविधुरितं स्वस्थानविच्युतवर्णम् | विनिगीर्णवर्णं ग्रस्ताक्षरम् | संवृतः कलो ध्मात इत्यादिमहाभाष्योक्तस्वरवर्णदोषाणामुपलक्षणमेतत् | तथाचाहुः - ग्रस्तं निरस्तं प्रविलम्बितं द्रुतमम्बूकृतं ध्मातमथो विकम्पितम् | विस्रस्तमेणीकृतमर्धकं हतं विकीर्णमेताः स्वरदोषभावनाः || इति एतादृशं तद्वाक्यं श्रोतुर्हृदयं न याति नानुरञ्जयति | महतापि श्रमेणोपन्यस्तं प्रविनाशं नैष्फल्यं वाचाटत्वादिदोषप्रत्ययफलतां वा एति | किलेति प्रसिद्धोऽस्य दृष्टान्त इति दर्शयति - आज्यमिवेति || ४६ || आख्यानकानि भुवि यानि कथाश्च या या यद्यत्प्रमेयमुचितं परिपेलवं वा | दृष्टान्तदृष्टिकथनेन तदेति साधो प्राकाश्यमाशु भुवनं सितरश्मिनेव || ४७ || व्यतिरेकमुखोपपादितमर्थं पुनरन्वयोक्त्या निगमयति - आख्यानकानीति | नानाकथाभिरुपेता महत्यो भारतादिकथा आख्यानकानि | अल्पास्तु कथाः | उचितं अभिज्ञानुरञ्जनोपयुक्तं यद्यत्काव्यनाटकाध्यात्मनिबन्धादिरूपम् | परिपेलवं शब्दतोऽर्थतश्च कोमलं च यद्यच्छ्रोत्रप्रमेयं तत्सर्वं दृष्टान्तानां लोकप्रसिद्धप्रमाणदृष्टीनां च कथनेन प्राकाश्यं स्फुटहृद्यार्थतामेतीत्यर्थः || ४७ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे सूच्युपाख्याने मनोङ्कुरोत्पत्तिकथनं नाम चतुरशीतितमः सर्गः || ८४ || इति श्रीवासिषिठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे मनोङ्कुरोत्पत्तिकथनं नाम चतुरशीतितमः सर्गः || ८४ || प्. ३३६) २०३ पञ्चाशीतितमः सर्गः ८५ श्रीवसिष्ठ उवाच | पुरा मे ब्रह्मणा प्रोक्तं सर्वं तत्कथयानघ | यदिदं तत्प्रवक्ष्यामि त्वयि पृच्छति राघव || १ || सृष्टिं चिकीर्षतो धातुर्दंशब्रह्माण्डदर्शनम् | तत्रैकरविणा तेषां तत्त्वोक्तिश्चात्र वर्ण्यते || १ || प्रतिज्ञातमैन्दवोपाख्यानं वक्तुमुपक्रमते - पुरेत्यादिना | हे अनघ ब्रह्मणा मे पुरा यदिदं प्रोक्तं जगतो मनोमात्रत्वं तत्सर्व तत्कथया तेन ब्रह्मणोक्तयैन्दवोपाख्यानकथया प्रवक्ष्यामीति योजना || १ || पुरा मया हि भगवान्पृष्ठः कमलसंभवः | इमे कथमुपायान्ति ब्रह्मन्सर्गगणा इति || २ || तदर्थ तदानीं स्वकृतं प्रश्नमाह - पुरेति || २ || तदुपाश्रुत्य भगवान्ब्रह्मा लोकपितामहः | ऐन्दवाख्यानसहितं मामुवाच बृहद्वचः || ३ || तत् मत्पृष्टं उप आश्रुत्य वक्ष्यामीति प्रतिज्ञाय | बृहत् महार्थम् || ३ || ब्रह्मोवाच | सर्वं हि मन एवेदमित्थं स्फुरति भूतिमत् | जलं जलाशयस्फारैर्विचित्रैश्चक्रकैरिव || ४ || भूतिमज्जगद्भावधारणशक्तिमत् | चक्रकैरावर्तैरिव || ४ || दिनादौ संप्रबुद्धस्य संसारं स्रष्टुमिच्छतः | पुराकल्पे हि कस्मिंश्चिच्छृणु किं वृत्तमङ्ग मे || ५ || हे अङ्ग मे मम पुराकल्पे दिनादौ कल्पादौ संप्रबुद्धस्य संसारं जगत्स्रष्टुमिच्छतः किं वृत्तं यत्संपन्नं तच्छृण्वित्यर्थः || ५ || कदाचिदखिलं सर्गं संहृत्य दिवसक्षये | एक एवाहमेकाग्रः स्वस्थस्तामनयं निशाम् || ६ || निशान्ते संप्रबुद्धात्मा संध्यां कृत्वा यथाविधि | प्रजाः स्रष्टुं दृशौ स्फारे व्योम्नि योजितवानहम् || ७ || संध्यां संध्योपास्तिम् | योजितवान् प्रसारितवानिति यावत् || ७ || यावत्पश्यामि गगनं न तमोभिर्न तेजसा | व्याप्तमत्यन्तविततं शुन्यमन्तविवर्जितम् || ८ || विद्यमानस्यापि तमसो दिव्यस्वदृष्टिप्रसाराविघातित्वान्न तमोभिरित्युक्तम् || ८ || सर्गं संकल्पयामीति मतिं निश्चित्य तन्मया | समवेक्षितुमारब्धं शुद्धं सूक्ष्मेण चेतसा || ९ || तत्स्रष्टव्यवस्तु समवेक्षितुं पर्यालोचयितुम् || ९ || अथाहं दृष्टवांस्तत्र मनसा विततेऽम्बरे | पृथक्स्थितान्महारम्भान्सर्गान्स्थितिनिरर्गलान् || १० || अम्बरे अव्यक्ताकाशे सर्गान्ब्रह्माण्डान् | स्थित्या तत्रत्यविष्ण्वादिकृतपालनादिव्यवस्थया निरर्गलान्निष्प्रतिबन्धान् || १० || तेषु मत्प्रतिबिम्बाभाः पद्मकोशनिवासिनः | राजह्ंसान्समारूढाः संस्थिता दश पद्मजाः || ११ || पृथक्स्थितेषु सर्गेषु तेषूद्यद्भूतपङ्क्तिषु | जलजालेषु शुद्धेषु जगत्सु जलदायिषु || १२ || उद्यन्त्य उत्पद्यमाना भूतपङ्क्तयश्चतुर्विधप्राणिनिकाया येषु | जलजालेषु जलदजालेषु | छान्दसो दलोपः | अथवा जलानां जालमिव बन्धनेषु मेघेषु शुद्धेष्ववग्रहादिदोषनिर्मुक्तेषु || १२ || प्रवहन्ति महानद्यः प्रध्वनन्ति यथाब्धयः | प्रतपन्त्युष्णारुचयः प्रस्फुरन्त्यम्बरेऽनिलाः || १३ || प्रकर्षेण स्फुरन्ति संचलन्ति || १३ || दिवि क्रीडन्ति विबुधा भुवि क्रीडन्ति मानवः | दानवा भोगिनश्चैव पातालेषु च संस्थिताः || १४ || विबुधा देवाः || १४ || कालचक्रपरिप्रोता यद्भावाः सकलर्तवः | यथाकालं फलापूर्णा भूषयन्त्यभितो महीम् || १५ || यद्भावाः यादृशशीतातपवर्षादिस्वभावाः | सकला ऋतवो वसन्तादयः || १५ || प्रौढ्यं शुभाशुभाचारस्मृतयः ककुभं प्रति | नरकस्वर्गफलदाः सर्वत्र समुपागताः || १६ || शुभा विहिता अशुभा निषिद्धा आचरास्तद्विभाजकस्मृतिग्रन्थाश्च ककुभं प्रति प्रतिदिशं सर्वत्र सर्ववर्णेषु प्रौढ्यं प्रौढतां समुपागताः || १६ || भोगमोक्षफलार्थिन्यः समस्ता भूतजातयः | स्वमीहितं यथाकालं प्रयतन्ते यथाक्रमम् || १७ || यथाक्रमं यादृशो यासां प्रवृत्तिक्रमः स्वसर्गे कॢप्तस्तमनतिक्रम्येत्यर्थः || १७ || सप्तलोकास्तथा द्वीपाः समुद्रा गिरयस्तथा | अप्येष्यमाणाः कल्पान्तं स्फुरन्त्युरुतरारवम् || १८ || कल्पान्तं प्रलयम् || कालेन एष्यमाणा अपि स्वकाले उरुतरारवं यथा स्यात्तथा स्फुरति || १८ || क्वचिद्ध्रासित्वमायातं क्वचित्स्थिरतरं स्थितम् | स्थितं सर्वत्र कुञ्जेषु तमस्तेजोलवादृतम् || १९ || तमः क्वचिदनावृतदेशे ह्रासित्वमपक्षयम् | क्वचिद्गिरिगुहादौ | कुञ्जेषु तु तेजोलवैरातपच्छिद्रैरादृतं | स्नेहान्मिलितमित्यर्थः || १९ || नभोनीलोत्पलस्यान्तर्भ्रमदभ्रमधुव्रतम् | प्रस्फुरत्तारकाजालकेसरापूर्णतां गतम् || २० || अर्थात्सरस्त्वेन जगद्वर्णयति - नभ इति || २० || कल्पान्तघननीहारो मेरुकुञ्जेषु संस्थितः | शाल्मलेरमलं तूलमष्ठीलाकोटरेष्विव [अष्ठिला इति मुद्रितपुस्तके पाठः] || २१ || मेरुरिवोच्छ्रयान्मेरुर्हिमवांस्तत्कुञ्जेषु | अष्ठीला [१] फलकर्परं तत्कोटरेष्विव || २१ || लोकालोकाद्रिरसनारणदर्णवघुंघुमा | तमःखण्डेन्द्रनीलाभा निजरत्नविराजिता || २२ || लोकालोकाद्रिरेव रसना काञ्ची यस्याः | रणन्तोऽर्णवा एव घुंगुमा भूषणध्वनयो यस्याः | तमःखण्डा एवेन्द्रनीलमणिप्रभा यस्याः | निजैः स्वान्तर्गतै रत्नैश्च विराजिता || २२ || धानाधरसुधा भूतरवकाकलिघुंघुमा | संस्थिता भुवनाभोगे स्वान्तःपुर इवाङ्गना || २३ || धानाः शाल्यादिबीजान्येव प्राणिनामास्वादनीयत्वादधरसुधा यस्याः | भूतानां प्राणिनां रवा ध्वनय एव काकलिघुंघुमा मधुरास्फुटवाग्विलासा यस्याः सा तथाविधा अर्थाद्भूः तस्मिन्भुवनाभोगे स्वान्तःपुरे अङ्गनेव संस्थितेत्यर्थः || २३ || प्. ३३७) २०३ गौराङ्गपङ्क्तिर्मध्यस्था रजनीराजिरञ्जिता | पद्मोत्पलस्रज इव लक्ष्यते वत्सरश्रियः || २४ || वत्सरश्रियः संवत्सरलक्ष्म्या कण्ठधृतायास्तमःप्रकाशलक्षणपद्मोत्पलनिर्मितायाः स्रजो मध्यस्था अन्तर्निविष्टा अत एव तदीयपरागसदृशविद्युन्नक्षत्रादिव्याप्तत्वाद्रजनीराज्या हरिद्रालेपनप्रायेण रात्रिसमूहाङ्गरागेण रञ्जिता गौराणां कण्ठकुचोदरवलिनाभ्याद्यङ्गानां पङ्क्तिरिव अर्थात् द्यौर्लक्ष्यत इत्यर्थः || २४ || बहुगर्तविभागस्थभूता लोकाः पृथक्पृथक् | जातारुणा विलोक्यन्ते दाडिमानीव कान्तिकाः || २५ || बहूनि भुवनगर्तविभागेषु स्थितानि भूतानि बीजस्थानीयानि येषु तथाविधा लोका ब्रह्माण्डा जातान्यरुणानि तेजांसि येषु तथाविधाः सन्तः कान्तिकाः प्रकाशमाना दाडिमफलानीव विलोक्यन्त इत्यर्थः || २५ || त्रिप्रवाहा त्रिपथगा कृतोर्ध्वाधोगमागमा | जगद्यज्ञोपवीताभा स्फुरतीन्दुकलामला || २६ || इतश्चेतश्च गच्छन्ति शीर्यन्ते प्रोद्भवन्ति च | दिग्लतासु तडित्पुष्पा वातार्ता मेघपल्लवाः || २७ || तडित एव पुष्पाणि येषां तथाविधा मेघपल्लवा दिग्लतासु वातार्ताः सन्त इतश्चेतश्च गच्छन्ति शीर्यन्ते प्रोद्भवन्तीति योजना || २७ || गन्धर्वनगरोद्यानलतावितानमालिनी | समुद्रभूमिनभसां पदवी प्रविराजते || २८ || तच्च प्रतिभातं जगन्मिथ्यैवेति दर्शयति - गन्धर्वेति | सा समुद्रभूमिनभसां पदवी वितानशालिनी गन्धर्वनगरोद्यानलतेव प्रतिराजते न वास्तवीत्यर्थः || २८ || लोकान्तरेषु सङ्घेन देवासुरनरोरगाः | उदुम्बरेषु मशका इव घुंघुमिताः स्थिताः || २९ || लोकान्तरेषु भुवनगर्भेषु || २९ || युगक्ल्पक्षणलवकलाकाष्ठाकलङ्कितः | कालो वहत्यकलितसर्वनाशप्रतीक्षकः || ३० || तेषु लोकान्तरेषु युगादिलक्षणः कालोऽपि प्रवहतीत्यर्थः | अकलितस्य अतर्कितस्य सर्वनाशस्य प्रतीक्षकः || ३० || एवमालोक्य शुद्धेन परेण स्वेन चेतसा | भृशं विस्मयमापन्नः किमेतत्कथमित्यलम् || ३१ || विस्मयमापन्नः | अहमिति शेषः || ३१ || कथं मांसमयेनाक्ष्णा यन्न पश्यामि किंचन | तन्मायाजालमतुलं पश्यामि मनसाम्बरे || ३२ || विस्मयमेव सहेतुकमभिलप्य दर्शयति - कथमिति | मांसमयेन चक्षुर्गोलकनिविष्टेनाक्षणा यन्न पश्यामि तन्मनसा पश्यामि इदं कथं संपन्नमिति विस्मय इत्यर्थः || ३२ || अथालोक्य चिरं कालं मनसैवाहमम्बरात् | अर्कं तस्माज्जगजालादेकमानीय पृष्ठवान् || ३३ || अम्बरात्तद्भुवनाकाशात् | आनीय सत्यसंकल्पेन पुरः संनिधाप्य || ३३ || आगच्छ देवदेवेश भो भास्कर महाद्युते | स्वागतं तेऽस्त्विति प्रोक्तो मयासौ कथितोप्यथ || ३४ || स्वागतं तेऽस्त्विति प्रथमं प्रोक्तः अथ वक्ष्यमाणमर्थं कथितः पृष्टश्च || ३४ || कस्त्वं कथमिदं जातं जगदेव जगन्ति च | यदि जानासि भगवंस्तदेतत्कथयानघ || ३५ || तमेवार्थं दर्शयति - क इति | इदं त्वदीयं जगत्कथं जातम् | एवमन्यानि नव जगन्ति कथं जातानि कैः स्रष्टृभिः सृष्टानीत्यर्थः || ३५ || इत्युक्तो मां समालोक्य संपरिज्ञातवानथ | नमस्कृत्वाभ्युवाचेदमनिन्द्यपदया गिरा || ३६ || मां संपरिज्ञातवान् | अस्य ब्रह्मण्डस्य ब्रह्मा अयमितीति शेषः || ३६ || श्रीभानुरुवाच | अस्य दृश्यप्रपञ्चस्य नित्यं कारणतामसि | गतः कस्मान्न जानीषे किं मामीश्वर पृच्छसि || ३७ || नित्यं शश्वत् || ३७ || अथ मद्वाक्यसंदर्भे लीला चेत्तव सर्वग | अचिन्तितां मदुत्पत्तिं तच्छृणुष्व वदाम्यहम् || ३८ || लीलाश्रवणे कौतूहलम् | अचिन्तितां त्वया असंकल्पिताम् || ३८ || सदसदिति कलाभिराततं यत् सदसदबोधविमोहदायिनीभिः | अविरतरचनाभिरीश्वरात्मन् प्रविलसतीह मनो महन्महात्मन् || ३९ || व्यवहारे सर्वशक्तिमत्त्वादीश्वरात्मन् | परमार्थदृशा तु महात्मन् | अविरता जगद्रचना याभ्यस्तथाविधाभिः | सदिति वा असदिति वा तत्त्वतोऽबोधेन विमोहदानशीलाभिः कदाचित्सत्कदाचिदसत्क्वचित्सत्क्वचिदसदिति कालदेशपरिच्छिन्नजगत्सत्ताप्रदर्शनकौशलरूपाभिर्यदिह आसमन्तात्ततं विस्तृतं तन्मन एव तथा प्रविलसतीति विद्धीत्यर्थः || ३९ || इत्यार्षे श्रीवासिष्ठमहारामायणे वा० मो० उ० ऐन्दवोपाख्यानोपक्रमे ब्रह्मादित्यसमागमो नाम पञ्चाशीतितमः सर्गः || ८५ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे ब्रह्मादित्यसमागमो नाम पञ्चाशीतितमः सर्गः || ८५ || षडशीतितमः सर्गः ८६ श्रीभानुरुवाच | कल्पनाम्नि महादेव ह्यस्तने दिवसे तव | तले कैलासशैलस्य जम्बूद्वीपैककोणके || १ || इहेन्दोः सहभार्थस्य तपसैन्दवसंभवः | तेषां ज्येष्ठोपदेशेन धात्रहं भावनेर्यते || १ || जम्बूद्वीपैककोणके विद्यमानस्य कैलासशैलस्यावयवभूते तले समभूप्रदेशे || १ || प्. ३३८) २०४ सुवर्णजटनाम्ना यस्त्वत्पुत्रैर्जनितप्रजैः | मण्डलं कल्पितं श्रीमदनल्पसुखसुन्दरम् || २ || यः प्रदेशः सुवर्णजटनाम्ना प्रसिद्ध इति शेषः | यत्र प्रदेशे जनिता प्रजा संततिर्यैस्तथाविधैस्तत्पुत्रैर्मरीच्यादिभिः प्रजानां निवासार्थं मण्डलं कल्पितमित्यर्थः || २ || तत्राभूदतिधर्मात्मा ब्राह्मणो ब्रह्मवित्तमः | इन्दुनामातिशान्तात्मा कश्यपस्य कुलोद्भवः || ३ || तत्र मण्डले | ब्रह्मवित्तमो वेदविच्छ्रेष्ठः || ३ || तस्मिंस्तदा निवसतो नित्यं स्वजनमण्डले | तस्य प्राणसमा भार्या काचित्तस्यां महात्मनः || ४ || न बभूवात्मजस्तस्य मरुभूमौ तृणं यथा | न व्यराजत सा भार्या तस्य निष्फलपुष्पिता || ५ || ऋज्वी गौरी सुशुद्धापि शून्या शरलता यथा | तौ ततो दंपती खिन्नौ पुत्रार्थं तपसे गिरेः || ६ || शून्या फलशून्या | शरलता काशस्तम्बः || ६ || कैलासस्यांशमारूढौ रूढाविव नवद्रुमौ | भूतैरनावृते शून्ये तस्मिन्कैलासकुञ्जके || ७ || अंशमूर्ध्वभागं | भूतैः प्राणिभिः || ७ || तेपतुस्तौ तपो घोरं जलाहारौ तरुस्थिती | एकं पानीयचुलकं पीत्वा दिवसपर्यये || ८ || तरोः स्थितिरिव स्थितिः स्थैर्यं ययोस्तौ | तरुस्थितिमेवोपपादयति - एकमिति | दिवसपर्यये दिनचरमभागे || ८ || निस्पन्दमुत्थितौ वार्क्षीं वृत्तिमाश्रित्य संस्थितौ | तस्थतुस्तौ तदा तत्र तावत्कालं तरुव्रतौ || ९ || वाक्षीं वृक्षसंबन्धिनीम् | तत्सदृशीमिति यावत् || ९ || यावत्त्रेता द्वापरं च युगे द्वे एव ते गते | ततस्तुष्टोऽभवद्देवस्तयोः शशिकलाधरः || १० || द्वे युगे गते एवेति योजना | चिरं तपस्तु विशिष्टपुत्रलाभार्थम् || १० || दिनातपातापितयोरिन्दुः कुमुदयोरिव | आजगाम तमुद्देशं यत्र तौ विप्रदंपती || ११ || उद्देशं प्रदेशम् || ११ || सलतापादपं देशं पुष्पाकर इवेश्वरः | दंपती तौ वृषारूढं सोमं सोमार्धशेखरम् || १२ || पुष्पाकरो वसन्त इव | उमया सहितं सोमम् || १२ || फुल्लाननौ ददृशतुः कुमुदे शशिनं यथा | तौ तं प्रणेमतुर्देवं तुषारामलमीश्वरम् || १३ || कुमुदे कैरवे | विकास एव दृष्टान्ते दर्शनम् || १३ || द्यावापृथिव्यावुदितं परिपूर्णमिवोडुपम् | तर्जयन्पवनाधूतनववृक्षाननस्वरम् || १४ || द्यावापृथिव्यावित्यनेन तत्स्था जना लक्ष्यन्ते | उडुपं चन्द्रम् | पवनेन मलयानिलेन आधूतानां ईषत्कम्पितपल्लवानां रसालादिवृक्षाणां आननमिव कुजतां भ्रमरकोकिलादीनां स्वरं स्ववचोमाधुर्यातिशयेन तर्जयन्निर्भर्त्सयन्निव || १४ || मृदूद्दामस्थितस्पन्दि प्रोवाचाथ वचः शिवः | ईश्वर उवाच | वरं विप्र गृहाणाशु तुष्टोऽस्मि तव वाञ्छितम् || १५ || मृदुना उद्दामेन सौन्दर्योत्कृष्टेन स्मितेन स्पन्दि ईषच्चलिताधरं यथा स्यात्तथा | तव वाञ्छितमिष्टं वरं गृहाण || १५ || मधुमासरसाक्रान्तवृक्षवन्मुदितो भव | विप्र उवाच | भगवन्देवदेवेश दश पुत्रा महाधियः || १६ || भव्या भवन्तु मे भूयः शोको येन न भाधते | भानुरुवाच | अथैवमस्त्विति प्रोच्य जगामान्तर्धिमीश्वरः || १७ || भव्याः कल्याणगुणाचारशालिनः | येन पुत्रलाभेन || १७ || व्योम्नि वारिनिधिर्ह्रादं कृत्वेवोर्मिमहावपुः | ततस्तौ दम्पती तुष्टौ शिवलब्धवरौ गृहम् || १८ || व्योम्नीति पूर्वान्वयि | अथवा वारि निधीयते अस्मिन्निति वारिनिधिर्मेघः | ऊर्मिभिरिव विभक्तैरवयवैर्महद्वपुर्यस्य || १८ || गतौ गीर्वाणसदृशौ स्वमिवोमामहेश्वरौ | तत्रासौ ब्राह्मणी गेहे बभूवोदारगर्भिणी || १९ || गीर्वाणा देवास्तत्सदृशौ तौ दंपती | अथवा मायिकदिव्यशरीरकल्पनाद्गीर्वाणसदृशावुमामहेश्वरौ खं वास्तवं ब्रह्माकाशमिव || १९ || बभौ पूर्णोदरा श्यामा मेघलेखेव वारिणा | कालेऽथ सुषुवे पुत्रान्प्रतिपच्चन्द्रकोमलान् || २० || दशबालांस्ततो मुग्धान्वसुधेव नवाङ्कुरान् | कृतब्राह्मणसंस्कारा वृद्धिमीयुर्महौजसः || २१ || मुग्धान् सुन्दरान् | कृता जातकर्मनामकरणान्नप्राशनचौलोपनयनवेदव्रताध्ययनादयो ब्राह्मणसंस्कारा येषाम् || २१ || स्वल्पेनैव हि कालेन प्रावृषेव नवाम्बुदाः | ते सप्तवर्षवयसो बभूवुर्ज्ञातवाङ्मयाः || २२ || प्रावृषा वर्षर्तुना || २२ || विरेजुस्तेजसा तत्र नभसीवामला ग्रहाः | अथ कालेन महता तेषां तौ पितरौ तदा || २३ || संजग्मतुस्तनुं त्यक्त्वा स्वां गतिं गतिकोविदौ | मातापितृभ्यां रहिता दश ते ब्राह्मणास्ततः || २४ || स्वां गतिं विदेहकैवल्यम् | यतो मुख्यतमगतिभूतब्रह्मकोविदौ || २४ || ययुः कैलासशिखरं गृहं संत्यज्य खेदिनः | तत्र संचिन्तयामासुरुद्विग्नास्ते विबन्धवाः(?) || २५ || खेदिनो दुःखिताः | तेषां भाग्यवशाद्भाविहैरण्यगर्भैश्वर्यप्राप्त्यनुसारि विचार उत्पन्न इत्याह ##- किं स्यादिह परं श्रेय ऊचुश्चेदं परस्परम् | किमिह स्यात्समुचितं भ्रातरः किमदुःखदम् || २६ || परं विभवोत्कृष्टं श्रेयः सुखम् | इति संचिन्त्य इदं वक्ष्यमाणं चोचुः | ऐहिकामुष्मिकसुखोपायतया स्वीकर्तुं समुचितम् | हे भ्रातरः ऐहिकसुखाहेतुत्वेऽपि परिणामे अदुःखदं किम् || २६ || प्. ३३९) २०४ किं महत्त्वं किमैश्वर्यं किं महाविभवं शुभम् | किं तदेतज्जनैश्वर्यं सामन्तो हि महेश्वर || २७ || एवं सामान्यतो विमृश्य विशेषतोऽपि विमृशन्ति - किमिति | तदेतज्जनानामैश्वर्यं किमुत्कृष्टं गृहग्रामाधिपतिभ्यः | हि यस्मात्सामन्तो मण्डलाधिपतिर्महानीश्वरः ऐश्वर्यवान् || २७ || सामन्तसंपत्किंनाम राजानो हि महेश्वराः | का नाम संपद्भूपानां सम्राडिह महेश्वरः || २८ || किं नाम कियन्नाम | राजानो देशाधिपतयः || २८ || किं नाम तन्महेन्द्रत्वं यन्मुहूर्तं प्रजापतेः | विनश्यति न यत्कल्पे किं स्यात्तदिह शोभनम् || २९ || महेन्द्रस्तर्हि महेश्वरः स्यात्तत्राह - किं नामेति || २९ || भाषमाणेष्वथैतेषु ज्येष्ठो भ्राता महामतिः | गम्भीरवागुवाचेदं मृगयूथान्मृगो यथा || ३० || एवं भाषमाणेषु भ्रातृषु जन्मान्तरे कृतहिरण्यगर्भोपास्तिरन्तरायैरन्तरा विपन्नत्वात्प्राप्तोत्तमजन्मा भ्रातृसंवादादेवोद्बुद्धप्राक्तनोपास्तिसंस्कारो महामतिर्नाम ज्येष्ठो भ्राता प्राक्स्वानुष्ठितोपास्तिक्रमं तदधिकृतेभ्यो भ्रातृभ्य उपदेष्टुकाम उवाचेत्याह - भाषमाणेष्विति | मृगो यूथपः || ३० || ऐश्वर्याणां हि सर्वेषामाकल्पं न विनाशि यत् | रोचते भ्रातरस्तन्मे ब्रह्मत्वमिह नेतरत् || ३१ || आकल्पं आप्राकृतप्रलयम् | हे भ्रातरः ब्रह्मत्वं हिरण्यगर्भता || ३१ || एतदुक्तं तदखिला द्विजपुत्रास्त उत्तमाः | वचोभिरैन्दवास्तत्र साधु साध्वित्यपूजयन् || ३२ || भाग्यवशादितरेषामपि तत्राभिरुचिरुत्पन्नेत्याह - एतदिति | तदुत्तमाः इति पाठे स महामतिरेवोत्तमो ज्येष्ठः श्रेष्ठश्च येषाम् || ३२ || ऊचुश्चेदं कथं तात सर्वदुःखोपमार्जनम् | पद्मासनं जगत्पूज्यं विरञ्चित्वमवाप्नुमः || ३३ || अत एव तदुपायमपृच्छन्नित्याह - ऊचुरिति | सर्वाणि जरामरणसातिशयत्वादिप्रयुक्तदुःखान्युपमृज्यन्ते यस्मिन्नित्यधिकरणे ल्युट् | अवाप्नुमः शीघ्रं प्राप्स्यामः | वर्तमानसामीप्यविवक्षया लट् || ३३ || भ्रात्रा तेन पुनः प्रोक्ता भ्रातरो भूरितेजसः | मदुक्तं सर्व एवेमे भवन्तः पालयन्तु वै || ३४ || तेभ्य उपागतेभ्यो हिरण्यगर्भाहंग्रहोपास्तिं सपरिकरामुपदेक्ष्यंस्तदङ्गमामृतेर्धारणादार्ढ्यं विधत्ते - मदुक्तमिति | वै इति तत्र दृढनिश्चयापेक्षाद्योतनार्थम् || ३४ || पद्मासनगतो भास्वान्ब्रह्माहमिति तेजसा | सृजामि संहरामीति ध्यानमस्तु चिराय वः || ३५ || सृजामि संहरामीति लिङ्गात्संवर्गविद्येयमुपदिष्टेति गम्यते | इतिशब्दाद्वक्ष्यमाणप्रकारक्रमः सर्वोऽप्युपदिष्टो बोध्यः | चिरायेति भ्रमरकीटन्यायेन आतद्भावोदयमित्यर्थः || ३५ || अग्रजेनेति कथिते बाढं कृत्वा त उत्तमाः | ध्यानाधीनधियस्तस्थुः सहैव ज्यायसा रसात् || ३६ || बाढं कृत्वा दृढमङ्गीकृत्य | ज्यायसा ज्येष्ठभ्रात्रा सहैव | रसात्फलरागातिशयात् || ३६ || लिपिकर्मार्पिताकारा ध्यानासक्तधियश्च ते | अन्तस्थेनैव मनसा चिन्तयामासुरादृताः || ३७ || लिपिकर्म चित्रलेखस्तदर्पिताकाराः || ३७ || अथ उत्फुल्लकमलकोशवक्रोन्नतासनः | ब्रह्माहं जगतां स्रष्टा कर्ता भोक्ता महेश्वरः || ३८ || तत्कथं चिन्तनप्रकारं वक्तुमुपक्रमते - अथेत्यादिना || ३८ || यज्ञक्रियाक्रमवतः साङ्गोपाङ्गा महर्षयः | सरस्वत्याथ गायत्र्या युक्ता वेदा नरा इमे || ३९ || यज्ञक्रियाक्रमवतो यज्ञमूर्तेर्मम याजका महर्षयः साङ्गोपाङ्गा अङ्गैः शिक्षादिभिरुपाङ्गैः पुराणादिभिश्च सहिताः सरस्वत्या गायत्र्या च युक्ता वेदा नरा मूर्तिमन्त इमे मदन्तस्था इत्यर्थः || ३९ || लोकपालपराक्रान्तः संचरत्सिद्धमण्डलः | अयमुद्दामसौभाग्यः स्वर्गः स्वरविभूषितः || ४० || पर्वतद्वीपजलधिकाननैः समलंकृतम् | इदं भूमण्डलं चैव त्रिलोकीकर्णकुण्डलम् || ४१ || त्रिलोकीलक्षणायाः स्त्रियः कर्णकुण्डलम् || ४१ || एतत्पातालकुहरं दैत्यदानवभोजितम् | अमृतस्त्रीगणाकीर्णं गृहं गगनकोटरम् || ४२ || दैत्यैर्दानवैश्च भोजितं पूरितोदरम् | अमृतानाममर्त्यानां स्त्रीगणैरप्सरोभिराकीर्णं व्याप्तं गृहमिव गृहमित्यर्थः || ४२ || अयमिन्द्रो महाबाहुः प्रजालंकृतदोत्तमः | त्रैलोक्यनगरीमेकः पाति पावनयज्ञभुक् || ४३ || अयं मदन्तस्थः प्रजानां अलंकृतमलंकारं शोभमानतां ददतीति प्रजालंकृतदा राजानः | राजभिर्हि प्रजाः शोभन्ते तेषूत्तम || ४३ || दीप्रजालवरत्राभिरवष्टभ्याथ दिग्गणम् | क्रमेण प्रतपन्त्येते भानवो भूरिभानवः || ४४ || दीप्राभिः कान्तिजाललक्षणवरत्राभिः पाशैर्दिग्गणमवष्टभ्य यथा न पलायन्ते तथा बद्ध्वा रसादानाय प्रतपन्ति | भानवो द्वादशादित्याः भूरिभानवः प्रचुरकिरणाः | क्रमेण चैत्रादिमासक्रमेण || ४४ || लोकपाला इमे लोकं रक्षन्ति [रक्षन्त्यक्षुब्धवृत्तयः इति पाठः] शुद्धवृत्तयः | मर्यादाभिरतुच्छाभिर्गोपाला गोगणं यथा || ४५ || अतुच्छाभिर्न्याययत्वान्महतीभिः [अतुच्छामिस्तुच्छान्यत्वान्महतीभिरित्यपि पाठः] || ४५ || उन्मज्जन्ति निमज्जन्ति प्रस्फुरन्ति पतन्ति च | तरङ्गा इव तोयानामिमाः प्रतिदिनं प्रजाः || ४६ || उन्मज्जन्त्याविर्भवन्ति निमज्जन्ति तिरोभवन्ति प्रस्फुरन्ति विविधविभवादिना विराजन्ते | दारिद्र्यदोषादिना पतन्ति च || ४६ || प्. ३४०) २०५ सृजामीममहं सर्गं संहरामि तथादृतः | अयमात्मनि तिष्ठामि शाम्यामि भुवनेश्वरः || ४७ || आत्मनि पारमार्थिके स्वरूपे तिष्ठामि | अत एव शाम्याम्युपरमे || ४७ || अयं संवत्सरो यात इदं परिणतं युगम् | सृष्टेरयमसौ कालः स्वयं संहरणस्य च || ४८ || उक्तमेव स्पष्टं वदन्नुपसंहरति - अयमित्यादिद्वाभ्याम् || ४८ || अयमेव गतः कल्पो ब्राह्मी रात्रिरियं तता | अयमात्मनि तिष्ठामि पूर्णात्मा परमेश्वरः || ४९ || इति भावितया उद्ध्या ते द्विजा अथ ऐन्दवाः | दशाद्रिवृत्तयस्तस्थुः समुत्कीर्णा इवोपलात् || ५० || अथ ऐन्दवा इत्यसंधिः संहिताऽनित्यत्वात् | अद्रिवृत्तयो दृढबद्धासनाः || ५० || अधिगतकमलासनक्रमास्ते परिगलितेतरतुच्छवृत्तिजालाः | सततमतितरां कुशासनस्था- श्चिरमिति पङ्कजकल्पने विरेजुः || ५१ || कुशासनस्थास्ते पङ्कजासनकल्पने सति परिगलितेतरतुच्छवृत्तिजालाः सन्तः अधिगतकमलासनक्रमाश्च सन्तो विरेजुः || ५१ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० ए० ऐन्दवसमाधानं नाम षडशीतितमः सर्गः || ८६ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे ऐन्दवसमाधानं नाम षडशीतितमः सर्गः || ८६ || सप्ताशीतितमः सर्गः ८७ भानुरुवाच | पितामहक्रमे तस्मिंस्ततस्ते बहुभावनात् | कर्मभिस्तैः समाक्रान्तमनस्कास्तस्थुरादृताः || १ || मनसा ब्रह्मभूतानां क्रव्यादैर्देहभक्षणे | प्रतिसर्गेऽथ सर्गे च तथावस्थितिरीर्यते || १ || हे पितामह ते ऐन्दवास्तस्मिन्नुपास्तिक्रमे तैस्तैर्भुवनभूतग्रामादिसृष्टिपरिपालनसंहारादिकर्मभिस्त्वमिव समाक्रान्तमनस्कास्तत्रैवादृता अत्यासक्ताः सन्तस्तावत्तस्थुर्यावत्तेषां कृशा देहा देहकाः शोषमभ्येत्य गलिता इति परेणान्वयः || १ || यावत्ते देहकास्तेषां तापेन पवनैस्तथा | कालेन शोषमभ्येत्य गलिताः शीर्णपर्णवत् || २ || जक्षुस्तान्देहकांस्तत्र क्रव्यादा वनवासिनः | इतश्चेतश्च लुठितान्सुफलानीव मर्कटाः || ३ || जक्षुर्बभक्षुः | क्रव्यादा मांसाशिनो मृगपक्षिणः || ३ || अथ ते शान्तबाह्यार्था ब्रह्मत्वे कृतभावनाः | तस्थुश्चतुर्युगस्यान्ते यावत्कल्पः क्षयं गतः || ४ || शरीरनाशे च तेषामात्यन्तिकी बाह्यार्थप्रत्ययनिवृत्तिः संपन्नेत्याह - अथेति | चतुर्युगस्य शिष्टस्यान्ते || ४ || क्षीयमाणे ततः कल्पे तपत्यादित्यसंचये | पुष्करावर्तकेषूच्चैर्वर्षत्सु कठिनारवम् || ५ || वहत्सु कल्पवातेषु स्थित एकमहार्णवे | क्षीणेषु भूतवृन्देषु ते तथैव व्यवस्थिताः || ६ || ते ऐन्दवास्तथैव स्वमनःकल्पितब्रह्माण्डे सर्गादिव्यापृततयैव व्यवस्थिताः || ६ || ततो रात्रिक्रमपरे सर्वां संहृत्य तां स्थितिम् | स्थिते त्वययात्मनि विभो ते तथैव व्यवस्थिताः || ७ || रात्रेः क्रमणं क्रमोऽतिक्रमस्तत्परे तत्प्रतीक्षे त्वयि योगनिद्रया आत्मनि स्थिते सति || ७ || अद्य प्रबुद्धे भवति स्रष्टुमिच्छति संसृतिम् | सुखेनैव क्रमेणोच्चैस्ते तथैव व्यवस्थिताः || ८ || तथैते भगवन्ब्रह्मन्ब्रह्मणो ब्राह्मणा दश | त एते दश संसारा मनोव्योमनि संस्थिताः || ९ || तेषामेकतमस्याहमयमाकाशमन्दिरे | भानुर्भुवि विभो कालकलाकर्मणि योजितः || १० || एतावता ग्रन्थेन कथमिदं जातमिति प्रश्नस्योत्तरमुक्त्वा कस्त्वमित्यस्योत्तरमाह - तेषामित्यादिना | तेषामैन्दवसर्गाणां मध्ये एकतमस्य ब्रह्माण्डस्य च्छिद्रभूताकाशलक्षणे मन्दिरे | भुवीति त्रैलोक्योपलक्षणम् | भूलोक एव कर्माङ्गतया कालविभागज्ञानस्य विशेषोपयोगात् || १० || एष ते कथितः सर्गो दिशानामब्जसंभव | ब्रह्मणां संभवो व्योम्नि यथेच्छसि तथा कुरु || ११ || एषु सर्गेषु सत्स्वपि न तव सर्गे कोऽपि विरोध इत्याशयेनाह - यथेच्छसीति || ११ || विविधकल्पनया वलिताम्बरं यदिदमुत्तम जागतमुत्थितम् | करणजालकमाहितमोहनं तदखिलं निजचेतसि विभ्रमः || १२ || कुतो न विरोध इति चेन्मनःकल्पनामात्रत्वेनासत्यत्वादित्याशयेनाह - विविधेति | हे उत्तम करणानां बाह्याभ्यन्तराणां जालकमिव बन्धनभूतम् | आहितेन आसङ्गेन मोहनं यदिदं जागतं दृश्यजातमुत्थितं तदखिलं तेषां निजचेतसि स्वचित्ते विभ्रमो भ्रान्तिमात्रं न वस्तुसदित्यर्थः || १२ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० उ० ऐन्दवो० दशजगद्वर्णनं नाम सप्ताशीतितमः सर्गः || ८७ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे दशजगद्वर्णनं नाम सप्ताशीतितमः सर्गः || ८७ || प्. ३४१) २०५ अष्टाशीतितमः सर्गः ८८ श्रीब्रह्मोवाच | ब्रह्माणो ब्राह्मणा भानुरित्युक्त्वा ब्रह्मणो मम | ब्रह्मन्ब्रह्मविदां श्रेष्ठ तूष्णीमेव बभूव सः || १ || इह धातुरनासक्त्या सर्गसिद्धिरुदीर्यते | मनसा दृढसिद्धस्य तथान्यैरनिवर्तनम् || १ || उक्तां कथामुपसंहरति - ब्रह्माण इति | ब्रह्मन्ब्रह्मविदां श्रेष्ठेति भानुकृतं ब्रह्मसंबोधनं ब्रह्मकृतं वसिष्ठसंबोधनं च | ते दश ब्रह्माणः प्रागुक्ता ब्राह्मणा एव नान्ये इति स भानुर्ब्रह्मणो मम पुर उक्त्वा तूष्णीमेव बभूवेत्यर्थः || १ || तत उक्तं मया तस्य चिरं संचिन्त्य चेतसा | भानो भानो वदाशु त्वं किमन्यत्संसृजाम्यहम् || २ || भानो भानो इत्यादराद्विरुक्तिः || २ || एतानि दश विद्यन्ते किल यत्र जगन्ति वै | तत्रान्यो मम सर्गेण कोऽर्थः कथय भास्कर || ३ || कोऽर्थः किं प्रयोजनम् || ३ || इत्युक्तोऽथ मया भानुः संचिन्त्य सुचिरं धिया | इदमत्र वचो युक्तमुवाच स महामुने || ४ || युक्तं मत्प्रश्नोचितम् || ४ || भानुरुवाच | निरीहस्य निरिच्छस्य कोऽर्थः सर्गेण ते प्रभो | विनोदमात्रमेवेदं सृष्टिस्तव जगत्पते || ५ || निष्कामादेव भवतः सर्गः संपद्यते प्रभो | अर्कादिव जलादित्यप्रतिबिम्बमिवाधियः || ६ || अर्काज्जलादित्यात्मकं प्रतिबिम्बमिव | अधियो निर्मनस्कात् || ६ || शरीरसंनिवेशस्य त्यागे रागे च ते यदा | निष्कामो भगवन्भावो नाभिवाञ्छति नोज्झति || ७ || सर्गे निष्कामतां कैमुतिकन्यायेन द्रढयति - शरीरेति | शरीरात्मकस्यावयवसन्निवेशस्य त्यागे रागे अहमभिमानेन स्वीकृत्य रञ्जने च ते भावो निष्कामः || ७ || सृजसीदं तथा देव विनोदायैव भूतप | पुनः संहृत्य संहृत्य दिनं दिनपतिर्यथा || ८ || दिनं दिनपतिर्यथा सृजति तथा सृजसि || ८ || तव नित्यमसंसक्तं विनोदायैव केवलम् | इदं कर्तव्यमेवेति जगन्न तूद्यमेच्छया || ९ || कर्तव्यं सर्गार्हम् | उद्यमः स्वार्थाभिलाषेणोद्योगस्तदिच्छया तु न || ९ || सृष्टिं चेन्न करोषि त्वं महेश [महेच्छ इति पाठः तत्र हे महेच्छ महाशयेत्यर्थः] परमात्मनः | नित्यकर्मपरित्यागात्किमपूर्वमवाप्स्यसि || १० || आत्मनः स्वस्य नित्यकर्मपरित्यागात्परमन्यदपूर्वमदृष्टं किमवाप्स्यसि | न किंचिदित्यर्थः || १० || यथाप्राप्तं हि कर्तव्यमसक्तेन सदा सता | मुकुरेणाकलङ्केन प्रतिबिम्बक्रिया यथा || ११ || तर्हि किमुपरमो युक्तो नेत्याह - यथाप्राप्तमिति || ११ || यथैव कर्मकरणे कामना नास्ति धीमताम् | तथैव कर्मसंत्यागे कामना नास्ति धीमताम् || १२ || अप्राप्तकरण इव प्राप्तत्यागेऽपि हेत्वभावादित्यर्थः || १२ || अतः सुषुप्तोपमया धिया निष्कामया तया | सुषुप्तबुद्धसमया कुरु कार्यं यथागतम् || १३ || परमार्थतोऽकरणात्सुषुप्तोपमया | प्रतीतितः करणात्तु सुषुप्तेर्बुद्धः स्वप्नस्तत्समया || १३ || सर्गैरथेन्दुपुत्राणां तोषमेषि जगत्प्रभो | तदेते तोषयिष्यन्ति तं त्वां सर्गात्सुरेश्वर || १४ || किंचैतैरैन्दवसर्गैस्त्वं स्वपुत्रपौत्रादीनां संपद्वृद्धिदर्शनादिव यदि तोषमेषि तत्तर्हि एते ऐन्दवा अग्रेऽपि सर्गात्तं तोषशीलं त्वां तोषयिष्यन्तीत्यर्थः || १४ || चित्तनेत्रैर्भवानेतान्सर्गानन्यस्य नो दृशा | अवश्यं चक्षुषा सर्गं सृष्टमित्येव वेत्ति कः || १५ || अस्तु तोषः तथापि मत्सर्गस्तेन कुतो न गतार्थस्तत्राह - चित्तनेत्रेणेति | भवानन्यस्य सर्ग चित्तरूपेण नेत्रेण पश्यति दृशा चक्षुषा तु नो पश्यति | कस्तत्स्रष्टा तु स्वकृतं सर्गं मयेदं सृष्टमिति चक्षुषैवावश्यं वेत्ति अतस्ते स्वचक्षुर्दर्शनार्हः सर्गो नान्येन गतार्थ इत्यर्थः || १५ || येनैव मनसा सर्गो निर्मितः परमेश्वर | स एव मांसनेत्रेण तं पश्यति हि नेतरः || १६ || तर्ह्यैन्दवकृतसर्ग एव मया चक्षुषा द्रष्टव्यस्तत्राह - येनैवेति || १६ || न चैतान्दश संसारान्दश नीरजसंभवान् | कश्चिन्नाशयितुं शक्तश्चित्तदार्ढ्याच्चिरस्थितान् || १७ || यद्येवं तर्हि वृथा मन्मनसा दृश्योऽयमैन्दवसर्गो मत्प्रतिकूल एवेति मया नाशनीयस्तत्राह - न चैतानिति | दशैतान्संसारांस्तद्धेतून्दश नीरजसंभवान्पद्मजान्वा कश्चिन्नाशयितुं शक्तः || १७ || कर्मेन्द्रियैर्यत्क्रियते तद्रोद्धुं किल युज्यते | न मनोनिश्चयकृतं कश्चिद्रोधयितुं क्षमः || १८ || रोद्धुं रोधयितुमित्यनयोर्नाशयितुमित्यर्थः || १८ || यो बद्धपदतां यातो जन्तोर्मनसि निश्चयः | स तेनैव विना ब्रह्मन्नान्येन विनिवार्यते || १९ || बद्धपदतां रूढमूलताम् || १९ || बहुकालं यदभ्यस्तं मनसा दृढनिश्चयम् | शापेनापि न तस्यास्ति क्षयो नष्टेऽपि देहके || २० || शापेन तर्हि स मया निरसनीयस्तत्राह - बहुकालमिति || २० || प्. ३४२) २०६ यद्वद्धपीठमभितो मनसि प्ररूढं तद्रूपमेव पुरुषो भवतीह नान्यत् | तद्बोधनादितरमत्र किलाभ्युपायं शैलौघसेकमिव निष्फलमेव मन्ये || २१ || बद्धपीठं स्थिरीभूतम् | अत एव हि मूढानां संसारनिवारणे तद्बोधनमेवोपायो न वरशापादिरन्य इत्याह - तद्बोधनादिति | शैलौघानां शिलाशकलसमूहानामङ्कुरोदयेच्छया सेकमिव निष्फलमेवाहं मन्ये || २१ || इत्यार्षे श्रीवासिष्ठमहारामायणे वा० उत्पत्तिप्रकरणे ऐ० ऐन्दवनिश्चयकथनं नामाष्टाशीतितमः सर्गः || ८८ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे ऐन्दवनिश्चयकथनं नामाष्टाशीतितमः सर्गः || ८८ || एकोननवतितमः सर्गः ८९ भानुरुवाच | मनो हि जगतां कर्तृ मनो हि पुरुषः परः | मनःकृतं कृतं लोके न शरीरकृतं कृतम् || १ || मनसो बद्धपीठस्य परयवैरचाल्यता | इन्द्राहल्यामनोवृत्त्कथयात्र प्रकाश्यते || १ || समष्टिभावापन्नं मन एव परः पुरुषो हिरण्यगर्भः || १ || सामान्यब्राह्मणा भूत्वा मनोभावनया किल | ऐन्दवा ब्रह्मतां याता मनसः पश्य शक्तताम् || २ || मनसा भाव्यमानो हि देहतां याति देहकः | देहभावनयाऽयुक्तो देहधर्मैर्न बाध्यते || ३ || देहभावनया अयुक्त इति च्छेदः | मुक्त इति पाठः स्पष्टः | देहधर्मैर्जन्ममरणादिभिः || ३ || बाह्यदृष्टिर्हि नियतं सुखदुःखादि विन्दति | नान्तर्मुखतया योगी देहे वेत्ति प्रियाप्रिये || ४ || बाह्ये दृष्टिर्देहादावात्मात्मीयदृष्टिर्यस्य सः || ४ || मनःकारणकं तस्माज्जगद्विविधविभ्रमम् | इन्द्रस्याहल्यया सार्धं वृत्तान्तोऽत्र निदर्शनम् || ५ || वक्ष्यमाणकथां वक्तुमुक्तमुपसंहरति - मनःकारणकमिति || ५ || श्रीब्रह्मोवाच | काहल्या भगवन्भानो को वात्रेन्द्रस्तमोनुद | ययोरुदन्तश्रवणे पावनी दृष्टिरेति हि || ६ || उदन्तो वृत्तान्तस्तस्य श्रवणे सति || ६ || भानुरुवाच | श्रूयते हि पुरा देव मागधेषु महीपतिः | इन्द्रद्युम्न इति ख्यात इन्द्रद्युम्न इवापरः || ७ || अपरः पुराणान्तरप्रसिद्ध इन्द्रद्युम्न इव || ७ || तस्येन्दुबिम्बप्रतिमा भार्या कमललोचना | अहल्या नाम तत्रासीच्छशाङ्कस्येव रोहिणी || ८ || तस्मिन्नेव पुरे षिड्गः षिड्गप्रकरशेखरः | इन्द्रनामा परः कद्धिश्चीमान्विप्रकुमारकः || ९ || षिड्गो विटः | षिड्ग इति पाठेऽपि स एवार्थः | धीमान्विटविद्याकुशलः || ९ || अहल्या पूर्वमिन्द्रस्य बभूवेष्टेत्यहल्यया | श्रुतं राजमहिष्याथ कथाप्रस्तावतः क्वचित् || १० || अहल्या गौतमपत्नी || १० || आकर्ण्यैवमहल्या सा बभूवेन्द्रानुरागिणी | अहल्यां मां स नो कस्मात्सक्तोऽभ्येतीत्यथोत्सुका || ११ || स इन्द्रः सक्त आसक्तः सन् कुतो नो एति नागच्छतीत्युत्सुका उत्कण्ठिता || ११ || मृणालभारकदलीपल्लवास्तरणेषु सा | अतप्यत भृशं बाला लता लूना वनेष्विव || १२ || खेदमाप समग्रासु तासु भूपविभूतिषु | मत्सी निदाघतप्तासु परिलोला स्थलीष्विव || १३ || निदाघेन ग्रीष्मेण तप्तासु स्थलीषु परिलोला मत्सीव | सूर्यतिष्यागस्त्यमत्स्यानां य उपधायाः इति यलोपः || १३ || अयमिन्द्रोऽयमिन्द्रश्चेत्येवं जातप्रलापया | लज्जापि हि तया त्यक्ता वैवश्यमनुयातया || १४ || तथा लज्जापि त्यक्ता | अनुयातया अनुसृतया || १४ || इत्यार्तया घनस्नेहमथ तस्या वयस्यया | उक्तं तया प्रियेऽविघ्नमिन्द्रमभ्यानयाम्यहम् || १५ || अथानन्तरं तस्या वयस्यया एवंविधां दृष्ट्वा आर्तया तया इति उक्तम् | हे प्रिये सखि अहमिन्द्रमभिमुखमविघ्नं यथा स्यात्तथा आनयामि || १५ || इष्टं तवानयामीति श्रुत्वा विकसितेक्षणा | पपात पादयोः सख्या नलिन्या नलिनी यथा || १६ || नलिनी पद्मिनी ग्लाना अन्यस्य नलिन्या मूले यथा पतति तद्वत् || १६ || ततः प्रयाते दिवसे समायाते निशागमे | सा वयस्या तमिन्द्राख्यं ययौ द्विजकुमारकम् || १७ || बोधयित्वा यथायुक्तं सा तमिन्द्रमथाङ्गना | अहल्यानिकटं रात्र्यामानयामास सत्वरम् || १८ || ततः सा तेन षिड्गेन सहेन्द्रेण रतिं ययौ | कस्मिंश्चित्सदने गुप्ते बहुमाल्यविलेपना || १९ || हाराङ्गदमनोज्ञेन तरुणी तेन सा तदा | रतेनावर्जिता वल्ली रसेन [रतेन इति पाठः] मधुना यथा || २० || रतेन सुरतोचितक्रीडनेन आवर्जिता वशीकृता | मधुना वसन्तेन || २० || ततस्तदनुरक्ता सा पश्यन्ती तन्मयं जगत् | न समस्तगुणाकीर्णं भर्तारं बह्वमन्यत || २१ || केनचित्त्वथ कालेन तस्या इन्द्रानुरागिता | सा ज्ञाता राजसिंहेन तन्मुखव्योमचन्द्रिका || २२ || तन्मुखव्योम्नश्चन्द्रिकेवप्रकाशहेतुः || २२ || प्. ३४३) २०६ इन्द्रं ध्यायति सा यावत्तावत्तस्या विराजते | मुखं पूर्णेन चन्द्रेण प्रबुद्धमिव कैरवम् || २३ || तदेव स्पष्टमाह - इन्द्रमिति || २३ || इन्द्रोऽपि च तदासक्तसमस्तकरणाकुलः | न तिष्ठति क्षणमहो तया विरहितः क्वचित् || २४ || अथातिसुघनस्नेहनिरावरणचेष्टयोः | तयोरनयवृत्तान्तो राज्ञाकर्णि कटुव्यथः || २५ || अतिशयितेन सुघनेन निरन्तरेण च स्नेहेन निरावरणा अप्रच्छन्नाश्चेष्टा ययोस्तयोः | कट्वी दुःसहा व्यथा यस्मात्सः || २५ || एवमन्योन्यमासक्तं भावमालक्ष्य भूपतिः | चकार बहुभिर्दण्डैः स द्वयोरथ शासनम् || २६ || शासनं पीडनम् || २६ || तावुभावपि संत्यक्तौ हेमन्ते सलिलाशये | तुष्टौ जहसतुस्तत्र न खेदं समुपागतौ || २७ || तदेव विशिष्य दर्शयति - तावित्यादिना | तत्र लौकिकेऽसत्ये कुत्सितेऽपि विषये चित्तस्थैर्ये यदा न दुःखं सुखसंपत्तिश्च तदा परमात्मनि तत्स्थैर्ये तत्प्रसक्तिसंभावनापि दूरं निरस्ता निरतिशयानन्दावाप्तिश्च स्वतःसिद्धेति तात्पर्यरहस्यं सूचयंस्तयोश्चित्तस्थैर्यफलद्वयं प्रपञ्चयति - तुष्टावित्यादिना || २७ || अपृच्छत ततो राजा खिन्नौ स्थो न तु दुर्मती | तावूचतुर्महीपालं जलाशयसमुद्धृतौ || २८ || संस्मृत्यावामिहान्योन्यमुखकान्तिमनिन्दिताम् | आत्मानं न विजानीवो रूढभावं परस्परम् || २९ || आत्मानं स्वदेहम् | रूढभावमिति क्रियाविशेषणम् || २९ || शासनेषु च यत्सङ्गो निःशङ्कस्तेन हर्षितौ | मुह्यावो न महीपाल स्वाङ्गैरपि विकर्तितैः || ३० || यद्यस्मादावयोः सङ्गो मनःसंबन्धो निःशङ्को भेदशङ्काशून्यस्तेन हेतुना शासनेषु त्वत्कृतेषु पीडनेषु हर्षितौ स्वो न मुह्यावश्च || ३० || ततो भ्राष्ट्रे परिक्ष्प्तावखिन्नावेवमेव तौ | ऊचतुर्मुदितात्मानावन्योन्यस्मृतिहर्षितौ || ३१ || एवं पूर्वोक्तरीत्यैवोचतुः || ३१ || ग्रथितौ गजपादेषु न खिन्नावेव संस्थितौ | एवमेवोचतुर्भूपमन्योन्यस्मृतिहर्षितौ || ३२ || कशाहतावखिन्नौ तावेवमेव किलोचतुः | अन्यस्माच्छासनाद्राज्ञा कल्पिताच्च पुनः पुनः || ३३ || उद्धृतावूचतुः पृष्टौ तमेवार्थं पुनः पुनः | उवाचेन्द्रो महीपालं जगन्मे दयितामयम् || ३४ || न शातनानि दुःखानि बाधन्ते किंचिदेव मे | अस्याश्चैव जगद्राजन्सर्वं मन्मयमेव च || ३५ || दुःखानि दुःखहेतून्यपि शरीरशातनानि किंचिन्न बाधन्त एवेति योजना || ३५ || तेनान्यशासनाद्दुःखं किंचिदेव न विद्यते | मनोमात्रमहं राजन् मनो हि पुरुषः स्मृतः || ३६ || अन्यशासनादन्यस्मात्पीडनादपि | न विद्यते आवयोरिति शेषः || ३६ || प्रपञ्चमात्रमेवायं देहो दृश्यत एव हि | समकालप्रयुक्तेन सहसा दण्डराशिना || ३७ || प्रपञ्चः कल्पितो विस्तारो मनस एवेत्यर्थः | मन एव तर्हि दण्डैर्भेत्स्यामि तत्राह - समकालेति | समशब्द एकपरः || ३७ || वीरं मनो भेदयितुं मनागपि न शक्यते | का नाम ता महाराज कीदृश्यः कस्य शक्तयः || ३८ || वीरं इष्टार्थस्थैर्यशूरम् || ३८ || याभिर्मनांसि भिद्यन्ते दृष्टनिश्चयवन्त्यपि | वृद्धिमायातु वा देहो यातु वा विशरारुताम् || ३९ || दृष्टोऽनुभूयमानस्तद्भावापत्तिपर्यन्तो निश्चयो दृष्टनिश्चयस्तद्वन्त्यपि मनांसि विशरारुतां विशीर्णताम् || ३९ || भावितार्थाभिपतितं मनस्तिष्ठति पूर्ववत् | इष्टेऽर्थे चिरमाविष्टं दधानं तत्स्थितं [तद्गतं मनः इति पाठः] मनः || ४० || आविष्टमभिनिवेशं दधानम् || ४० || भावाभावाः शरीरस्था नृप शक्ता न बाधितुम् | भावितं तीव्रवेगेन मनसा यन्महीपते || ४१ || तदेव पश्यत्यचलं न शरीरविचेष्टितम् | न काश्चन क्रिया राजन्वरशापादिका अपि || ४२ || अचलं स्थिरम् || ४२ || तीव्रवेगेन संपन्नं शक्ताश्चालयितुं मनः | तीव्रवेगेन संयुक्तं पुरुषा ह्यभिवाञ्छितात् || ४३ || तीव्रवेगेन दृढाभिनिवेशेन | अभिवाञ्छितादिष्टार्थाच्चालयितुम् || ४३ || मनश्चालयितुं शक्ता न महाद्रिं मृगा इव | ममेयमसितापाङ्गी मनःकोशे प्रतिष्ठिता || ४४ || देवागारे महोत्सेधे देवी भगवती यथा | न दुःखमनुगच्छामि प्रियया जीवरक्षया || ४५ || गिरिर्ग्रीष्मदशादाहं लग्नयेवाब्दमालया | यत्र यत्र यथा राजंस्तिष्ठाम्यभिपतामि वा || ४६ || तत्रेष्टसंगमादन्यत्किंचिन्नानुभवाम्यहम् | अहल्यादयितानाम्ना मनसेन्द्राभिधं मनः || ४७ || इष्टसंगमादभिलषितार्थलाभादन्यत्किंचिदणुमात्रमपि नानुभवामि | तथाच मन एव वेषद्वयेन दृढसंगतं स्वभावात्स्वभावान्तरं यत्नशतैरपि गमयितुमशक्यमित्याशयेनाह - अहल्येति || ४७ || संसक्तमिदमायाति न स्वभावादृते परम् | एककार्यनिविष्टं हि मनो धीरस्य भूपते || ४८ || एककार्यनिविष्टमेकाग्रम् | परं विषयान्तरम् || ४८ || न चाल्यते मेरुरिव वरशापबलैरपि | देहो हि वरशापाभ्यामन्यत्वमिव गच्छति | ननु धीरं मनो राजन्विजिगीषुतया स्थितम् || ४९ || सर्वविक्षेपविजिगीषुतया स्थितम् || ४९ || प्. ३४४) २०७ एतानि चात्र मनसां न च कारणानि राजञ्शरीरशकलानि वृथोत्थितानि | चेतो हि कारणममीषु शरीरकेषु वारीव सर्ववनखण्डलतारसेषु || ५० || ननु देह एव मनसः कारणं देहपीडने कुतो न पीड्यते तत्राह - एतानीति | एतानि परिदृश्यमानानि प्राणिनां शरीरलक्षणानि शकलानि कल्पनैकदेशा मनसां न कारणानि किंतु चेतो मन एवामीषु शरीरकेषु कारणमित्यर्थः || ५० || आद्यं शरीरमिह विद्धि मनो महात्म- न्संकल्पितो जगति तेन शरीरसङ्घः | आद्यं शरीरमधितिष्ठति यत्र यत्र तत्तद्भृशं फलति नेतरदस्य पुंसः || ५१ || आद्यं आत्मनः प्रथमभोगायतनम् | अधितिष्ठति अहमित्यभिमानेनाविर्भवति | तेनाधिष्ठानेन तत्तच्छरीराद्याकारं फलतीत्यर्थः || ५१ || मुख्याङ्कुरं सुभग विद्धि मनो हि पुंसो देहास्ततः प्रविसृतास्तरुपल्लवाभाः | नष्टेऽङ्कुरे पुनरुदेति न पल्लवश्री- र्नैवाङ्कुरः क्षयमुपैति दलक्षयेषु || ५२ || उक्तमेवार्थ दृष्टान्तेनोपपादयन्नाह - मुख्याङ्कुरमिति || ५२ || देहे क्षते विविधदेहगणं करोति स्वप्नावनाविव नवं नवमाशु चेतः | चित्ते क्षते तु न करोति हि किंचिदेव देहस्ततः समनुपालय चित्तरत्नम् || ५३ || अत एव देहनाशेऽपि पुनःपुनर्देहोद्भवः चित्तनाशे तु कैवल्यमेव न पुनर्भव इति प्रसिद्धमित्याह - देह इति | ततश्चित्तलक्षणं रत्नं सर्वार्थहेतुभूतं चिन्तामणिं समनुपालय परमपुरुषार्थसमाधानेन रक्ष न तुच्छक्रोधादिवशतया विनाशयेत्यर्थः || ५३ || दिशि दिशि हरिणाक्षीमेव पश्यामि राजन् प्रिययुवतिमनस्त्वान्नित्यमानन्दितोऽस्मि | तव पुरप्रकृतीनां यत्फलं दुःखदायि क्षणमथ सुचिरं तत्तन्न पश्यामि किंचित् || ५४ || उक्तार्थं पिण्डीकृत्यानूद्योपसंहरन्दण्डनप्रयत्नवैफल्यमाह - दिशि दिशीति | तव पुरस्य तदन्तर्गतप्रकृतीनां सेवकादिप्रजानां वा मध्ये यन्मम दुःखदायिकशाशस्त्रघातादि यच्च तत्फलं दुःखं तत्तत्किंचित्क्षणकालमथवा सुचिरं न पश्यामीत्यर्थः || ५४ || इत्यार्षे श्रीवासिष्ठमहारामायणे वा० उत्पत्तिप्रकरणे कृत्रिमेन्द्राहल्यानुरागो नामैकोननवतितमः सर्गः || ८९ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे कृत्रिमेन्द्राहल्यानुरागो नामैकोननवतितमः सर्गः || ८९ || नवतितमः सर्गः ९० भानुरुवाच | अथेन्द्रेणैवमुक्तोऽसौ राजा राजीवलोचनः | मुनिं भरतनामानं पार्श्वसंस्थमुवाच ह || १ || भरतस्य मुनेः शापान्नष्टयोरपि देहयोः | न मानसी तन्मयता तयोर्नष्टेति कीर्त्यते || १ || राजीवं पद्ममिव लोचने यस्य || १ || राजोवाच | भगवन्सर्वधर्मज्ञ पश्यामि सुदुरात्मनः | भृशमस्य मुखे स्फारं धार्ष्ट्यं मद्दारहारिणः || २ || अस्येन्द्रस्य मुखे | स्फारं प्रचुरम् || २ || पापानुरूपमस्याशु शापं देहि महामुने | यदवध्यवधात्पापं वध्यत्यागात्तदेव हि || ३ || वध्यस्य वधार्हस्य त्यागादवधादपि तदेव पापं भवतीति हि धर्मशास्त्रे प्रसिद्धमित्यर्थः || ३ || इत्युक्तो राजसोंहेन भरतो मुनिसत्तमः | यथावत्प्रविचार्याशु पापं तस्य दुरात्मनः || ४ || सहानया दुष्कृतिन्या भर्तृद्रोहाभिभूतया | विनाशं व्रज दुर्बुद्धे इति शापं विसृष्टवान् || ५ || अनया अहल्यया सह | विनाशं मृत्युम् || ५ || ततस्तौ राजभरतौ प्रत्यूचतुरिदं वचः | सुदुर्मती युवां याभ्यां क्षपितं दुश्चरं तपः || ६ || राजभरतौ प्रति इदं वच ऊचतुः || ६ || अनेन शापदानेन किंचिद्भवति नावयोः | देहे नष्टे न नौ किंचिन्नश्यति स्वान्तरूपयोः || ७ || नौ आवयोः किंचिदपि न नश्यति | तत्र हेतुः - स्वान्तरूपयोरिति || ७ || स्वान्तं हि नहि केनापि शक्यते नाशितुं क्वचित् | सूक्ष्मत्वाच्चिन्मयत्वाच्च दुर्लक्ष्यत्वाच्च विद्धि नौ || ८ || नाशितुं नाशयितुम् | सेटि णिलोपश्छान्दसः परैर्दुर्लक्ष्यत्वाच्च || ८ || श्रीभानुरुवाच | सुघनस्नेहसंबद्धमनस्कावेव शापतः | पतितौ भूतले वृक्षविच्युताविव पल्लवौ || ९ || पतितौ मृताविति यावत् || ९ || अथ व्यसनसंसक्तौ मृगयोनिमुपागतौ | ततो द्वावपि संसक्तौ भूयो जातौ विहंगमौ || १० || व्यसनेन दृढविषयरागेण संसक्तौ बद्धौ || १० || अथास्माकं विभो सर्गे मिथःसंबन्धभावनौ | तपःपरौ महापुण्यौ जातौ ब्राह्मणदम्पती || ११ || अथ बहुजन्मपरम्परानन्तरम् | अस्माकं सर्गे अस्मदीये ब्रह्माण्डे || ११ || भारतोऽपि तयोः शापः स समर्थो बभूव ह | शरीरमात्राक्रमणे न मनोनिग्रहे प्रभो || १२ || भारतो भरतेन दत्तः शापस्तयोः शरीरमात्रस्याक्रमणे नाशे समर्थो बभूव नतु मनोनिग्रहे इत्यर्थः || १२ || प्. ३४५) २०७ तावद्यापि हि तेनैव मोहसंस्कारहेतुना | यत्र यत्र प्रजायेते भवतस्तत्र दम्पती || १३ || अकृत्रिमप्रेमरसानुविद्धं स्नेहं तयोस्तं प्रतिवीक्ष्य कान्तम् | वृक्षा अपि प्रेमरसानुविद्धाः शृङ्गारचेष्टाकुलिता भवन्ति || १४ || वृक्षा अपि शृङ्गारचेष्टाकुलिता भवन्ति किं पुनरन्ये इत्यतिशयोक्तिः || १४ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे कृत्रिमेन्द्राहल्यानुरागो नाम नवतितमः सर्गः || ९० || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे कृत्रिमेन्द्राहल्यानुरागो नाम नवतितमः सर्गः || ९० || एकनवतितमः सर्गः ९१ भानुरुवाच | तेनैतद्वच्मि भवगन्यथाकालं मनो मुने | अनिग्राह्यमभेद्यं च शापैरपि दुरासदैः || १ || इह भानुं मनुं कृत्वा धातुः सर्गो निरूप्यते | मनोमात्रविलासत्वं विश्वस्यैन्दवसर्गवत् || १ || तेन भारतः शापो न मनोनिग्रहे समर्थो बभूवेत्युक्तेन हेतुना || १ || ऐन्दवानामतः सृष्टिक्रमाणां प्रविनाशनम् | युज्यते न च तद्ब्रह्मन्युक्तमेतन्महात्मनः || २ || अतो हेतोरैन्दवानां सृष्टिक्रमाणां प्रविनाशनं त्वया कर्तुं न युज्यते न पार्यते महात्मनस्तव तद्युक्तमुचितं च न भवतीत्यर्थः || २ || किं तदस्ति जगत्यस्मिन्विविधेषु जगत्सु च | तवापि नाथ नाथस्य यद्दैन्याय महात्मनः || ३ || तर्हि वृथा मम सर्गः स्यादिति दैन्यमालक्ष्याह - किं तदिति || ३ || मनो हि जगतां कर्तृ मनो हि पुरुषः स्मृतः | यन्मनोनिश्चयकृतं तद्द्रव्यौषधिदण्डनैः || ४ || हन्तुं न शक्यते जन्तोः प्रतिबिम्बं मणेरिव | तस्मादेतेऽत्र तिष्ठन्तु भासुरैः सर्गसंभ्रमैः || ५ || एते ऐन्दवाः || ५ || त्वं सृष्ट्वेह प्रजास्तिष्ठ बुद्ध्याकाशो ह्यनन्तकः | चित्ताकाशश्चिदाकाश आकाशश्च तृतीयकः || ६ || क्व तर्हि मत्सर्गस्यावकाशस्तत्राह - त्वमिति | इह स्वचित्ताकाशे अनन्तं वै मनः इति श्रुतेरिति भावः | प्रथमश्चिदाकाशश्चिदाभासाकाशः || ६ || अनन्तास्त्रय एवैते चिदाकाशप्रकाशिताः | एकं द्वौ त्रीन्बहून्वापि कुरु सर्गाञ्जगत्पते || ७ || साक्षिकूटस्थचिदाकाश प्रकाशिताः | चित्ताकाशेऽनन्तकोटिब्रह्माण्डानामप्यवकाशोऽस्ति किं पुनरेकस्येत्याशयेनाह - एकमिति || ७ || स्वेच्छयात्मनि तिष्ठ त्वं किं गृहीतं तवैन्दवैः | ब्रह्मोवाच | अथैन्दवजगज्जाले भानुनैवमुदाहृते || ८ || मया संचिन्त्य सुचिरमिदमुक्तं महामुने | युक्तमुक्तं त्वया भानो विततं हि किलाम्बरम् || ९ || अम्बरं प्रागुक्तमाकाशचतुष्टयमपि || ९ || मनश्च विततं वापि चिदाकाशश्च विस्तृतः | तद्यथाभिमतं सर्गं नित्यकर्म करोम्यहम् || १० || तत्र द्वयोरेव सर्गाधारता मुख्येत्याशयेनाह - मनश्चेति | चिदाकाशो मनोवच्छिन्नः | भूताकाशस्य सृज्यान्तःपाताद्ब्रह्माकाशस्यासङ्गतया सर्गानाधारत्वादिति || १० || कल्पयामि बहून्याशु भूतजालानि भास्कर | तत्त्वमेवाशु भगवन्प्रथमो मे मनुर्भव || ११ || तत्तस्मिन्सर्गे प्रथमो मनुः स्वायंभुवः || ११ || कुरु सर्गं यथाकामं मया समभिचोदितः | अथैतत्स महातेजा मम वाक्यं प्रभाकरः || १२ || समभिचोदित आज्ञप्तः सन् || १२ || अङ्गीकृत्य द्विधात्मानं चकार तपतांवर | एकेन प्राक्तनेनास्मिन्वपुषा सूर्यतां गतः || १३ || तपतांवरेति वसिष्ठसंबोधनम् | अस्मिन् ऐन्दवसर्गे || १३ || व्योमाध्वगतया सर्गे ततान् दिवसावलिम् | मन्मनुत्वं द्वितीयेन कृत्वा स्ववपुषा क्षणात् || १४ || ससर्ज सकलां सृष्टिं तां तामभिमतां मम || १५ || एतत्ते कथितं सर्वं वसिष्ठमनसो मुने | स्वरूपं सर्वकृत्त्वं च शक्तत्वं च महात्मनः || १६ || उपसंहरति - एतदिति | महात्मनो मनसः || १६ || प्रतिभासमुपायाति यद्यदस्य हि चेतसः | तत्तत्प्रकटतामेति स्थैर्यं सफलतामपि || १७ || सफलतां भोगव्यवहारप्रयोजकतामपि || १७ || सामान्यब्राह्मणा भूत्वा प्रतिभासवशात्किल | ऐन्दवा ब्रह्मतां याता मनसः पश्य शक्तताम् || १८ || यथा चैन्दवजीवास्ते चित्रत्वाद्ब्रह्मतां गताः | वयं तथैव चिद्भावाच्चित्तत्वाद्ब्रह्मतां गताः || १९ || स्वस्यापि हिरण्यगर्भता ऐन्दववन्मानस्येवेत्याह - यथेति | चिद्भावाच्चित्तत्वं प्राप्य चित्तत्वाद्ब्रह्मतां हिरण्यगर्भताम् || १९ || चित्तं हि प्रतिभासात्म यच्च तत्प्रतिभासनम् | तदिदं भाति देहादि स्वान्तं नान्यास्ति देहदृक् || २० || तदेव स्वान्तं मन एवास्ति | देहदृक् देहप्रतीतिश्चित्तादन्या नास्ति || २० || चित्तमात्मचमत्कारं तच्च तत्कुरुते स्वतः | यथावत्संभवं स्वात्मन्येवान्तर्मरिचादिवत् || २१ || आत्मनि स्वस्मिंश्चमत्काराः कल्पना यस्य तथाविधं भवति | आत्मचमत्कारत्वं विवृणोति - तच्च तत्कुरुते इति | तर्हि सर्वेषां मनस्तुल्यं कुतो न कल्पयति तत्राह - यथावत्संभवमिति | यथावत्कामकर्मवासनानुसाराद्यावद्यदा संभवति तदा तावदेवेत्यर्थः | यथा मरिचं कटुतयैवान्तःपरिणमते निम्बस्तु तिक्ततया द्राक्षा मधुरतयेति स्वस्वसंस्काराद्व्यवस्थितं तद्वदित्यर्थः || २१ || प्. ३४६) २०८ तदेतच्चित्तवद्भातमातिवाहिकनामकम् | तदेवोदाहरन्त्येवं देहनाम्ना घनभ्रमम् || २२ || अत एव देवोऽहं मनुष्योऽहमित्यादिदेहनाम्ना प्रतिनियतं जना उदाहरन्ति नैकरूपमित्याह - तदेतदिति | चित्तवद्भातमातिवाहिकनामकं सूक्ष्मदेहमेव घनभ्रमं स्थौल्यभ्रान्तियुक्तं तत्तद्देहनाम्ना उदाहरन्ति || २२ || कथ्यते जीवनाम्नैतच्चित्तं प्रतनुवासनम् | शान्तदेहचमत्कारं जीवं विद्धि क्रमात्परम् || २३ || यदि चित्तं देहस्तर्हि इदमेव जीव इति कथं प्रागुक्तं तत्राह - कथ्यते इति | प्रतनुवासनं जीवो घनभ्रमं तु देह इत्युच्यत इति भेदक्रमात् शान्तदेहत्रयचमत्कारं तु परं ब्रह्म विद्धित्यर्थः || २३ || नाहं न चान्यदस्तीह चित्रं चित्तमिदं स्थितम् | वसिस्ठैन्दवसंविद्वदसत्सत्तामिवागतम् || २४ | एवंच तन्तुभ्यः पट इव न कस्यापि देहो नाम पृथगस्तीत्याह - नाहमिति || २४ || यथैन्दव मनो ब्रह्मा तथैवायमहं स्थितः | तत्कृतं चाहमेवेदं संकल्पात्मैव भासते || २५ || तत्कृतं सर्गान्तरमित्यपि मच्चित्तकल्पनैवेत्यहमेव तदपीत्याह - तत्कृतमिति || २५ || कश्चिच्चित्तविलास्ऽयं ब्रह्माहमिह संस्थितः | स्वभाव एव देहादि विद्धि शून्यतरात्मखात् || २६ || स्वभावः परमात्मैव सर्वप्रपञ्चशून्यतरादात्मखात्पृथगिव देहादिभावेन भातीत्यर्थः || २६ || शुद्धचित्परमार्थैकरूपिणीत्येव भावनात् | जीवो भूयो मनो भूत्वा वेत्तीत्थं देहतां मुधा || २७ || मुधेति निपातो नञर्थे || २७ || सर्वमैन्दवसंसारवदिदं भाति चिद्वपुः | संपन्नसंप्रबोधात्मा स्वप्नो दीर्घः स्वशक्तिजः || २८ || चिद्वपुः परमात्मैव ऐन्दवसंसारवत्सर्वात्मा भाति | यथा स्वाज्ञानशक्तिजः स्वप्नो दीर्घः सन्संपन्नजाग्रदात्मा भाति तद्वदित्यर्थः || २८ || द्विचन्द्रविभ्रमाकारं तन्मात्राभासपूर्वकम् | ऐन्दवाम्बरवद्रूढं चित्तादेवाखिलं भवेत् || २९ || यतः सूक्ष्मतरवासनामयशब्दतन्मात्राध्यासपूर्वकं भवति जगत्तत ऐन्दवचित्ताकाशवदेव रूढमिति संभाव्यत इत्यर्थः || २९ || न सन्नासदहंरूपं सत्तासत्ते तदेव च | उपलम्भेन सद्रूपमसत्यं तद्विरोधतः || ३० || यद्युदासीनचित्तादेव सर्वं रूधं तर्हि कथं देहादिष्वहंतयाभिमानादनुदासीनरूपं भातीति तत्राह - न सदिति | यदहंरूपमभिनिवेशरूपमनुदासीनस्वभावमनुभूयते तन्न सत् | सर्वत्र चित्तकार्ये अदर्शनात् | नाप्यसत् | असत उपलम्भादर्शनात् | यतः सत्तासत्ते तदेव | सत्ता सदेकरूपत्वात्सदेव | असत्ता चासदेकरूपत्वादसदेव | अहंरूपं तु नैकस्वभावनियतम् | यतः क्वचिदुपलम्भेन हेतुना सद्रूपमिव क्वचित्तु तद्विरोधतोऽनुपलम्भादसत्यमसद्रूपमिति विरुद्धस्वभावं भासत इति मायिकनित्यर्थः || ३० || जडाजडं मनो विद्धि संकल्पात्म बृहद्वपुः | अजडं ब्रह्मरूपत्वाज्जडं दृश्यात्मतावशात् || ३१ || एवं मनसो जडाजडविरुद्धस्वभावत्वादपि मायिकत्वमित्याह - जडाजडमिति || ३१ || दृश्यानुभवसत्यात्म न सद्भावे विलासि तत् | कटकत्वं यथा हेम्नि तथा ब्रह्मणि संस्थितम् || ३२ || तस्य कदा दृश्यात्मता कदा वा ब्रह्मरूपत्वं तत्राह - दृश्येति | तन्मनो दृश्यानुभवकाले दृश्यमिव सत्यात्म सद्भावे ब्रह्मानुभवे न विलासि न पृथग्विलसनशीलमिति ब्रह्मैव यथा हेम्नि कटकत्वं करालंकृतिकार्यदृशा हेम्नः पृथक्सदिव कनकदृशा तु तदेव तद्वत्संस्थितमित्यर्थः || ३२ || सर्वत्वाद्ब्रह्मणः सर्वं जडं चिन्मयमेव च | अस्मदादिशिलान्तात्म न जडं न च चेतनम् || ३३ || एवं जगतोऽपि जडाजडविरुद्धस्वभावत्वान्मायिकत्वमेवेत्याशयेनाह - सर्वत्वादिति | अस्मदादिशिलान्तात्म ब्रह्मादिस्थावरान्तं यौक्तिकदृशा विरुद्धस्वभावमपि परमार्थदृशा न जाड्यचैतन्यधर्मकमित्यर्थः || ३३ || दार्वादीनामचित्त्वेन नोपलम्भस्य संभवः | उपलम्भो हि सदृशसंबन्धादेव जायते || ३४ || जडं चेतनमिति वा व्यवस्था अनुलम्भे उपलम्भोत्तरं वा स्यात् | आद्ये उपलम्भस्यैवासंभवात्सत्तैव न सिद्ध्यति दूरे जडाजडत्वचिन्तेत्याशयेनाह - दार्वादीनामिति | सदृशयोः प्रमातृप्रमेयचिद्धात्वोर्वृत्तिद्वारकादैक्यसंबन्धाद्ध्युपलम्भः प्रसिद्धः | जडैकरूपत्ववादे तु न प्रमेयचैतन्यमस्तीति नोपलम्भसंभव इत्यर्थः || ३४ || उपलब्धेऽजडे विद्धि तेनेदं सर्वमेव हि | उपलम्भो हि सदृशसंबन्धात्स्यात्समात्मनोः || ३५ || द्वितीयेऽप्याह - उपलब्धे इति | अजडं विद्धीति च्छेदः | उपलब्धे प्रमेयस्योपलम्भेऽन्तर्भावात्तद्विषयस्याजडैकस्वभावता परिशिष्यते यतः प्रागुक्तचितोरैक्यलक्षणसंबन्धादेवोपलम्भो जायते | तथा चानुपलब्धे उपलब्धे च जडचेतनद्वैविध्यं दुर्घटमित्यर्थः || ३५ || जडचेतनभावादिशब्दार्थश्रीर्न विद्यते | अनिर्देश्यपदे पत्रलतादीव महामरौ || ३६ || उभयदुर्घटत्वे यत्फलितं तदाह - जडेति || ३६ || चितो यच्चेत्यकलनं तन्मनस्त्वमुदाहृतम् | चिद्भागोऽत्राजडो भागो जाड्यमत्र हि चेत्यता || ३७ || तस्याश्चितश्चेत्याकारकलनैव मनस्ता तत्रैव जडाजडविकल्पस्तद्विवेक एव निर्मनस्कतेत्याशयेनाह - चित इत्यादिना || ३७ || चिद्भागोऽत्रावबोधांशो जडं चेत्यं हि दृश्यते | इति जीवो जगद्भ्रान्तिं पश्यन्गच्छति लोलताम् || ३८ || तत्र चिदात्मभागविस्मरणेन जडात्मजीवजगद्भ्रमः संपन्न इत्याह - इति जीव इति || ३८ || प्. ३४७) २०८ चित्तस्थ एव भावोऽसौ शुद्ध एव द्विधा कृतः | अतः सर्वं जगत्सैव द्वैतलब्धं च सैव तत् || ३९ || शुद्धो भावश्चित्स्वभाव एव चित्तं जगदिति द्विधा कृतः | अतश्चिदेकबुद्ध्योपलब्धं सर्व जगत्सा चिदेव द्वैतबुद्ध्या लब्धमपि तत्सैवेत्यर्थः || ३९ || स्वमेवान्यतया दृष्ट्वा चितिर्दृश्यतया वपुः | निर्भागाप्येकभागाभं भ्रमतीव भ्रमातुरा || ४० || निर्भागा निर्विभागा | एकभागाभं स्वगतविभागतुल्यम् || ४० || न भ्रान्तिरस्ति भ्रमभाङ्गा नैवेतीह निश्चयः | परिपूर्णार्णवप्रख्यावेतीत्थं संस्थिता चितिः || ४१ || भ्रमभाक् ना पुरुषो नैव || ४१ || सर्वं स्याज्जाड्यमप्यस्याश्चितिश्चित्त्वं च वेत्सि तत् | चिद्भागोंशोऽवबोधस्य त्वहंताजडतोदयः || ४२ || अस्याश्चितेः सर्वरूपं जाडमपि चितिरेव स्यात् | यतस्तस्मिञ्जाड्ये चित्त्वं च वेत्सि | अचिदेकस्वभावत्वे स्फुरणायोगादस्फुरणे जाड्यस्याप्यसिद्धेरित्यर्थः | यथा जडेऽवबोधोऽष्ति एवं चेतने जडभागोऽप्यस्तीति दर्शयति - अहंतेति || ४२ || अहंतादिपरे तत्त्वे मनागपि न विद्यते | ऊर्म्यादीव पृथक्तोये संवित्सारं हि तद्यतः || ४३ || कथमहंताया जडत्वमिति चेद्ब्रह्मव्यावृत्तत्वादित्याह - अहंतादीति | संवित्सारं चिदेकरसम् || ४३ || अहंप्रत्ययसंदृश्यं चेत्यं विद्धि समुत्थितम् | मृगतृष्णाम्ब्विवान्तस्थं नूनं विद्यत एव नो || ४४ || अत एव तस्यासत्त्वमपीत्याह - अहंप्रत्ययेति || ४४ || अहंतापदमन्तात्मपदं विद्धि निरामयम् | विदं विदुरहंतादि शैत्यमेव यथा हिमम् || ४५ || अन्तात्मपदं सर्वद्वैतबाधावध्यात्मवस्तु | अहंताया अपदमनाश्रयं विद्धि | विदं चित्स्वभावमेव वासनया घनीभूताहंतादिरूपं जना विदुः पश्यन्ति | यथा शैत्यमेव घनीभावाद्धिमं पश्यन्ति तद्वदित्यर्थः || ४५ || चित्तेव चेत्यते जाड्यं स्वप्ने स्वमरणोपमम् | सर्वात्मत्वात्सर्वशक्तीः कुर्वती नैति साम्यताम् || ४६ || सर्वशक्तीः कुर्वती आविष्कुर्वाणा चिद्विना ज्ञानदार्ढ्यं साम्यतां नैति || ४६ || मनः पदार्थादितया सर्वरूपं विजृम्भते | नानात्माचित्तदेहोऽयमाकाशविशदाकृतिः || ४७ || नानात्मकश्चित्तलक्षणो देह आतिवाहिकः || ४७ || देहादिदेहप्रतिभारूपात्म्यं त्यजता सता | विचार्यं प्रतिभासात्म चित्तं चित्तेन वै स्वयम् || ४८ || कथमिदं बोद्धुं शक्यं तत्रोपायमाह - देहादीति | स्थूलदेहादिदेहत्रयप्रतिभारूपात्मतां च त्यजता सता अधिकारिणा चित्तेनैव चित्तं प्रतिभासात्म प्रातिभासिकं विचार्यमित्यर्थः || ४८ || चित्तताम्रे शोधिते हि परमार्थसुवर्णताम् | गतेऽकृत्रिम आनन्दः किं देहोपलखण्डकैः || ४९ || किं तद्विचारलक्षणे शोधे कृते चित्तं भवति तदाह - चित्तेति | अकृत्रिमो नित्यनिरतिशय आनन्दः प्राप्यत इति शेषः | तर्हि देहादयोऽपि शोध्यन्तां ततोऽपि पुरुषार्थः किं न लभ्यते तत्राह - किमिति | वृथा तच्छोध इत्यर्थः || ४९ || यद्विद्यते शोध्यते तद्बोधः के च स्वपादपाः | देहाद्यविद्या सत्या चेद्युक्त एतां प्रति ग्रहः || ५० || किंचासत्त्वादपि देहादेर्न शोधनार्हतेत्याह - यदिति | तद्बोधः फलवानिति शेषः | खे कल्पिताः पादपाः के शोध्यमाना दृष्टा इत्यर्थः | एतामविद्यां प्रति ग्रहः शोधनाग्रहो युक्त उचितः स्यादित्यर्थः || ५० || असत्यविनिविष्टानां देहवाचितया त्विह | ये नामोपदिशन्त्यज्ञाः किंचित्ते पुरुषैडकाः || ५१ || अत एव ह्यात्मादिशब्दा देहे प्रयुक्ता अपि श्रुतौ न देहवाचिनः श्रुतेरसत्यार्थनिष्ठत्वायोगात् | ये त्वसत्यविनिविष्टा देहात्मदृढनिश्चयाश्चार्वाकपामरादयो देहवाचिन एवात्मादिशब्दा इति मन्यन्ते तेषां ये किंचिदपि प्रामणिकं वस्तूपदिशन्ति तेऽज्ञाः पुरुषैडकाः पुंस्पशव एव | आत्मादिसत्यास्तुनिष्ठशब्दानां देहाद्यसत्यवाचितया विपरीतव्युत्पन्नान्प्रति सत्यार्थबोधनाशक्तेरित्यर्थः || ५१ || यथैतद्भावयेत्स्वान्तं तथैव भवति क्षणात् | दृष्टान्तोऽत्रैन्दवाहल्याकृत्रिमेन्द्रादिनिश्चयाः || ५२ || कथं तर्ह्यमूर्तस्य चित्तस्य मूर्तदेहभावः संपन्न इति चेद्भावनयैवेत्याशयेनाह - यथैतदिति || ५२ || यद्यद्यथा स्फुरति सुप्रतिभात्मचित्तं तत्तत्तथा भवति देहतयोदितात्म | देहोऽयमस्ति न न चाहमिति स्वरूपं विज्ञानमेकमवगम्य निरिच्छमास्स्व || ५३ || उक्तमेवार्थं स्फुटं वदन्नुपसंहरति - यद्यदिति | अयं देहो नास्ति | अहमिति प्रसिद्धोऽहंकारश्च नास्ति | अत एकरसं विज्ञानं स्वस्वरूपमवगम्य निरिच्छं यथा स्यात्तथा आस्स्व तिष्ठेत्यर्थः || ५३ || देहोऽयमेष च किलायमिति स्वभावा- द्देहोऽयमेतदखिलं तत एति नाशम् | यक्षादिकल्पनवशाद्भयमेति बालो निर्यक्षदेहगत एव कयापि युक्त्या || ५४ || देहो मानुषादिरयं प्रत्यक्ष एष देहभोग्यः प्रपञ्चोऽयमिति स्वभावात्स्वकल्पनावशादयमात्मा देह एव भवति एतदखिलं भोग्यं च भवति ततस्तद्भावाद्देहनाशमनु नाशमेति | यथाऽयं बालः कयापि युक्त्या निर्यक्षदेहगत एव सन्नपि यक्षतद्भीषणत्वग्रसितृत्वादिकल्पनवशाद्यक्षेण ग्रस्तो यक्षदेहगतः स्वप्नादौ भवति तद्वदित्यर्थः || ५४ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे जीवावतरणक्रमोपदेशो नामैकनवतितमः सर्गः || ९१ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे जीवावतरणक्रमोपदेशो नामैकनवतितमः सर्गः || ९१ || प्. ३४८) २०९ द्विनवतितमः सर्गः ९२ श्रीवसिष्ठ उवाच | इत्युक्तवान्स भगवान्मया कमलसंभवः | रघूद्वह पुनः पृष्टो वाक्यमाक्षिप्य भूतपः || १ || इहाक्षिप्य मनःशक्तिरमोघा स्थाप्यते दृढा | दार्ढ्ये पुरुषयत्नस्य यथेष्टारोपणक्षमा || १ || प्राक्तनं वाक्यमनुपपत्त्युद्भावनेनाक्षिप्य पुनर्मया पृष्टः || १ || त्वयैव भगवन्प्रोक्ताः शापमन्त्रादिशक्तयः | अमोघा इति ता एव कथं मोघाः कृताः पुनः || २ || आक्षेपप्रकारमेव दर्शयति - त्वयैवेति | अतस्त्वदुक्तिस्त्वदुक्तिविरुद्धेत्यर्थः || २ || शापेन मन्त्रवीर्येण मनोबुद्धीन्द्रियाण्यपि | सर्वाण्येव विमूढानि दृष्टानि किल जन्तुषु || ३ || एवं लोकदृष्टविरोधोऽपीत्याह - शापेनेति | तथाच नहुषस्य शापादजगरत्वं प्राप्तस्य मनोमोहात्स्ववंशजस्य भीमस्य ग्रसने प्रवृत्तिः | तथैव धार्मिकस्यापि सौदासस्य शापाद्राक्षसतां गतस्य बुद्धिमोहाद्ब्रह्मवधादौ प्रवृत्तिः | गन्धर्वराजस्य च शापाद्धृतराष्ट्रजन्मनि चक्षुरिन्द्रियनाशः | एवमन्यत्रापि दृष्ट इत्यर्थः || ३ || यथैतौ पवनस्पन्दौ यथा स्नेहतिलौ यथा | अभिन्नौ तद्वदेवैतौ मनोदेहौ स एव तत् || ४ || एवं कार्यविरोधोऽप्यस्तीत्याशयेनाह - यथेत्यादिना | तृतीययथाशब्दो वह्न्यौष्ण्यादिदृष्टान्तान्तरसंग्रहार्थः | कार्यकारणयोर्भेदानिरूपणात् | तथाच मनसो वरशापाद्यनाक्रमणे तदभिन्ने देहेऽपि तदनाक्रमणं स्यादित्याद्याशयः || ४ || अथ नास्तीह वा देहः केवलं चेतसैव सः | मुधानुभूयते स्वप्नमृगतृष्णाद्विचन्द्रवत् || ५ || ननु देहस्य मनोन्यूनसत्ताकत्वादेव शापाद्याक्रमणेऽपि न मनसस्तत्प्रसक्तिरिति विवर्तवादेन परिहारमाशङ्कते - अथेति || ५ || एकनाशे द्वयोरेव नाशोऽत्राभ्युपपद्यते | अवश्यं भवितुं मनोनाशे देहपरिक्षयः || ६ || तत्रापि दोषान्तरमाह - एकनाशे इति | एकनाशे द्वयोर्नाशो भवितुमवश्यमुपपद्यते | यथा मनोनाशे देहपरिक्षयो दृष्टः एवं देहानाशे मनःपरिक्षयोऽपि संभावित इति न देहस्य मनोन्यूनसत्ताकता किंतु समसत्ताकता | प्रत्युत चक्षुराद्यगम्यत्वे सत्यपरोक्षविषयत्वात्स्वप्नादिवन्मनस एव देहन्यूनसत्ताकतेति रज्जुनाशे सर्पस्येव देहनाशेन मनोवस्थानसंभव इति भावः || ६ || मनः शापादिभिर्दोषैः कथं नाक्रम्यते प्रभो | कथमाक्रम्यते वापि ब्रूहि मे परमेश्वर || ७ || ब्रह्मोवाच | न तदस्तिजगत्कोशे शुभकर्मानुपातिना | यत्पौरुषेण शुद्धेन न सप्तासाद्यते जनैः || ८ || तत्र प्रथमं विरोधं परिहर्तुं वरशापप्राबल्योक्तेरौत्सर्गिकत्वं बहुतरदृष्टानुसारादवश्यमभ्युपेयमित्युपपादयितुं वरशापयोरप्युपजीव्यं कर्मोपोद्बलितपौरुषप्राबल्यं तावत्स्मारयति - न तदिति || ८ || आब्रह्म स्थावरान्तं च सर्वदा सर्वजातयः | सर्व एव जगत्यस्मिन्द्विशरीराः शरीरिणः || ९ || स्थूलस्यैवोपघातो दृष्टो न सूक्ष्मस्येति लोकदृष्टानुसारं स्वोक्तेर्वक्तुं भिन्नस्वभावौ द्वौ देहौ दर्शयति - आब्रह्मेत्यादिना || ९ || एकं मनःशरीरं तु क्षिप्रकारि सदा चलम् | अकिंचित्करमन्यत्तु शरीरं मांसनिर्मितम् || १० || तत्र मांसमयः कायः सर्वस्यैव च संगतः | सर्वैराक्रम्यते शापैस्तथा विद्यादिसंचयैः || ११ || विद्या अभिचारकृत्यादयः | आदिपदाच्छस्त्रविषादयो गृह्यन्ते तेषां संचयैः समूहैः || ११ || मूकप्रायो ह्यशक्तोऽसौ दीनः क्षणविनश्वरः | पद्मपत्राम्बुचपलो दैवादिविवशस्थितिः || १२ || दैवादीत्यादिपदाद्राजपित्रादिसंग्रहः || १२ || मनोनाम द्वितीयोऽयं कायः कायवतामिह | स आयत्तोऽपि नायत्तो भूतानां भुवनत्रये || १३ || आयत्तः स्वाधीनः | नायत्तोऽस्वाधीनः || १३ || पौरुषं स्वमवष्टभ्य धैर्यमालम्ब्य शाश्वतम् | यदि तिष्ठत्यगम्योऽसौ दुःखानां तदनिन्दितः || १४ || तत्र स्वाधीनतां हेतूक्त्योपपादयति - पौरुषमिति | अगम्योऽनाक्रमणीयः | तैर्दुःखहेतुभिरनिन्दितः अदूषितः || १४ || यथा यथासौ यतते मनोदेहो हि देहिनाम् | तथा तथासौ भवति स्वनिश्चयफलैकभाक् || १५ || दुःखानुपघात इव सुखोपचयोऽप्यस्य वर्धत इत्याह - यथेति || १५ || सफलो मांसदेहस्य न कश्चित्पौरुषक्रमः | मनोदेहस्य सफलं सर्वमेव स्वचेष्टितम् || १६ || स्थूलदेहस्य तु नायं क्रम इत्याह - सफल इति || १६ || पवित्रमनुसंधानं चेतः स्मरति सर्वदा | निष्फलास्तत्र शापाद्याः शिलायामिव सायकाः || १७ || विषयदोषैर्हि मनो दुष्येन्नान्यदोषेणेत्याशयेनाह - पवित्रमिति | तथाच न लोकदृष्टविरोधशङ्कावसर इति भावः || १७ || पतत्वम्भसि वह्नौ वा कर्दमे वा शरीरकम् | मनो यदनुसंधत्ते तदेवाप्नोति तत्क्षणात् || १८ || कार्यविरोधमपि परिहरति - पतत्विति || १८ || पुरुषातिशयः सर्वः सर्वभावोपमर्दने | ददात्यविघ्नेन फलं मनो हि मनसो मुने || १९ || सर्वेषां देहादिभावानामुपमर्दनेऽपि पुरुषातिशयः प्रयत्नः सर्वः समृद्धः सन्नविघ्नेन फलं ददाति | तद्यद्ददाति तन्मन एव मनसः फलं ददाति | पौरुषस्याऽपि मनोभेदत्वादित्यर्थः || १९ || पौरुषेण बलेनान्तश्चित्तं कृत्वा प्रियामयम् | कृत्रिमेन्द्रेण दुःखार्तिर्न दृष्टा सा मनागपि || २० || यत्र विषयदोषेऽपि मनोदार्ढ्ये दुःखादर्शनं तत्र पवित्रे विषये किं वाच्यमित्याशयेनेन्द्रोपाख्यानादि स्मारयति - पौरुषेणेति || २० || प्. ३४९) २०९ पौरुषेण मनः कृत्वा नीरागं विगतज्वरम् | माण्डव्येन जिताः क्लेशाःशूलप्रान्तेऽपि तिष्ठता || २१ || माण्डव्यस्य कथा महाभारतादौ प्रसिद्धा || २१ || अन्धकूपस्थितेनापि मानसैर्यज्ञसंचयैः | ऋषिणा दीर्घतपसा संप्राप्तं वैबुधं पदम् || २२ || दीर्घतपा अपि यष्टुकामो यागोपकरणोपार्जनाय निर्गतो दैवादन्धकूपे निपतितस्तत्र यागकालातिक्रमे प्रसक्ते मनसैवेजे | तेनेन्द्रः प्रसन्नस्तं कूपादुद्धृत्य स्वपदं निनायेति भारतादौ प्रसिद्धम् || २२ || इन्दुपुत्रैर्नरैरेव पुरुषाध्यवसायतः | ध्यानेन ब्रह्मता प्राप्ता सा मयापि न खण्ड्यते || २३ || अन्येऽपि सावधाना ये धीराः सुरमहर्षयः | चित्तात्स्वमनुसंधानं न त्यजन्ति मनागपि || २४ || अनुसंधानमुपासनं ज्ञानं वा || २४ || आधयो व्याधयश्चैव शापाः पापदृशस्तथा | न खण्डयन्ति तच्चित्तं पद्मघाताः शिलामिव || २५ || पापदृशो रक्षःपिशाचादयः | तच्चित्तं ध्येयार्थैकाग्रचित्तं न खण्डयन्ति न परिभवन्ति | पद्मेन घातास्ताडनानि || २५ || ये चापि खण्डिताः केचिच्छापाद्यैराधिसायकैः | स्वविवेकाक्षमं तेषां मनो मन्ये विपौरुषम् || २६ || ये सौदासनाहुषविश्वामित्रादयः | आदिपदात्कामक्रोद्धाभिमानादिसंग्रहः | तेषां मनो विपौरुषमदृढपौरुषमित्युपासनायां स्वविवेकाक्षममिति ज्ञाने चासमर्थमिति तर्कयामीत्यर्थः || २६ || न कदाचन संसारे सावधानमना मनाक् | स्वप्नेऽपि कश्चिद्दृश्ये वा दोषजालैः खिलीकृतः || २७ || विवेकपौरुषदृढे तु मनसि नाभिलषितक्षतिरित्याह - न कदाचिदिति | दृश्ये जाग्रति वा || २७ || मनसैव मनस्तस्मात्पौरुषेण पुमानिह | स्वकमेव स्वकेनैव योजयेत्पावने पथि || २८ || प्रतिभातं यदेवास्य यथाभूतं भवत्यलम् | क्षणादेव मनः पीनं बालवेतालवन्मुने || २९ || ईषत्प्रतिभातमपि मनसि चिरनिरूढं पीनं सद्यथाभूतं सत्यमिवोपभोगक्षमं भवतीत्यर्थः || २९ || प्रतिभासस्यानुपदं प्राक्तनीं स्थितिमुज्झति | कुलालकर्मानुपदं घटो मृत्पिण्डतामिव || ३० || ननु पूर्वतनमनुष्यादिभावप्रतिभादार्ढ्यादैन्दवादेस्तत्स्थितिरपि कुतो नाभूत्तत्राह - प्रतिभासस्येति | उत्तरदृढवासनया पूर्ववासनोपमृद्यत इति भावः || ३० || प्रतिभासार्थतामेति क्षणादेव मनो मुने | स्पन्दमात्रात्मकं वारि यथा तुङ्गतरङ्गताम् || ३१ || पूर्ववासनोपमर्दनोपक्षीणस्योपासनस्य कथं कार्यान्तरक्षमता तत्राह - प्रतिभासेति | विरोधिभञ्जनपर्यन्तमेव स्वकार्ये विलम्बः तदुत्तरं तु क्षणादेव निष्प्रत्यूहत्वादौपासनिकप्रतिभासगोचरोपास्यार्थतामेति प्राप्नोत्येवेति नोपक्षय इति भावः || ३१ || अनुसंधानमात्रेण सूर्यबिम्बेऽपि यामिनीम् | मनः पश्यत्यशुद्धाक्षश्चन्द्रबिम्बे द्वितामिव || ३२ || ननु तथापि प्रलयकाले कथं तद्विरुद्धसर्गकल्पनं तेषां तत्राह - अनुसंधानमात्रेणेति | न तदीयसर्गे त्वदीयसर्गस्थं किंचिदनुकूलं प्रतिकूलं वा तत्र तदीयानुसंधानमात्रस्यापेक्षणादिति न प्रलयकालेऽपि तद्विरोध इति भावः | अशुद्धाक्षोऽङ्गुल्यवष्टब्धदृष्टिः || ३२ || यत्पश्यति तदेवाशु फलीभूतमिदं मनः | सह हर्षविषादाभ्यां भुङ्क्ते तस्मात्तदेव तत् || ३३ || स्रष्टृत्ववत्तद्भोक्तृत्वमपि मनस एवेत्याह - यदिति | तदेव तत् यत्कर्तृ तदेव भोक्तृ इत्यर्थः || ३३ || प्रतिभानुपदं चेतश्चन्द्रेऽप्यग्निशिखाशतम् | दृष्ट्वा दाहमवाप्नोति दग्धं च परितप्यते || ३४ || उक्तमर्थमुदाहरणेन दर्शयति - प्रतिभेति | प्रतिभा अनुसंधानं भोजकादृष्टोद्बोधितसंस्कारस्तदनुपदं तदनुसारि | तथाच विरहिणां प्रसिद्धमित्यर्थः || ३४ || प्रतिभानुपदं चेतः क्षारेऽपि हि रसायनम् | दृष्ट्वा पीत्वा परां तृप्तिं याति वल्गति नृत्यति || ३५ || क्षारे ऊषादौ | क्षीर इति पाठे जले | रसायनं मधुरादिरसभेदान् | तथा चोष्ट्रच्छागादयोऽर्कनिम्बादिपर्णान्यपि मधुरीकृत्य भक्षयन्तीति दृश्यत इति भावः || ३५ || प्रतिभानुपदं चेतो व्योमन्यपि महावनम् | दृष्ट्वा लुनाति च पुनरारोपयत्यलम् || ३६ || इत्थं यदेव परिकल्पयतीन्द्रजालं क्षिप्रं तदेव परिपश्यति तात चेतः | नासज्जगन्न च सदित्यवगम्य नूनं लूनां दृशं विविधमेदवतीं जहीहि || ३७ || उक्तमुपसंहरति - इत्थमिति | लूनां परिच्छिन्नां दृशं दृष्टिं जहीहि त्यज || ३७ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे मनोमाहात्म्यवर्णनं नाम द्विनवतितमः सर्गः || ९२ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे मनोमाहात्म्यवर्णनं नाम द्विनवतितमः सर्गः || ९२ || त्रिनवतितमः सर्गः ९३ श्रीवसिष्ठ उवाच | इति मे भगवता पूर्वमुक्तं तदेतदद्य तुभ्यं कथितम् || १ || मनोऽत्र ब्रह्मणो जज्ञे ततोऽभूत्तैजसो विधिः | ततो मोहादहंकारस्ततो विश्वमितीर्यते || १ || मन उपक्रममेव सर्गक्रमं प्रागुक्तं प्रपञ्चयैषुर्विधिसंवादमुपसंहरति - इतीति | भगवता परमेष्ठीना || १ || तस्मादनाख्यानाद्ब्रह्मणः सर्वतः सर्वमनाख्यानमुत्पद्यते स्वयमेव तद्घनतां प्राप्य मनः संपद्यते || २ || अनाख्यानादव्याकृतनामरूपात् | अनाख्यानं सूक्ष्मत्वान्नामसंबन्धानर्हं सर्वं प्रपञ्चरूअप्ं चलनात्मकं निर्विकल्पकज्ञानप्रकाशितमुत्पद्यते | तत्कालेन स्वयमेव संकल्पविकल्पनात्मकमननसामर्थ्योद्भवेन घनतां प्राप्य || २ || प्. ३५०) २१० तन्मनस्तन्मात्रकल्पनपूर्वकसन्निवेशं भवति ततस्तैजसः पुरुषः संपद्यते सोऽयं ब्रह्मेत्यात्मनि नाम कृतवान् || ३ || तन्मात्राणि सूक्ष्मभूतानि तत्कल्पनापूर्वकं संनिवेशं स्वाप्नशरीरमिव वासनामयपुरुषाकारम् | ततः संनिवेशोपाधेस्तदुपहितः पुरुष आत्मा तैजसः तेजःप्रधानलिङ्गसमष्ट्युपाधित्वात् | सोऽयं ब्रह्मा परमेष्ठी || ३ || तेन राम योऽयं परमेष्ठी तन्मनस्तत्त्वं विद्धि || ४ || तस्य जगत्सर्गसंकल्पकता मनोरूपत्वादेवेत्याह - तेनेति || ४ || समनस्तत्त्वाकारो भगवान्ब्रह्मा संकल्पमयत्वाद्यदेव संकल्पयति तदेव पश्यति || ५ || ततस्तेनेयमविद्या परिकल्पिता अनात्मन्यात्माभिमानमयीति तेन ब्रह्मणा गिरितृणजलधिमयमिदं क्रमेण जगत्परिकल्पितम् || ६ || ननु तत्संकल्पाज्जगदुत्पद्यतां जीवानां तदभिमानस्तु कुतस्तत्राह - ततस्तेनेति | अत्राविद्या अन्यथाग्रहणलक्षणाध्यासरूपा कार्याविद्या | इति अनया रीत्या || ६ || इत्थं क्रमेण ब्रह्मतत्वादियमागता सृष्टिरन्यत एवागतेयमिति लक्ष्यते || ७ || ब्रह्मतत्त्वाच्चिदेकरसादागतापि अन्यतो जडात्प्रधानपरमाण्वादेः सकाशादागतेति तार्किकैर्लक्ष्यते || ७ || तस्मात्सर्वपदार्थानां त्रैलोक्योदरवर्तिनाम् | उत्पत्तिर्ब्रह्मणो राम तरङ्गाणामिवार्णवात् || ८ || एकैकस्यानेकोपादानकल्पनागौरवान्न परमाणुकारणतावादो युक्तः | विना कर्तारं जडस्य जगद्वैचित्र्यरचनानुपपत्तेरसङ्गोदासीनस्य कर्तृत्वानुपपत्तेश्च न प्रधानकारणतावादो युक्तः | चितो जडाकारपरिणामायोगान्न विज्ञानविपरिणामवादो युक्तः | शून्यस्य च क्वापि कारणत्वादर्शनान्न तत्कारणतावादोऽपि युक्तः | सर्वेष्वपि कल्पेषु प्रमाणाभावाच्च नान्यत इयमागता सृष्टिरिति निश्चिते श्रुतिप्रामाण्याल्लाघवाच्चानिर्वचनीयमायाशक्तिकब्रह्मविवर्तवाद एव परिशिष्ट इत्याशयेनोपसंहरति - तस्मादिति || ८ || य एवमनुत्पन्ने जगति या ब्रह्मणश्चिन्मनोरूपिणी साहंकारे परिकल्प्य ब्रह्म ब्रह्मतामेति || ९ || य उत्पत्तिप्रकार एवमनया रीत्या | तामेवाह - अनुत्पन्ने इत्यादिना | विवर्तत्वादेव परमार्थतोऽनुपन्ने जगति अहंकारसमष्ट्युपाधौ ब्रह्म प्रविष्टमिव परिकल्प्य ब्रह्मतां परमेष्ठितामेति || ९ || यास्त्वन्याश्चिच्छक्तयः सर्वशक्तेरभिन्ना एव कल्प्यन्ते || १० || अन्या व्यष्ट्यहंकारोपहिताश्चिच्छक्तयश्चिदाभासाः || १० || जगति स्फारतां नीते पितामहरूपेण मनसा समुल्लसन्ति || ११ || ताः पितामहरूपेण मनसा समष्टिमनोभावेन प्रथमं समुल्लसन्तीत्यर्थः || ११ || एते सहस्रशोऽपि परिवर्तमानजीवा उच्यन्ते || १२ || तेऽभ्युत्थिता एव चिन्नभसो नभसि तन्मात्रैरावलिता गगनपवनान्तर्वर्तिनश्चतुर्दशविधा ये भूतजातमध्यतयाभ्यासे तिष्ठन्ति तस्या एव प्राणशक्तिद्वारेण प्रविश्य शरीरं स्थावरं जंगमं वापि बीजतां गच्छन्ति || १३ || ते हि चिन्नभस एव समुत्थिता नभसि मायाकाशे तन्मात्रैर्भूतमात्रोपाधिभिरावलिताः सन्तो गगनस्थपवनस्यावहोद्वहादिभेदभिन्नस्य वातस्कन्धभेदस्य चान्तर्वर्तिनो ये चतुर्दशविधा लोकास्तेषु यादृशभूतजातमध्यवर्तितया यादृशवासनाकर्माभ्यासे ये जीवास्तिष्ठन्ति तस्या एव भूतजातेः प्राणशक्तिद्वारेण शरीरं स्थावरं जंगमं वा प्रविश्य रेतोरक्तादिरूपां बीजतां गच्छन्ति || १३ || तदनु योनितो जगति जायन्ते तदनु काकतालीययोगेनोत्पन्नवासनाप्रवाहानुरूपकर्मफलभागिनो भवन्ति || १४ || ततः कर्मरज्जुभिर्वासनावलिताभिर्बद्धशरीरा भ्रमन्तः प्रोत्पतन्ति च || १५ || ततः साध्वसाधुवासनासंवलिताभिः पुण्यापुण्यकर्मरज्जुभिर्बद्धं शरीरं लिङ्गशरीरं येषां तथाविधाः सन्तः प्रोत्पतन्त्युत्तमलोकान्निपतन्ति निरयेषु वा || १५ || इच्छैवैता भूतजातयः || १६ || कर्मतद्वासनयोश्च कामराग एव बीजमिति तन्मया एव जीवा इत्याह - इच्छैवैता इति | तथाच श्रुतिः काममय एवायं पुरुषः || १६ || काश्चिज्जनसहस्रान्ताः पतन्ति वनपर्णवत् | कर्मवात्या परिभ्रान्ता लुठन्ति गिरिकुक्षिषु || १७ || कामानुसारिजन्मपरम्परामेव मोक्षावसानां चतुर्धा पद्यैः प्रपञ्चयति - काश्चिदित्यादिना | काश्चिद्भूतजातयस्तज्जीवाजननं जनः | जना जन्मानि तत्सहस्राण्यन्तोऽवधिस्तत्त्वबोधस्य यासां तथाविधाः सन्तः संसारे पतन्ति ततो मुच्यन्ते इत्यर्थः | वनपर्णवदित्यादिपूर्वोत्तरान्वयि || १७ || अप्रमेयभवाः काश्चिच्चित्सत्ताज्ञानमोहिताः | चिरजाता भवन्तीह बहुकल्पशतान्यपि || १८ || काश्चित्तु चित्सत्ताया अज्ञानेन मोहिता अत एवाप्रमेया गणनाद्यपरिच्छेद्या भवा जन्मानि यासां तथाविधाश्चिरजाताः सत्य इह संसारे बहुकल्पशतान्यपि भवन्ति || १८ || काश्चित्कतिपयातीता मनोरमभवान्तराः | विहरन्ति जगत्यस्मिञ्शुभकर्मपरायणाः || १९ || कतिपयान्यतीतान्यमनोरमाणि भवान्तराणि जन्मानि यासां तथाविधाः सत्यः सांप्रतं शुभकर्मपरायणा विहरन्ति ता अल्पैरेव जन्मभिर्भोक्ष्यन्त इति शेषः || १९ || प्. ३५१) २१० काश्चिद्विज्ञातविज्ञानाः परमेव पदं गताः | वातोद्भूताः पयोमध्यं सामुद्रा इव बिन्दवः || २० || काश्चित्त्वितः पूर्वमेव मुक्ता इत्याह - काश्चिदिति | वातोद्भूताः सामुद्रा बिन्दवः पयोमध्यं समुद्रमिव प्रविशन्ति || २० || उत्पत्तिः सर्वजीवानामितीह ब्रह्मणः पदात् | आविर्भावतिरोभावभङ्गुरा भवभाविनी || २१ || उक्तमुपसंहरति - उत्पत्तिरित्यादिना || २१ || वासनाविषवैषम्यवैधुर्यज्वरधारिणी | अनन्तसंकटानर्थकार्यसत्कारकारिणी || २२ || नानादिग्देशकालान्तशैलकन्दरचारिणी [अन्तशब्देन मरणोत्तरं गन्तव्या लोका उपलक्ष्यन्ते तेषु च] | रचितोत्तमवैचित्र्यविहिताऽसंभ्रमाऽसती || २३ || नानादिक्षु नानादेशेषु नानाकालेषु नानाशैलकन्दरेषु च चारिणी कर्मफलभोगसंचारवती | रचितैरुत्तमैर्वैचित्र्यैर्विहिता आसंभ्रमाः सर्वतोभ्रमा यया | परमार्थतस्त्वसती || २३ || एषा जगज्जाङ्गलजीर्णवल्ली सम्यक्समालोककुठारकृत्ता | वल्लीव विक्षुब्धमनःशरीरा भूयो न संरोहति रामभद्र || २४ || इत्थं संसारवल्लीं प्रपञ्च्य तदुच्छेदोपायमाह - एषेती | विक्षुब्धं विक्षेपबहुलं मन एव शरीरं स्वरूपं यस्यास्तथाविधा एषा जगल्लक्षणा मोहजाङ्गलस्य जीर्णवल्ली रजल्लता सम्यक्समालोकस्तत्त्वसाक्षात्कारस्तल्लक्षणेन कुठारेण कृत्ता छिन्ना सती | वल्लीवेति व्यतिरेकदृष्टान्तः | भूयो न संरोहति मूलाज्ञानोच्छेदादिदिति भावः || २४ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे उत्पत्तिदर्शनं नाम त्रिनवतितमः सर्गः || ९३ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे उत्पत्तिदर्शनं नाम त्रिनवतितमः सर्गः || ९३ || चतुर्नवतितमः सर्गः ९४ श्रीवसिष्ठ उवाच | उत्तमाधममध्यानां पदार्थानामितस्ततः | उत्पत्तीनां विभागोऽयं शृणु वक्ष्यामि राघव || १ || इह द्वादशधा भिन्ना वर्ण्यन्ते जीवजातयः | उपाधिगुणवैचित्र्याच्चिराचिरविमुक्तिगाः || १ || पूर्वोक्ते जीवानां चिराचिरमुक्तिविभागे रामस्य विशेषजिज्ञासां लिङ्गैरुपलक्ष्य तद्विस्तरेण वक्तुं वसिष्ठ उवाच - उत्तमेत्यादिना | सात्त्विकतामसराजसभेदेनोत्तमाधममध्यमानां पदार्थानां जीवोपाधीनामितस्ततो भुवनभेदेषु या उत्पत्तयः प्राक्कथितास्तासामयं वक्ष्यमाणो विभागोऽस्ति तं वक्ष्यामि शृण्वित्यर्थः || १ || इदंप्रथमतोत्पन्नो योऽस्मिन्नेव हि जन्मनि | इदंप्रथमतानाम्नी शुभाभ्याससमुद्भवा || २ || इदंप्रथमता १ गुणपीवरी २ ससत्त्वा ३ अधमसत्त्वा ४ अत्यन्ततामसी ५ राजसी ६ राजससात्त्विकी ७ राजसराजसी ८ राजसतामसी ९ राजसात्यन्ततामसी १० तामसी ११ तामससत्त्वा १२ तमोराजसी १३ अत्यन्ततामसी १४ इति वक्ष्यमाणभेदेषु अन्त्ययोर्भेदयोः पञ्चमनवमयोरन्तर्भावाद्द्वादश भेदाः परिशिष्यन्ते तेष्वाद्यां दर्शयति - इदंप्रथमतोत्पन्न इति | यो जीवः पूर्वकल्पे चरमजीवजन्मनि शमदमादिसर्वसाधनगुणसंपत्तावपि श्रवणाद्यलाभाद्बलवत्प्रतिबन्धाद्वा अनुत्पन्नज्ञानोऽस्मिन् कल्पे इदंप्रथमतया जन्मन्येव शमादिसर्वगुणसंपन्नो ज्ञानयोग्य उत्पन्नस्तस्य सा जीवजातिरिदंप्रथमतानाम्नीत्यर्थः | प्राक्कल्पीयशुभाभ्याससमुद्भवा हि सा | तस्मिन्नेव जन्मनि मुक्तिभागित्यर्थः || २ || शुभलोकाश्रया सा च शुभकार्यानुबन्धिनी | सा चेद्विचित्रसंसारवासनाव्यवहारिणी || ३ || सैव चेत्प्राक्तनवैराग्यमान्द्यच्छुभलोकेच्छाकृतोपासनकर्मादिसंवलिता अत एव विचित्रसंसारवासनया भोगव्यवहारिणी भोगैर्वासनाक्षये कतिपयैर्दशपञ्चभिरेव भवैर्जन्मभिर्मोक्षं प्रापयतीति शेषः | इति हेतोः सा शान्तिरागाद्युभयगुणोपचितत्वाद्गुणपीवरीत्युक्तेत्यर्थः || ३ || भवैः कतिपयैर्मोक्षमित्युक्ता गुणपीवरी | तादृक्फलप्रदानैककार्याकार्यानुमानदा || ४ || तृतीयामाह - तादृगिति | तादृक्शब्दो वीप्सितव्यः | तादृशानि तादृशानि यानि सुखदुःखफलानि तत्प्रदानलक्षणैरेकैर्मुख्यैर्लिङ्गैः प्राक्कल्पीययोः कार्याकार्ययोः पुण्यपापयोरनुमानदा अनुमापयित्री सापि क्रमात्सत्त्वोपचये शतावधिजन्मभिर्मोक्षभागित्यर्थाद्गम्यते || ४ || तेन राम ससत्त्वेति प्रोच्यते सा कृतात्मभिः | अथ चेच्चित्रसंसारवासनाव्यवहारिणी || ५ || चतुर्थीमाह - अथेति || ५ || अत्यन्तकलुषा जन्मसहस्रैर्ज्ञानभागिनी | तादृक्फलप्रदानैकधर्माधर्मानुमानदा || ६ || अत्यन्तकलुषा प्राक्तनकल्पसंचितबहुदुष्कर्मदुर्वासनामालिन्यवती | तादृगित्यादि प्राग्वत् || ६ || असावधमसत्त्वेति तेन साधुभिरुच्यते | सैव संख्यातिगानन्तजन्मवृन्दादनन्तरम् || ७ || पञ्चमीमाह - सैवेति | सैव तादृग्लक्षणैव सती अध्यात्मशास्त्रवैमुख्याहस्मिन्कल्पे संदिग्धमोक्षा कथंचित्संभावितमोक्षा || ७ || प्. ३५२) २११ संदिग्धमोक्षा यदि तत्प्रोच्यतेऽत्यन्ततामसी | अनद्यतनजन्मा तु जातिस्तादृशकारिणी || ८ || षष्ठीं लक्षयति - अनद्यतनेति | या तु जातिरनद्यतनजन्मापूर्वकल्पीयवासनानुसारिणी अत एव तादृशचरित्रकारिणी द्वित्रिभवान्तरा एतत्कल्पीयद्वित्रिजन्ममध्ये मध्यमा मनुष्यादिरूपा या उत्पत्तिस्तादृक्कार्या तदनुरूपस्वर्गनरकादिप्रापिका संदिग्धमोहा सा राजसीत्यर्थः || ८ || योत्पत्तिर्मध्यमा पुंसो राम द्वित्रिभवान्तरा | तादृक्कार्या तु सा लोके राजसी राजसत्तम || ९ || अविप्रकृष्टजन्मापि सोच्यते कृतबुद्धिभिः | सा हि तन्मृतिमात्रेण मोक्षयोग्या मुमुक्षुभिः || १० || सप्तमीं लक्षयति - अविप्रकृष्टेति | सा यदा राजसदुःखानुभवप्रयुक्तवैराग्यादिसंपत्त्या अविप्रकृष्टज्ञानजन्मापि भवति तदा तत्रत्यमृतिमात्रेण मोक्षयोग्या मुमुक्षुभिः प्रोच्यते | सैव मया तादृक्कार्यलिङ्गकानुमानेन राजससात्त्विकी प्रोक्तेत्यर्थः || १० || तादृक्कार्यानुमानेन प्रोक्ता राजससात्त्विकी | सैव चेदितरैरल्पैर्जन्मभिर्मोक्षभागिनी || ११ || अष्टमीं लक्षयति - सैव चेदिति | इतरैरक्तमानुषातिरिक्तैरत्यर्यक्षगन्धर्वादिजन्मभिः क्रमाज्ज्ञान * *? या मोक्षभागिनी चेद्राजसराजधीत्यर्थः || ११ || तत्तादृशी हि सा तज्ज्ञैः प्रोक्ता राजसराजसी | सैव जन्मशतैर्मोक्षभागिनी चेच्चिरैषिणी || १२ || नवमीं लक्षयति - सैव जन्मशतैरिति || १२ || त्वदुक्ता तादृगारम्भा सद्भी राजसतामसी | सैव संदिग्धमोक्षा चेत्सहस्रैरपि जन्मनाम् || १३ || तादृगारम्भा राजसतामसक्र * *? पभोजककर्मोपासनद्यारम्भवती | दशमी लक्षयति - सैवेति || १३ || तदुक्ता तादृशारम्भा राजसात्यन्ततामसी | भुक्तजन्मसहस्रा तु योत्पत्तिर्ब्रह्मणो नृणाम् || १४ || एकादशीमाह - मुक्तेति | ब्रह्मणो हिरण्यगर्भाद्या उत्पत्तिः कल्पादावाविर्भावः || १४ || चिरमोक्षा हि कथिता तामसी सा महर्षिभिः | तज्जन्मनैव मोक्षस्य भागिनी चेत्तदुच्यते || १५ || चिरमोक्षा कल्पान्तरमोक्षा | द्वादधीमाह - तज्जन्मनैवेति | तज्जन्मना तामसप्रथमजन्मना | तामसे दानवरक्षःपिशाचादिजन्मनि सत्त्वोत्कर्षात्प्रह्लादकर्कट्यादीनां ज्ञानं प्रसिद्धमिति भावः || १५ || तज्ज्ञैस्तामससत्त्वेति तादृशारम्भशालिनी | भवैः कतिपयैर्मोक्षभागिनी चेत्तदुच्यते || १६ || राजसतामसी प्राक्प्रोक्ता तस्या एव कार्यपौर्वापर्येण त्रयोदशीमाह - भवैरिति || १६ || तमोराजसरूपेति तादृशैर्गुणबृंहितैः | पूर्वजन्मसहस्राढ्या पुरोजन्मशतैरपि || १७ || गुणबृंहितै रजस्तमोबहुलफलैरुपलक्षिते इत्यर्थः || १७ || मोक्षायोग्या ततः प्रोक्ता तज्ज्ञैस्तामसतामसी | पूर्वं तु जन्मलक्षाढ्या जन्मलक्षैः पुरोऽपि चेत् || १८ || चतुर्दशी विधामाह - पूर्वमिति || १८ || संदिग्धमोक्षा तदसौ प्रोच्यतेऽत्यन्ततामसी | सर्वा एताः समायान्ति ब्रह्मणो भूतजातयः || १९ || सर्वासामुपाधिद्वारा ब्रह्मप्रभवत्वं ब्रह्माभेदसंभावनाय दृष्टान्तभेदैर्द्रढवन्नाह - सर्वा एता इति || १९ || किंचित्प्रचलिता भोगात्पयोराशेरिवोर्मयः | सर्वा एव विनिष्क्रान्ता ब्रह्मणो जीवराशयः || २० || स्वतेजःस्पन्दिताभोगाद्दीपादिव मरीचयः | सर्वा एव समुत्पन्ना ब्रह्मणो भूतपङ्क्तयः || २१ || स्वमरीचिवलोद्भूता ज्वलिताग्नेः कणा इव | सर्वा एवोत्थितास्तस्माद्ब्रह्मणो जीवराशाः [दृश्यदृश्य इति पाठः] || २२ || कणाः स्फुलिङ्गाः || २२ || मन्दारमञ्जरीरूपाश्चन्द्रबिम्बादिवांशवः | सर्वा एव समुत्पन्ना ब्रह्मणो दृश्यदृष्टयः || २३ || यथा विटपिनश्चित्रास्तद्रूपा विटपधियः | सर्वा एव समुत्पन्ना ब्रह्मणो जीवपङ्क्तयः || २४ || विटपश्रियः शाखाशोभाः || २४ || कटकाङ्गदकेयूरयुक्तयः कनकादिव | सर्वा एवोत्थिता राम ब्रह्मणो जीवराशयः || २५ || निर्झरादमलोह्योतात्पयसामिव बिन्दवः | अजस्यैवाखिला राम भूतसंततिकल्पनाः || २६ || एवमंशांशिभावकल्पनया अभेदयोग्यतां प्रदर्श्य उपाधिमिथ्यात्वप्रदर्शनेनाभेदं दर्शयति - अजस्यैवेति || २६ || आकाशस्य घटस्थालीरन्ध्राकाशादयो यथा | सर्वा एवोत्थिता लोककलना ब्रह्मणः पदात् || २७ || उपाधिमिथ्यात्वं तदनन्यत्वन्यायोपपादनेन दृष्टान्ते दर्शयितुं जगतो ब्रह्मकार्यत्वमाह - सर्वा एवेत्यादिना || २७ || सीकरावर्तलहरीबिन्दवः पयसो यथा | सर्वा एवोत्थिता राम ब्रह्मणो दृश्यदृष्टयः || २८ || मृगतृष्णातरङ्गिण्यो यथा भास्करतेजसः | सर्वा दृश्यदृशो द्रष्टुर्व्यतिरिक्ता न रूपतः || २९ || शीतरश्मेरित ज्योत्स्ना स्वालोक इव तेजसः | एवमेता हि भूतानां जातयो विविधाश्च याः || ३० || स्वस्य आलोकः प्रभेव | उपसंहरति - एवमित्यादिना || ३० || यस्मादेव समायान्ति तस्मिन्नेव विशन्ति च | काश्चिज्जन्मसहस्रान्ते जातयश्चिरकालिकाः | काश्चित्कतिपयातीतजन्मरूपा व्यवस्थिताः || ३१ || समायान्त्याविर्भवन्ति | विशन्ति उपाधिविलयेनैक्यमापद्यन्ते | काश्चिदित्यादिः प्रागुक्तस्यानुवादः || ३१ || प्. ३५३) २११ इत्थं जगत्सु विविधेषु विचित्ररूपा- स्तस्येच्छया भगवतो व्यवहारवत्यः | आयान्ति यान्ति निपतन्ति तथोत्पतन्ति रूपधियः कणपटा इव पादकोत्थाः || ३२ || तस्येश्वरात्मनो भगवतो ब्रह्मणो व्यवहारवत्यो रूपश्रिय उपाधिरूपाण्येव श्रीर्यासां तथाविधाः प्रागुक्तजीवजातयो निपतन्ति भवाद्भवान्तरे भ्रमन्ति | पावकोत्थाः कणघटाः स्फुलिङ्गसमूहा इव || ३२ || इत्यार्षे श्रीवासिष्ठमहारामायणे मोक्षोपायेषूत्पत्तिप्रकरणे ब्रह्मणः सर्वमुत्पद्यत इति कथनं नाम चतुर्नवतितमः सर्गः || ९४ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे ब्रह्मणः सर्वमुत्पद्यत इति कथनं नाम चतुर्नवतितमः सर्गः || ९४ || पञ्चनवतितमः सर्गः ९५ श्रीवसिष्ठ उवाच | अभिन्नौ कर्मकर्तारौ सममेव परात्पदात् | स्वयं प्रकटतां यातौ पुष्पामोदौ तरोरिव || १ || अप्रबुद्धजनौघस्य प्रबोधाय न वस्तुतः | कर्मकर्त्रोः सहोद्भूतिराक्षिप्येह समर्थ्यते || १ || ब्रह्मण एव कल्पादौ सर्वा जीवजातय आविर्भवन्तीत्युक्तिब्याजेन ब्रह्मैवोपाधिषु जीवभावेन प्रविष्टमिति दर्शितम् | एवंच आगन्तुके जीवभावे न प्राक्तनं कर्म निमित्तं वक्तुं शक्यम् | तस्य प्राक्तनकर्तृसापेक्षत्वात् | तदर्थ जीवस्यानादित्वाभ्युपगमे तु न ब्रह्मणः प्रागुक्त औपाधिको जीवभावः समर्थयितुं शक्य इत्युभयथापि दोषं प्रसक्तं दृष्टिभेदाश्रयेण परिहरिष्यन् गूढाभिसंधिः परिशेषाद्यौक्तिकदशा सहोत्पत्ति * *? दर्शयति - अभिस्राविति | अन्योन्यतादात्म्यकल्पनादभिन्नो अतः समं युगपदेव परात्परदाद्ब्रह्मणः सकाशात्स्वयं स्वस्वभाववशादेव सर्गादौ प्रकटतां यातौ | तथाच भगवतो वाक्यम् - न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः | न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते || इति || १ || सर्वसंकल्पनामुक्ते जीवा ब्रह्मणि निर्मले | स्फुरन्ति वितते व्योम्नि नीलिमेवाज्ञचक्षुषः || २ || तदाविर्भावे तादाग्र्याध्याये च जीवानां स्वभावशब्दितं * *? नमेव हेतुरिति सदृशान्तमाह - सर्वेति || २ || अप्रबुद्धजनाचारो यत्र राघव दृश्यते | तत्र ब्रह्मण उत्पन्ना जीवा इत्युक्तयः स्थिताः || ३ || अत एव सृष्टिवादोऽयभङ्गसंमतव्यवहारभूमावेव(?) न परमार्थपदे इत्याह - अप्रबुद्धेति || ३ || संप्रबुद्धजनाचारे वक्तुमेतन्न शोभनम् | यद्ब्रह्मण इदं जातं न जातं चेति राघव || ४ || न निरोधो न चोत्पत्तिर्न बद्धो न च साधकः | न मुमुक्षुर्न वै मुक्तिरित्येवा परमार्थता | तदेतद्ब्रह्मापूर्वमनापरमनान्तरम * * * * *? ब्रह्म सर्वानुभूत्(?) इत्यादिश्रोतपारमार्थिकदशा तु न जगतो जीवानां कर्मणां वा उत्पत्त्यादिकं तन्निषेधो वा वक्तुं शक्य इत्याह - संप्रबुद्धेति || ४ || काचिद्वा कलना यावन्न नीता राघव प्रथाम् | उपदेश्योपदेशश्रीस्तावल्लोके न शोभते || ५ || तर्हि परमार्थोपदेशके शास्त्रे किम *? र * * * * *? र्थायुक्तेः प्रयोजनं तत्राह - काचिद्वेति | कलना द्वितीयकल्पना || ५ || अतो भेददृशा दीनामङ्गीकृत्योपदिश्यते | ब्रह्मेदमेते जीवा वै वेति वाचामयं क्रमः || ६ || * *? शोध्यां [शोध्याद्वैत इति पाठः] द्वैतकल्पनां यावद्व्यवहारकालमङ्गीकृत्येत्यर्थः | वै इति निश्चये | वा इति संशये | इतिशब्दः प्रकारे | यावत्प्रमाण * *? शोधं निश्चयेन यावत्प्रमेयनिर्णयं संशयेन प्रकारेणाङ्गीकृत्येत्यर्थः || ६ || इति दृष्टो निरासङ्गाद्ब्रह्मणो जायते जगत् | तजं तदेव तद्धेतुगतं दुरवबोधतः || ७ || लोकेऽप्यन्युप * * *? वादो बहुशः प्रसिद्धः इत्याह - इति दृष्ट इति | यद्यभ्यु * *? द्वैतं तर्हि कथमपोद्यते तत्राह - निरासङ्गादिति | निरासङ्गाद * * *? द्वितीयाद्ब्रह्मणो * * * *? इति प्रथमं व्युत्पादिते यत्तजं तदुपादानकं तत्तदेव | * * *? दुत्पत्तेः प्राक् हेतु * * * * * *? तदेव आविर्भावद * * *? पि हेतुयत * * * * * *? दुरवबोधत्ते(?) भ्रान्तिज्ञाना * * * *? भातीति बाध्यत इत्यर्थः || ७ || मेरुमन्दरसंकाशा वहवो जीवराशयः | उत्पत्त्योत्पत्त्य संलीनास्तस्मिन्नेव परे पदे || ८ || तदुपादा * * *? तु कालत्रयेऽपि तत्रैवोत्पद्म लीयमानात्वा *? द्धमित्याह - मेर्वित्यादिचतुर्भिः | जीवशब्देन तदुपाधयो दृशन्ते(?) || ८ || अथानन्ताः स्फुरन्त्येते जायमानाः सहस्रशः | नानाककुघ्निकुब्जेषु पादपेष्विव प *? वाः || ९ || जीवौघाश्चोद्भविष्यन्ति मधाविव नवाङ्कुराः | तत्रैव लयमेष्यन्ति ग्रीष्मे मधुरसा इव || १० || तिष्ठन्त्यजस्रं कालेषु त एवान्ये च भूरिशः | जायन्ते च प्रलीयन्ते परस्मिञ्जीवराशयः || ११ || पुष्पामोदादिपाभिन्नौ पुमान्कर्म च राघव | परमेशात्समायाते तत्रैव विशतः शनैः || १२ || मूढाभिसंधिमुपसंहरति(?) - पुष्पामोदाविति | अभिन्नाविति | पुष्पामोदाविति दृष्टान्तविशेष * * * * *(##? * *? इति नपुंसकैकशेषः || १२ || दृष्टमेते जगत्यस्मिन्दैत्योरगनरामराः | उद्भवन्त्यभवा भावैः प्रस्फुरन्ति पुनः पुनः || १३ || सहोत्पत्तिकलनायां दृष्टानुसारोऽप्यस्तीत्याह - दृष्टमिति | वस्तुवृत्या अभावा अपि भावैर्वासनाभूतमात्रोपाधिभिरुद्भवन्ति तत्कालं प्रस्फुरन्ति संचलन्ति चेति सहोत्पत्तितादात्म्ययोः प्रत्यक्षं दर्शनादित्यर्थः || १३ || प्. ३५४) २१२ हेतुर्विहरणे तेषामात्मविस्मरणादृते | न कश्चिल्लक्ष्यते साधो जन्मान्तरफलप्रदः || १४ || तथाच तदुत्पत्तौ न कर्माणि न वा अन्यन्निमित्तं कर्तृपूर्वकत्वात्तेषामतः परिशेषात्प्रागुक्ताज्ञानमेकमेवेत्याह - हेतुरिति | अयमभिसंधिः | न तावत्कर्तुरनादिता वक्तुं शक्या कर्तृत्वस्य स्वाभाविकत्वे अनादिस्वभावस्याग्न्यौष्ण्यस्येवोपायसहस्रैरप्यपरिहार्यतयाऽनिर्मोक्षप्रसण् ^गात् | औपाधिकत्वे स उपाधिरविद्यैव वा स्यादन्यो वा | आद्ये फलतः सैद्धान्तिकपरिशेषपक्षान्तर्गतिः | किंच अविद्याया आत्मनि कर्तृतापादकत्वं स्वत एव वा अन्यसापेक्षतया वा | न स्वतः सुषुप्तिमूर्च्छाप्रलयेष्वप्यात्मनः [प्यनात्मन इति पाठः] कर्तृत्वापादनापत्तेः | अन्यसापेक्षतया चेद्यत्सापेक्षा सत्यविद्या कर्तृतामापादयति स एवोपाधिः स्यान्नाविद्या | नह्युपाधेरुपाधिर्भवतीति | द्वितीयेऽपि स उपाधिरविद्याकार्यं स्वतन्त्रो वा | स्वातन्त्र्ये यद्यनादिस्तर्हि सुषुप्तिप्रलययोरपि कर्तृतामापादयेत् | यदि सादिस्तर्हि तदुपहितकर्तृरूपमपि साद्येवेति नानादिकर्तृसिद्धिः | अविद्याकार्योपाधिपक्षेऽप्ययमेव दोष इति नित्यस्याप्यात्मनः कर्त्रुपाधिसंबन्धस्य प्रतिकल्पं प्रतिदिनं च भेदात्तदधीनस्योपहितकर्तृरूपस्य कर्मसहोत्पत्तिः कर्मशक्तिमदुपाधितादात्म्यरूपता च तत्र चात्मविस्मरणमेव बीजमिति पक्ष एव यौक्तिकदृशा परिशिष्यते | एतेभ्यो भूतेभ्यः समुत्थाय तान्येवानु विनश्यति इति श्रुतिरप्यत्रानुकूलेति || १४ || श्रीराम उवाच | अविसंवादिनार्थे यद्यत्प्रामाणिकदृष्टिभिः | वीतरागैर्विनिर्णीतं तच्छास्त्रमिति कथ्यते || १५ || अस्मिन्पक्षे अनुपपत्तिमुपपादयिष्यन् रामस्तदुपयोगिनीं भूमिकां रचयितुं शास्त्रलक्षणमाह - अविसंवादिनेति | अलौकिके धर्मे ब्रह्मणि च प्रमाणं श्रुतिस्तत्प्रभवा दृष्टिर्येषां तैः प्रामाणिकदृष्टिभिर्वीतरागैश्च मन्वादिभिर्धर्माधर्मरूपे अर्थे स्वमूलश्रुत्यविसंवादिना जैमिनीयादितन्त्रसिद्धन्यायकलापेन यद्यद्विनिर्णीतं निर्णीय निबद्धं स्मृतिपुराणकल्पसूत्रेतिहासादि तच्छास्त्रमिति कथ्यते | तथाच श्रुतयस्तन्मूलस्मृत्यादयश्चालौकिकार्थे मानमित्याशयः || १५ || महासत्त्वगुणोपेता ये धीराः समदृष्टयः | अनिर्देश्यकलोपेताः साधवस्त उदाहृताः || १६ || एवं सदाचारोऽपि मानमिति वक्तुं सतां लक्षणमाह - महासत्त्वेति | महता अत्यन्तविशुद्धेन सत्त्वगुणेनोपेताः | धीरा विषयैर्दुःखस्थानैश्चाप्रकम्प्याः समदृष्टयः अरागद्वेषाः | अनिर्देश्या शब्देनाभिलपितुमशक्या या निरतिशयानन्दब्रह्मसाक्षात्कारकला तदुपेताः | ते साधवः सन्त इत्यर्थः || १६ || द्वयं हि दृष्टिर्बालानां सिद्धये सर्वकर्मणाम् | साधुवृत्तं तथा शास्त्रं सर्वदैवानुवर्तते || १७ || साधुवृत्तमुक्तलक्षणानां सतामाचारः शास्त्रं श्रुतिस्मृती चेति द्वयं बालानामज्ञाततत्त्वानां शिष्टानां दृष्टिर्नेत्रद्वयं धर्मब्रह्मतत्त्वदर्शनायेत्यर्थः || १७ || साधुसंव्यवहारार्थं शास्त्रंयो नानुवर्तते | बहिःकुर्वन्ति तं सर्वे स च दुःखे निमज्जति || १८ || साधुः स्वर्गमोक्षोपयोगी यः संव्यवहारस्तदर्थं तत्प्रयोजनं शास्त्रं सर्वे शिष्टा इति शेषः || १८ || इह लोके च वेदे च श्रुतिरित्थं सदा प्रभो | यथा कर्म च कर्ता च पर्यायेणेह संगतौ || १९ || इह अस्मिन् लोके प्रामाणिकजने वेदे च इत्थं श्रूयत इति श्रुतिर्नि रूढप्रवादः | अस्तीति शेषः | प्रवादमेवाभिलप्य दर्शयन् विवक्षितमर्थमाह - यथेत्यादिना | पर्यायेण अयौगपद्येन | हेतुफलभावेनेति यावत् || १९ || कर्मणा क्रियते कर्ता कर्त्रा कर्म प्रणीयते | बीजाङ्कुरादिवन्न्यायो लोकवेदोक्त एव सः || २० || तदेव स्पष्टमाह - कर्मणेति | प्रणीयते निष्पाद्यते || २० || कर्मणो जायते जन्तुर्बीजादिव नवाङ्कुरः | जन्तोः प्रजायते कर्म पुनर्बीजमिवाङ्कुरात् || २१ || यया वासनया जन्तुर्नीयते भवपञ्जरे | तद्वासनानुरूपेण फलं समनुभूयते || २२ || कर्मेव वासनापि प्राक्तनी कर्तृहेतुरित्याह - ययेति | समनुभूयते तेन जन्तुनेति शेषः || २२ || एवं स्थिते कथं नाम जन्मबीजेन कर्मणा | विनोत्पत्तिस्त्वया प्रोक्ता भूतानां ब्रह्मणः पदात् || २३ || एवं भूमिकां कृत्वा कर्तृकर्मणोः सहोत्पत्तिपक्षमाक्षिपति - एवं स्थिते इति | सहोत्पत्तिपक्षे हि प्राक्तनं कर्म विनैवोत्पत्तिरिति फलितं तच्चायुक्तम् | साधुकारी साधुर्भवति पापकारी पापो भवति पुण्यो वै पुण्येन कर्मणा भवति पापः पापेन कर्मणा जायते जन्तुः इत्यादिश्रुतिस्मृतिशिष्टप्रवादविरोधादित्यर्थः || २३ || पक्षेणानेन भगवन्भवता जन्मकर्मणोः | तिरस्कृता जगज्जाता साऽविनाभावितैतयोः || २४ || अनेन सहोत्पत्तिपक्षेणैतयोर्जीवकर्मणोर्जगति जाता प्रमाणनिरूढा अविनाभाविता अन्वयव्यतिरेकशालिनी परस्परहेतुफलता तिरस्कृता भवतेत्यर्थः || २४ || ब्रह्मण्यकारणे ब्रह्मन्ब्रह्मादिषु फलेषु च | कर्मणां फलमस्तीति द्वयं लोके प्रमार्जितम् || २५ || कर्मणां अकारणे अद्वयत्वात्स्वातिरिक्तकारणशून्ये मायाशबले ब्रह्मणि वियदादिस्थूलदेहान्तभोगायतनसर्गरूपं फलमस्ति तत्फलेषु ब्रह्मादिषु हिरण्यगर्भादिस्थूलसूक्ष्मोपाधिषु भोगतात्सामग्रीसर्गरूपं फलमस्तीति लोके प्रसिद्धं प्रवादद्वयं त्वया प्रमार्जितमित्यर्थः || २५ || संजाते संकरे लोके कर्मस्वफलदायिषु | मात्स्यन्याये विलसति नाश एवावशिष्यते || २६ || दोषान्तरमप्याह - संजात इति | कर्मस्वफलदायिषु निष्फलेषु सत्सु नरकादिभयाभावान्मत्स्यैरिव बलवद्भिर्हिंसनभक्षणैर्मात्स्यन्याये विलसति सति || २६ || प्. ३५५) २१२ किं तत्कृतं भवत्येव भगवन्ब्रूहि तत्त्वतः | एनं मे संशयं स्फारं छिन्धि वेद्यविदांवर || २७ || तत्तस्मात् हे ब्रह्मन् तत्त्वतो यथार्थतो ब्रूहि | कृतं कर्म फलात्मना भवत्येव किंवा नेति एनं संशयं छिन्धि || २७ || श्रीवसिष्ठ उवाच | साधु राघव पृष्टोऽस्मि त्वया प्रश्नमिमं शुभम् | शृणु वक्ष्यामि ते येन भृशं ज्ञानोदयो भवेत् || २८ || इत्थमाक्षिप्तो वसिष्ठः प्रामाणिकमाक्षेपं प्रशंसंस्तत्समाधिं प्रतिजानीते - साध्विति || २८ || मानसोऽयं समुन्मेषः कलाकलनरूपतः | एतत्तत्कर्मणां बीजं फलमस्यैव विद्यते || २९ || सहोत्पत्तिपक्षेऽपि यथा न कश्चिद्दोषस्तथोपपादयितुं भूमिकां रचयति - मानस इति | यद्धि मनसा ध्यायति तद्वाचा वदति तत्कर्मणा करोति इति श्रुतेर्मनःसंबन्धी यः कलाकलनरूपतः क्रियाकौशलप्रतिसंधानरूपेण समुन्मेषो विकासः एतत्तत्प्रसिद्धं कर्मणां बीजम् | कथं ज्ञायते | यतः अस्यैवोत्तरत्र क्रियानिष्पत्तिरूपं फलं विद्यते नामनःपूर्वकदेहचेष्टामात्रस्येत्यर्थः || २९ || यदैव हि मनस्तत्त्वमुत्थितं ब्रह्मणः पदात् | तदैव कर्म जन्तूनां जीवो देहतया स्थितः || ३० || फलमस्यैव विद्यते इति यदुक्तं तदुदाहृत्य दर्शयति - यदैवेति | आदिसर्गे परब्रह्मणः पदाद्यदैव मनोलक्षणं तत्त्वं वस्तूत्थितं तदैव जन्तूनां तदुपाध्याविर्भूतसमष्टिव्यष्टिजीवानां कर्माप्युत्थितम् | जीवश्च प्राक्तनवासनानुसारिदेहतया देहाहंभावेन स्थितः | तथाच श्रुतिः - तन्मनोऽकुरुत आत्मन्वी स्यामिति सोऽर्चन्नचरत् इति च | मनोजन्माधीनमेवात्मन्विताशब्दितदेहित्वं संचरणलक्षणं कर्म च दर्शयति | यद्यद्भवन्ति तदा भवन्ति इति च श्रुत्यन्तरम् | तथाच मन एव कर्तृ नात्मेति दर्शयितुं मया सहोत्पत्तिपक्षो दर्शित इति भावः || ३० || कुसुमाशययोर्भेदो न यथा भिन्नयोरिह | तथैव कर्ममनसोर्भेदो नास्त्यविभिन्नयोः || ३१ || एवं कर्तृकर्माबेदोक्तेरपि कर्मणो मनोधर्मतैव नात्मधर्मता कौटस्थ्यस्वभावविरोधादिति प्रदर्शने तात्पर्यमिति सदृष्टान्तमाह - कुसुमेति | आशयोऽत्रान्तस्थ आमोदः || ३१ || क्रियास्पन्दो जगत्यस्मिन्कर्मेति कथितो बुधैः | पूर्वं तस्य मनो देहं कर्मातश्चित्तमेव हि || ३२ || ननु कर्मशब्देन यज्ञादिस्तज्जन्यमदृष्टं वोच्यते | तत्राद्यो देहधर्मः द्वितीयस्तु भोक्तृसमवायी तत्कथं मनोधर्मतानयोस्तत्राह - क्रियेति | क्रियैव हि कर्मसंस्कारात्मना मनसि स्थिता अदृष्टफलात्मना आविर्भूता देहस्वर्गनरकादिरूपा भवति | एवंच तस्य कर्मण आश्रयो देहमपि पूर्व मन एव | सविज्ञानो भवति सविज्ञानमेवान्ववक्रामति इति श्रुत्य मनसो भाविदेहाकाराभिमानं प्राप्तस्यैव पूर्वदेहादुत्क्रमणश्रुतेः | आतिवाहिकदेहस्यैव वासनाबलेन स्थूलदेहताकल्पनमिति प्राग्व्युत्पादनाच्च | अतश्चित्तं मनएव कर्मधर्मकत्वात्कर्मेत्यर्थः || ३२ || न स शैलो न तद्व्योम न सोऽब्धिश्च न विष्टपम् | अस्ति यत्र फलं नास्ति कृतानामात्मकर्मणाम् || ३३ || एवंच त्वदुक्तः कर्मनैष्फल्यदोषोऽपि परिहृतो मनःकार्यस्य सर्वस्यापि प्रपञ्चस्य कर्मफलत्वोपपत्तेरित्याशयेनाह - न स इति | फलशब्दो भावप्रधानः | फलत्वमित्यर्थः || ३३ || ऐहिकं प्राक्तनं वापि कर्म यद्रचितं स्फुरत् | पौरुषोऽसौ परो यत्नो न कदाचन निष्फलः || ३४ || रचितं सावधानमनुष्ठितं साङ्गतया च स्फुरद्विराजमानं यत्कर्म असौ पौरुषः प्रयत्न एव सच कदाचन कदाचिदपि निष्फलो नेत्यर्थः | अयमभिप्रायः - अविद्योत्थं मन एव क्रियाशक्तिमत्त्वाच्चिदात्मौपाधित्वाच्च कर्तृभोक्तृ च | तच्च अन्नमयं हि सोम्य मनस्तन्मनोऽकुरुत त्रीण्यात्मनेऽकुरुत मनो वाचं प्राणम् इत्यादिश्रुतेः प्रागुक्तयुक्तेश्च | यद्यपि प्रतिकल्पं प्रतिदिनं चोत्पद्य प्रलीयते तथापि प्रत्यहमाविर्भूय निशि तमसि तिरोभवन्ती कुड्यच्छायेव प्रतिदर्पणसंनिधानमाविर्भूय दर्पणापसरणे रितोभवन्मुखप्रतिबिम्बमिव च तदेवेदमित्यबाधितप्रत्यभिज्ञाप्रामाण्यादुपहितात्मैक्याच्च न भिद्यते इत्यनाद्यपि भवति | नहि नाशो नाम शून्यतापत्तिरुत्पत्तिर्वा असतः सत्त्वं येन प्रत्यहं सुषुप्तौ नाशाद्भेदः स्यात् | सत्कार्यवादाश्रयणाच्चाविद्याबीजात्मना सतोरेव प्राक्तनकर्तृकर्मणोस्तत्फलवियदादिप्रपञ्चस्य च सहोत्पत्त्यभ्युपगमेऽपि न कृतहानाकृताभ्यागमप्रसङ्ग इति न शास्त्रप्रामाण्यबाधो न वा मात्स्यन्यायप्रसक्तिर्न वा जन्मकर्मणोरविनाभावनियमप्रमार्जनं मन एव तिरोभूतावस्थमाविर्भूतावस्थं चाविद्येत्यभ्युपगमाच्चात्मविस्मरणैकहेतुपरिशेषोक्तिरप्यविरुद्धेति तत्त्वमिति || ३४ || कृष्णतासंक्षये यद्वत्क्षीयते कज्जलं स्वयम् | स्पन्दात्मकर्मविगमे तद्वत्प्रक्षीयते मनः || ३५ || सहोत्पत्त्यैक्यपक्षाभ्युपगमस्य किं फलं तदाह - कृष्णतेति | तथाच कर्ममनसोरन्यतरनाशार्थिना स्पन्दात्मकस्य प्राणस्य मनसो वा निरोधलक्षणो हठयोगो राजयोगो वाभ्यसनीय इति तत्फलमिति भावः || ३५ || कर्मनाशे मनोनाशो मनोनाशो ह्यकर्मता | मुक्तस्यैष भवत्येव नामुक्तस्य कदाचन || ३६ || योगजन्यसाक्षात्कारेणाविद्यानाशे चात्यन्तिक उभयनाशो भवति नान्यथेत्याशयेन मुक्तस्येत्युक्तिः || ३६ || वह्न्यौष्णयोरिव सदा श्लिष्टयोश्चित्तकर्मणोः | द्वयोरेकतराभावे द्वयमेव विलीयते || ३७ || श्लिष्टयोस्तादात्म्येन संगतयोः || ३७ || प्. ३५६) २१३ चित्तं सदा स्पन्दविलासमेत्य स्पन्दैकरूपं ननु कर्मविद्धि | कर्माथ चित्तं किल धर्मकर्म- पदं गते राम परस्परेण || ३८ || एकनाशे अपरनाश इत्यत्रोपपत्तिं दर्शयन्नुपसंहरति - चित्तमिति | यतश्चित्तं स्पन्दविलासमेत्य विहितनिषिद्धनिष्पादनेन पुण्यपापात्मकधर्माधर्माकारपरिणामि भवति | अथ कर्म च तत्फलभोगानुरूपस्पन्दात्मकविलासमेत्य चित्तं भवति | अतस्ते परस्परेण निमित्तेन धर्मपदं कर्मपदं च गते वाचकत्वेन प्राप्ते धर्मकर्मशब्दाभ्यां लोके व्यवह्रियेते इत्यर्थः || ३८ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० उ० कर्मपुरुषयोरैक्यप्रतिपादनं नाम पञ्चनवतितमः सर्गः || ९५ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे कर्मपुरुषयोरैक्यप्रतिपादनं नाम पञ्चनवतितमः सर्गः || ९५ || षण्णवतितमः सर्गः ९६ श्रीवसिष्ठ उवाच | मनो हि भावनामात्रं भावना स्पन्दधर्मिणी | क्रिया तद्भावितारूपं फलं सर्वोऽनुधावति || १ || मनसः कर्मवैचित्यादिह नानाविधाकृतेः | व्याख्यायन्तेऽभिधामेदास्तत्त्वं चास्य विशुद्धये || १ || उक्तार्थप्रपञ्चनार्थस्य सर्गस्यार्थं संक्षिप्यादौ दर्शयति - मन इति | अनुभूतानामर्थानां भावना विभावनाख्यं विकल्पं तन्मात्रम् | सा भावना स्पन्दधर्मिणी सती विहितनिषिद्धक्रिया भवति तस्याः क्रियाया एव सौक्ष्म्याददृष्टभावापन्नाया जन्मान्तराद्यात्मकं यद्भावितारूपं तदेव फलं सर्वो जन्तुरनुधावति अनुसरति | मन एव क्रमेणोभयभावमापद्यत इत्यर्थः || १ || श्रीराम उवाच | विस्तरेण मम ब्रह्मन् जडस्याप्यजडाकृतेः | रूपमारूढसंकल्पं मनसो वक्तुमर्हसि || २ || प्रश्नः स्पष्टः || २ || श्रीवसिष्ठ उवाच | अनन्तस्यात्मतत्त्वस्य सर्वशक्तेर्महात्मनः | संकल्पशक्ति रचितं यद्रूपं तन्मनो विदुः || ३ || सर्वशक्तेः सर्वशक्तिमन्मायाशबलस्य रचितं प्रथमनिष्पादितं संकल्पशक्ति यद्रूपं तन्मन इत्यर्थः || ३ || भावः सदसतोर्मध्ये नृणां चलति यश्चलः | कलनोन्मुखतां यातस्तद्रूपं मनसो विदुः || ४ || सांप्रतिकेऽपि नृणां व्यवहारे तत्प्रसिद्धमित्याह - भाव इति | स्थाणुर्वा पुरुषो वेति विकल्पे सदसतोः कोट्योर्यो भावश्चलो दोलायमानश्चलति संचरतीत्यर्थः | कलनोन्मुखतां कोटिद्वयस्य स्मृतिपूर्वकताम् || ४ || नाहं वेदावभासात्मा कुर्वाणोऽस्मीति निश्चयः | तस्मादेकान्तकलनस्तद्रूपं मनसो विदुः || ५ || सदा चिद्रूपत्वाद्भासमानेऽप्यात्मनि नाहं वेदेति प्रत्ययः अकर्तर्यपि कर्तृताप्रत्ययश्च येन भवति तन्मन इत्याह - नाहमिति | एकान्तकलनो नियतं जायमानः || ५ || कल्पनात्मिकया कर्मशक्त्या विरहितं मनः | न संभवति लोकेऽस्मिन्गुणहीनो गुणी यथा || ६ || निःस्पन्दे मनस्येतस्य लक्षणस्याव्याप्तिमाशङ्क्याह - कल्पनात्मिकयेत्यादिना || ६ || यथा वह्न्यौष्ण्ययोः सत्ता न संभवति भिन्नयोः | तथैव कर्ममनसोस्तथात्ममनसोरपि || ७ || आत्ममनसोर्जीवमनसोः || ७ || स्वेनैव चित्तरूपेण कर्मणा फलधर्मिणा | संकल्पैकशरीरेण नानाविस्तरशालिना || ८ || फलेन धर्मिणा साध्यवता || ८ || इदं ततमनेकात्म मायामयमकारणम् | विश्वं विगतविन्यासं वासनाकल्पनाकुलम् || ९ || या येन वासना यत्र सतेवारोपिता यथा | सा तेन फलसूस्तत्र तदेव प्राप्यते तथा || १० || वासनाकल्पनाकलनाकुलामित्येतत्स्फुटयति - या येनेति | यत्र सतेव यथैन्दवैरिहस्थैरेव सत्यलोकस्था वयमिति कल्पितेनेत्यर्थः | लतेवेति पाठे स्पष्टम् || १० || कर्म बीजं मनःस्पन्दः कथ्यतेऽथानुभूयते | क्रियास्तु विविधास्तस्य शाखाश्चित्रफलास्तरोः || ११ || तस्य वासनातरोः कर्म बीजं मनःस्पन्दः शरीरं क्रियाः शाखा इति शास्त्रे कथ्यते फलतश्चानुभूयत इत्यर्थः || ११ || मनो यदनुसंधत्ते तत्कर्मेन्द्रियवृत्तयः | सर्वाः संपादयन्त्येतास्तस्मात्कर्म मनः स्मृतम् || १२ || ननु कर्मेन्द्रियवृत्तिः कर्म कथं तन्मनसः स्यात्तत्राह - मन इति || १२ || मनो बुद्धिरहंकारश्चित्तं कर्माथ कल्पना | संसृतिर्वासना विद्या प्रयत्नः स्मृतिरेव च || १३ || मन एव सर्वेन्द्रियभावं धत्त इति नायं दोष इति दर्शयंस्तन्नामान्याह ##- इन्द्रियं प्रकृतिर्माया क्रिया चेतीतरा अपि | चित्राः शब्दोक्तयो ब्रह्मन्संसारभ्रमहेतवः || १४ || नैतावत्यः किंत्वितरा अपि सन्ति | ब्रह्मन् ब्रह्मणि | छान्दसः सप्तम्या लुक् | न ङिसंबुद्ध्योः इति नलोपनिषेधः | संसारभ्रमः संसारकल्पितो वक्ष्यमाणप्रवृत्तिनिमित्तभेदः स एव हेतुर्यासाम् || १४ || काकतालीययोगेन त्यक्तस्फारदृगाकृतेः | चितेश्चेत्यानुपातिन्याः कृताः पर्यायवृत्तयः || १५ || काकतालीयमाकस्मिकं स्वरूपविस्मरणं तद्योगेन त्यक्तेव नानुभूयमाना स्फाराऽपरिच्छिन्ना दृगाकृतिश्चिदेकरसाकारो यया तथाभूतायाश्चितेश्चितेश्चेत्यानुपातिन्या बाह्यकल्पनोन्मुखायाः || १५ || प्. ३५७) २१३ श्रीराम उवाच | परायाः संविदो ब्रह्मन्नेताः पर्यायवृत्तयः | कल्प्यमानविचित्रार्थाः कथं रूढिमुपागताः || १६ || उक्तानां मनोबुद्ध्यादिनाम्नां चेत्योन्मुखचितिप्रवृत्तिनिमित्तभेदेन योगरूढ्या पर्यायवृत्तितां प्रत्येकं निर्वचनेन विशिष्य जिज्ञासमानो रामः पृच्छति - पराया इति | कल्प्यमानो विचित्रो योगार्थो यासां तथाविधाः सत्यः || १६ || श्रीवसिष्ठ उवाच | गतेव सकलङ्कत्वं कदाचित्कल्पनात्मकम् | उन्मेषरूपिणी नाना तदैव हि मनःस्थिता || १७ || एवं पृष्टो वसिष्ठः क्रमेण पञ्चदशापि नामानि व्याचिकीर्षुः प्रथमं मन इति नाम व्याचष्टे - गतेवेति | परा संविदविद्यया सकलङ्कत्वं गतेव सती कदाचिदुन्मेषरूपिणी भूत्वा यदेदमित्थमनित्थं वेति विकल्पात्मना नाना भवति तदैव सा मनोरूपेण स्थितेति तन्नागिका भवतीत्यर्थः || १७ || भावनामनुसंधानं यदा निश्चित्य संस्थिता | तदैषा प्रोच्यते बुद्धिरियत्ताग्रहणक्षमा || १८ || यदा तु प्रथमं विकल्पोत्तरं वा विशेषभावनां प्राप्य एकतरकोट्यनुसंधानं निश्चित्य सुस्थिरा स्थिता तदैषा संविद्बुद्धिरिति प्रोच्यते | इयत्ता ईदृशमेवेदं वस्त्विति परिच्छित्तिस्तद्ग्रहणसमर्थेत्यर्थः || १८ || यदा मिथ्याभिमानेन सत्तां कल्पयति स्वयम् | अहंकाराभिमानेन प्रोच्यते भवबन्धनी || १९ || यदा तु मिथ्याभूतदेहाद्यात्मताभिमानेन स्वयं सत्तां कल्पयति मन्यते तदाहंकाराभिमानेन निमित्तेन सा अहंकार इति प्रोच्यते सैव सर्वानर्थबीजत्वाद्भवबन्धनीत्यर्थः || १९ || इदं त्यक्त्वेदमायाति बालवत्पेलवा यदा | विचारं संपरित्यज्य तदा सा चित्तमुच्यते || २० || यदा त्वेकं विषयं त्यक्त्वा अपरं विषयं स्मरति विचारं पूर्वापरप्रतिसंधानं परित्यज्य तदा सा संविच्चित्तमित्युच्यत इत्यर्थः || २० || यदा स्पन्दैकधर्मत्वात्कर्तुर्या शून्यशंसिनी | आधावति स्पन्दफलं तदा कर्मेत्युदाहृता || २१ || सैव संवित् कर्तुः स्पन्दैकधर्मत्वाद्वस्तुतः शून्यमसदेव स्पन्दं शंसति गोचरयति तच्छीला सती स्पन्दफलं शरीरादवयवादेर्देशान्तरसंयोगं संपादयितुमाधावतीव तदा कर्मेत्युच्यत इत्यर्थः || २१ || काकतालीययोगेन त्यक्त्वैकघननिश्चयम् | यदेहितं कल्पयति भावं तेनेह कल्पना || २२ || एकमेव घनं वस्त्वन्तरावकाशशून्यं यत्स्वरूपं तन्निश्चयं त्यक्त्वा स्वपूर्णभावं विस्मृत्य यदा ईहितं वाञ्छितं परिच्छिन्नभावं कल्पयतीत्यर्थः || २२ || पूर्वदृष्टमदृष्टं वा प्राग्दृष्टमिति निश्चयैः | यदैवेहां विधत्तेऽन्तस्तदा स्मृतिरुदाहृता || २३ || स्मृतिः संस्मृतिः || २३ || यदा पदार्थशक्तीनां संभुक्तानामिवाम्बरे | वसत्यस्तमितान्येहा वासनेति तदोच्यते || २४ || यदा संभुक्तानां ग्रस्तानामिव तिरोभूतानां पदतदर्थतच्छक्तीनां स्वरूपेण अम्बरे शून्यप्रायेऽतिसूक्ष्मभावे वसति अस्तमितान्यचेष्टा च भवति तदा वासनेत्युच्यत इत्यर्थः || २४ || अस्त्यात्मतत्त्वं विमलं द्वितीया दृष्टिरङ्किता | जाता ह्यविद्यमानैव तदा विद्येति कथ्यते || २५ || अङ्किताजातेत्येकं पदम् | अङ्कोऽविद्याकलङ्कस्तद्वैशिष्ट्यमङ्किता तद्वशाज्जाता द्वितीया दृष्टिः प्रपञ्चप्रतिभा कालत्रयेऽप्यविद्यमानैवेति यदा प्रबुध्यते तदा विद्येति कथ्यते इत्यर्थः || २५ || स्फुरत्यात्मविनाशाय विस्मारयति तत्पदम् | मिथ्याविकल्पजालेन तन्मलं परिकल्प्यते || २६ || विस्मृतिर्मलमेव च इति पाठे ते द्वे नामनी सहैव व्याचष्टे - स्फुरतीति | आत्मनो विनाशोऽत्यन्तादर्शनम् | यतो विस्मारयति तस्माद्विस्मृतिरित्युच्यत इत्यर्थः | अथवा मिथ्याविकल्पजालेन विविधं स्मारयति विक्षिपतीत्यर्थः | तथाचावरणशक्तिप्राधान्येन मलं विक्षेपप्राधान्येन विस्मृतिरिति भावः | प्रयत्नः स्मृतिरेव च इति पाठे तु आत्मनो विनाशायादर्शनाय स्फुरति संचलति यतत इवेति प्रयत्न इति विविधं स्मारयतीति स्मृतिरिति च मलं मलिनं तत्संविद्रूपमेव नाम्ना परिकल्प्यते इति क्लेशेन व्याख्येयम् || २६ || श्रुत्वा स्पृष्ट्वा च दृष्ट्वा च भुक्त्वा घ्रात्वा विमृश्य च | इन्द्रमानन्दयत्येषा [इंद्रमामोदयत्येषा इति पाठः] तेनेन्द्रियमिति स्मृतम् || २७ || एषा मनोभूता संविद्यदा श्रवणादिक्रियया इन्द्रं कार्यकरणस्वामिनं [परमेश्वरमामोदयति इति पाठः] जीवभावापन्नं परमेश्वरमानन्दयति भोगैः प्रीणयति तदेन्द्रियमित्युच्यत इत्यर्थः | इन्द्रजुष्टमिन्द्रियमिति हि पाणिन्यनुशासनम् || २७ || सर्वस्य दृश्यजालस्य परमात्मन्यलक्षिते | प्रकृतत्वेन भावानां लोके प्रकृतिरुच्यते || २८ || प्रकृतत्वेनोपादानाभिन्नकर्त्रात्मना निर्मितत्वेन || २८ || सदसत्तां नयत्याशु सत्तां वा सत्त्वमञ्जसा | सत्तासत्ताविकल्पोऽयं तेन मायेति कथ्यते || २९ || स्पष्टम् || २९ || दर्शनश्रवणस्पर्शरसनघ्राणकर्मभिः | क्रियेति कथ्यते लोके कार्यकारणतां गता || ३० || कार्यकारणतां संसृतितद्बीजात्मकताम् || ३० || चितेश्चेत्यानुपातिन्या गतायाः सकलङ्कताम् | प्रस्फुरद्रूपधर्मिण्या एताः पर्यायवृत्तयः || ३१ || नामव्याख्यामुपसंहरति - चितेरिति || ३१ || चित्ततामुपयाताया गतायाः प्रकृतं पदम् | स्वैरेव संकल्पशतैर्भृशं रूढिमुपागताः || ३२ || प्रकृतं प्रस्तुतं संसारपदम् | स्वैः स्वीयैरेव संकल्पादिकल्पनाशतैः | एताः पर्यायवृत्तयः | रूढिं योगरूढिम् || ३२ || चेतनीयकलङ्काङ्काज्जाड्यजालानुपातिनी | संख्याविभागकलना स्ववैकल्याकुलेव चित् || ३३ || एकस्याश्चितः कुतो मनोबुद्ध्यादिसंख्याविभागकलना तत्राह - चेतनीयेति | चित् चेतनीयः अहमज्ञ इति स्वयमनुभवनार्हो योऽज्ञानकलङ्कश्चेतनीयेभ्यो विषयेभ्यः प्राप्तो वा यो द्वैतवासनाकलङ्कस्तदङ्कात्तत्संनिधानात्पूर्णस्वरूपवैकल्पेनाकुलेव भूत्वा देहादिजाड्यजालानुपातिनो यतः अत इत्यर्थः || ३३ || प्. ३५८) २१४ जीव इत्युच्यते लोके मन इत्यपि कथ्यते | चित्तमित्युच्यते सैव बुद्धिरित्युच्यते तथा || ३४ || उक्तामेव विभागकलनां पुनर्विविच्याह - जीव इत्यादिद्वाभ्याम् || ३४ || नानासंकल्पकलिलं पर्यायनिचयं बुधाः | वदन्त्यस्याः कलङ्किन्याश्च्युतायाः परमात्मनः || ३५ || श्रीराम उवाच | मनः किं स्याज्जडं ब्रह्मंस्तथा वापि च चेतनम् | इत्येको मम तत्त्वज्ञ निश्चयोऽन्तर्न जायते || ३६ || जीव इत्युच्यते इत्युक्त्या चेतनत्वप्राप्तेर्दर्शनान्तरे लोके च जाड्यप्रसिद्धेः संदिहानो रामः पृच्छति - मन इति || ३६ || श्रीवसिष्ठ उवाच | मनो हि न जऽं राम नापि चेतनतां गतम् | म्लानाऽजडा तदा दृष्टिर्मन इत्येव कथ्यते || ३७ || चिदचिदुभयसंवलनरूपत्वान्नैकतररूपं मनः परमार्थतस्तु मन्वानो मन इति तान्येतानि कर्मनामान्येव इति श्रुतावात्मन एव कर्मप्रयुक्तनामधेयेषु मनःशब्दपरिगणनादजडा दृष्टिश्चिदेव तदा संसारदशायां म्लाना उपाधिमालिन्यानुभाविनी मन इति कथ्यते इत्यर्थः || ३७ || मध्ये सदसतो रूपं प्रतिभूतं यदाविलम् | जगतः कारणं नाम तदेतच्चित्तमुच्यते || ३८ || चिदचिद्वैलक्षण्यवत्सदसद्वैलक्षण्यमपि तस्यास्तीत्याह - मध्ये इति | प्रतिभूतं प्रतिप्राणिभेदम् | प्रतिभातम् इति पाठे स्पष्टम् || ३८ || शाश्वतेनैकरूपेण निश्चयेन विना स्थितिः | येन सा चित्तमित्युक्ता तस्माज्जातमिदं जगत् || ३९ || अथवा आत्मनोऽज्ञातसत्तैव मन इत्याह - शाश्वतेनेति | येन हेतुना || ३९ || जडाजडदृशोर्मध्ये दोलारूपं स्वकल्पनम् | यच्चितो म्लानरूपिण्यास्तदेतन्मन उच्यते || ४० || पूर्वोक्तमेव स्फुटयंस्तस्य चलस्वभावतामाह - जडेति | यच्चितो रूपमिति शेषः || ४० || चिन्निःस्पन्दो हि मलिनः कलङ्कविकलान्तरम् | मन इत्युच्यते राम न जडं न च चिन्मयम् || ४१ || चितो निःस्पन्द औपाधिकचलभावो बहिर्मलिनस्तस्या अन्तः साक्षिचित आवरणविरहात्कलङ्कविकलान्तरं यद्रूपं तन्मन इत्युच्यत इत्यर्थः || ४१ || तस्येमानि विचित्राणि नामानि कलितान्यलम् | अहंकारमनोबुद्धिजीवाद्यानीतराण्यपि || ४२ || यथा गच्छति शैलूषो रूपाण्यलं तथैव हि | मनो नामान्यनेकानि धत्ते कर्मान्तरं व्रजत् || ४३ || शैलूषो नटजातिविशेषः | रूपाणि नानावेषानलमत्यर्थ गच्छति क्रमेण धारयति | कर्मान्तरं क्रियाभेदम् || ४३ || चित्राधिकारवशतो विचित्रा विकृताभिधाः | यथा याति नरः कर्मवशाद्याति तथा मनः || ४४ || यथा नरः पाकाधिकारात्पाचक इति पाठाधिकारात् पाठक इति प्रामाधिपत्याद्वामणीरिति विचित्राधिकारवशतो विचित्रा विकृतास्तत्तत्क्रियाप्रकाशिका अभिधा नामानि याति तथा मनोऽपि कर्मवशात्ताः यातीत्यर्थः || ४४ || या एताः कथिताः संज्ञा मया राघव चेतसः | एता एवान्यथा प्रोक्ता वादिभिः कल्पनाशतैः || ४५ || अन्यथा कल्पनाशतैः स्वकप्लोन्नीतयुक्तिशतैः || ४५ || स्वभावाभिमतां बुद्धिमारोप्य मनसा कृताः | मनोबुद्धिन्द्रियादीनां विचित्रा नामरीतयः || ४६ || स्वेषां भावा विभावनास्तर्कास्तदभिमतां द्रव्यत्वाणुत्वादिबुद्धिं मनस्यारोप्य मनसा स्वेच्छया मनोबुद्ध्यादीनां विचित्रा नामरीतयः संज्ञाभेदास्तैः कृता इत्यर्थः || ४६ || मनो हि जडमन्यस्य भिन्नमन्यस्य जीवतः | तथाहंकृतिरन्यस्य बुद्धिरन्यस्य वादिनः || ४७ || तेषां कल्पनाप्रकारान्विभज्य दर्शयति - मनो हीत्यादिना || ४७ || अहंकारमनोबुद्धिदृष्टयः सृष्टिकल्पनाः | एकरूपतया प्रोक्ता या मया रघुनन्दन || ४८ || अन्तःकरणस्यैकरूपतया तस्य सृष्टिकल्पनाः संकल्पादिवृत्तिभेदसृष्टिनिमित्ता अहंकारमनोबुद्धिनामभेददृष्टयस्ते मया या प्रोक्तः || ४८ || नैयायिकैरितरथा तादृशैः परिकल्पिताः | अन्यथा कल्पिताः सांख्यैश्चार्वाकैरपि चान्यथा || ४९ || गौतमीयतन्त्रानुसारिभिस्तास्तादृशैरेव स्वबुद्धिविकल्पैरितरथा कल्पिताः | यथाहंकारो द्रव्यविशेषो विभुर्जीवात्मेति मनस्त्वणु तत्साक्षात्कारे कारणमिति बुद्धिस्तु तदीयो गुणस्त्रिक्षणावस्थायिनीति नतु वस्तुतस्तथेत्यर्थः | सांख्यैस्ततोऽप्यन्यथा कल्पिताः | यथा बुद्धिः साक्षात्त्रिगुणात्मकप्रकृतिकार्यं महत्तत्त्वं अहंकारस्तु तत्कार्यं तत्त्वान्तरं मनस्त्वेकादशेन्द्रियगणान्तर्गतं षोडशविकारान्तःपातीति | चार्वाकैस्तु चैतन्यगुणः कार्यस्यैव बुद्धिः काय एवाहंकार आत्मा तस्य पूर्वापरप्रतिसंधानं मन इति || ४९ || जमिनीयैश्चार्हतैश्च बौधाइर्वैशेषिकैस्तथा | अन्यैरपि विचित्रैस्तैः पाञ्चरात्रादिभिस्तथा || ५० || जैमिनीयैस्तु कश्चिन्मनो विभु द्रव्यम् | कैश्चिदन्नयम् | बुद्धिस्तु जडबोधात्मकाहंकाररूपस्यात्मनश्चिदंश इति | आर्हतैस्तु मध्यमपरिमाणश्चिद्रूपो जीवास्तिकाय एवाहंकारः तस्य विषयाभिलाषो मनः अर्थप्रथा च बुद्धिरिति | बौद्धैः क्षणिकी आलयविज्ञाख्या बुद्धिधारा सैवात्माऽहंकाराश्च प्रवृत्तिविज्ञानात्मकः बुद्धिस्तु बाह्यार्थाकारस्तत्परिणामः अतीतः समनन्तरप्रत्ययो मन इति | वैशेषिकैस्तु नैयायिकवदेवाहंकारमनसी बुद्धिस्तु स्मृतिप्रत्यक्षानुमानतर्कविपर्ययविकल्पभेदभिन्ना पञ्चधेति | अन्यैः पाञ्चरात्रैर्वासुदेवाख्यात्परमात्मनः संकर्षणाख्यो जीवः स एवाहंकारस्ततः प्रद्युम्नाख्यं मनस्ततोऽनिरुद्धाख्या बुद्धिरिति | आदिपदाद्योगिमाहेश्वरनाकुलादीनामन्यथान्यथा कल्पना गृह्यन्ते || ५० || प्. ३५९) २१४ सर्वैरेव च गन्तव्यं तैः पदं पारमार्थिकम् | विचित्रं देशकालोत्थैः पुरमेकमिवाध्वगैः || ५१ || सर्वेषामपि स्वस्वबुद्ध्यनुसारेण परमात्मतत्त्वनिर्णय एव क्रमेण फलिष्यतीत्याह - सर्वैरिति | विचित्रमित्यनेन तत्तद्बुद्ध्यनुसारिफलात्मना स्थातुं शक्तं तत्पदमिति सूचितम् || ५१ || अज्ञानात्परमार्थस्य विपरीतावबोधतः | केवलं विवदन्त्येते विकल्पैरारुरुक्षवः || ५२ || यदि एकमेव प्राप्यते तर्हि किमर्थं विवदन्ते तत्राह - अज्ञानादिति || ५२ || स्वमार्गममिशंसन्ति वादिनश्चित्रया दृशा | विचित्रदेशकालोत्था मार्गं स्वं पथिका इव || ५३ || विचित्रदेशकालोत्थाः राजसतामसमलिनार्धमलिनसत्त्वप्रधानजनोचितदेशकालोत्पन्नाः | तथाच कालाद्यनुसारिणां तेषां स्वस्वपक्षाभिरुचिरिति तत्तत्प्रशंसा युक्तेति भावः || ५३ || तैर्मिथ्या राघव प्रोक्ताः कर्ममानसचेतसाम् | स्वविकल्पार्पितैरर्थैः स्वाः स्वा वैचित्र्ययुक्तयः || ५४ || तर्हि किं मुमुक्षुभिरपि तदुक्तयुक्तय उपादेया नेत्याह - तैरिति | तैः कर्ममानसचेतसां फलेच्छया तत्साधनकर्मणि मानसं वाञ्छा यस्य तथाविधं चेतो येषां तेषामर्थे स्वाः स्वाः स्वकपोलनिर्मिता वैचित्र्ययुक्तयो मिथ्यैव प्रोक्ता न प्रमाणमूर्धन्योपनिषत्संमता इत्यर्थः || ५४ || यथैव पुरुषः स्नानदानादानादिकाः क्रियाः | कुर्वंस्तत्कर्तृवैचित्र्यमेति तद्वदिदं मनः || ५५ || विचित्रकार्यवशतो नामभेदेन कर्तृता | मनः संप्रोच्यते जीववासनाकर्मनामभिः || ५६ || परिशेषात्स्वोक्तयुक्तय एव प्रामाणिक्य इत्याशयेन ताः पुनराह - विचित्रेत्यादिना || ५६ || चित्तमेवेदमखिलं सर्वेणैवानुभूयते | अचित्तो हि नरो लोकं पश्यन्नपि न पश्यति || ५७ || स्वोक्तयुक्तिषु लोकानुभवं संवादयति - चित्तमेवेत्यादिना || ५७ || श्रुत्वा स्पृष्ट्वा च दृष्ट्वा च भुक्त्वा घ्रात्वा शुभाशुभम् | अन्तर्हर्षं विषादं च समनस्को हि विन्दति || ५८ || आलोक इव रूपाणामर्थानां कारणं मनः | बध्यते बद्धचित्तो हि मुक्तचित्तो हि मुच्यते || ५९ || रूपाणां रूपप्रकाशानाम् | पञ्चीकृते पृथिव्यादौ प्रतीयमानानि रूपाण्यालोकभागस्यैवेत्याशयो वा | मुक्तचितो निर्वासनचित्तो मुक्तोऽहमिति निश्चयवान्वा || ५९ || तज्जडानां परं विद्धि जडं येनोच्यते मनः | न चावगच्छति जडं मनो यस्य हि चेतनम् || ६० || अत एव हि मनसोऽपि वादिनां स्वस्ववासनानुसारी जाड्यानुभवश्चैतन्यानुभवश्चोपपन्न इत्याहा - तदिति || ६० || न चेतनं न च जडं यदिदं प्रोत्थितं मनः | विचित्रसुखदुःखेहं जगदभ्युदितं तदा || ६१ || एकरूपे हि मनसि संसारः प्रविलीयते | उपाविलं कारणं तैर्भ्रान्त्या जगदुपस्थितम् || ६२ || एकरूपे अद्वितीयब्रह्माकारे सति आविलं कलुषोदकं तस्य समीपे उपाविलं तत्सदृशं मलिनचिद्रूपं तु कारणं संसारस्य तैस्तथाविधैर्मनोभिः समष्टिभूतैर्हेतुभिरित्यर्थः || ६२ || अजडं हि मनो राम संसारस्य न कारणम् | जडं चोपलधर्मापि संसारस्य न कारणम् || ६३ || उपाविलमित्युक्तेस्तात्पर्यरहस्यमुद्घाटयति - अजडमिति द्वाभ्याम् || ६३ || न चेतनं न च जडं तस्माज्जगति राघव | मनः कारणमर्थानां रूपाणामिव भासनम् || ६४ || यथा नीलपीतादिरूपभेदानां न केवलं भासनशब्दितं तेजः कारणं न पृथिव्यादि किंतु त्रिवृत्करणेन मलिनं तेजस्तद्वदित्यर्थः || ६४ || चित्तादृतेऽन्यद्यद्यस्ति तदचित्तस्य किं जगत् | सर्वस्य भूतजातस्य समग्रं प्रविलीयते || ६५ || मनसोऽसत्त्वे जगत्सत्ताया निरूपणादर्शनादपि जगतो मनोमात्रत्वमित्याह ##- सर्वस्य प्राणिनिकायस्य समग्रं जगत् प्रविलीयते तस्माच्चित्तमात्रं तदित्यर्थः || ६५ || नानाकर्मवशावेशान्मनो नानाभिधेयताम् | एकं विचित्रतामेति कालो नाना यथर्तुभिः || ६६ || यदि नामामनस्कारमहंकारेन्द्रियक्रियाः | क्षोभयन्ति शरीरं तत्सन्तु जीवादयः परे || ६७ || अमनस्कारं चित्ताभोगं विना | तत् तर्हि | परे मनोऽतिरिक्ताः || ६७ || दर्शनेषु तु ये प्रोक्ता भेदा मनसि तर्कतः | क्वचित्क्वचिद्वादकरैरपवादकरैः किल || ६८ || तर्हि कथं प्रागुक्तवादिभिरन्ये सन्तीत्युक्तं तत्राह - दर्शनेष्विति | वादकरैर्वादिभिः | क्वचित्क्वचित्केषुचिद्दर्शनेषु स्वशास्त्रेषु ये भेदा उक्तास्ते अपवादाः कुतर्कास्तूत्करैरुक्ता न प्रामाणिकैर्व्यासादिभिरित्यर्थः || ६८ || ते हि राम न बुध्यन्ते विशिष्यन्ते न च क्वचित् | सर्वा हि शक्तयो देवे विद्यन्ते सर्वगा यतः || ६९ || तेषां कुतर्कोद्भवे कारणान्याह - ते हीति | क्वचित्कदाचिदपि तत्त्वज्ञैर्व्यासादिभिर्न विशिष्यन्ते नानुशास्यन्ते | तथाचाज्ञानं सांप्रदायिकशिक्षाशून्यत्वं मनो देवस्य स्वाभाविककुतर्कशक्तयश्च तत्र कारणानीत्यर्थः || ६९ || यदैव खलु शुद्धाया [श्रद्धाया इति पाठः] मनागपि हि संविदः | जडेव शक्तिरुदिता तदा वैचित्र्यमागतम् || ७० || तर्हि तर्काप्रतिष्ठानात्तेषां सदा संशय एव स्यात्कथं व्यवस्थितैकैकपक्षनिर्णयवैचित्र्यं तत्राह - यदैवेति | स्वस्वोत्प्रेक्षिततर्के श्रद्धाजाड्याद्वैचित्र्यमित्यर्थः || ७० || ऊर्णनाभाद्यथा तन्तुर्जायते चेतनाज्जडः | नित्यप्रबुद्धात्पुरुषाद्ब्रह्मणः प्रकृतिस्तथा || ७१ || त्वत्प्रक्षेऽपि तर्हि तव श्रद्धाजाड्यमेव कुतो न हेतुरित्याशङ्क्य नायं मम स्वबुद्ध्योत्प्रेक्षितः किंतु यथोर्णनाभिः सृजते गृह्णते च यथा पृथिव्यामोषधयः संभवन्ति | यथा सतः पुरुषात्केशलोमानि तथाऽक्षरात्संभवतीह विश्वम् इत्यादिश्रुतिसिद्धोऽयं पक्ष इत्याशयेनाह ##- प्. ३६०) २१५ अविद्यावशतश्चित्तभावनाः स्थितिमागताः | चिति पर्यायशब्दा हि भिन्नास्ते नेह वादिनाम् || ७२ || वादिनां तु न श्रुत्यादर इत्यविद्यावशात्स्वस्वभावेनैव स्थिरीभूता तत एव तैर्मनस एव नामरूपभेदा भ्रान्त्या कल्पिता इत्याह - अविद्येति | चिति चित्तभावापन्ने चैतन्ये || ७२ || जीवो मनश्च ननु बुद्धिरहंकृतिश्चे- त्येवं प्रथामुपगतेयमनिर्मला चित् | सैषोच्यते जगति चेतनचित्तजीव- संज्ञागणेन किल नास्ति विवाद एषः || ७३ || उक्तमेव स्फुटयन्नुपसंहरति - जीव इति || ७३ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे मनःसंज्ञाविचारो नाम षण्णवतितमः सर्गः || ९६ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे मनःसंज्ञाविचारो नाम षण्णवतितमः सर्गः || ९६ || सप्तनवतितमः सर्गः ९७ श्रीराम उवाच | ब्रह्मन्मनस एवेदमन्तश्चाडम्बरं सृतम् | यतस्तदेव कर्मेति वाक्यार्थादुपलभ्यते || १ || सर्वाकारेण संस्थानं मनसोऽत्र निरूप्यते | चित्ताकाशचिदाकाशभूताकाशाश्च विस्तरात् || १ || एवं कर्तृकर्ममनःस्वरूपं तन्नामभेदं च बहुभिः प्रकारैः प्रतिबोधितो रामः स्वबुद्धं तद्गुरुबुद्धिसंवादायाभिलप्य दर्शयति - ब्रह्मन्निति | हे ब्रह्मन् प्राग्दर्शितत्वद्वाक्यार्थादिदमाडम्बरं ब्रह्माण्डपटहं मनस एव सकाशात्सृतमाविर्भूतं यतोऽतस्तज्जगदेव मनसः कर्मेति तात्पर्यमुपलभ्यते बुध्यते मयेत्यर्थः || १ || श्रीवसिष्ठ उवाच | दृढभावोपरक्तेन मनसैवोररीकृतम् | मरुचण्डातपेनेव भास्वरावरणं [वरणं वपुः इति पाठः] पुनः || २ || रामेण बुद्धं तात्पर्यं तथैवेत्यनुमोदनाय स्वयं वसिष्ठः पुनः संक्षेपविस्तराभ्यामाह - दृढेत्यादिना | भास्वरस्य तेजस्त्वस्यावरणमप्रथाहेतुर्मृगतृष्णोदकमिव भास्वरस्यात्मनोऽप्रथाहेत्वज्ञानजाड्यमुररीकृतम् | अङ्गीकृतमित्यर्थः || २ || ब्रह्मात्मनि जगत्यस्मिन्मन एकाकृतिं गतम् | क्वचिन्नरतया रूढं क्वचित्सुरतयोत्थितम् || ३ || एकां मुख्यामाकृतिं जगत्संस्थानं गतं प्राप्तम् | तदेव प्रपञ्चयति - क्वचिदित्यादिना || ३ || क्वचिद्दैत्यतयोल्लासि क्वचिद्यक्षतयोदितम् | क्वचिद्गन्धर्वतां प्राप्तं क्वचित्किन्नररूपि च || ४ || नानाचारनभोभागपुरपत्तनरूपया | मन्ये विततयाकृत्या मन एव विजृम्भते || ५ || विततया विस्तीर्णया आकृत्या संस्थानवैचित्र्येण || ५ || एवं स्थिते शरीरौघस्तृणकाष्ठलतोपमः | तद्विचारणया कोऽर्थो विचार्यं मन एव नः || ६ || यथा पृथिव्यादिभूततत्त्वजिज्ञासूनां तृणकाष्ठादिकं प्रत्येकं न विचारणार्हं तद्वदित्यर्थः || ६ || तेनेदं सर्वमाभोगि जगदित्याकुलं ततम् | मन्ये तद्व्यतिरेकेण परमात्मैव शिष्यते || ७ || एवं कर्तृकर्मस्वरूपे बुद्धे तद्विशोधेन तदधिष्ठानात्मानं दर्शयितुमाह - मन्ये इति || ७ || आत्मा सर्वपदातीतः सर्वगः सर्वसंश्रयः | तत्प्रसादेन संसारे मनो धावति वल्गति || ८ || मन आदिस्पन्दास्तद्बलेनैव न स्वत इत्याह - तत्प्रसादेनेति || ८ || मनो मन्ये मनः कर्म तच्छरीरेषु कारणम् | जायते म्रियते तद्धि नात्मनीदृग्विधा गुणाः || ९ || शोधनप्रकारमाह - मन इति | ईदृग्विधा इत्यनेनान्तरालिका अपि भावविकारा उपलक्ष्यन्ते || ९ || मन एव विचारेण मन्ये विलयमेष्यति | मनोविलयमात्रेण ततः श्रेयो भविष्यति || १० || श्रेयो मोक्षः || १० || मनोनाम्नि परिक्षीणे कर्मण्याहितसंभ्रमे | मुक्त इत्युच्यते जन्तुः पुनर्नाम न जायते || ११ || श्रीराम उवाच | भगवन्भवता प्रोक्ता जातयस्त्रिविधा नृणाम् | प्रथमं कारणं तासां मनः सदसदात्मकम् || १२ || अस्त्वेवं मनसः सकाशाज्जगदुत्पत्तिः मनस्तु कूटस्थचिन्मात्रस्वभावाद्ब्रह्मणो नोत्पत्तुमर्हति | बुद्धिपूर्विका हि तत्सृष्टिः श्रूयते तन्मनोऽकुरुत आत्मन्वी स्याम् इति | नच मन उत्पत्तेः प्राग्बुद्धिः संभवति | अमतेऽर्तेध्यवसायादर्शनादिति रामः शङ्कते - भगवन्निति द्वाभ्याम् | त्रिविधा इति | यद्यपि द्वादशविधा उक्तास्तथापि तासां सात्त्विकराजसतामसलक्षणत्रैविध्येन्तर्भावमभिप्रेत्य त्रिविधा इत्युक्तिः | नृणां जीवानाम् || १२ || तत्कथं शुद्धचिन्नाम्नस्तत्त्वाद्बुद्धिविवर्जितात् | उत्थितं स्फारतां यातं जगच्चित्रकरं मनः || १३ || श्रीवसिष्ठ उवाच | आकाशा हि त्रयो राम विद्यन्ते विततान्तराः | चित्ताकाशश्चिदाकाशो भूताकाशस्तृतीयकः || १४ || इमामप्याशङ्कां वक्ष्यमाणदृष्टिभेदाभिप्रायेण सत्कार्यवादमाश्रित्य समाधित्सुर्वसिष्ठस्तदुपयुक्तामाकाशत्रयकल्पनां दर्शयति - आकाशा हीति | विततान्तरा विस्तीर्णजठराः || १४ || प्. ३६१) २१५ एते हि सर्वसामान्याः सर्वत्रैव व्यवस्थिताः | शुद्धचित्तत्वशक्त्या तु लब्धसत्तात्मतां गताः || १५ || सर्वस्वकार्यसाधारणाः सर्वस्वकार्ये व्यवस्थिता अनुगता इति तद्धेतुः | नचैवमद्वैतहानिः सत्ताभेदानभ्युपगमादित्याशयेनाह - शुद्धेति || १५ || सबाह्याभ्यन्तरस्थो यः सत्तासत्तावबोधकः | व्यापी समस्तभूतानां चिदाकाशः स उच्यते || १६ || त्रयाणामेकसत्ताकत्वे चिदाकाशे कोऽतिशय इत्याशङ्क्य तं दर्शयंश्चिदाकाशं मायाशबलं लक्षयति - सबाह्येति | आभ्यन्तरबुद्ध्यादीनां बाह्यवस्तूनां च सत्तासत्तयोरागमापाययोरवबोधकः साक्षी || १६ || सर्वभूतहितः श्रेष्ठो यः कालकलनात्मकः | येनेदमाततं सर्वं चित्ताकाशः स उच्यते || १७ || चित्ताकाशं लक्षयति - सर्वेति | सर्वेषां भूतानां सर्वव्यवहारहेतुत्वाद्धितः | सर्वकार्यकारणनियन्तृत्वाच्छ्रेष्ठः | आततं स्वकल्पनया विस्तारितम् || १७ || दशदिङ्मण्डलाभोगैरव्युच्छिन्नवपुर्हि यः | भूतात्मासौ य आकाशः पवनाब्दादिसंश्रयः || १८ || भूताकाशं लक्षयति - दशेति | अब्दा मेघाः संवत्सरात्मा सूर्यो वा || १८ || आकाशचित्ताकाशौ द्वौ चिदाकाशबलोद्भवौ | चित्कारणं हि सर्वस्य कार्यौघस्य दिनं यथा || १९ || तत्र चिदाकाशे चिदंशस्य संनिधिमात्रेण निमित्ततेति प्रदर्शयति - दिनं यथेति || १९ || जडोऽस्मि न जडोऽस्मीति निश्चयो मलिनश्चितः | यस्तदेव मनो विद्धि तेनाकाशादि भाव्यते || २० || जडांशस्य तु मन आद्याकारपरिणामित्वान्मनः प्रति मुख्योपादानत्वेऽपि मनसि चिज्जाड्योभयानुभवात्संवलितस्यैव मनोभावापत्तिरित्याह - जडोऽस्मीति || २० || अप्रबुद्धात्मविषयमाकाशत्रयकल्पनम् | कल्प्यते उपदेशार्थं प्रबुद्धविषयं न तु || २१ || इयं च मनःसृष्ट्यादिकल्पना अज्ञबोधनार्था न वास्तवीति परमार्थदृशा न शुद्धचितः किंचिदुत्पन्नं विनष्टं वेति न कश्चिदाक्षेपावकाश इत्याशयेनाह - अप्रबुद्धेत्यादिना || २१ || एकमेव परं ब्रह्म सर्वं सर्वावपूरकम् | प्रबुद्धविषयं नित्यं कलाकलनवर्जितम् || २२ || द्विअताद्वैतसमुद्भेदैर्वाक्यसंदर्भगर्भितैः | उपदेश्यत एवाज्ञो न प्रबुद्धः कथंचन || २३ || यावद्रामाप्रबुद्धस्त्वमाकाशत्रयकल्पना | तावदेवावबोधार्थं मया त्वमुपदिश्यसे || २४ || आकाशचित्ताकाशाद्याश्चिदाकाशकलङ्कितात् | प्रसूता दावदहनाद्यथा मरुमरीचयः || २५ || दावदहनान्मरुभूमिप्रतापनाद्दावाग्नितुल्याद्वा आतपात् || २५ || चिनोति मलिनं रूपं चित्ततां समुपागतम् | त्रिजगन्तीन्द्रजालानि रचयत्याकुलात्मकम् || २६ || कार्येषु मालिन्यदर्शनादपि चित्तस्य न शुद्धचित्कार्यतेत्याशयेनाह - चिनोतीति || २६ || चित्तत्वमस्य मलिनस्य चिदात्मकस्य तत्त्वस्य दृश्यत इदं ननु बोधहीनैः | शुक्तौ यथा रजतता नतु बोधवद्भि- र्मौर्ख्येण बन्ध इह बोधबलेन मोक्षः || २७ || अज्ञैकदृश्यत्वादपि चित्तस्याज्ञानकार्यत्वं अत एवातत्त्वज्ञदृशैव बन्धस्तत्त्वज्ञदृशा त्वात्मनो नित्यमुक्ततैवेत्याह - चित्तत्वमिति || २७ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मो० उत्पत्तिप्रकरणे चिदाकाशमाहात्म्यं नाम सप्तनवतितमः सर्गः || ९७ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे चिदाकाशमाहात्म्यं नाम सप्तनवतितमः सर्गः || ९७ || अष्टनवतितमः सर्गः ९८ श्रीवसिष्ठ उवाच | यतःकुतश्चिदुत्पन्नं चित्तं यत्किंचिदेव हि | नित्यमात्मविमोक्षाय योजयेद्यत्नतोऽनघ || १ || उक्तार्थप्रतिबोधार्थं चित्ताख्यानमिहोच्यते | चित्ततत्त्वविमर्शाच्च नाशश्चित्तस्य विस्तरात् || १ || नित्यमुक्तस्याप्यात्मनोऽज्ञानान्मनोभ्रान्तिकृतो बन्धप्रत्यय इत्येवं निर्णयाय मनसोऽज्ञातादात्मन उत्पत्तिर्विस्तरेणोक्ता रोगतत्त्वनिर्णयायेव रोगनिदानापथ्याशनोक्तिरित्यम् | निर्णीते तु मनस्तत्त्वे सांप्रतं तच्चिकित्साप्रयत्न एवावश्यं कार्यो न पुनः पुनर्निदानचिन्तायाः प्रयोजनमस्तीत्याशयेनाह - यतःकुतश्चिदिति | योजयेत् आत्मनि समादध्यात् || १ || संयोजितं परे चित्तं शुद्धं निर्वासनं भवेत् | ततस्तु कल्पनाशून्यमात्मतां याति राघव || २ || समाधेः फलमाह - संयोजितमिति || २ || चित्तायत्तमिदं सर्वं जगत्स्थिरचरात्मकम् | चित्ताधीनवतो राम बन्धमोक्षावपि स्फुटम् || ३ || ननु चित्तनिरोधमात्रेण कथं बाह्याभ्यन्तरसर्वद्वैतबन्धनिवृत्तिः स्यात्तत्राह - चित्तयत्तमिति || ३ || अत्रार्थे कथ्यमानं मे चित्ताख्यानमनुत्तमम् | ब्रह्मणा यत्पुरा प्रोक्तं शृणु रामातियत्नतः || ४ || उक्तेऽर्थे उपपादकमाख्यानमवतारयति - अत्रेति || ४ || अस्ति रामाटवी स्फारा शून्याशान्तातिभीषणा | योजनानां शतं यस्यां लक्ष्यते कणमात्रकम् || ५ || अटव्यादिशब्दानां तात्पर्यार्थमुत्तरसर्गे स्वयमेव वक्ष्यति | शून्या मृगपक्ष्यादिरहिता मिथ्याभूता च | अशान्ता विक्षेपबहुला | शून्या आशान्ता दिगन्ता यस्यामिति वा | कणमात्रकं अणुमात्रमिव || ५ || तस्यामेको हि पुरुषः सहस्रकरलोचनः | पर्याकुलमतिर्भीमः संस्थितो वितताकृतिः || ६ || प्. ३६२) २१६ स सहस्रेण बाहूनामादाय परिघान्बहून् | प्रहरस्यात्मनः पृष्ठे स्वात्मनैव पलायते || ७ || आत्मनः स्वस्य | स्वात्मना स्वेनैव || ७ || दृढप्रहारैः प्रहरन्स्वयमेवात्मनात्मनि | प्रविद्रवति भीतात्मा स योजनशतान्यपि || ८ || क्रन्दन्पलायमानोऽसौ गत्वा दूरमितस्ततः | श्रमवान्विवशाकारो विशीर्णचरणाङ्गकः || ९ || पतितोऽवश एवाशु महत्यन्धोऽन्धकूपके | कृष्णरात्रितमोभीमे नभोगम्भीरकोटरे || १० || अन्धो विवेकदृष्टिशून्यः | कृष्णरातिरिव तमसा भीमे || १० || ततः कालेन बहुना सोऽन्धकूपात्समुत्थितः | पुनः प्रहारैः प्रहरन्विद्रवत्यात्मनात्मनः || ११ || आत्मनः स्वस्मादेव निमित्तात् || ११ || पुनर्दूरतरं गत्वा करञ्जवनगुल्मकम् | प्रविष्टः कण्टकव्याप्तं शलभः पावकं यथा || १२ || करञ्जकण्टकलतानिबिडं वनगुल्मकमल्पच्छायं दुःखबहुलमिति यावत् | अन्यश्च कण्टकैर्व्याप्तम् || १२ || तस्मात्करञ्जगहनाद्विनिःसृत्य क्षणादिव | पुनः प्रहारैः प्रहरन्विद्रवत्यात्मनात्मनः || १३ || पुनर्दूरतरं गत्वा शशाङ्ककरशीतलम् | कदलीकाननं कान्तं संप्रविष्टो हसन्निव || १४ || हसन् आनन्दित इव || १४ || कदलीखण्डकात्तस्माद्विनिःसृत्य क्षणात्पुनः | स्वयं प्रहारैः प्रहरन्विद्रवत्यात्मनात्मनि [आत्मन इति पाठः] || १५ || पुनर्दूरतरं गत्वा तमेवान्धोऽन्धकूपकम् | स संप्रविष्टस्त्वरया विशीर्णावयवाकृतिः || १६ || अन्धकूपात्समुत्थाय प्रविष्टः कदलीवनम् | कदलीकाननाच्छ्वभ्रं करञ्जवनगुल्मकम् || १७ || श्वभ्रं गर्तमिव गम्भीरम् || १७ || करञ्जकाननात्कूपं कूपाद्रम्भावनान्तरम् | प्रविशन्प्रहरंश्चैव स्वयमात्मनि संस्थितः || १८ || कूपं प्रागुक्तान्धकूपम् | रम्भावनान्तरं कदलीवनमध्यम् || १८ || एवंरूपनिजाचारः सोऽवलोक्य चिरं मया | अवष्टभ्य बलादेव मुहूर्तं रोधितः पथि || १९ || अवलोक्य विवेकदृशा दृष्ट्वा | अवष्टभ्य योगबलेन धृत्वा || १९ || पृष्टः स कस्त्वं किमिदं केनार्थेन करोषि वा | किं नामाभिमतं तेऽत्र किं मुधा परिमुह्यसि || २० || इदं आत्मप्रहरणकूपपतनादि किं किमर्थम् | अभिमतमभिलषितम् || २० || इति पृष्टेन कथितं तेन मे रघुनन्दन | नाहं कश्चिन्न चैवेदं मुने किंचित्करोम्यहम् || २१ || त्वयाहमवभग्नोऽस्मि त्वं मे शत्रुरहो बत | त्वया दृष्टोऽस्मि नष्टोऽस्मि दुःखाय च सुखाय च || २२ || इत्युक्त्वा विक्लवान्यङ्गान्यालोक्य स्वान्यतुष्टिमान् | रुरोदातिरवं दीनो मेघो वर्षन्निवाटवीम् || २३ || अतुष्टिमान् भोगेभ्योऽसंतृप्तः || २३ || क्षणमात्रेण तत्रासावुपसंहृत्य रोदनम् | स्वान्यङ्गानि समालोक्य जहास च ननाद च || २४ || अथाट्टहासपर्यन्ते स पुमान्पुरतो मम | क्रमेण तानि तत्याज स्वान्यङ्गानि समंततः || २५ || प्रथमं पतितं तस्य शिरः परमदारुणम् | ततस्ते बाहवः पश्चाद्वक्षस्तदनु चोदरम् || २६ || संकल्पात्मकं शिरः तदेव सर्वानर्थमूलत्वात्परमदारुणम् बाहवो विकल्पाशयाः विषयाभिनिवेशो वक्षः तृष्णा उदरमिति योग्यतया कल्प्यम् || २६ || अथ क्षणेन स पुमांस्तान्यङ्गानि यथाक्रमम् | संत्यज्य नियतेः शक्त्या क्वापि गन्तुमुपस्थितः || २७ || ज्ञानेनाज्ञानतत्कार्यबाधनियतेः शक्त्या | क्वापि गन्तुमित्यनेन गन्तव्यस्थलान्तरापरिशेषाद्बाधितस्य निःस्वरूपापत्तिरुक्ता || २७ || दृष्टवानहमेकान्ते पुनरन्यं तथा नरम् | सोऽपि प्रहारान्परितः प्रयच्छन्स्वयमात्मनि || २८ || स्वमनस इवान्यमनसामप्येषैव रीतिरिति प्रदर्शनायाह - दृष्टवानित्यादिना || २८ || बाहुभिः पीवराकारैः स्वयमेव पलायते | कूपे पतति कूपात्तु समुत्थायाभिधावति || २९ || पुनः पतति कुण्डेऽन्तः पुनरार्तः पलायते | पुनः प्रविशति श्वभ्रं क्षणं शिशिरकाननम् || ३० || कुण्डेऽन्धकूपे | श्वभ्रं करञ्जवनगर्तम् | शिशिरकाननं कदलीवनम् || ३० || कष्टं पुनःपुनस्तुष्टः पुनः प्रहरति स्वयम् | एवंप्रायनिजाचारश्चिरमालोक्य सस्मयम् || ३१ || स मया समवष्टभ्य परिपृष्टस्तथैव हि | तेनैवसौ क्रमेणाद्य रुदित्वा संप्रहस्य च || ३२ || अङ्गैर्विशीर्णतामेत्य ययावलमलक्ष्यताम् | विचार्य नियतेः शक्तिं ततो गन्तुमुपस्थितः || ३३ || अलक्ष्यतां अदृश्यताम् || ३३ || दृष्टवानहमेकान्ते पुनरन्यं तथा नरम् | प्रहरंस्तद्वदेवासौ स्वयमेव पलायते || ३४ || पलायामनः पतितो महत्यन्धेऽन्धकूपके | तत्राहं सुचिरं कालमवसं तत्प्रतीक्षकः || ३५ || अन्धयतीत्यन्धे अन्धकूपके तमोवृते कूपे || ३५ || यावत्स सुचिरेणापि कूपान्नाभ्युदितः शठः | अथाहमुत्थितो गन्तुं दृष्टवान्पुरुषं पुनः || ३६ || तादृशं तादृशाकारं प्रपतन्तं तथैव च | अवष्टभ्य तथैवाशु तस्य प्रोक्तं पुनर्मया || ३७ || प्. ३६३) २१६ तथैवोत्पलपत्राक्ष नासौ तदवबुद्धवान् | केवलं मामसौ मूढो नैव जानासि किंचन || ३८ || उत्पलपत्राक्षेति रामसंबोधनम् | केवलं स्वव्यापारपरोऽभवदित्युत्तरेणान्वयः || ३८ || आः पाप दुर्द्विजेत्युक्त्वा स्वव्यापारपरो ययौ | अथ तस्मिन्महारण्ये तथा विहरता मया || ३९ || न केवलं स्वयं विवेकानभिज्ञः किंतु विवेकिजनतिरस्कारपरोऽपीति सूचनाय आः पापेत्याद्युक्तिः || ३९ || बहवस्तादृशा दृष्टाः पुरुषा दोषकारिणः | मत्पृष्टाः केचिदायान्ति स्वप्नसंभ्रमवच्छमम् || ४० || मत्पृष्टा मया बोधिताः सन्तः शमं प्रागुक्तस्वरूपनाशलक्षणमुपरमम् || ४४ || मदुक्तं नाभिनन्दन्ति केचिच्छवतनुं यथा | विनिपत्यान्धकूपेभ्यः केचित्तत्प्रोत्थिताः पुनः || ४१ || नाभिनन्दन्त्युपेक्षन्ते जुगुप्सन्ति च || ४१ || कदलीखण्डकात्केचिच्चिरेणापि न निर्गताः | केचिदन्तर्हिताः स्फारे करञ्जवनगुल्मके || ४२ || न निर्गताः | तत्रैव ज्ञानं प्राप्य मुक्ता इति यावत् || ४२ || न क्वचित्स्थितिमायान्ति केचिद्धर्मपरायणाः | एवंविधा सा वितता रघूद्वह महाटवी || ४३ || धर्मपरायणाः काम्यधर्मपराः || ४३ || अद्यापि विद्यते यस्यामित्थं ते पुरुषाः स्थिताः | सा च दृष्टा त्वया राम त्वयेह व्यवहारिणी | बाल्यात्तु बुद्धितत्त्वस्य न तां स्मरसि राघव || ४४ || त्वया हेतुना व्यवहारिणी सर्वव्यवहारवती सा महाटवी त्वया दृष्टा | बुद्धितत्त्वस्य बुद्धिसारस्य विवेकस्य | बाल्यादप्रागल्भ्यात् || ४४ || सा भीषणा विविधकण्टकसङ्कटाङ्गी घोराटवी घनतभोगहनापि लोके | आगत्य निर्वृतिमलब्धपरावबोधै- रासेव्यते कुसुमगुल्मकवाटिकेव [कुसुमप्रधाना गुल्मका यस्मिंस्तत्कुसुमगुल्मकं काननं तद्रूपा वाटिकेत्यर्थः | एतत्फलितार्थकैव कुसुमकाननेत्यादिष्टीका] || ४५ || उपसंहरति - सेति | लोके लोक्यते विवेकदृशा धर्मब्रह्मतत्त्वमस्तिंस्तथाविधे अधिकारिजन्मनि निर्वृतिं साधनसंपत्तिसुखमागत्य प्राप्यापि अभाग्यवशादलब्धपरमात्मबोधैरासेव्यते विषयासक्त्या सेव्यते | कुसुमकाननवाटिकेवेत्यापातरम्यत्वे दृष्टान्तः || ४५ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे चित्तोपाख्यानं नामाष्टनवतितमः सर्गः || ९८ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे चित्तोपाख्यानं नामाष्टनवतितमः सर्गः || ९८ || एकोनशततमः सर्गः ९९ श्रीराम उवाच | कासौ महाटवी ब्रह्मन्कदा दृष्टा कथं मया | के च ते पुरुषास्तत्र किं तत्कर्तुं कृतोद्यमाः || १ || उक्तस्य चित्ताख्यानस्य क्रमेण व्युत्क्रमेण च | रामप्रश्नमुखेनात्र तात्पर्यार्थोऽनुवर्ण्यते || १ || किं किमर्थं वा तत्परिघैः स्वदेहप्रहारं कूप्रकरञ्जवनादिप्रवेशं च कर्तुं कृतोद्यमास्ते जाताः | किंतत्कर्तृकृतोद्यमाः इति पाठे स्वतः स्वानिष्टे प्रवृत्तेरयोगात्परतः सा वाच्येति केन तत्कर्त्रा तादृशानिष्टे बलान्नियोजकेन हेतुना स्वप्रहारादौ कृतोद्यमास्ते संपन्ना इत्यर्थः | कश्चासौ तत्कर्तां च किंतत्कर्ता तेन कृतोद्यमा इति विग्रहः || १ || श्रीवसिष्ठ उवाच | रघुनाथ महाबाहो शृणु वक्ष्यामि तेऽखिलम् | न सा महाटवी राम दूरे नैव च ते नराः || २ || वस्तुतो ब्रह्मैव मिथ्याभूतस्वर्गनरकादिवैचित्र्यकल्पनया संसाराटवी तत्कल्पकानि मनांस्येव ते नरा इति न ते दूरस्था मयोक्ता इत्याह - रघुनाथेत्यादिना || २ || येयं संसारपदवी गम्भीराऽपारकोटरा | तां तां शून्यां विकाराढ्यां विद्धि राम महाटवीम् || ३ || या इयं प्रसिद्धा संसारपदवी तां परमार्थदृशा असत्त्वाच्छून्यां भ्रान्तिदृशा तु सत्त्वाद्विकाराढ्यां तां प्रागुक्तां महाटवीं विद्धीत्यर्थः || ३ || विचारालोकलभ्येयं यदैकेनैव वस्तुना | पूर्णा नान्येन संयुक्ता केवलेव तदैव सा || ४ || कदा सा शून्या केन वा उपायेन लभ्यते तत्राह - विचारालोकेति | यदा एकेनाद्वितीयेनैव वस्तुना पूर्णा अन्येन न संयुक्ता भवति तदा केवला शुन्येव भवति | इवशब्दः केवलशून्यादिशब्दानामपि तत्रौपचारिकी प्रवृत्तिः प्रतियोग्यनिरूपणे शून्यत्वादेर्निरूपणासंभवादिति द्योतनाय | तादृशी चेयं तत्त्वं पदार्थशोधनलक्षणेन विवेकालोकेन लभ्येत्यर्थः || ४ || तत्र ये ते महाकाराः पुरुषाः प्रभ्रमन्ति हि | मनांसि तानि विद्धि त्वं दुःखे निपतितान्यलम् || ५ || द्रष्टा योऽयमहं तेषां सविवेको महामते | विवेकेन मया तानि दृष्टान्यन्येव नानघ || ६ || विवेकोऽत्र विचारः || ६ || मया तान्येव बोध्यन्ते विवेकेन मनांसि हि | सततं सुप्रकाशेन कमलानीव भानुना || ७ || मत्प्रबोधं समासाद्य मत्प्रसादान्महामते | मनांसि कानि चित्तानि गतान्युपशमात्परम् || ८ || मत्प्रबोधं तत्त्वज्ञानम् | मत्प्रसादाद्विवेकप्रसादात् | उपशमान्मनोभावनाशात् | परं मोक्षं गतानि || ८ || प्. ३६४) २१७ कानिचिन्नाभिनन्दन्ति मां विवेकं वोमोहतः | मत्तिरस्कारवशतः कूपेष्वेव पतन्त्यधः || ९ || मत्तिरस्कारो विचारोपेक्षा || ९ || ये तेऽन्धकूपा गहना नरकास्ते रघूद्वह | कदलीकाननं यानि संप्रविष्टानि तानि तु || १० || स्वर्गैकरसिकानि त्वं मनांसि ज्ञातुमर्हसि | प्रविष्टान्यन्धकूपान्तर्निर्गतानि न यानि तु || ११ || महापातकयुक्तानि तानि चित्तानि राघव | कदलीकाननस्थानि निर्गतानि न यानि तु || १२ || पुण्यसंभारयुक्तानि तानि चित्तानि राघव | करञ्जवनयातानि निर्गतानि न यानि तु || १३ || तानि मानुष्यजातानि चित्तानि रघुनन्दन | कानिचित्संप्रबुद्धानि तत्र मुक्तानि बन्धनात् || १४ || मानुष्ये मनुष्यभावे जातानि परिणतानि | संप्रबुद्धानीति मनुष्यदेहे वैराग्यादिविशेषसंभवान्मुख्यो ज्ञानाधिकार इति द्योतनाय || १४ || कानिचिद्बहुरूपाणि योनेर्योनिं विशन्ति हि | मनांसि तानि तिष्ठन्ति निपतन्त्युत्पतन्ति च || १५ || निपतन्ति नरकेषु | उत्पतन्ति स्वर्गे || १५ || यत्तत्करञ्जगहनं तत्कलत्ररसं विदुः | दुःखकण्टकसंबाधं मानुष्यं विविधैषणम् || १६ || कलत्ररसं कुटुम्बस्नेहवत् | अत एव दुःखकण्टकसंबाधं विविधैषणं च मानुष्यम् || १६ || करञ्जगहनं यानि प्रविष्टानि मनांसि तु | मानुष्ये तानि जातानि तत्रैव रसिकानि च || १७ || रसिकानि अभिनिविष्टानि विषयरसास्वादपराणि वा || १७ || कदलीकाननं यत्तच्छशाङ्ककरशीतलम् | तन्मनोह्लादनकरं स्वर्गं विद्धि रघुद्वह || १८ || कानिचित्पुण्यभूतेन तपसा धारणात्मना | धारयन्ति शरीराणि संस्थितान्युदितान्यपि || १९ || पुण्यभूतेन शास्त्रविहितेन | अशास्त्रविहितस्य वारणार्थं विशेषणम् | धारणात्मना ध्येयदेशे मनोनिबन्धरूपधारणाप्रधानेन उपासनेन हेतुना यानि ग्रहसप्तर्षिध्रुवादिशरीराणि धारयन्ति तानि इतरापेक्षया तेजोभोगाद्यतिशयेन तत्त्वावबोधेन च उदितानि अभ्युदयवन्त्यपि भूत्वा संस्थितानि चिरं स्थितानीत्यर्थः || १९ || यैरहं पुंभिरबुधैर्बुद्धिचित्ततिरस्कृतः | तैर्मनोभिरनात्मज्ञैः स्वविवेकस्तिरस्कृतः || २० || बुद्धिभिश्चित्तैर्वा तिरस्कृत उपेक्षितः | नाध्यवसितो न स्मृतश्चेत्यर्थः || २० || त्वया दृष्टो विनष्टोऽस्मि त्वं मे शत्रुरिति द्रुतम् | यदुक्तं तद्धि चित्तेन गलता परिदेवितम् || २१ || गलता तत्त्वावबोधाद्विशीर्यता | परिदेवितं विलपितम् || २१ || रुदितं यन्महाक्रन्दं पुंसा बह्वाशु राघव | तद्भोगजालं त्यजता मनसा रोदनं कृतम् || २२ || अर्धप्राप्तविवेकस्य न प्राप्तस्यामलं पदम् | चेतसस्त्यजतो भोगान्परितापो भृशं भवेत् || २३ || रुदताङ्गानि दृष्टानि कारुण्येनावबोधिना | कष्टमेतानि संत्यज्य किं प्रयामीति चेतसा || २४ || स्वान्यङ्गानि समालोक्य जहास च ननाद च इत्युक्तेस्तात्पर्यमाह - रुदतेति | अवबोधिना ईषद्विवेकवता | कारुण्येन स्त्रीपुत्रादिस्नेहेन || २४ || अर्धप्राप्तविवेकस्य न प्राप्तस्यामलं पदम् | चेतसस्त्यजतोऽङ्गानि परितापो हि वर्धते || २५ || अङ्गानि स्नेहलोभादीनि || २५ || हसितं तु यदानन्दि पुंसा मदवबोधतः | परिप्राप्तविवेकेन तत्तुष्टं राम चेतसा || २६ || तत्तुष्टं आनन्दितम् | तुषेर्नपुंसके भावे क्तः || २६ || परिप्राप्तविवेकस्य त्यक्तसंसारसंस्थितेः | चेतसस्त्यजतो रूपमानन्दो हि विवर्धते || २७ || तदेव स्पष्टयति - परिप्राप्तेति || २७ || हसताङ्गानि दृष्टानि पुंसा यान्युपहासतः | तानि दृष्टानि मनसा विप्रलम्भपदानि ह || २८ || विप्रलम्भपदानि स्ववञ्चननिमित्तानि || २८ || मिथ्याविकल्परचितैर्विप्रलब्धमहो चिरम् | इत्यङ्गान्युपहासेन दृष्टानि स्वानि चेतसा || २९ || मिथ्याविकल्पेन रचितैः कल्पितैर्विषयैर्विप्रलब्धं वञ्चितमित्युपहासेन || २९ || मनः प्राप्तविवेकं हि विश्रान्तं वितते पदे | प्राक्तनादीनताधारं हसन्पश्यति दूरतः || ३० || प्राक्तन्या आदिनताया आधारमालम्बनं विषयजातम् | दूरतः असङ्गात्मासंस्पर्शितयेति यावत् || ३० || यदसौ समवष्टभ्य मया पृष्टः प्रयत्नतः | तद्विवेको बलाच्चित्तमादत्त इति दर्शितम् || ३१ || असौ प्रागुक्तः पुरुषः | आदत्ते विष्टभ्राति || ३१ || यदङ्गानि विशीर्णानि गतान्यन्तर्धिमग्रतः | तच्चित्तेन विनार्थाशा शाम्यतीति प्रदर्शितम् || ३२ || अर्थसहिता आशा अर्थाशा | मनोभादे सह विषयैर्विषयतृष्णापि बाध्यत इति दर्शितमित्यर्थः || ३२ || सहस्रनेत्रहस्तत्वं यत्पुंसः परिवर्णितम् | तदनन्ताकृतित्वं हि चेतसः परिदर्शितम् || ३३ || यदात्मनि प्रहारौघैः पुमान्प्रहरति स्वयम् | तत्तत्कुकल्पनाघातैः प्रहरत्यात्मनो मनः || ३४ || पलायते यत्पुरुषः स्वात्मनः प्रहरन्स्वयम् | स्ववासनाप्रहारेभ्यस्तन्मनः प्रपलायते || ३५ || स्वयं प्रहरति स्वान्तं स्वयमेव स्वयेच्छया | पलायते स्वयं चैव पश्याज्ञानविजृम्भितम् || ३६ || स्वान्तं मनः || ३६ || स्ववासनोपतप्तानि सर्वाण्येव मनांसि हि | स्वयमेव पलायन्ते गन्तुं युक्तानि तत्पदम् || ३७ || उपतप्तानि विक्षोभितानि | तद्ब्रह्मपदं गन्तुमवगन्तुं युक्तानि स्वरूपयोग्यानि | अथवा युक्तानि योगेन निरुद्धान्यपि || ३७ || प्. ३६५) २१७ यदिदं दुःखं तत्तनोति स्वयं मनः | स्वयमेवातिखिन्नंतु पुनस्तस्मात्पलायते || ३८ || उपतप्तमित्येतद्व्याचष्टे - यदिदमिति || ३८ || संकल्पवासनाजालैः स्वयमायाति बन्धनम् | मनो लालामयैर्जालैः कोशकारकृमिर्यथा || ३९ || लाला स्वमुखद्रवस्तन्मयैस्तद्विकारैः | कोशकारकृमिः कौशेयोत्पत्तिभूमौ प्रसिद्धः || ३९ || यथानर्थमवाप्नोति तथा क्रीडति चञ्चलम् | भाविदुःखमपश्यन्स्वं दुर्लीलाभिरिवार्भकः || ४० || अपश्यन्काष्ठरन्ध्रस्थवृषणाक्रमणं यथा | कीलोत्पाटी कपिर्दुःखमेतीदं हि तथा मनः || ४१ || उक्तेऽर्थे लौकिकीं गाथामुदाहरति - अपश्यन्निति | यथा किलारण्ये तक्षसु महाकाष्ठमर्धं विदार्य मध्ये कीलं दत्त्वा दैवादपगतेषु कश्चित्कपिस्तत्काष्ठोपविष्टः काष्ठरन्ध्रस्थस्ववृषणाक्रमं भाविनमपश्यन्स्वचापलाद्विष्टम्भकीलोत्पाटी वृषणसंदंशेन मरणादिदुःखमेति तद्वदित्यर्थः || ४१ || चिरपालनया चैव चिरभावनया तथा | अभ्यासात्तुच्छतामेत्य न भूयः परिशोचति || ४२ || यदि निरुद्धमपि विक्षेपैः पलायते तर्हि कथमिष्टसिद्धिस्तत्राह - चिरेति | न सकृन्निरोधादिष्टसिद्धिः किंतु तस्य चिरपालनया चिरमसङ्गात्मभावनया चेत्यर्थः | तुच्छतां ज्ञानबाध्यताम् || ४२ || मनःप्रमादाद्वर्धन्ते दुःखानि गिरिकूटवत् | तद्वशादेव नश्यन्ति सूर्यस्याग्रे हिमं यथा || ४३ || तथाच मन एव प्रमादविवेकाभ्यां बन्धमोक्षयोर्हेतुरिति फलितमित्याह ##- यावज्जीवमनिन्द्यया च रमते शास्त्रार्थसंजातया तुल्यं वासनया मनो हि मुनिवन्मौनेन रागादिषु | पश्चात्पावनपावनं पदमजं तत्प्राप्य तच्छीतलं तत्संस्थेन न शोच्यते पुनरलं पुंसा महापत्स्वपि || ४४ || यद्यर्थे चशब्दः | यदि मनः शास्त्रार्थसंजातया अनिन्द्यया वासनया तुल्यं समरसं सत् रागादिषु विषयेषु मौनेन निरोधेन यावज्जीवं मुनिवद्रमते तत् तर्हि पश्चात्तत्त्वबोधेन पावनपावनं परमपवित्रमजं जन्मादिविक्रियारहितमत एव शीतलं तापत्रयास्पृष्टमलं पूर्णं तद्ब्रह्मपदं प्राप्य तत्संस्थेन जीवन्मुक्तेन पुंसा महापत्सु प्रलयादिष्वपि पुनर्न शोच्यते | तरति शोकमात्मवित् इत्यादिश्रुतेरित्यर्थः || ४४ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मोक्षोपाये उत्पत्तिप्रकरणे चित्तोपाख्यानं नामैकोनशततमः सर्गः || ९९ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे चित्तोपाख्यानं नामैकोनशततमः सर्गः || ९९ || शततमः सर्गः १०० श्रीवसिष्ठ उवाच | चित्तमेतदुपायातं ब्रह्मणः परमात्पदात् | अतन्मयं तन्मयं च तरङ्गः सागरादिव || १ || वर्ण्यतेऽत्र मनःशक्त्या ब्रह्मणः सर्वशक्तिता | अज्ञानमात्रादद्वैते बन्धमोक्षादिकल्पना || १ || मनोधीनैव बन्धमोक्षकल्पनेति यदुक्तं तत्रोपपत्तिमाह - चित्तमित्यादिना | अतन्मयमब्रह्मभूताज्ञानविकारः | तन्मयं शुद्धब्रह्मविवर्तश्च | यथा तरङ्गो जलविकारस्तत्सत्ताविवर्तश्च तद्वदित्यर्थः || १ || प्रबुद्धानां मनो राम ब्रह्मैवेह हि नेतरत् | जलसामान्यबुद्धीनामब्धेर्नान्यस्तरङ्गकः || २ || जलसामान्यं जलसत्ता || २ || मनो रामाप्रबुद्धानां संसारभ्रमकारणम् | अपश्यतोऽम्बुसामान्यमन्यताम्बुतरङ्गयोः || ३ || अप्रबुद्धदृशां पक्षे तत्प्रबोधाय केवलम् | वाच्यवाचकसंबन्धकृतो भेदः प्रकल्प्यते || ४ || अत एव हि उपदेश्योपदेशकशब्दार्थादिशास्त्रीयव्यवहारकल्पनापि अज्ञपक्षमवलम्ब्यैव न तत्त्वदृशेति प्रागुक्तमित्याह - अप्रबुद्धेति || ४ || सर्वशक्ति परं ब्रह्म नित्यमापूर्णमव्ययम् | न तदस्ति न तस्मिन्यद्विद्यते विततात्मनि || ५ || सर्वजगत्कारणत्वमप्यज्ञातस्यैव ब्रह्मणो न ज्ञातस्येत्याशयेन तस्यैव सर्वशक्तिशालितामुपपादयति - सर्वशक्तीत्यादिना || ५ || सर्वशक्तिर्हि भगवान्यैव तस्मै हि रोचते | शक्तिं तामेव विततां प्रकाशयति सर्वगः || ६ || प्रकाशयति कार्यात्मना प्रकटयति || ६ || चिच्छक्तिर्ब्रह्मणो राम शरीरेष्वभिदृश्यते | स्पन्दशक्तिश्च वातेषु जडशक्तिस्तथोपले || ७ || शरीरेषु चतुर्विधभूतग्रामेषु || ७ || द्रवशक्तिस्तथाम्भःसु तेजःशक्तिस्तथाऽनले | शून्यशक्तिस्तथाकाशे भावशक्तिर्भवस्थितौ || ८ || शून्यशक्तिरनावरकत्वात्सर्वावपनशक्तिः | भावशक्तिरस्तीति व्यवहारयोग्यता || ८ || ब्रह्मणः सर्वशक्तिर्हि दृश्यते दशदिग्गता | नाशशक्तिर्विनाशेषु शोकशक्तिश्च शोकिषु || ९ || नाशशक्तिः कारणे तिरोभावशक्तिः | शोकशक्तिराशोकजदेहजननशक्तिर्विषादशक्तिर्वा || ९ || आनन्दशक्तिर्मुदिते वीर्यशक्तिस्तथा भटे | सर्गेषु सर्गशक्तिश्च कल्पान्ते सर्वशक्तिता || १० || कल्पान्ते प्राकृतप्रलये प्रकृतौ सर्वशक्तिता तस्याः सर्वकार्यबीजत्वात् | शर्वशक्तिता इति पाठे संहारशक्तिता || १० || प्. ३६६) २१८ फलपुष्पलतापत्रशाखाविटपमूलवान् | वृक्षबीजे यथा वृक्षस्तथेदं ब्रह्मणि स्थितम् || ११ || तदेवाह - फलेति || ११ || प्रतिभासवशादेव मध्यस्थं चित्तजाड्ययोः | जीवेतराभिधं चित्तमन्तर्ब्रह्मणि दृश्यते || १२ || प्रथमकार्यस्य चित्तस्य चिज्जाड्योभयरूपतादर्शनादप्यज्ञातमेव ब्रह्म जगद्बीजमित्याशयेनाह - प्रतिभासेति | प्रतिभासोऽत्राज्ञानसाक्षी तद्वशादेव न शुद्धवशात् || १२ || नानातरुलतागुल्मजालपल्लवशालयः | निर्विकल्पकचिन्मात्रं नानाऽनिर्ज्ञातकल्पना || १३ || यतोऽयं तरुगुल्मादिदृश्यप्रपञ्चोऽज्ञातचिद्विवर्तोऽतश्चिन्मात्रमेव तत्त्वमित्याह - नानेति | अनिर्ज्ञातकल्पना अज्ञाते तत्त्वे यत इयं कल्पनेत्यर्थः || १३ || ब्रह्मैवेदमहंतत्त्वं जगत्पश्याद्य राघव | स आत्मा सर्वगो नाम नित्योदितमहावपुः || १४ || जगत् अहंतत्त्वं अहमिति भासमानजीवतत्त्वं प्रत्यक्चिद्रूपं ब्रह्मैवेति पश्येत्यर्थः || १४ || यन्मनाड्यननीं शक्तिं धत्ते तन्मन उच्यते | पिच्छभ्रान्तिर्यथा व्योम्नि पयस्यावर्तधीर्यथा || १५ || ब्रह्मैव तत्तच्छक्तिपुरस्कारेण भ्रान्त्या मन आदिशब्दैरुच्यते नान्यदित्याह - यदित्यादिना || १५ || प्रतिभासकलामात्रं मनो जीवस्तथात्मनि | यदेतन्मनसो रूपमुदितं मननात्मकम् || १६ || ब्राह्मी शक्तिरसौ तस्माद्ब्रह्मैव तदरिंदम | इदं तदहमित्येव विभागः प्रतिभासजः || १७ || शक्तितत्कार्ययोरभेदादिदमिति पुरोवर्तितया तदिति परोक्षतया अहमिति प्रत्यक्तादात्म्येन च भासमानस्त्रिविधो दृश्यविभागः प्रतिभासजः प्रातिभासिक एव न वास्तव इत्यर्थः || १७ || मनसो ब्रह्मणोऽन्यच्च मोहे परमकारणम् | यद्यच्चैतन्मनस्येव किंचित्सदसदात्मकम् || १८ || ननु कामकर्मवासनादिकमपि द्वैतप्रपञ्चहेतुः श्रूयते तत्कथं ब्रह्मशक्तिरेव तद्धेतुरुच्यते तत्राह - मनस इति | मनसो जीवस्य ब्रह्मणश्च मोहे भेदादिभ्रमे अन्यच्च कामादि यद्यत्किंचित्परमकारणं व्याशब्दितं लोके तत्सर्वं मनस्येवाविर्भावतिरोभावाभ्यां सदसदात्मकं सर्वशक्तेर्ब्रह्मणस्तां प्रागुक्तां ब्रह्मतां बृंहणशक्तिमेव विदुर्न तदन्यदिति परेणान्वयः || १८ || व्याशब्दितं सर्वशक्तेस्तां शक्तिं ब्रह्मतां विदुः | मनः सत्तात्मकं नाम यथैतन्मनसि स्थितम् || १९ || ननु मनोधर्माः कामादिशक्तयः कथं ब्रह्मणि स्थिता येन तच्छक्तयः स्युस्तत्राह - मन इति | यथा मनः सत्तात्मकं नाम ब्रह्मरूपं मनसि संसर्गाध्यासास्थितं यथा वा ऋतोर्वसन्तादेः शक्तयो वृक्षादिषु स्थितास्तद्वज्जीवेहा मनोधर्मा अपि ब्रह्मणि स्थिता इत्यर्थः || १९ || यथर्तोः शक्तयस्तद्वज्जीवेहा ब्रह्मणि स्थिताः | व्याप्तसर्वर्तुकुसुमा क्ष्मादेशविधिभेदतः || २० || यदि सर्वा जीवेहा ब्रह्मशक्तयस्तर्हि कुतो न सर्वाः सर्वजीवेषु संकीर्यन्ते तत्राह - व्याप्तेति | यथा व्याप्तसर्वर्तुकुसुमशक्तिरपि क्ष्मा भूमिस्तत्तत्प्रदेशेषु बीजसंस्कारादिविधिभेदतो व्यवस्थयैव पुष्पादि दधाति न संकरेण तथा लोककृद्ब्रह्मापि चित्तशक्तीर्व्यवस्थया दधातीत्यर्थः || २० || यथा दधाति पुष्पाणि तथा चित्तानि लोककृत् | क्वचित्क्वचित्कदाचिद्धि तस्मादायान्ति शक्तयः || २१ || आयान्ति व्यवस्थितफलात्मना आविर्भवन्ति | क्ष्मातलाच्छालिशक्तय इवेत्यर्थः || २१ || देशकालादिवैचित्र्यात्क्ष्मातलादिव [दिह शालयः इति पाठः] शालयः | न जातं प्रतिभासेन तेनैवान्येन पश्यति || २२ || अभ्युपेत्य चेदं प्रतियोगिव्यवच्छेदसंख्यारूपादिभेदरूपं जगद्वैचित्र्यमसंकरो दर्शितः परमार्थतस्तत्प्रतिभासमात्रस्य कारकत्वायोगात्प्रतिभासपृथक्कृतकारकान्तरासिद्धेश्च प्रातिभासिकं न किंचिज्जातं न वा किंचित्केनचित्पश्यतीति मनःशब्दकल्पितब्रह्मजास्ते ब्रह्मैवेति बुध्यस्वेत्याह - न जातमिति सार्धेन || २२ || प्रतियोगिव्यवच्छेदसंख्यारूपादयश्च ये | मनःशब्दैः प्रकल्प्यन्ते ब्रह्मजान्ब्रह्म विद्धि तान् || २३ || यथा यथास्य मनसः प्रतिभासः प्रवर्तते | तथा तथैव भवति दृष्टान्तोऽत्र किलैन्दवाः || २४ || स्वयमक्षुब्धविमले यथा स्पन्दो महाम्भसि | संसारकारणं जीवस्तथायं परमात्मनि || २५ || जगत्कल्पको जीव एव ब्रह्मान्यो नास्ति दूरे तत्कल्पितं जगदित्याशयेनाह - स्वयमिति || २५ || ज्ञस्य सर्वं चितं राम ब्रह्मैवावर्तते सदा | कल्लोलोर्मितरङ्गौघैरब्धेर्जलमिवात्मनि || २६ || चितं उपचितं पूर्णमित्यर्थः | आसमन्ताद्वर्तते || २६ || द्वितीया नास्ति सत्तैका नामरूपक्रियात्मिका | परे नानातरङ्गेऽब्धौ कल्पनेव जलेतरा || २७ || परे ब्रह्मणि द्वितीया सत्ता नास्ति किंत्वेकैव || २७ || जायते नश्यति तथा यदिदं याति तिष्ठति | तदिदं ब्रह्मणि ब्रह्म ब्रह्मणा च विवर्तते || २८ || विवर्तते अतात्त्विकरूपेण प्रतिभासते || २८ || स्वात्मन्येवातपस्तीव्रो मृगतृष्णिकया यथा | विचित्रेण विचित्रोऽपि प्रस्फुरत्यात्मना तथा || २९ || मृगतृष्णिकया मृगतृष्णानद्यात्मना | विचित्रो विगतनामरूपोऽपि || २९ || करणं कर्म कर्ता च जननं मरणं स्थितिः | सर्वं ब्रह्मैव नह्यस्ति तद्विना कल्पनेतरा || ३० || न लोभोऽस्ति न मोहोऽस्ति न तृष्णास्ति न रञ्जना | क आत्मन्यात्मनो लोभस्तृष्णा मोहोऽथवा कुतः || ३१ || द्वितीयाभावे लोभमोहादीनां प्रसक्तिरेव नास्तीत्याह - नेति | रञ्जना अत्यासक्तिः || ३१ || आत्मैवेदं जगत्सर्वमात्मैव कलनाक्रमः | हेमाङ्गदतयेवायमात्मोदेति मनस्तया || ३२ || मनस्तया मनोभावेन || ३२ || प्. ३६७) २१८ अबुद्धं यत्परं धाम तच्चित्तं जीव उच्यते | अपरिज्ञात एवाशु बन्धुरायात्यबन्धुताम् || ३३ || अबुद्धमज्ञानावृतम् || ३३ || चिन्मयेनात्मनाऽज्ञेन स्वसंकल्पनया स्वयम् | शून्यता गगनेनेव जीवता प्रकटीकृता || ३४ || अज्ञेनाज्ञानविषयीकृतेन यथा अशून्येनापि गगनेन शून्यता प्रकटीकृता तद्वत् || ३४ || आत्मैवानात्मवदिह जीवो जगति राजते | द्वीन्दुत्वमिव दुर्दृष्टेः सच्चासच्च समुत्थितम् || ३५ || अनात्मवत् अनात्मभूताहंकारादितादात्म्येनाहंप्रत्ययविषयवत् | विषयरूपेण द्वितीयरूपेण चासत्परमार्थैकरूपेण सच्च || ३५ || मोहार्थशब्दार्थदृशोरेतयोरत्यसंभवात् | सत्यत्वादात्मनश्चैव क्वात्मा बद्धः क्व मुच्यते || ३६ || मोहार्थयोर्व्यामोहनिमित्तयोः | एतयोर्बन्धमोक्षशब्दार्थदृशोरत्यन्तमसंभवात् || ३६ || नित्यासंभवबन्धस्य बद्धोऽस्मीति कुकल्पना | यस्य काल्पनिकस्तस्य मोक्षो मिथ्या न तत्त्वतः || ३७ || नित्यं न संभवतीत्यसंभवो बन्धो यस्य | तथाच परमार्थदृष्ट्या काल्पनिकावपि बन्धमोक्षौ तुच्छौ | न निरोधो न चोत्पत्तिर्न बद्धो न च साधकः | न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता इति श्रुतेरिति भावः || ३७ || श्रीराम उवाच | मनो यं निश्चयं याति तत्तद्भवति नान्यथा | तेन काल्पनिको नास्ति बन्धः कथमिह प्रभो || ३८ || यौक्तिकदृशा काल्पनिकानिर्वचनीयबन्धस्य प्राग्विस्तरेणोपपादितत्वात्काल्पनिकोऽपि बन्धो नास्तीति तुच्छतोक्तिमसहमानो रामः पृच्छति - मन इति || ३८ || श्रीवसिष्ठ उवाच | मिथ्या काल्पनिकीवेयं मूर्खाणां बन्धकल्पना | मिथ्यैवाभ्युदिता तेषामितरा मोक्षकल्पना || ३९ || यौक्तिकदृष्टिरियं लौकिकदृष्टिदार्ढ्यविघटनाय परमार्थदृष्टिद्वारत्वेन कल्पितेति न तत्रैव विश्रान्तिः किंतु श्रौततुच्छतादृष्टावेवेत्याशयेन वसिष्ठः प्रत्याह - मिथ्येत्यादिना | यथा काल्पनिकी स्वाप्नी कल्पना जाग्रद्दृशा मिथ्या तुच्छा तद्वत् | अनिर्वचनीयता न वस्तुतत्त्वं किंतु युक्तिभिर्निर्वचनाशक्तिः | सा च मूर्खपुरुषधर्मो न वस्तुस्वभाव इति सूचनाय मूर्खाणामित्युक्तम् || ३९ || एवमज्ञानकादेव बन्धमोक्षदृशोऽस्मृतेः | वस्तुतस्तु न बन्धोऽस्ति न मोक्षोऽस्ति महामते || ४० || एवं प्रागुक्तरीत्या तुच्छमज्ञानमज्ञानकं तस्मादेव बन्धमोक्षदृशः | नाऽसतो विद्यते भावो नाऽभावो विद्यते सतः | उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः || इति स्मृतिविरोधेन सदसदान्तरालिकानिर्वचनीयताविश्रान्त्ययोगादित्यर्थः || ४० || कल्पनाया अवस्तुत्वं संप्रबुद्धमतिं प्रति | रज्ज्वहेरिव हे प्राज्ञ तत्त्वबुद्धमतिं प्रति || ४१ || अवस्तुत्वं तुच्छत्वम् | तत्प्रागुक्तमनिर्वचनीयत्वं तु अबुद्धमतिमज्ञं परीक्षकं प्रति न प्राज्ञं प्रतीत्यर्थः || ४१ || बन्धमोक्षादिसंमोहो न प्राज्ञस्यास्ति कश्चन | संमोहबन्धमोक्षादि ह्यज्ञस्यैवास्ति राघव || ४२ || तदेव स्पष्टतरमाह - बन्धेति || ४२ || आदौ मनस्तदनु बन्धविमोक्षदृष्टी पश्चात्प्रपञ्चरचना भुवनाभिधाना | इत्यादिका स्थितिरियं हि गता प्रतिष्ठा- माख्यायिका सुभग बालजनोदितेव || ४३ || उक्तेऽर्थे बालकाख्यायिकामवतारयन्नुपसंहरति - आदाविति | हे सुभग इत्यादिका इयं बन्धस्थितिः प्रतिष्ठां दृढमूलताम् | बालजनाय धात्र्या उदिता उक्ता वक्ष्यमाणा आख्यायिकेव || ४३ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे चित्तचिकित्सापूर्वकं चित्तोत्पत्तिवर्णनं नाम शततमः सर्गः || १०० || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे चित्तोत्पत्तिवर्णनं नाम शततमः सर्गः || १०० || एकाधिकशततमः सर्गः १०१ श्रीराम उवाच | किमुच्यते मुनिश्रेष्ठ बालकाख्यायिकाक्रमः | क्रमेण कथयैतन्मे मनोवर्णनकारणम् || १ || संकल्पादर्थशून्याया विकल्पशतसंसृतेः | दृष्टान्तो वर्ण्यतेऽत्रैव बालकाख्यायिकाक्रमः || १ || संकल्पविकल्पात्मकस्य मनसः संकल्पो मूलं तन्निरोधे मूलोच्छेदाद्विकल्पानुत्थाने निर्विकल्पपदप्रतिष्ठासिद्धिरिति सूचनाय प्रागवतारितां बालकाख्यायिकां श्रोतुकामो रामः पृच्छति - किमुच्यत इति | पदसंस्कारपक्षमाश्रित्य किमेतदित्यनयोः सामान्ये नपुंसकत्वम् | बालकाख्यायिकालक्षणः क्रमो दृष्टान्तः किंप्रकारो लोके उच्यते एतत्क्रमेण कथयेत्यर्थः || १ || श्रीवसिष्ठ उवाच | कोऽपि मुग्धमतिर्बालो धात्रीं पृच्छति राघव | कांचिद्विनोदिनीं धात्रि वर्णयाख्यायिकामिति || २ || मुग्धमतिर्युक्तायुक्तविवेकशून्यः || २ || सा बालस्य विनोदाय धात्री तस्य महामते | आख्यायिकां कथयति प्रसन्नमधुराक्षसम् || ३ || क्वचित्सन्ति महात्मानो राजपुत्रास्त्रयः शुभाः | धार्मिकाः शौर्यमुदिता अत्यन्तासति पत्तने || ४ || अत्यन्तासति पत्तने इति प्रधानराजधान्युक्तिः || ४ || विस्तीर्णे शून्यनगरे व्योम्नीव जलतारकाः | द्वौ न जातौ तथैकस्तु गर्भ एव न संस्थितः || ५ || शून्यानि नगराणि शाखानगराणि यस्मिन्निति तद्विशेषणम् | जलमययस्तारकाश्चन्द्रांशत्वात् || ५ || प्. ३६८) २१९ अथात्युत्तमलाभार्थं कदाचित्समवायतः | विबन्धवः खिन्नमुखाः शोकोपहतचेतसः || ६ || ते कदाचिद्विबन्धवो दैवान्मृतबान्धवा दुर्भिक्षादिना खिन्नमुखाश्च सन्तः समवायतः स्वनागरसमाजात् परस्परैकमत्यतो वा उत्तमस्य नगरान्तरस्य लाभार्थं निर्जग्मुरिति शेषः || ६ || ते तस्माच्छून्यनगरान्निर्गता वितताननाः | गगनादिव संश्लिष्टा बुधशुक्रशनैश्चराः || ७ || संश्लिष्टा मिलिताः || ७ || शिरीषसुकुमाराङ्गाः पृष्ठतोऽर्केण तापिताः | मार्गेऽहनि गता ग्रीष्मतापार्ताः पल्लवा इव || ८ || गताः म्लानतामिति शेषः || ८ || संतप्तमार्गसिकतादग्धपादसरोरुहाः | हा तात चेति शोचन्तो मृगा यूथच्युता इव || ९ || दर्भाग्रभिन्नचरणास्तापखिन्नाङ्गसंधयः | उल्लङ्घ्य दूरमध्वानं धूलिधूसरमूर्तयः || १० || मञ्जरीजालजटिलं फलपल्लवमालितम् | मृगपक्षिगणाधारं प्रापुर्मार्गे तरुत्रयम् || ११ || यस्मिन्वृक्षत्रये वृक्षौ द्वौ न जातौ मनागपि | बीजमेव तृतीयस्य स्वारोहस्य न विद्यते || १२ || वृक्षत्रय इति निर्धारणे सप्तमी | स्वारोहस्य सुखेनारोढुं शक्यस्य || १२ || विश्रान्तास्ते परिश्रान्तास्तत्रैकस्य तरोरधः | पारिजाततले स्वर्गे शक्रानिलयमा इव || १३ || फलान्यमृतकल्पानि भुक्त्वा पीत्वा च तद्रसम् | कृत्वा गुलुच्छकैर्मालां चिरं विश्रम्य ते ययुः || १४ || गुलुच्छकैस्तल्लताविशेषमञ्जरीभिः || १४ || पुनर्दूरतरं गत्वा मध्याह्ने समुपस्थिते | सरित्त्रितयमासेदुस्तरङ्गतरलारवम् || १५ || तत्रैका परिशुष्कैव मनागप्यम्बु न द्वयोः | विद्यते सरितोर्दृष्टिरन्धलोचनयोरिव || १६ || सरितोरिति कर्मणि षष्ठी | दृष्टिर्दर्शनम् | अन्धलोचनयोरन्धलोचनाभ्यामिवात्यन्तासतीत्यर्थः | करणताशक्तेरेव संबन्धसामान्यात्मना विवक्षणात्षष्ठी अन्धस्य लोचनयोर्गोलकयोर्दृष्टिरिन्द्रियमिव सरितोरम्बु न विद्यत इति वा || १६ || परिशुष्का भृशं यासौ तस्यां ते सस्नुरादृताः | घर्मार्ता इव गङ्गायां ब्रह्मविष्णुहरा इव || १७ || घर्मार्ता जना इव ब्रह्मविष्णुहरा गङ्गायामिव चेति पृथक्कृत्य योज्यम् || १७ || चिरं कृत्वा जलक्रीडां पीत्वा क्षीरोपमं पयः | जग्मुस्ते राजतनयाः प्रहृष्टमनसः स्वयम् || १८ || अभिलषितनगरप्राप्तौ प्रहृष्टमनसः || १८ || अथासेदुर्दिनस्यान्ते लम्बमाने दिवाकरे | भविष्यन्नवनिर्माणं नगरं नगसन्निभम् || १९ || नगसन्निभं पर्वतप्रांशु || १९ || पताकापद्मिनीव्याप्तं नीलाकाशजलाशयम् | दूरश्रुतसमुल्लापगायन्नागरमण्डलम् || २० || ऊर्ध्वं पताकाभिरधः पद्मिनीभिश्च व्याप्तम् | नीलाकाशा इव सुन्दराः शून्या वा जलाशया यत्र | समुल्लापाः स्वरमूर्च्छनाः || २० || ददृशुस्तत्र रम्याणि त्रीणि सद्भवनानि ते | मणिकाञ्चनगेहानि शृङ्गाणीव महागिरेः || २१ || अनिर्मिते द्वे सदने एकं निर्भित्ति तत्र वै | अभित्तिमन्दिरं चारु प्रविष्टास्ते नरास्त्रयः || २२ || तत्र तेषु त्रिषु मध्ये अभित्तिमन्दिरं ते प्रविष्टाः || २२ || संप्रविश्योपविश्याशु विहरन्तो वराननाः | प्रापुः स्थालीत्रयं तत्र तप्तकाञ्चनकल्पितम् || २३ || तत्र कर्परतां याते द्वे एका चूर्णतां गता | जगृहुश्चूर्णरूपां तां स्थालीं ते दीर्घबुद्धयः || २४ || कर्परतां कपालताम् || २४ || द्रोणैर्नवनवत्या तैस्तस्यां द्रोणेन चान्धसः | तत्र द्रोणशतं हीनं रन्धितं बहुभोजिभिः || २५ || तत्र तस्यां स्थाल्याम् | अन्धसः ओदनप्रकृतेस्तण्डुलस्य नवनवत्या द्रोणैरेकेन च द्रोणेन हीनं न्यूनं द्रोणशतं रन्धितं पक्वम् | भावे क्तः || २५ || निमन्त्रितास्त्रयस्तैस्तु ब्राह्मणा राजसूनुभिः | द्वौ निर्देहावथैकस्य मुखमेव न विद्यते || २६ || निर्मुखेनान्धसस्तत्र भुक्तं द्रोणशतं सुत | विप्रभुक्तावशेषं तु भुक्तमन्धो नृपात्मजैः || २७ || त्रिभिस्ते राजपुत्राश्च परां निर्वृतिमागताः | भविष्यन्नगरे तस्मिन् राजपुत्रास्त्रयो हि ते | सुखमद्य स्थिताः पुत्र मृगयाव्यवहारिणः || २८ || निर्वृतिं तृप्तिम् | मृगयाभिर्व्यवहारिणः क्रीडमानाः || २८ || आख्यायिकैषा कथिता मया रम्या तवानघ | एतां हृदि कुरु प्राज्ञ विदग्धस्त्वं भविष्यसि || २९ || विदग्धः पण्डितः || २९ || धात्र्येति कथिता राम बालकाख्यायिका शुभा | तुष्टिं जगाम बालश्च शुभाख्यायिकयानया || ३० || एषा हि कथिता राम चित्ताख्यानकथां प्रति | बालकाख्यायिका तुभ्यं मया कमललोचन || ३१ || चित्ताख्यानानन्तरं प्रवृत्ता या जगत्प्रत्ययस्य विकल्पमात्रत्वकथा तां प्रति तदुदाहरणत्वेनेत्यर्थः || ३१ || इयं संसाररचना स्थितिमेवमुपागता | बालकाख्यायिकेवोग्रैः संकल्पैर्दृढकल्पितैः || ३२ || स्थितिं दार्ढ्यम् | एवं विकल्पमात्ररूपा | बालकाख्यायिकाशब्देन तज्जन्यबालप्रतीतिर्लक्षणया गृह्यते || ३२ || विकल्पजालकैवेयं प्रतिभासात्मिकानघ | बन्धमोक्षादिकलनारूपेण परिजृम्भते || ३३ || तदेव स्पष्टमाह - विकल्पेति | विकल्पा एव जालकानि यस्यामिति विग्रहे समासादुत्पन्नस्य टापः सुपः परत्वात् प्रत्ययस्थात्कात्पूर्वस्य इत्यस्याप्रवृत्तिः || ३३ || प्. ३६९) २१९ संकल्पमात्रादितरद्विद्यते नेह किंचन | संकल्पवशतः किंचिन्न किंचित्किंचिदेव वा || ३४ || विकल्पानां च संकल्पकार्यत्वात्तद्व्यतिरेकेणासत्त्वमित्याशयेनाह - संकल्पमात्रादिति | यतो यत्किंचिद्विकल्परूपं भाति तत्सर्वं संकल्पवशतो भाति | विकल्पभातं च किंचिन्नैव किंचिद्वा भवति | शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः इति पतञ्जलिना तथा तल्लक्षणोक्तेरिति भावः || ३४ || द्यौः क्षमा वायुराकाशं पर्वताः सरितो दिशः | संकल्पकचितं सर्वमेवं स्वप्नवदात्मनः || ३५ || युक्तमेव विशिष्य प्रपञ्चयति - द्यौरिति | क्षमा पृथ्वी || ३५ || राजपुत्रास्त्रयो नद्यो भविष्यन्नगरे यथा | यथा संकल्परचना तथेयं हि जगत्स्थितिः || ३६ || संकल्पमात्रमभितः परिस्फुरति चञ्चलः | पयोमात्रात्मकोऽभोधिरम्भसीवात्मनात्मनि || ३७ || चञ्चलः अम्भोधिः || ३७ || संकल्पमात्रं प्रथममुत्थितं परमात्मनः | तदिदं स्फारतां यातं व्यापारैर्दिवसं यथा || ३८ || व्यापारैः सूर्यव्यापारैर्जनव्यापारैश्च || ३८ || संकल्पजालकलनैव जगत्समग्रं संकल्पमेव ननु विद्धि विलासचेत्यम् | संकल्पमात्रमलमुत्सृज निर्विकल्प- माश्रित्य निश्चयमवाप्नुहि राम शान्तिम् || ३९ || तथाच संकल्पत्यागमात्रेण निर्विकल्पस्वरूपावस्थितिरिति दर्शयन्नुपसंहरति - संकल्पेति | मनोविलासा रागादिवृत्तयस्तच्चेत्यानि च तेषां समाहारम् | संकल्पत्यागे च निर्विकल्पात्मनिश्चय एव हेतुरित्याह - आश्रित्येति || ३९ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० उत्पत्तिप्रकरणे बालकाख्यायिकानामैकोत्तरशततमः सर्गः || १०१ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे बालकाख्यायिकानामैकोत्तरशततमः सर्गः || १०१ || द्व्युत्तरशततमः सर्गः १०२ श्रीवसिष्ठ उवाच | स्वसंकल्पवशान्मूढो मोहमेति न पण्डितः | अक्षये क्षयसंकल्पान्मुह्यते शिशुरेव हि || १ || इहाहंकारसंकल्पक्षयोपायो निरूप्यते | विवेको नात्मवर्गस्य नित्यता च परात्मनः || १ || मूढोऽज्ञः | अक्षये परमात्मनि क्षीयत इति क्षयो नश्वरात्मा तत्संकल्पात् | शिशुर्बालः | मुह्यते बिभेति || १ || श्रीराम उवाच | कोऽसौ संकल्पितः केन क्षयो ब्रह्म्वविदां वर | असतैव महामोहं येनादात्तत्सदैव हि || २ || क्षयसंकल्पादिति हेतूक्तौ संकल्पकर्तृकर्मणी विशिष्य जिज्ञासमानो रामः पृच्छति - कोऽसाविति | असौ संकल्पितः क्षयः कः केन च संकल्पितो येनायमात्मा असतैव निमित्तेन महामोहं संसारभ्रमं आ अदात् उपात्तवान् | अयं भावः - किं नित्यात्मा नश्वरात्मानं संकल्पयति उत नश्वरात्मैव | नाद्यः तस्य स्वात्मस्वभावविरुद्धसंकल्पकत्वायोगात् | न द्वितीयः | आत्माश्रयापत्तेः | तथा संकल्पितो नश्वरात्मापि किं जड उत चिद्रूपः नाद्यः | आत्मतादात्म्यानापातात् | न द्वितीयः | चितः संकल्पविषयत्वायोगादिति || २ || श्रीवसिष्ठ उवाच | असता भूतसंधेन क्षयोऽहंकारनामधृक् | वेतालः शिशुनेवेह मिथ्यैव परिकल्पितः || ३ || यद्यद्भवन्ति तदा भवन्ति इति श्रुतेः प्राक्तनसिंहव्याघ्रादिभूतसंघात्मभावसंस्कारसंभृता##- चिदचित्संवलनात्मकसिंहव्याघ्राद्यहंकारात्मकनश्वरात्म##- अविद्योपहितेन परमात्मना तत्तदहंकारनामधृक् क्षयो नश्वरात्मा || ३ || एकस्मिन्नेव सर्वस्मिन्स्थिते परमवस्तुनि | कुतः कोऽयमहं नाम कथं नाम किलोदितः || ४ || नन्वहंकारस्यात्मस्वभावतैव किं न स्यात्कुतो मिथ्यात्वं तत्राह - एकस्मिन्निति | सर्वस्मिन् पूर्णे || ४ || वस्तुतो नास्त्यहंकारः परमात्मन्यभेदिनि | असम्यग्दर्शनान्मार्गीसरित्तीव्रातपे यथा || ५ || मार्गीसरित् मृगतृष्णानदी || ५ || मनोमणिमहारम्भः संसार इति लक्ष्यते | आत्मनात्मानमाश्रित्य स्फुरत्यन्तर्यथाम्भसा || ६ || मनोलक्षणस्य मणेश्चिन्तामणेर्महान् आरम्भः कार्यजातसर्गः | तर्हि किं मनस एव स्वातन्त्र्यं नेत्याह - आत्मानमाश्रित्येति | अम्भसा अम्भ इति शेषः || ६ || असम्यग्दर्शनं तेन त्यज राम निराश्रयम् | साश्रयं सत्यमानन्दि सम्यग्दर्शनमाश्रय || ७ || असम्यग्दर्शनं भ्रान्तिम् | निराश्रयं असद्विषयम् | साश्रयं सत्यार्थविषयम् || ७ || धिया विचारधर्मिण्या मोहसंरम्भहीनया | विचारयाधुना सत्यमसत्यं संपरित्यज || ८ || तत्र क उपायस्तत्राह - धियेति || ८ || अबद्धो बद्ध इत्युक्त्वा किं शोचसि मुधैव हि | अनन्तस्यात्मतत्त्वस्य किं कथं केन बध्यते || ९ || प्. ३७०) २२० नानाऽनानात्वकलना त्वविभिन्नमहात्मनि | सर्वस्मिन्ब्रह्मतत्त्वेऽस्मिन्किं बद्धं किं विमुच्यते || १० || नानाऽनानात्वकलना भेदाभेदभ्रान्तिः | अस्मिन्सर्वस्मिन्बाधेन ब्रह्मतत्त्वे तन्मात्रपरिशेषे सतीत्यर्थः || १० || अनार्तोऽप्यार्तिमान्भाति च्छिन्नेऽङ्गे किंच ताम्यति | भेदाभेदविकारार्तिः काचिन्नात्मनि विद्यते || ११ || अच्छेद्याभेद्यात्मदर्शने देहच्छेदभेदादिप्रयुक्तदुःखस्यापि नावसरः किं पुनरन्यस्येत्याशयेनाह - अनार्त इति | आर्तिमति देहे तथा भाति || ११ || देहे नष्टे क्षते क्षीणे कात्मनः क्षतिरागता | भस्त्रायां परिदग्धायां भस्त्रापूरो न नश्यति || १२ || भस्त्रामापूरयतीति भस्त्रापूरो वायुः || १२ || देहः पततु वोदेतु का नः क्षतिरुपस्थिता | को नष्टः प्रक्षते पुष्पे आमोदो व्योमसंश्रयः || १३ || प्रक्षते नष्टे | आमोदो गन्धः || १३ || आपतन्तु वपुःपद्मे सुखदुःखहिमश्रियः | आकाशोड्डयनालीनां का नः क्षतिरुपस्थिता || १४ || उड्डीयते अस्मिन्नित्युड्डयनम् | अधिकरणे ल्युट् | आकाश उड्डयनं येषां तथाविधानामलीनां भ्रमराणां नः | उडुपनालीनाम् इति पाठे आकाशस्थानां उडुपाश्चन्द्रशुक्रबृहस्पत्यादयस्ताराश्रेष्ठास्तल्लक्षणानां नालीनां पद्मानाम् रलयोरभेदादुडुपस्य चन्द्रस्य नारीणामश्विन्यादिसर्वताराणां च || १४ || देहः पततु वोदेतु यातु वा गगनान्तरम् | तद्विलक्षणरूपस्य कासौ भवति मे क्षतिः || १५ || यथा पयोदमरुतोर्यथा षट्पदपद्मयोः | तथा राघव संबन्धस्त्वच्छरीरत्वदात्मनोः || १६ || अभ्युपगतेऽपि संबन्धे अलेपके आत्मनि न तत्प्रयुक्तदुःखप्रसक्तिरित्याशयेनाह - यथेति | पयोदमरुतोर्मेघवायवोः || १६ || मनो राम शरीरं हि जगतः सकलस्य च | आद्या शक्तिश्चिदध्यात्मा न नश्यति कदाचन || १७ || शरीरादिसर्वजगतो मनोमात्रत्वादपि सति मनसि न शरीरादिनाशप्रयुक्तः शोको युक्तः किं पुनरात्ममात्रत्वादित्याशयेनाह - मन इति | शरीरशब्दः स्वरूपवचनः | तत्र हेतुः - आद्या शक्तिरिति | यतो मनो जगत आद्या कारणीभूता शक्तिः चिदात्मा तु मनसोऽपि अधि उपरि अतस्तन्नाशभ्रान्तिः सर्वथा न युक्तेत्यर्थः || १७ || योऽसावात्मा महाप्राज्ञ न नश्यति न गच्छति | न नश्यति कदाचिच्च किं मुधा परितप्यसे || १८ || आत्मनाशादिभ्रान्तेरेव सर्वशोकादिमूलत्वात्तां पुनः पुनर्वारयन्नाह ##- विशीर्णेऽभ्रे यथा वातः शुष्केऽब्जे षट्पदो यथा | यात्यनन्तपदं व्योम तथात्मा देहसंक्षये || १९ || संसारेऽस्मिन्विहरतो मनोऽपि हि न नश्यति | ज्ञानाग्निना विना जन्तोरात्मनाशे तु का कथा || २० || यः कुण्डबदरन्यायो यो घटाकाशयोः क्रमः | स्थितिर्देहात्मनोः सैव सविनाशाविनाशयोः || २१ || आत्मनो देहान्तरवस्थितिर्वस्तुतो नास्त्येव | अभ्युपगमेऽपि न देहनाशात्तन्नाशप्रसक्तिरित्याशयेनाह - य इति | क्रमो न्यायः | स्थितिरपि न्यायः | सा तादृश्येव || २१ || बदरं हस्तमायाति यथा स्फुटति कुण्डके | आत्मा गगनमायाति तथा चलति देहके || २२ || आद्यं कुण्डबदरन्यायं प्रकृते उपपादयति - बदरमिति | आत्मा जीवः गगनं वासनाकाशम् | चलति नश्यति सति | तथाच श्रुतिः - जीवापेतं वाव किलेदं म्रियते न जीवो म्रियते इति || २२ || कुम्भे गच्छत्यकुम्भत्वं कुम्भाकाशो यथाम्बरे | तिष्ठत्येवमयं क्षीणे देहे देही निरामयः || २३ || द्वितीयमुपपादयति - कुम्भे इति | अकुम्भत्वं नाशम् || २३ || मनोदेहो हि जन्तूनां देशकालतिरोहितः | मुहुर्मृतिपटाच्छन्नः शठे किं परिदेवना || २४ || मरणं मृतिस्तल्लक्षणेन पटेन मुहुराच्छन्नो भवति | शठे वञ्चके अस्मिन्मनसि किं का परिदेवना अयुक्तेत्यर्थः || २४ || देशकालतिरोधाने मूढोऽपि मरणे नरः | किं बिभेति महाबाहो नेह पश्यति कश्चन || २५ || किं तर्हि मरणं तदाह - देशेति | गृहादिदेशे चरमश्वासकाले परेषां दृष्ट्वा आत्मनस्तिरोधानमात्रं मरणमित्यर्थः | नेह पश्यति कश्चनात्मनाशमिति शेषः || २५ || अतस्त्वं वासनां राम मिथ्यैवाहमिति स्थिताम् | त्यज पक्षीश्वरो व्योमगमनोत्क इवाण्डकम् || २६ || पक्षी संजातपक्षः पक्षिशिशुः | स्वपरिच्छेदकमण्डकं शिथिलमण्डमिव || २६ || एषा हि मानसी शक्तिरिष्टानिष्टनिबन्धनी | अनयैव मुधा भ्रान्त्या स्वप्नवत्परिकल्पना || २७ || इष्टानिष्टयोः रागद्वेषाभ्यां निबन्धनी अभिनिवेशबन्धनकरी || २७ || अविद्यैषा दुरन्तैषा दुःखायैषा विवर्धते | अपरिज्ञानमानैषा तनोतीदमसन्मयम् || २८ || अविद्याविलासत्वादविद्या || २८ || एषा तुच्छवदाकाऽऽअं तुषारमलिनं यथा | परिपश्यति विभ्रान्ता स्वरूपस्य स्वभावतः || २९ || तुषारैर्मलिनं धूसरितम् | तथा दर्शनं मनसः स्वभाव इत्याह - स्वरूपस्येति || २९ || असदेवेदमारम्भमन्थरं सदिवोत्थितम् | कल्पितं जगदाभोगि दीर्घस्वप्न इवैतया || ३० || भावनामात्र एवास्याः स्वरूपं कर्तृतां गतम् | जगन्नामाविलं चक्षुर्व्योम्नि बिम्बरुचामिव || ३१ || ननु मनोव्यापाराणां सर्वेषां प्रत्यक्षत्वाज्जगन्निर्मातृता कुतः सर्वैर्नानुभूयते तत्राह - भावनेति | अस्याः स्वरूपं जगदाकारभावनामात्रे एव कर्तृतां गतं न तदतिरिक्तनिर्माणे | मिथ्यार्थानां दर्शनातिरिक्तनिर्माणाप्रसिद्धेः | तदेव जगन्नाम प्रसिद्धम् | यथा आविलं तिमिरादिदुष्टं चक्षुर्व्योम्नि पिच्छकेशोंड्रकाद्याकाराणां सूर्यचन्द्रादिबिम्बरुचां विभावनामात्रेण कर्तृतद्वदित्यर्थः | विभावनं तु प्रत्यक्षमेवेति भावः || ३१ || प्. ३७१) २२० लयमस्याः स्वरूपं त्वं नय राम विचारणात् | यथा हिमशिलायास्तु तपनाद्दिवसाधिपः || ३२ || अत एव ह्यविचारद्वैतभावनामात्रसिद्धस्य विचारजन्यज्ञानमात्राल्लयसिद्धिरिति विचारः कार्य इत्याह - लयमिति | यथा दिवसाधिपः सूर्यस्तपनात्स्वातपाद्धिमशिलायाः स्वरूपं लयं नाशं नयति तद्वत् || ३२ || हिमाभावार्थिनोऽर्कस्य स्वोदयेनेप्सितं यथा | सिद्ध्यत्येवं विचारेण मनोनाशार्थिनोऽर्थितम् || ३३ || अर्थितमभिलषितो मनोनाशः || ३३ || अविद्याऽसंप्रबुद्धा हि विततानर्थदुर्गमा | नानेन्द्रजालकलनां शम्बरो हेम वर्षति || ३४ || एकस्मिन्मनसि नष्टेऽपि पुनरविद्यया मन आदिबन्धजन्मप्रसक्तिमाशङ्क्याह - अविद्येति | हि यस्मादविद्याकादम्बिनी असंप्रबुद्धा अविज्ञातात्मतत्त्वा यदा तदैव शम्बरोऽसुरविशेष इव नानेन्द्रजालकलनारूपमसदेव हेम वर्षति नतु संप्रबुद्धा तदा निःस्वरूपत्वादित्यर्थः || ३४ || स्वविनाशक्रियां चैतां मन एव करोत्यलम् | मनो ह्यात्मवधं नाम नाटकं परिनृत्यति || ३५ || एवंच मन एव चिरं जगद्रूपेण नृत्यदन्ते विद्यात्मकपरिणामेन साविद्यस्वविनाशं करोतीति फलितमित्याह - स्वविनाशक्रियामिति | आत्मवधं स्वसंहारं नाम नाटकं स्वरचितग्रन्थं परिलक्षीकृत्य नृत्यति || ३५ || आत्मानमीक्षते चेतः स्वविनाशाय केवलम् | नहि जानाति दुर्बुद्धिर्विनाशं प्रत्युपस्थितम् || ३६ || स्वयं संकल्पमात्रेण स्वविनाशदृशामिदम् | मनः संसाधयत्याशु क्लेशो नात्रोपयुज्यते || ३७ || स्वविनाशदृशां मनोनाशोपायमन्विष्यतां विवेकिनामिदं मनोनाशनं मनः स्वयमेव संकल्पनमात्रेण आशु संसाधयति || ३७ || स्वसंकल्पविकल्पांशं विवेकोपहितं मनः | संत्यज्य रूपमाभोगि करोत्यात्मावबोधनम् || ३८ || विवेकेन उपहितं संस्कृतं मनः प्राक्तनं स्वसंकल्पविकल्पांशं संत्यज्य आभोगि ब्रह्माकारविस्तारं आत्मावबोधनं स्वात्मसाक्षात्कारवृत्त्यात्मकरूपं खं परिणामं करोति || ३८ || महोदयो मनोनाशो महोच्छेदस्य तूदयः | मनोनाशे प्रयत्नं त्वं कुरु मा मनसो जवे || ३९ || महोदयः परमपुरुषार्थलाभः | महोच्छेदः सर्वदुःखोच्छेदः | जवे बहिर्व्यापारे || ३९ || अविरलसुखदुःखवृक्षखण्डे विषमकृतान्तमहोरगे वनेऽस्मिन् | प्रभुरिदमखिले विवेकहीनं सुभग मनो महदापदेकहेतुः || ४० || उक्तार्थोपेक्षणे अनर्थापातं दर्शयन्नुपसंहरति - अविरलेति | अविरला निबिडाः सुखदुःखात्मका वृक्षखण्डा यस्मिन् | विषमः कृतान्तो मृत्युर्महोरगो यस्मिंस्तथाविधे | अखिले अनुच्छेद्ये अस्मिन् संसारलक्षणे असिपत्रवने इदं विवेकहीनं मन एव प्रभुर्दुरन्तदुःखहेतुरित्यर्थः || ४० || इत्युक्तवत्यथ मुनौ दिवसो जगाम सायंतनाय विधयेऽस्तमिनो जगाम | स्नातुं सभा कृतनमस्करणा जगाम श्यामाक्षये रविकरैश्च सहाजगाम || ४१ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे दे० मो० उपदेशकरणं नाम द्व्युत्तरशततमः सर्गः || १०२ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे उपदेशकरणं नाम द्व्युत्तरशततमः सर्गः || १०२ || त्र्युतरशततमः सर्गः १०३ श्रीवसिष्ठ उवाच | परस्मादुत्थितं चेतस्तत्कल्लोल इवार्णवात् | स्फारतामेत्य भुवनं तनोतीदमितस्ततः || १ || अविवेकस्य मनसो या यात्रानर्थकारिता | मुमुक्षूणां विवेकाय सा सर्वात्र प्रपञ्च्यते || १ || अनर्थार्थमेव परस्मान्मनस उत्पत्तिरिति दर्शयति - परस्मादिति || १ || ह्रस्वं दीर्घं करोत्याशु दीर्घं नयति खर्वताम् | स्वतां नयत्यन्यदलं स्वं तथैवान्यतामपि || २ || मनसो वस्तुस्वभावविरुद्धकल्पनसामर्थ्यं दर्शयति - ह्रस्वमित्यादिना | ह्रस्वं नेत्रसंनिहिताङ्गुल्यादि अतिविस्तृतसूर्यमण्डलाद्याच्छादकत्वकल्पनेन दीर्घं आशु करोति | दीर्घं सूर्यमण्डलादि खर्वतां ह्रस्वताम् | एवमात्मानात्मनोः स्वरूपविनिमयकल्पनमपि मन एव करोतीत्याह - स्वतामिति || २ || प्रादेशमात्रमपि यद्वस्तुभावनयैव तत् | स्वयं संपन्नयेवाशु करोत्यद्रीन्द्रभासुरम् || ३ || स्वयमात्मभावेन संपन्नयेव | भावनया कल्पनया || ३ || लब्धप्रतिष्ठं परमात्पदादुल्लसितं मनः | निमेषेणैव संसारान्करोति न करोति च || ४ || कुतोऽस्येदृशं सामर्थ्यं तत्राह - लब्धप्रतिष्ठमिति | ब्रह्मसत्तया विचित्रशक्त्युपबृंहितत्वेन लब्धसत्ताकमित्यर्थः || ४ || यदिदं दृश्यते किंचिज्जगत्स्थास्नु चरिष्णु च | सर्वं सर्वप्रकाराढ्यं चित्तादेतदुपागतम् || ५ || देशकालक्रियाद्रव्यशक्तिपर्याकुलीकृतम् | भावाद्भावान्तरं याति लोलत्वान्नटवन्मनः || ६ || भावाद्भावान्तरं एकवस्त्वाकारादपरवस्त्वाकारं नाट्यशास्त्रप्रसिद्धं संचारिभावभेदं च || ६ || सदसत्तां नयत्याशु सत्तां वा सन्नयत्यलम् | तादृशान्येव चादत्ते सुखदुःखानि भावितम् || ७ || प्. ३७२) २२१ यदाप्तं स्वयमादत्ते यथैव चञ्चलं मनः | हस्तपादादिसंघातस्तदा प्रयतते तथा || ८ || चञ्चलं मनः आप्तं कर्मोपस्थापितं भोग्यं यदा यथा येनैव कल्पनाप्रकारेणानुकूलतया प्रतिकूलतया वा आदत्ते तदा हस्तपादादिसंघातस्तथा तदनुसारेणैव उपादाने हाने वा प्रवर्तत इति मनस एव सर्वव्यवहारस्वातन्त्र्यमित्यर्थः || ८ || ततः सैव क्रिया चित्तसमाहितफलाफलम् | क्षणात्प्रयच्छति लता कालसिक्तेव तादृशम् || ९ || सा भोग्यार्थोपस्थापिका क्रिया चित्तेन समाहितं कल्पितं फलाफलं सुखदुःखम् || ९ || चित्रां क्रीडनकश्रेणीं यथा पङ्काद्गृहे शिशुः | करोत्येवं मनो राम विकल्पं कुरुते जगत् || १० || पङ्कादार्द्रमृत्पिण्डात् || १० || मनःसर्वजनक्रीडानृजम्बाललवेष्वतः | किमेतद्धि पदार्थेषु रूढं जगति कल्प्यते || ११ || मनःकल्पनामात्रे जगति न किंचिदपि रूपं वास्तवं संभवतीत्याह - मन इति | अतो हेतोर्मनसो याः सर्वजनात्मना क्रीडास्तत्रत्यनृदेहादिलक्षणेषु पङ्कलेशेषु सर्वपदार्थेषु यद्रूपं रूढं सत्यं कल्प्यते एतत्किं हि स्यान्न किंचिदित्यर्थः || ११ || करोत्यृतुकरः कालो यथा रूपान्यथा तरोः | चित्तमेवं पदार्थानामेषामेवान्यतामिव || १२ || ऋतुकरो वसन्तादिविभागकारी | रूपाणामन्यथा अन्यताम् | पूरणगुण इति निषेधेऽपि च्छान्दसत्वात्पूर्वोत्तरसाहचर्येण कृदन्ययस्यैव तत्र ग्रहणाद्वा षष्ठीसमासः || १२ || मनोरथे तथा स्वप्ने संकल्पकलनासु च | गोष्पदं योजनव्यूहः स्वासु लीलासु चेतसः || १३ || मनसश्चाघटितघटनाशक्तिः प्रसिद्धैवेति दर्शयति - मनोरथे इत्यादिना | योजनानां व्यूहः समूहोऽपि गोष्पदमिवाल्पमित्यर्थः || १३ || कल्पं क्षणीकरोत्यन्तः क्षणं नयति कल्पताम् | मनस्तदायत्तमतो देशकालक्रमं विदुः || १४ || अतो देशकालक्रमं सर्वं तदायत्तं मनोधीनं विदुः सर्वेऽपीत्यर्थः || १४ || तीव्रमन्दत्वसंवेगाद्बहुत्वाल्पत्वभेदतः | विलम्बनेन च चिरं नतु शक्तिमशक्तितः || १५ || ननु यदि मनः सर्वनिर्माणसमर्थ तर्हि कथमिदानीमस्माकं सर्वसर्गाशक्तिस्तत्राह - तीव्रेति | रजोगुणोत्कर्षे तीव्रता तमस उत्कर्षे तु मन्दतेति संवेगभेदात् आहारोपचयादुपचये बहुत्वमपचयेऽल्पत्वमिति भेदस्तत्तद्वस्तुसर्गानुकूलोपसासनादिविलम्बनेन च प्राप्तसर्गाशक्तितो न मनसो वास्तवीं सर्वसर्गशक्तिमपहातुं शक्नुम इत्यध्याहृत्य योज्यम् || १५ || व्यामोहसंभ्रमानर्थदेशकालगमागमाः | चेतसः प्रभवन्त्येते पादपादिव पल्लवाः || १६ || अत एव व्यामोहादिसंभवोऽपीत्याह - व्यामोहेति || १६ || जलमेव यथाम्भोधिरौष्ण्यमेव यथानलः | तथा विविधसंरम्भः संसारश्चित्तमेव वा || १७ || कार्यस्य कारणानन्यत्वाच्चित्तमात्रमेव सर्वमित्याह - जलमेवेति | वाशब्दः पादपूरणार्थः || १७ || सकर्तृकर्मकरणं यदिदं चेत्यमागतम् | द्रष्टृदर्शनदृश्याढ्यं तत्सर्वं चित्तमेव च || १८ || चेत्यं भोक्तृभोग्यभोगरूपानर्थात्मकम् [भोक्तृ इति पदं क्वचिन्न पठ्यते] | तथाच नवविधोऽपि संसारश्चित्तमेवेत्यर्थः || १८ || चित्तं जगन्ति भुवनानि वनान्तराणि संलक्ष्यते स्वयमुपागतमात्मभेदैः | केयूरमौलिकटकैश्च लसत्स्वरूपं त्यक्त्वैव काञ्चनधियेव जनेन हेम || १९ || सर्वं चित्तमेवेति येनोपायेन संलक्ष्यते तं दर्शयन्नुपसंहरति - चित्तमिति | यथा काञ्चनतत्त्वपरीक्षकजनेन केयूरमौलिभूषणकटकैश्चादन्यैश्च रुचकाद्याकारैर्लसत्कल्पितनानास्वरूपं त्यक्त्वैव शुद्धकाञ्चनमात्रप्रणिहितधिया परीक्ष्यमाणं तत्त्वतो हेम लक्षयितुं शक्यते न केयूरादिरचनावैचित्र्यव्यामूढधिया तथा विवेकिनापि जगति तदन्तर्गतभुवनानि तदन्तर्गतवनान्तरादिसर्ववस्तूनि च आत्मभेदैः स्ववैचित्र्यिश्चित्तमेव स्वयमुपागतं चित्तमात्रमेव न चित्ताद्वस्त्वन्तरमिति तत्त्वं संलक्ष्यत इत्यर्थः || १९ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मोक्षोपायेषूत्पत्तिप्रकरणे चित्तमाहात्म्यं नाम त्र्युत्तरशततमः सर्गः || १०३ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे चित्तमाहात्म्यं नाम त्र्युत्तरशततमः सर्गः || १०३ || चतुरुत्तरशततमः सर्गः १०४ श्रीवसिष्ठ उवाच | अत्र ते शृणु वक्ष्यामि वृत्तान्तमिममुत्तमम् | जागतीहेन्द्रजालश्रीश्चित्तायत्ता यथा स्थिता || १ || अत्रादौ लवणाख्याने देशराजसभास्थितिः | तत्रेन्द्रजालिकाश्वेक्षा विस्मयस्थितिरुच्यते || १ || वृत्तान्तमाख्यानम् || १ || अस्त्यस्मिन्वसुधापीठे नानावनसमाकुलः | उत्तरापाण्डवो नाम स्फीतो जनपदो महान् || २ || नीरन्ध्रघनगम्भीरवनविश्रान्ततापसः | विद्याधरीकृतलतादोलोपवनपत्तनः || ३ || नीरन्ध्रघनेषु अत एव गम्भीरेषु वनेषु विश्रान्तास्तापसा यस्य | अनेन व्याघ्रचोराद्युपप्लवाभाव उक्तः || ३ || वातोद्भूताब्जकिञ्जल्कपुञ्जपिञ्जरपर्वतः [वातोद्भूत इति क्वचित्] | लसत्कुसुमसंभारवनमालावतंसकः || ४ || करञ्जमञ्जरीकुञ्जगुच्छपर्यन्तजङ्गलः | खर्जूरान्तरितग्रामो घुंघुमध्वनिताम्बरः || ५ || पर्यन्तजङ्गलानि ग्रामपर्यन्तारण्यानि | खर्जूरवृक्षैरन्तरिता अन्तर्हिता ग्रामा यत्र || ५ || प्. ३७३) २२१ एकपिङ्गशिलाश्रेणीशालिकेदारपिङ्गलः | नीलकण्ठारवोद्दामवनजङ्गलमण्डितः || ६ || एकपिङ्गशिला उत्कृष्टपिङ्गलवर्णा मणिविशेषास्तच्छ्रेणिसदृशैः पक्वशालिकेदारैः पिङ्गलः || ६ || सारसारवसंरम्भरणत्कनककाननः | तमालपाटलीनीलगिरिग्रामककुण्डलः || ७ || विचित्रविहगव्यूहविरावकृतकाकलिः | नदीपरिसरोन्निद्रपारिभद्रद्रुमारुणः || ८ || उन्निद्राः कुसुमिताः पारिभद्रतरवो निम्बास्तैररुणः || ८ || गायत्कलमकेदारदारिकाहृतमन्मथः | पुष्पफलचलद्वातव्याधूतकुसुमाम्बुदः || ९ || पुष्पेषु फलेषु च शिथिलितवृन्तानां पातनाय चलता वातेन व्याधूताः कुसुमलक्षणा अम्बुदा यत्र || ९ || दरीगृहविनिष्क्रान्तसिद्धचारणबन्दिकम् | स्वर्गादिव समानीय लावण्यमभिनिर्मितः || १० || मेरुदरीगृहेभ्यो विनिष्क्रान्तं सिद्धचारणबन्दिकं यस्य तथाविधं स्वर्गलावण्यं स्वर्गाद्भुवि समानीय निर्मित इवेत्यर्थः || १० || गायत्किन्नरगन्धर्वकदलीखण्डमण्डपः | मन्दानिलरवोद्भूतः पुष्पोपवनपाण्डुरः || ११ || मन्दैरनिलरवैरुद्भूत उत्कृष्टतया स्थितः | पुष्पयुक्तैरुपवनैः पाण्डुरः | एतादृश उत्तरापाण्डवो नाम जनपदोऽस्तीति प्राक्तनेन संबन्धः || ११ || तत्रास्ति लवणो नाम राजा परमधार्मिकः | हरिश्चन्द्रकुलोद्भूतो भूमाविव दिवाकरः || १२ || भूमाववतीर्णो दिवाकर इव || १२ || यद्यशःकुसुमोत्तंसपाण्डुरस्कन्धमण्डलाः | तत्र शैला विराजन्ते हाराः प्रोद्धूलिता इव || १३ || कुसुमलक्षणैरुत्तंसैः कुसुमानामुत्तंसैः रजोभिर्वा || १३ || कृपाणशकलोत्कृत्तनिःशेषारातिमण्डलः | अरातिलोकः प्राप्नोति यदनुस्मरणाज्ज्वरम् || १४ || कृपाणैः शकलानि यथा स्युस्तथा उत्कृत्तन्यत एव निःशेषाणि प्रधानारातिमण्डलानि यस्य स तथाभूतोऽरातीनां लोकः सेवकजनः || १४ || यस्योदारसमारम्भमार्यलोकानुपालनम् | चरितं संस्मरिष्यन्तिहरेरिव चिरं जनाः || १५ || आर्यलोकानां धार्मिकजनानामनुपालनं रक्षकं चरितम् || १५ || यस्याप्सरोभिरद्रीन्द्रमूर्धस्वमरसद्मसु | विकासिपुलकोल्लासं गीयन्ते गुणगीतयः || १६ || यस्य स्वःसुन्दरीगीता लोकपालचिरश्रुताः | विरिञ्चिहंसैर्ध्वन्यन्ते स्वभ्यासाद्गुणगीतयः || १७ || स्वःसुन्दरीभिरप्सरोभिर्गीता गुणगीतिप्रबन्धा विरिञ्चेर्ब्रह्मणो हंसैर्ध्वन्यन्ते | ध्वनिभिरनुक्रियन्त इति यावत् || १७ || स्वप्नेष्वपि न सामान्या यस्योदारचमत्कृतिः | राम दृष्टा श्रुता वापि दैन्यदोषमयी क्रिया || १८ || सामान्या इतरनृपसाधारणी || १८ || जिह्मतां यो न जानाति न दृष्टा येन घृष्णुता | उदारता येन धृता ब्रह्मणेवाक्षमालिका || १९ || जिह्मतां कौटिल्यम् | धृष्णुता अविनीतता | गृध्नुता इति पाठे परस्वाभिलाषिता || १९ || दिनाष्टभागमाकाशमागते दिवसाधिपे | स कदाचित्सभास्थाने सिंहासनगतोऽभवत् || २० || अष्टभागमष्टमभागम् | मुहूर्तद्वयमिति यावत् || २० || सुखोपविष्टे तत्रास्मिन्राजनीन्दाविवाम्बरे | प्रविशन्तीषु सामन्तसेनासु च ससंभ्रमम् || २१ || गायन्तीष्वथ कान्तासु सूपविष्टेषु राजसु | मनो हरति साह्लादे वीणावंशकलारवे || २२ || राजसु सामन्तेषु || २२ || चारुचामरहस्तासु सविलासासु राजनि | देवासुरगुरुप्रख्ये विश्रान्ते मन्त्रिमण्डले || २३ || सविलासासु सविलासं बीजयतीषु | देवासुरगुरू गुरुशुक्रौ तत्प्रख्ये || २३ || प्रस्तुतेषु प्रविष्टेषु राजकार्येषु मन्त्रिभिः | प्रोक्तासु देशवार्तासु निपुणैश्चारुमन्त्रिभिः || २४ || इतिहासमये पुण्ये वाच्यमाने च पुस्तके | पठत्सु च स्तुतीः पुण्याः पुरः प्रह्वेषु बन्दिषु || २५ || सभां विवेश साटोपः कश्चित्तामैन्द्रजालिकः | वर्षेणाहितसंरम्भो वसुधामिव वारिदः || २६ || साटोपः ऐन्द्रजालिकोचितवेषालंकारविरुदाडम्बरसंपन्नः | भाविना वर्षेण आहितो विद्युद्विस्फूर्जितादिसंरम्भो यस्य || २६ || स ननाम महीपालं शिखरोदारकन्धरम् | पादोपान्तगतः कान्तं शैलं फलतरुर्यथा || २७ || शिखरेण किरीटकूटेन शृङ्गैश्चोदारा कन्धरा कण्ठोऽधित्यका च यस्य | फलभारयुक्तस्तरुः फलतरुः || २७ || सच्छायस्योन्नतांसस्य फलिनः पुष्पभासिनः | स विवेश पुरो राज्ञस्तरोरग्रे कपिर्यथा || २८ || कपिरित्ययुक्तदुश्चेष्टाकारिण उचितो दृष्टान्तः || २८ || चपलो लम्पटोऽर्थानामामोदसुखमारुतम् | उवाचोत्कन्धरं भूपं सपद्ममिव षट्पदः || २९ || विलोकय विभो तावदेकामिह खरोलिकाम् | पीठस्थ एव साश्चर्यां व्योम्नि चन्द्र इवावनिम् || ३० || खरोलिकां मिथ्याकौतुकक्रीडाम् || ३० || इत्युक्त्वा पिच्छिका तेन भ्रामिता भ्रमदायिनी | नानाविरचनाबीजा मायेव परमात्मनः || ३१ || पिच्छिका मयूरबर्हमुष्टिः || ३१ || तां ददर्श महीपालस्तेजोरेणुविराजिताम् | शक्रः सुरविमानस्थः स्वकार्मुकलतामिव || ३२ || तेजोरेणुभिर्नानावर्णकान्तैः पटलैः || ३२ || प्. ३७४) २२२ सभां सैन्धवसामन्तो विवेशास्मिन्क्षणे तदा | तारापरिकरापूर्णां व्योमवीथीमिवाम्बुदः || ३३ || सैन्धवसामन्तोऽश्वपालकः || ३३ || तं चैवानुजगामाश्वः सौम्यः परमवेगवान् | देवलोकोन्मुखं तुष्टं शक्रमुच्चैःश्रवा इव || ३४ || स तमश्वमुपादाय पार्थिवं समुवाच ह | सोच्चैःश्रवा इव क्षीरसागरो मरुतां पतिम् || ३५ || सः अश्वपालकः || ३५ || इदमुच्चैःश्रवःप्रख्यं हयरत्नं महीपते | जवोड्डयनशीलेन मूर्तिमानिव मारुतः || ३६ || हयरत्नं पश्येति शेषः | जवेत्याद्युत्तरान्वयि || ३६ || अश्वोऽयमस्मत्प्रभुणा प्रभो संप्रहितस्त्वयि | राजते हि पदार्थश्रीर्महतामर्पणाच्छुभा || ३७ || महतामर्पणात् महद्भ्यो [अत्र योग्येभ्यो महद्भ्यो इति विपर्यस्तं क्वचित्पठ्यते] योग्येभ्यो दानात् || ३७ || इत्युक्तवति तस्मिंस्तु प्रत्युवाचैन्द्रजालिकः | जलदस्तनिते शान्ते चातकोऽम्बुधरं यथा || ३८ || राजानं प्रति उवाच || ३८ || सदश्वमेनमारुह्य भुवनं विहर प्रभो | स्वप्रतापाहितानल्पशोभामुर्वीं रविर्यथा || ३९ || स्वस्य प्रतापेन शौर्येणातपेन च आहितानल्पा शोभा श्रीः कान्तिश्च यस्यां ताम् || ३९ || अश्वमालोकयामास तेनोक्त इति पार्थिवः | निर्घातस्तनितं मेघं मयूर इव सूत्करः || ४० || इति तेनोक्तः पार्थिवः | सुष्ठु उत् ऊर्ध्वं करोति शिर इति सूत्करो ध्वनिविशेषकारी वा || ४० || अथानिमेषया दृष्ट्या राजा चित्रोपमाकृतिः | बभूवालोकयन्नश्वं लिपिकर्मार्पितोपमः || ४१ || लिपिकर्मार्पितश्चित्रन्यस्तस्तदुपमो निश्चलः | एतदादिः सभाजनप्रतीतिसिद्धार्थानुवादः | राजप्रतीतिदृष्टं तु अग्रे राजैव वक्ष्यति || ४१ || क्षणमालोक्य पीठस्थस्तस्थौ संस्थगितेक्षणः | दृष्ट्याऽक्षुब्धः समुद्रोऽद्रिमीनकैः करवो यथा || ४२ || यथा केन जलेन रौति ध्वनतीति करवः समुद्रः पानोद्युक्तागस्त्यदृष्ट्या आक्षुब्धः सन् स्वान्तर्गतैरद्रिमीनकैः सह संस्थगितो भयात्संस्तम्भितस्तस्थौ तद्वत् | आक्षुब्धसमुद्रादिमीनकैरिति समस्तपाठे तु करवः कस्य जलस्य रवो यथा संस्थगित इति व्याख्येयम् || ४२ || तस्थौ मुहूर्तयुग्मं स ध्यानासक्त इवात्मनि | वीतरागो मुनिः क्षुब्धः परानन्द इव स्थितः || ४३ || क्षुब्धो बाह्यदृष्टेरन्तः संचलितः | बाह्यदृष्टिशून्य इति यावत् || ४३ || बोधितः केनचिन्नासौ स्वप्रतापजितोर्जितः | धिया कामप्ययं भूयश्चिन्तां चिन्तयतीति च || ४४ || स्वप्रतापेन जिता ऊर्जिता बलवन्तो येन | हेतुगर्भं विशेषणम् || ४४ || बभूवुः केवलं तत्र निःस्पन्दसितचामराः | चामरिण्यो हि शर्वर्यः स्तम्भितेन्दुकरा इव || ४५ || विरेजुर्विस्मयापूर्णा निःस्पन्दास्ते सभासदः | निःस्पन्दकिञ्जल्कदलाः पद्माः पङ्ककृता इव || ४६ || पङ्ककृता मृन्मयाः || ४६ || प्रशशाम सभास्थाने जनकोलाहलः शनैः | प्रशान्तप्रावृषि व्योमन्याम्भोदमिव गर्जितम् || ४७ || अम्भोदस्येदमाम्भोदम् || ४७ || संदेहसागरे मग्ना जग्मुश्चिन्तां सुमन्त्रिणः | विषीदति गदापाणावसुराजाविवामराः || ४८ || असुरैः सह आजिः संग्रामस्तस्मिन् || ४८ || विततविस्मितजिह्मितया तया जनतया भयमोहविषण्णया | स्तिमितचक्षुषि भूमिपतौ स्थिते मुकुलिताब्जवनस्य धृता द्युतिः || ४९ || विततेन विस्तृतेन विस्मयेन जिह्मितया कुटिलितया | निरुत्साहीकृतयेति यावत् | तया आस्थानजनतया जनसमूहेन || ४९ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे इन्द्रजालोपाख्याने नृपव्यामोहो नाम चतुरुत्तरशततमः सर्गः || १०४ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे नृपव्यामोहो नाम चतुरुत्तरशततमः सर्गः || १०४ || पञ्चोत्तरशततमः सर्गः १०५ श्रीवसिष्ठ उवाच | मुहूर्तद्वितयेनाथ बोधमाप महीपतिः | प्रावृषेण्याम्बुनिर्मुक्तमम्बोरुहमिवोत्तमम् || १ || विमोहं स्वस्थहृदयं नृपं प्रति सभासदाम् | मोहहेतोः परिप्रश्नात्तदुक्त्यारम्भ ईर्यते || १ || प्रावृषि भवेन प्रावृषेण्येनाम्बुना || १ || आसनात्साङ्गदोत्तंसः प्रबुद्धोऽसावकम्पयत् | सवनाभोगशृङ्गाग्र्यो भूकम्प इव पर्वतः || २ || अकम्पयत् अर्थात्स्वदेहमिति गम्यते || २ || बभूवाथ प्रबुद्धोऽसावासनोपरि कम्पितः | विक्षुब्ध इव पातालवारणे शङ्कराचलः || ३ || विक्षुब्धे संचलिते पातालवारणे भूविधारके दिग्गजे | शंकराचलः कैलासः || ३ || पतन्तं धारयामासुस्तं पुरोगा नृपं भुजैः | मेरुं प्रलयविक्षुब्धं कुलशैलास्तटैरिव || ४ || कुलशैला मन्दरादयो विष्टम्भपर्वताः || ४ || पुरोगैर्धार्यमाणोऽसौ पर्याकुलमतिर्नृपः | वीचिविक्षोभितस्येन्दोर्बभार वनमाः श्रियः || ५ || इन्दोः लक्षणया इन्दूदयोद्रिक्तस्यार्णवस्य वनं जलं मिन्वन्ति उपमिन्वन्तीति वनमाः श्रियः शोभा बभार | वपुषा श्रियः इति पाठः स्पष्टः || ५ || प्. ३७५) २२२ कोऽयं प्रदेशः कस्येयं सभेति स नृपः शनैः | दध्वान मज्जदम्भोजकोशस्थ इव षट्पदः || ६ || दध्वान अस्फुटमुक्तवान् || ६ || अथोवाच सभा देव किमेतदिति सादरम् | रणन्मधुकरी भानुं दृष्टराहुमिवाब्जिनी || ७ || सभाशब्देन जना उच्यन्ते | अब्जिन्या भानुं प्रति वक्तृत्वमौत्प्रेक्षिकमत्रोपमानम् | रणन्मधुकरीत्युत्प्रेक्षोपपादकं विशेस्ऽणम् || ७ || अथैनंपरिपप्रच्छुः पुरोगा मन्त्रिणस्तथा | प्रलयोल्लाससंत्रस्तं मार्कण्डेयमिवामराः || ८ || त्वयीत्थं संस्थिते देव वयमत्यन्तमाकुलाः | अभेद्यमपि भिन्दन्ति निर्निमित्तं भ्रमा मनः || ९ || भ्रमा भ्रान्तिप्रत्यया निर्निमित्तं विनैव बाह्यं कारणं मनो भिन्दन्ति क्षोभयन्ति भयविषादादिभिरित्यर्थः || ९ || आपातरमणीयेषु पर्यन्तविरसेषु च | भोगेष्विव विकल्पेषु केषु ते लुलितं मनः || १० || भोगेषु रागादिना पृथग्जनानामिव ते केन हेतुना मनो लुलितं | व्यामूढमित्यर्थः || १० || सततोदारवृत्तासु कथासु परिशीतलम् | मनस्ते निर्मलं कस्मात्संभ्रमेषु निमज्जति || ११ || कथासु विवेकचर्चासु परिशीलनेन शीतलम् | संभ्रमेषु भयेषु || ११ || तुच्छालम्बनमालूनविशीर्णं लोकवृत्तिषु | मनो मोहमुपादत्ते न महत्त्वविजृम्भितम् || १२ || कीदृशं तर्हि मनो मोहयोग्यं तत्राहुः - तुच्छालम्बनमिति | यतस्तुच्छविषयालम्बनमतो विषये आलूने आलूनमिव विशीर्णे विशीर्णमिव लोकवृत्तिषु मोहमुपादत्त इत्यर्थः | महत्त्वविजृम्भितं विवेकपरिष्कृतम् || १२ || सातत्येन हि यैवास्य मनसो वृत्तिरुत्थिता | शरीरमदमत्तासु तामेवैतद्विधावति || १३ || शरीरमदो देहाभिमानस्तेन मत्तासु अस्पृष्टविवेकासु दशासु अस्य मनसो यैव स्त्रीपुत्रादिविषये वृत्तिरुत्थिता तामेव विधावति || १३ || अतुच्छालम्बनं धीरं प्रबुद्धं गुणहारि च | तवापि हि मनश्चित्रमालूनमिव लक्ष्यते || १४ || तव मनस्तु न तथेत्याहुः - अतुच्छेति || १४ || अनभ्यस्तविवेकं हि देशकालवशानुगम् | मन्त्रौषधिवशं याति मनो नोदारवृत्तिमत् || १५ || नित्यमात्तविवेकस्य कथमालूनशीर्णता | धुनोति विततं चेतो वात्येव विबुधाचलम् || १६ || विततं विवेकविस्तृतम् | विबुधाचलं मेरुम् || १६ || इति जातानुगीर्णस्य भूपतेः कान्तिराननम् | भूषयामास शीतांशुं मासान्त इव पूर्णता || १७ || जातेन स्वजनसमूहेन अनुगीर्णस्य अनुकूलगीर्भिराश्वासितस्य | मासान्ते पौर्णमास्याम् || १७ || रराज राजा सौम्यास्यमुन्मीलितविलोचनः | गते हिमर्तावुल्लासिपुष्पौघ इव माधवः || १८ || हिमर्तौ शिशिरे | माधवो वसन्तः || १८ || अथातिसंभ्रमाश्चर्यखिन्नास्मृतिमुखो बभौ | आसन्नमृत्युरालोक्य राहुमिन्दुरिवाम्बरे || १९ || अथासन्नमृत्युः संनिहितास्तमय इन्दुः राहुमिवैन्द्रजालिकमालोक्य अतिसंभ्रमेण भयेन आश्चर्येण च खिन्नं आस्मृत्या आध्यानेन पूर्वापरसर्ववृत्तान्तप्रतिसंधानेनोपलक्षितं मुखं यस्य तथाविधो बभौ | आसन्नो मृत्युर्ग्रसनं यस्य || १९ || ऐन्द्रजालिकमालोक्य प्रोवाचाथ हसन्निव | बभुं हिंसात्मकं दृष्ट्वा सर्परूपीव तक्षकः || २० || बभ्रुं नकुलम् | सर्परूपी क्षुद्रसर्पवेषप्रच्छन्नस्तक्षको नागराजः || २० || जाल्म जालजटालेन किमेतद्भवतां कृतम् | येनास्पन्दप्रसन्नोऽब्धिः क्षणादेत्य प्रसन्नताम् || २१ || हे जाल्म असमीक्ष्यकारिन् जालेन मायावागुरया जटालेनेव | अब्धिपदेन तत्सदृशं स्वमनो गौण्योच्यते || २१ || चित्रं चित्रा हि देवस्य पदार्थशतशक्तयः | सुशक्तमपि मे चित्तं याभिर्मोहे निवेशितम् || २२ || चित्रमित्यस्य निवेशितमित्यत्रान्वयः || २२ || क्व वयं लोकपर्यायकृतान्तपदवेदिनः | क्व मनोमोहदायिन्यो वितताः प्रकृतापदः || २३ || चित्रतामेवाभिनयन्नाह - क्वेति | लोकपर्याया लोकप्रसिद्धसर्वव्यवहारास्तेषां कृतान्तपदस्य सिद्धान्तरहस्यस्य वेदिनो बोद्धारः | प्रकृताः सांप्रतमनुभूता आपदः || २३ || अप्यभ्यस्तमहाज्ञानं मनस्तिष्ठति देहके | कदाचिन्मोहमादत्ते क्षणं मतिमतामपि || २४ || अभ्यस्तमहाज्ञानमपि मनः कदाचिद्देहके तिष्ठति | विद्यमानेऽपि स्वप्नेन्द्रजालानां मोहं आदत्ते || २४ || इदमाश्चर्यमाख्यानं श्रूयतां रे सभासदः | मम शाम्बरिकेणेह यन्मुहूर्तं प्रदर्शितम् || २५ || शम्बरस्य माया शाम्बरी सास्यास्तीति शाम्बरिकस्तेन || २५ || दृष्टवानहमेतस्मिन्बह्वीः कार्यदशाश्चलाः | मुहूर्तं प्रार्थितोऽध्वस्तशक्रसृष्टिरिवाब्जजः || २६ || अध्वस्तशक्रसृष्टिरिति च्छेदः | पुरा किल बलिः क्वचिदसहायं शक्रमासाद्य बलेर्निगृह्याहर्तुकामः शक्रेण मायया स्वसैन्यं सृष्ट्वा बलिं मायाबन्धेन मोहयामास | तदा बलिना स्वबन्धनमोक्षणाय स्तुत्या प्रसादितो ब्रह्मा तत्रागत्य शाक्रीं सृष्टिं ध्वंसयितुं प्रवृत्तः शक्रप्रार्थनया अध्वस्तशक्रसृष्टिर्मुहूर्तमात्रं तन्मायाकौतुकं यथा दृष्टवांस्तद्वदित्यर्थः || २६ || इत्युक्त्वोन्मुखनेत्रेषु सभ्येषु स हसन्निव | राजा वर्णयितुं चित्रं वृत्तान्तमुपचक्रमे || २७ || प्. ३७६) २२३ राजोवाच | इह विविधपदार्थसंकुलायां ह्रदनदपत्तनपर्वताकुलायाम् | कुलशिखरिसमुद्रसंकरायां भुवि विभवावलितोऽस्त्ययं प्रदेशः || २८ || वक्ष्यमाणोपोद्घातेन प्रथमं सर्वजनप्रसिद्धभूम्यन्तर्गतस्वदेशसत्तामनुवदति - इहेति | पर्वतग्रहणेन प्राप्तानामपि कुलशिखरिणां पुनर्ग्रहणं ब्राह्मणपरिव्राजकन्यायेन श्रैष्ठ्यार्थम् | संकीर्यत इति संकरा | कृञः शच इति कर्मणि बाहुलकात् शः | संकटायाम् इति पाठे तु दुर्गमायामित्यर्थः || २८ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० उ० इन्द्रजालोपाख्याने राजावबोधो नाम पञ्चोत्तरशततमः सर्गः || १०५ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे राजावबोधो नाम पञ्चोत्तरशततमः सर्गः || १०५ || षडुत्तरशततमः सर्गः १०६ राजोवाच | अस्ति तावदयं देशो नानावननदीयुतः | वसुधामण्डलस्यास्य सहोदर इवानुजः || १ || इहाश्वेनापनीतस्य वने चण्डालकन्यया | समयात्पक्कणं नीत्वा विवाहः स्वस्य वर्ण्यते || १ || समानार्थः सहशब्दः | सहोदरः समानोदरोद्भव इवेत्यर्थः || १ || अस्मिंश्चायमहं राजा पौराभिमतवृत्तिमान् | इन्द्रः स्वर्ग इवास्यां तु सभायां मध्यसंस्थितः || २ || यावदभ्यागतो दूरात्कश्चिच्छाम्बरिकस्त्वयम् | रसातलादभ्युदितो मायी मय इव स्वयम् || ३ || यावदिति प्राकाश्ये निपातो नतु वतुबन्तः | प्रत्यक्षमभ्यागत इत्यर्थः || ३ || अनेन भ्रमिताद्येह पिच्छिका तेजसोर्जिता | कल्पान्तपवनाभ्रेण शक्रचापलता यथा || ४ || भ्रमिता | भ्रमेर्णिचि मितां ह्रस्वः || ४ || आलोक्यैतामहं लोलामस्याश्वस्य पुरः स्थितः | पृष्ठमारूढवानेक आत्मना भ्रान्तमानसः || ५ || एकोऽसहायः || ५ || ततोऽर्द्रिं प्रलयक्षुब्धं पुष्करावर्तको यथा | तथा चलन्तं चलितः स्वश्वमारूढवानहम् || ६ || प्रलयक्षुब्धं उत्पातवशादेव चलन्तमद्रिमारूढः पुष्करावर्तको मेघराजो यथा चलितस्तथाहं चलित इत्यन्वयः || ६ || गन्तुं प्रवृत्तो मृगयामेकोऽहमतिरंहसा | उर्वरामिव निर्भर्तुः कल्लोलः प्रलयाम्बुधेः || ७ || उर्वरां सर्वसस्याढ्यभूमिम् | निर्भर्तुर्निर्भरवतः प्रवृद्धस्येति यावत् | कल्लोलो बृहत्तरङ्गः || ७ || तेनानिलविलोलेन दूरं नीतोऽस्मि वाजिना | योगाभ्यासजडेनाज्ञो मुग्धस्य मनसा यथा || ८ || मुग्धः स्वमनसा इति पाठः स्पष्टः | मुग्धस्य मनसा इति पाठे मुग्धस्यापातरमणीयस्य विषयजातस्य भोगाभ्यासेन जडेनेत्यर्थः | असमर्थसमासश्छान्दसः || ८ || अकिंचनमनःशून्यं स्त्रीचित्तमिव निर्भरम् | ततः प्रलयनिर्दग्धजगदास्पदभीषणम् || ९ || अकिंचनस्य यतेर्मन इव शून्यं निर्विषयम् | निर्भरं लघु विषमं वा | जगदास्पदं ब्रह्माण्डम् || ९ || निष्पक्षिक्षारनीहारं निर्वृक्षमजलं महत् | संप्राप्तोऽहमपर्यन्तमरण्यं श्रान्तवाहनः || १० || क्षारनीहारं दुःसहशीतम् || १० || तद्द्वितीयमिवाकाशं तथाष्टममिवाम्बुधिम् | पञ्चमं सागरमिव संशुष्कं शून्यकोटरम् || ११ || स्वादूदकार्णवात्परतोऽष्टममम्बुधिं प्राग्वर्णितभूपरिखागर्तमिव | जम्बूद्वीपान्तश्चतुर्दिशं चतुःसागरप्रसिद्धेस्तत्र पञ्चमं सागरमिव || ११ || ज्ञस्येव विततं चेतो मूर्खस्येव रुषाऽजवम् | अदृष्टजनसंसर्गमजाततृणपल्लवम् || १२ || ज्ञस्य तत्त्वविदो ब्रह्माकारं चेत इव विततमपरिच्छेद्यम् | मूर्खस्य रुषा [टाबन्तमिदं रुषा इति] क्रोध इव अजवं दुर्गमं विषममिति [विषयं इति पाठः] यावत् || १२ || अरण्यमिदमासाद्य मतिर्मे खेदमागता | ललनेवैत्य दारिद्र्यं निरन्नफलबान्धवम् || १३ || दारिद्र्यमेत्य प्राप्य स्थिता ललनेव स्थितमिति शेषः | सीदता मयेति व्यवहितेन वान्वयः || १३ || कचन्मरुमरीच्यम्बुपुरःप्लुतककुम्मुखम् | आसूर्यास्तं दिनं तत्र प्रक्रान्तं सीदता मया || १४ || मरुमरीच्यम्बुभिः पुरोभागे प्लुतानि आप्लावितानि ककुम्मुखानि यत्र || १४ || तदरण्यं मयातीतमतिकृच्छ्रेण खेदिना | विवेकिनेव संसारो मध्यशून्यतताकृति || १५ || यदेतेनातिवाह्याहं प्राप्तवाञ्जङ्गलं क्रमात् | अस्ताद्रिसानुं खिन्नाश्वः शून्यभ्रान्त्येव भास्करः || १६ || एतेनाश्वेन | शून्यभ्रान्त्या आकाशगमनेन | प्राप्तवानित्यस्य यत्र स्फुरन्ति तत्रेति परेण संबन्धः || १६ || जम्बूकदम्बप्रायेषु कलालापाः पतत्रिणः | यत्र स्फुरन्ति खण्डेषु पान्थानामिव बान्धवाः || १७ || यत्र शष्पशिखाश्रेण्यो दृश्यन्ते विरलाः स्थले | कदर्थलक्ष्म्या जिह्मस्य हृदीवानन्दवृत्तयः || १८ || कदर्थलक्ष्म्या अधर्मार्जितधनेन | जिह्मस्य कुटिलजनस्य || १८ || पूर्वादरण्यादरसात्तद्धि किंचित्सुखावहम् | अत्यन्तदुःखान्मरणाद्वरं व्याधिर्हि जन्तुषु || १९ || प्. ३७७) २२३ तत्र जम्बीरखण्डस्य तलं संप्राप्तवानहम् | मार्कण्डेय इवागेन्द्रमेकार्णवविहारतः || २० || अगेन्द्रं वृक्षश्रेष्ठं विष्ण्वधिष्ठितवटम् || २० || आलम्बिता मया तत्र स्कन्धसंसर्गिणी लता | नीला जलदमालेव तापतप्तेन भूभृता || २१ || आलम्बिता अश्वपरित्यागार्थमवलम्बिता || २१ || मयि प्रलम्बमानेऽस्यां प्रयातः स तुरङ्गमः | गङ्गावलम्बिनि नरे यथा दुष्कृतसंचयः || २२ || चिरं दीर्घाध्वगः खिन्नस्तत्र विश्रान्तवानहम् | भानुरस्ताचलओत्सङ्गे तले कल्पतरोरिव || २३ || यावत्समस्तसंसारव्यवहारभरैः समम् | रविर्विश्रमणायेव निविष्टोऽस्ताचलाङ्गणे || २४ || यावत्समस्तसंसारव्यवहारैः सह रविरस्ताचलोपलक्षिते उदयाद्र्यन्ते गगनाङ्गणे निविष्टस्तावदहं तस्मिंस्तरुगणे निलीन इति व्यवहितेनान्वयः || २४ || शनैः श्यामिकया ग्रस्ते समस्ते भुवनोदरे | रात्रिसंव्यवहारेषु संप्रवृत्तेषु जङ्गले || २५ || अहं तरुतृणे तस्मिन्पेलवे खण्डकोटरे | निलीनश्चिरलीनास्यः स्वनीडे विहगो यथा || २६ || चिरं लीनं स्वपक्षपुटे गोपितमास्यं चञ्चुपुटं येन तथाविधो विहगो यथा तथा || २६ || विषदष्टविवेकस्य कीनाशस्य गलत्स्मृतेः | विक्रीतस्येव दीनस्य मग्नस्येवान्धकूपके || २७ || विषशब्देन विषधरः कीनाशशब्देन मृत्युवशश्च लक्षणयोच्यते || २७ || तत्र कल्पसमा रात्रिर्मोहमग्नस्य मे गता | एकार्णवोह्यमानस्य मार्कण्डेयमनेरिव || २८ || न स्नातवान्नार्चितवान्न तदा भुक्तवानहम् | केवलं मे गता रात्रिः सापदां धुरि तिष्ठतः || २९ || सापदां आपद्युक्तजनानां सा रात्रिरिति वा || २९ || विनिद्रस्य विधैर्यस्य स्फुरतः सह पल्लवैः | समं दुष्टातिदैर्घ्येण सा व्यतीयाय शर्वरी || ३० || पल्लवैः सह स्फुरतः कम्पमानस्य | दुष्टेन दुरुत्तरेणातिदैर्घ्येण समं साकम् || ३० || ततस्तिमिरलेखासु सह तारेन्दुकैरवैः | मयीवापाद्यमानासु म्लानतामलमानने || ३१ || ततः पूर्वां दिशं प्राप्तमधुपानारुणामिव दृष्टवानिति तृतीयेनान्वयः | तारेण्दुकैरवैः सह तिमिरलेखासु म्लानतामप्रसन्नतामापाद्यमानासु | तासामुपमानं मयीवेति | तारकेन्दुकैरवाणामुपमानमानने इत्यनेनार्थादाननमिन्दोर्नेत्रे कैरवाणां तत्तारके ताराणामुपमानमिति गम्यते || ३१ || शाम्यन्तीषु च वेतालक्ष्वेडासु जवजङ्गले | सहशीतार्तिमद्दन्तपङ्क्तिटाङ्कारसीत्कृतैः || ३२ || क्ष्वेडासु सिंहनादेषु | जवजङ्गले दीर्घारण्ये | जङ्गलेऽसहेति प्रश्लेषः | असहा दुःसहा या शीतार्तिस्तद्वतां प्राणिनां दन्तपङ्क्तिघट्टनटाङ्कारसीत्कारैर्मामेव हसन्तीमिवेति देशो विशेषणम् || ३२ || मामेवार्तिविनिर्मग्नं हसन्तीमिव दृष्टवान् | अहं पूर्वां दिशं प्राप्तमधुपानारुणामिव || ३३ || क्षणादज्ञ इव ज्ञानं दरिद्र इव काञ्चनम् | दृष्टवानहमर्कं खे वारणारोहणोन्मुखम् || ३४ || वारणाः प्राच्यामैरावताख्यो दिग्गजस्तदारोहणं तत ऊर्ध्वभावस्तदुन्मुखम् || ३४ || उत्थायास्तरणं वस्त्रं तत्तदास्फोटितं मया | हस्तिचर्महरेणेव संध्यानृत्यानुरागिणा || ३५ || आस्तरणं वस्त्रमास्फोटितं विधूनितम् || ३५ || प्रवृत्तस्तामहं स्फारां विहर्तुं जङ्गलस्थलीम् | कालो जगत्कुटीं कल्पदग्धभूतगणामिव || ३६ || कालः कालरुद्रः | कल्पः प्रलयः || ३६ || न किंचिद्दृश्यते तत्र भूतं जरठजङ्गले | अभिजातो गुणलवो यथा मूर्खशरीरके || ३७ || अभिजातो हृद्यः || ३७ || केवलं विगताशङ्कं खण्डभ्रमणचञ्चलम् | चीचीकूचीतिवचना विहरन्ति विगङ्गमाः || ३८ || केवलं निष्फलवनखण्डभ्रमणेन चञ्चलं जातिचापल्यं यथा स्यात्तथा विहरन्ति तत्रेति शेषः || ३८ || अथाष्टभागमापन्ने व्योम्नो दिवसनायके | शुष्कावश्यायलेशासु स्नातास्विव लतासु च || ३९ || अवश्यायलेशा नीहारजलकणाः || ३९ || दृष्टा मया प्रभ्रमता दारिकौदनधारिणी | गृहीतामृतसत्कुम्भा दानवेनेव माधवी || ४० || दारिका दन्या | माधवी स्त्रीवेषधरो हरिरिव || ४० || तरत्तारकनेत्रां तां श्यामामधवलाम्बराम् | अहमभ्यागतस्तत्र शर्वरीमिव चन्द्रमाः || ४१ || तरत्तारका एव नेत्राणि यस्याः || ४१ || मह्यमोदनमाश्वेतद्वाले बलवदापदि | देहिदीनार्तिहरणात्स्फारतां यान्ति संपदः || ४२ || बलवत्यां प्राणात्ययपर्यन्तायाम् | तथाच स्मृतिः - जीवितात्ययमापन्नो योऽन्नमत्ति यतस्ततः | लिप्यते न स पापेन पद्मपत्रमिवाम्भसा || इति | सर्वान्नानुमतिः प्राणात्यये तद्दर्शनात् इति बादरायणसूत्रं चेति भावः || ४२ || क्षुदन्तर्महतीयं मे बाले वृद्धिमुपेयुषी | कृष्णसर्पा प्रसूतेव कोटरस्था जरद्द्रुमे || ४३ || प्रसूता जातापत्या | सा हि स्वाण्डान्यपि ग्रसतीति क्षुधाया अनुचितकारिणीत्वद्योतनार्थ विशेषणम् | तथाचाहुः अस्य दग्धोदरस्यार्थे को न कुर्यादसांप्रतम् इति || ४३ || याच्ञयापि तया मह्यमित्थं दत्तं न किंचन | यत्नप्रार्थनया लक्ष्म्या यथा दुष्कृतिने धनम् || ४४ || यत्नयुक्तया प्रार्थनया यत्नप्रार्थनया || ४४ || केवलं चिरकालेन मयात्यन्तानुगामिना | खण्डात्खण्डं निपतति च्छायाभूते पुरःस्थिते || ४५ || एकस्माद्वनखण्डाद्वनखण्डान्तरं निपतति अनुगच्छति | अत एव च्छायाभूते || ४५ || प्. ३७८) २२५ तयोक्तं हारकेयूरिंश्चण्डालीं विद्धि मामिति | राक्षसीमिव सुक्रूरां पुरुषाश्वगजाशनाम् || ४६ || हारकेयूरिन्नित्यनेनोत्तमजातिसूचनेन मदन्नमभोज्यमिति द्योतितम् || ४६ || राजन्यार्चनमात्रेण मत्तो नाप्नोषि भोजनम् | ग्राम्यादनभिजातेहात्सौजन्यमिव सुन्दरम् || ४७ || अनभिजातेहादसंपन्नाभिलाषात् | ग्राम्यात् ग्रामीणजनात् | सौजन्यं सौहार्दमिव || ४७ || इत्युक्तवत्या गच्छन्त्या खेलया च पदे पदे | कुञ्जकेषु निमज्जन्त्या लीलावनतयोदितम् || ४८ || मज्जन्त्या लीयमानया | लीलाभिः स्वाभिप्रेतार्थसूचककटाक्षादिचेष्टाभिरवनतया प्रह्वीभूतया || ४८ || ददामि भोजनमिदं भर्ता भवसि चेन्मम | लोको नोपकरोत्यर्थैः सामान्यः स्निग्धतां विना || ४९ || सामान्यो लोकः पृथग्जनः || ४९ || वाहयत्यत्र मे दान्तान्केदारे पुल्कसः पिता | श्मशान इव वेतालः क्षुधितो धूलिधूसरः || ५० || दान्तान् बलीवर्दान् वाहयति | कर्षतीति यावत् || ५० || तस्येदमन्नं भवति भर्तृत्वे दीयते स्थिते | प्राणैरपि हि संपूज्या वल्लभाः पुरुषा यतः || ५१ || त्वयि भर्तृत्वे स्थिते सति दीयते || ५१ || अथोक्ता सा मया भर्ता भवामि तव सुव्रते | केनापदि विचार्यन्ते वर्णधर्मकुलक्रमाः || ५२ || ततस्तयौदनादर्धं मह्यमेकं समर्पितम् | माघव्येवामृतादर्धमिन्द्रायार्तिमहत्पुरा || ५३ || माधव्या इन्द्राय दत्तममृतादर्धमिव | आर्त्या क्षुत्पीडया महद्बहुमतमिति यावत् || ५३ || जम्बूफलरसः पीतः स भुक्तः पक्वणौदनः | विश्रान्तं च मया तत्र मोहापहतचेतसा || ५४ || मां तत्रार्कमिवापूर्य सा प्रावृट् श्यामला गता | हस्तेन समुपादाय प्राणं बहिरिव स्थितम् || ५५ || आपूर्य तिरोधाय || ५५ || दुराकृतिं दुरारम्भमाससाद भयप्रदम् | पितरं पीवराकारमवीचिमिव यातना || ५६ || अवीचिं नरकविशेषम् || ५६ || तया मदनुषङ्गिण्या स्वार्थस्तस्मै निवेदितः | मातङ्गाय भ्रमर्येव निःस्वनेनालिलग्नया || ५७ || मातङ्गाय चाण्डालाय निवेदितः | कर्णे इति शेषः | अत एवालिना भ्रमरान्तरेण लग्नया भ्रमर्येवेत्युपमा || ५७ || अयं मम भवेद्भर्ता तात हे तव रोचताम् | स तस्या बाढमित्युक्त्वा दिनान्ते समुपस्थिते || ५८ || मुमोच दान्तावाबद्धौ कृतान्तः किङ्कराविव | नीहाराभ्रकडारासु दिक्षु प्रोद्धूलितासु च | वेतालबन्धनात्तस्माद्दिनान्ते चलिता वयम् || ५९ || कडारासु कपिलासु | वेतालबन्धनात्पिशाचनिवासात्तस्माद्वनात् || ५९ || क्षणेन पक्कणं प्राप्ताः संध्यायां दीर्घजङ्गलात् | श्मशानादिव वेतालाः श्मशानमितरन्महत् || ६० || विकर्तितविभागस्थकपिकुक्कुटवायसम् | रक्तसिक्तोर्वराभागप्रभ्रमन्मक्षिकागणम् || ६१ || विकर्तिता अपि पुनः कर्तनेन विभागस्थाः || ६१ || शोषार्थं प्रसृतार्द्रान्त्रतन्त्रीजालपतत्खगम् | निष्कुटस्थितजम्बीरखण्डलग्नखगध्वनि || ६२ || निष्कुटेषु गृहारामेषु || ६२ || शुष्यद्गुरुवसापिण्डपूर्णालिन्दलसत्खगम् | दृष्टिप्रसृतरक्ताक्तचर्मस्रवदसृगलवम् || ६३ || अलिन्दो बहिर्द्वारप्रकोष्ठः || ६३ || बालहस्तस्थितक्रव्यपिण्डक्कणितमक्षिकम् | जर्जराधिष्ठचण्डालतर्जितारटितार्भकम् || ६४ || जर्जरैर्वृद्धैरधिष्ठैः श्रेष्ठैश्चण्डालैः || ६४ || तत्प्रविष्टा वयं कीर्णशिरान्त्रं भीमपक्कणम् | मृतभूतं जगत्कल्पे कृतान्तानुचरा इव || ६५ || मृतानि भूतानि प्राणिनो यत्र | कल्पे प्रलयकाले || ६५ || संभ्रमोपहितानल्पकदलीदलपीठके | अहमास्थितवांस्तत्र नवे श्वशुरमन्दिरे || ६६ || संभ्रमेणादरातिशयेन उपहिते आस्तीर्णे पीठके आसने || ६६ || श्वश्वा मे केकराक्ष्या तु तेनासृग्लवचक्षुषा | जामातायमिति प्रोक्तं तया तदभिनन्दितम् [सदभिनन्दितम् इति पाठः] || ६७ || अथ विश्रम्य चण्डालभोजनान्यजिनासने | संचितान्युपभुक्तानि दुष्कृतानीव भूरिशः || ६८ || अनन्तदुःखबीजानि न मनोज्ञतराण्यपि | तानि प्रणयवाक्यानि श्रुतान्यसुभगान्यलम् || ६९ || निरभ्राम्बरनक्षत्रे कस्मिंश्चिद्दिवसे ततः | तैस्तैराम्भसंरम्भैस्तैर्वस्त्रविभवार्पणैः || ७० || तैस्तैश्चण्डालोत्सवोचितैर्मद्यमांसादिसंचयारम्भोद्योगैः || ७० || दत्ताप्यनेन सा मह्यं कुमारी भयदायिनी | सुकृष्णा कृष्णवर्णेन दुष्कृतेनेव यातना || ७१ || सरभसमभितो विनेदुरत्र प्रसृतमहामदिरासवाः श्वपाकाः | हतपटुपटहा विलासवन्तः स्वयमिव दुष्कृतराशयो महान्तः || ७२ || अत्रास्मिन्विवाहोत्सवे | मदिरासवपदाभ्यां तन्मदो लक्ष्यते | महान्तो ब्रह्महत्यादयः || ७२ || इत्यार्षे श्रीवासिष्ठमहारामायणे मो० उत्पत्तिप्रकरणे इन्द्रजालोपाख्याने चाण्डालीविवाहो नाम षडुत्तरशततमः सर्गः || १०६ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे चाण्डालीविवाहो नाम षडुत्तरशततमः सर्गः || १०६ || प्. ३७९) २२५ सप्तोत्तरशततमः सर्गः १०७ राजोवाच | बहुनात्र किमुक्तेन सोत्सवावर्जिताशयः | तदाप्रभृति तत्राहं संपन्नः पुष्टपुल्कसः || १ || अत्र स्वस्य चिरं तत्र वसतः षष्टिहायनान् | चण्डालोचितकृत्येन जीवनं यत्तदुच्यते || १ || सोत्सवेनोत्सवसहितेन विवाहेन आवर्जिताशयो वशीकृतचित्तः || १ || सप्तरात्रोत्सवस्यान्ते क्रमान्मासाष्टके गते | पुष्पिता सास्य संपन्ना स्थिता गर्भवती ततः || २ || सा भार्या | अस्य मम | पुष्पिता ऋतुमती || २ || प्रसूता दुःखदां कन्यां विपद्दुःखक्रियामिव | सा कन्या ववृधे शीघ्रं मूर्खचिन्तेव पीवरी || ३ || पुनः प्रसूता सा वर्षैस्त्रिभिः पुत्रमशोभनम् | अनर्थमिव दुर्बुद्धिराशापाशविधायकम् || ४ || पुनः सुतां दुहितरं पुनरप्यर्भकं ततः | कलत्रवानहं जातो वने जरठपुल्कसः || ५ || कलत्रवान् कुटुम्बी || ५ || तया सह समास्तत्र मया बह्व्योऽतिवाहिताः | नारके चिन्तया सार्धं ब्रह्मघ्नेनेव यातनाः || ६ || शीतवातातपक्लेशविवशेन वनान्तरे | चिरं विलुलितं वृद्धकच्छपेनेव पल्वले || ७ || कलत्रचिन्ताहतया धिया संदह्यमानया | दृष्टाः कष्टसमारम्भा दिशः प्रज्वलिता इव || ८ || क्षौमानेकसमाक्षीणपटे चेण्डकधारिणा | काष्ठभारो वने व्यूढो यो मूर्तमिव दुष्कृतम् || ९ || क्षौमे अतसीवल्कलविकारे अनेकसमाभिराक्षीणे जीर्णे पटे | चेण्डकं तृणादिनिर्मितं वलयाकारं भारोद्वहनशिरस्त्राणम् || ९ || यौकाकीर्णजरत्क्लिन्नगन्धिकौपीनवाससा | आश्वस्य धवलीकानां तले नीता घनाः समाः || १० || यूकानां समूहो यौकम् | जरज्जीर्ण दुर्गन्धि च कौपीनमेव वासो यस्य | आश्वस्य विश्रम्य | धवलीकानां वृक्षविशेषाणाम् || १० || कलत्रापूरणोत्केन जर्जरेण हिमानिलैः | हेमन्ते दर्दुरेणेव विलीनं वनकुक्षिषु || ११ || दर्दुरेण मेकेन || ११ || नानाकलहकल्लोलतापप्रसरविद्रुताः | बाष्पव्याजेन निर्मुक्ता नेत्राभ्यां रक्तबिन्दवः || १२ || तापप्रसरादिव विद्रुता विलीनाः || १२ || यामिन्यो विपिने क्लिन्ने वराहामिषभोजनाः | शिलातलकुटीकोशे नीता जलदविक्लवाः || १३ || काले क्षयं गते रोहे कालभ्रघनतां गते | असौहार्देन बन्धूनां कलहैश्चापि संततैः || १४ || कालवर्णैरभ्रैर्घनतां निबिडतां गते रोहे सर्वबीजप्रादुर्भावहेतौ वर्षाकाले क्षयं गते सति || १४ || सर्वत्र जातशङ्केन कलाभिमुखरार्भकैः | मया कृपणचित्तेन नीताः परगृहे समाः || १५ || अर्भकैः सहेति शेषः | परगृहे चाण्डालान्तरगेहे || १५ || चण्डालीकलहोद्विग्नचण्डचण्डालतर्जनैः | मुखं जर्जरतां यातमिन्दू राहुरदैरिव || १६ || राहोः रदैर्दन्तैरिन्दुरिव || १६ || चर्विताः खर्वितोष्ठेन द्वीपीपिशितपेशयः | नारकाहृतविक्रीता नारक्यो रशना इव || १७ || नारकैराहृता नारकेभ्यो विक्रीताः | अनेन नरकेऽपि क्रयविक्रयपातकिनां तदनुरूपो व्यवहारोऽस्तीति गम्यते | रशनाः आन्त्ररज्जवः || १७ || हिमवत्कन्दरोद्गीर्णाश्चण्डा हेमन्तवीचयः | शिशिरे शीकरासारतुषारनिचयाश्चिरम् || १८ || अङ्गे निरम्बरे सोढा मृत्युमुक्ता इवेषवः | जराजरठमूढेन मूलानि क्षीणभूरुहाम् [क्षीरभूरुहां इति पाठः] || १९ || सुकृतानामिवैकेन समुत्खातानि भूरिशः | शरावकेष्.वटव्यां च पललं पक्वमादरात् || २० || अस्पृष्टेन जनैर्भुक्तं कुकलत्रवता मया | गृहीततेजःक्षतये बहुवक्त्रविकारिणा || २१ || गृहीतस्य तेजसः क्षतये || २१ || मार्गाविकमिवात्मीयं विक्रीतं पण्यमन्यतः | प्राण्यङ्गवपुषस्तस्य प्रोत्कृत्त्योत्कृत्त्य पशलः || २२ || मृगाणां मांसं मार्गम् | अवेर्मांसं आविकम् | अन्यतः अन्येभ्यः पण्यं क्रीतं तदात्मीयं स्वदेहमांसमिव क्रीतमिति जुगुप्सोक्तिः || २२ || आयसंपरि विक्रीता विन्ध्यपक्वणभूमिषु | जन्मान्तरसहस्रोत्थं स्वपापमिव वृद्धये || २३ || आयसंपरि अयःपात्रे निधाय संस्कृत्य वेत्यर्थः | वृद्धये अधिकमूल्यलाभार्थं विक्रीताः || २३ || अविकीर्णमसत्कीर्णं चण्डालारामभूमिषु | दृष्टः कुद्दालको दृष्ट्या संध्यास्नेहविमुक्तया || २४ || विक्रीतशिष्टं तु चण्डालारामभूमिषु शोषणार्थमवकीर्णम् | असद्भिरपवित्रैर्मलमूत्रादिभिः कीर्णं व्याप्तम् | रौरवापतितेनेवात्यन्तदुर्दशां प्राप्तेन विन्ध्यपर्वतगुल्मानां बन्धुतां पोष्यतां गच्छतेव स्थितेन मया संध्यायां स्नेहेन विमुक्तया | कन्दमूलमांसाद्यर्जनविघ्नभूतसंध्याकालद्वेष्ट्र्येति यावत् | तथाविधया दृष्ट्या बुद्ध्या कुद्दालकः खनित्रविशेष एव पोषकत्वात्तत्कालस्निग्धतां तत्कालोचितमित्रतां गतो दृष्टो नान्य इति द्वयोरन्वयेनार्थः || २४ || रौरवापतितेनेव तत्कालस्निग्धतां गतः | विन्ध्यकन्दरगुल्मानां बन्धुत्वमिव गच्छता || २५ || पुलिन्दवपुषा यत्र युक्तयोगैः समर्पिताः | तर्पिता लगुडाघातजितकौलेयरंहसा [लगुडात्काल इति पाठः] || २६ || यत्र यस्यां दुर्दशायां युक्तयोगैः परम्परासंबन्धैर्दैवेन समर्पिताः पुत्रदारादयो लगुडाघातैर्यष्टिताडनैर्जितकौलेयरंहसा निवारितशुनकोपद्रवेण मया कदन्नेन तर्पिताः || २६ || प्. ३८०) २२६ पुत्रदाराः कदन्नेन ग्रामकान्धोचितेन च | धारासाररणात्पत्रशुष्कतालतले निशाः || २७ || ग्रामकः [ग्रामकाः कुग्रामाः इति पाठः] कुग्रामस्तत्र येऽन्धास्तदुचितेन कोद्रवकणपिन्याआदिना || २७ || नीता रणितदन्तेन सार्धं विपिनवानरैः | रोमभिः कोटिमुद्रोद्यैः शीतेनाध्युषितस्य मे || २८ || कोटिर्मुक्तावेधनसूच्यग्रं तस्य मुद्रां साम्यमुद्यन्ति ऊर्ध्वभागे प्राप्नुवन्तीति कोटिमुद्रोद्यानि || २८ || वर्षासु मुक्ताकणवद्धृता वानलबिन्दवः | अजाजीमूतखण्डार्थं क्षुत्क्षुण्णक्षीणकुक्षिणा || २९ || वनं जलं लाति आददातीति वनलो मेघस्तत्संबन्धिनो वानलाबिन्दवः | जीमूतखण्डो मेघलेश इव तुच्छो मांसखण्डस्तदर्थम् || २९ || कलत्रेण सहाटव्यां कृतः कलह आकुलः | वने रणितदन्तेन शीतकेकरचक्षुषा || ३० || मपीमलिनगात्रेण वेतालस्वजनायितम् | सरित्तीरेषु मत्स्यार्थं भ्रान्तं वडिशधारिणा || ३१ || वेतालस्य स्वजनो बन्धुस्तद्वदाचरितं वेतालवत्स्थितमिति यावत् || ३१ || कल्पे जगत्सुनाशार्थं कृतान्तेनेव पाशिना | पीतं बहुपवासेन सद्यःकृत्तमृगोरसः || ३२ || सद्यःकृत्तस्य शरच्छिन्नस्य मृगस्य उरसो वक्षसः || ३२ || तत्कालकोष्णं रुधिरं मातुः स्तनपयो यथा | श्मशानसंस्थितान्मत्तो रक्तरक्तान्मलाशिनः || ३३ || कोष्णं कयोष्णम् | रक्तेन रुधिरेण रक्ताद्रञ्जितान् मत्तो मलाशिनः अपवित्रश्मशानबलिमांसाद्यशनशीलात् || ३३ || विद्रुता वनवेतालाश्चण्डिकाभिद्रुता इव | वागुरा विपिने व्युप्ता बन्धार्थं मृगपक्षिणाम् || ३४ || विद्रुताः भयात्पलायिताः | व्युप्ताः प्रसारिताः || ३४ || आशा इव विवृद्ध्यर्थं पुत्रदारकलत्रजाः | मया मायामयैर्लोकाः सूत्रजालमयैः स्रगाः || ३५ || जालैर्जर्जरतां नीता दिशश्चासुकृतायुषा | तत्रापि दत्तः प्रसरो मनसो दुष्कृतोदये || ३६ || तत्र तादृशे पापकर्मण्यपि | मनसः प्रसरो दत्तः || ३६ || आशा प्रसारिता दूरं प्रावृषीव तरङ्गिणी | करभ्या इव सर्पेण विद्रुतं दूरतो धिया || ३७ || करभ्या भ *? क्याः सकाशात्सर्पेणेव धिया सद्बुद्ध्या दूरतो गतम् | भावे क्तः | करभी हि सर्पं श्वासेन विलादाकृष्य भक्षयतीति प्रागुक्तमेव || ३७ || दूरे त्यक्ता दया देहे भुजङ्गेनेव कञ्चुकम् | क्रौर्यं सुखेन संरम्भशरवर्षि निनादि च || ३८ || देहे परप्राणिदेहे | संरम्भेण शरान्बाणानुदकानि च वर्षितुं शीलमस्य | निनादि निष्ठुरभाषि गर्जनशीलं चेति अम्बुदक्रौर्यसाधारणे विशेषणे | एवमग्रेऽप्युपमानोपमेयसाधारणानि विशेषणानि बोध्यानि || ३८ || अङ्गीकृतं निदाघान्ते नभसेवासिताम्बुदः | विकासिन्यो क्षताः क्षारा दूरं परिहृता जनैः || ३९ || क्षारा उग्रगन्धा दुःसहोश्च || ३९ || श्वभ्रेणेव कुमञ्जर्यश्चिरमूढा मयापदः | स्वकालकुलकोणासु नरकोद्दामभूमिषु || ४० || स्वस्य एतावत्कालमिदं भोक्तव्यमिति नियतः काल एव कुलकोणाः क्षेत्रभेदविभाजकसेत्वस्रयो यासु || ४० || उप्ता दुष्कृतबीजानां मुष्टयो मोहवृष्टयः | वागुराभिर्मया विन्ध्यकन्दरस्थेन निर्दयम् || ४१ || मोह एव वृष्टिरिव फलवर्धनो यासां ताः || ४१ || भूतेष्विव कृतान्तेन मृगेषु परिवल्गितम् | चामरीकण्ठकुड्येषु विश्रान्तशिरसा मया || ४२ || सुप्तमस्तविवेकेन शेषाङ्गेष्विव शौरिणा | विलोलचरणाम्बरया सरावोल्लासिधूम्रया || ४३ || विभिः पक्षिभिर्लोलानि चरणाः प्रत्यन्तपर्वता अम्बरमाकाशं च यस्याः | सरावैः सध्वनिभिर्व्याघ्रादिभिरुल्लासि धूम्रं रूपं यस्यामिति च गुहापक्षेऽर्थः | तनुपक्षे स्पष्टम् || ४३ || मम तन्वा सनीहारविन्ध्यकच्छगुहायितम् | कृष्णदेहेन यौकाढ्या कन्धा स्कन्धे मया चिरम् || ४४ || विन्ध्यस्य कच्छो जलप्रायदेशस्तत्रत्यगुहावदाचरितम् | उपमानादाचारे क्यङि भावे क्तः | यूकानां समूहो यौकं तदाढ्या कन्धा मया ग्रीष्मे सोढा मर्षितेति संबन्धः || ४४ || ग्रीष्मे सोढा चलद्भूता वराहेण यथोर्वरा | बहुशोऽहं वनोत्थाग्निनिर्दग्धप्राणिमण्डलः || ४५ || कल्पाग्निभुक्तजगतः कालस्यानुगतिं गतः | लोभिलिङ्गो यथा रोगमनर्थानिव दुर्ग्रहः | प्रसूतास्तत्र मे दारा दुःखान्यथ सुखान्यपि || ४६ || लोभिलिङ्गो मैथुनव्यसनी यथा क्षयादिरोगं प्रसूते | यथा वा दुर्ग्रहो दुराग्रहो दुष्टग्रहो वा वैरकलहाद्यनर्थान्प्रसूते तद्वन्मे दाता दुःखानि सुखान्यपि अपत्यानि प्रसूताः || ४६ || नृपालपुत्रकेनैकतनयेन तदा मया | नीता नीरन्ध्रदोषेण षष्टिः कल्पसमाः समाः || ४७ || उपसंहरति - नृपालेति | एकतनयेनेत्यत्यन्तानौचित्यसूचनार्थमुक्तम् || ४७ || आक्रुष्टमुद्धुरतरं रुदितं विपत्सु भुक्तं कदन्नमुषितं हतपक्कणेषु | कालान्तरं बहु मयोपहतेन तत्र दुर्वासनानिगडबन्धगतेन सभ्याः || ४८ || उक्तां सर्वा दुर्दशां संक्षिप्य वदन्नुपसंहरति - आक्रुष्टमिति | हे सभ्याः क्रोधावेशेन आक्रुष्टं विपत्सु रुदितम् | भवदनुभूतकालापेक्षया कालान्तरम् || ४८ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे इन्द्रजालोपाख्याने आपद्वर्णनं नाम सप्तोत्तरशततमः सर्गः || १०७ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे आपद्वर्णनं नाम सप्तोत्तरशततमः सर्गः || १०७ || प्. ३८१) २२६ अष्टोत्तरशततमः सर्गः १०८ राजोवाच | अथ गच्छति कालेऽत्र जराजर्जरितायुषि | तुषारपूर्णशष्पौघसमश्मश्रुभृते मयि || १ || इह तस्मिन्निवसतश्चिरं चण्डालपक्कणे | अनावृष्ट्युत्थदुर्भिक्षाद्वर्ण्यते देशदुर्दशा || १ || शष्पौघसमैः श्मश्रुभिर्भृते संभृतमुखे || १ || कर्मवातापनुन्नेषु सरसेष्वरसेष्वपि | पतत्सु वासरौघेषु शीर्णपर्णगणेष्विव || २ || सरसेषु ससुस्वेषु | अरसेषु सदुःखेषु | वासरौघेषु पतत्सु गच्छत्सु || २ || आजाविव शरौघेषु सुखदुःखेष्वनारतम् | कलहेष्वप्यकार्येषु चागच्छत्सु पतत्सु च || ३ || आजौ युद्धे | अकार्येषु कर्तुमयोग्येषु वधबन्धस्तेयादिषु || ३ || विकल्पकल्पनावर्तवर्तिनि द्विजगे जडे | समुद्र इव कल्लोलभरे भ्रमितचेतसि || ४ || द्विजः पक्षीव गच्छति निरालम्बने भ्रमतीति द्विजगे || ४ || चलच्चिन्ताचितं चक्रमारूढे भ्रान्त आत्मनि | प्रोह्यमाने तृण इव सावर्तं कालसागरे || ५ || विन्ध्योर्वीवनकीटस्य ग्रासैकशरणस्य मे | द्विबाहोर्गर्दभस्यात्र क्षीण इत्थं समागणे || ६ || समागणे वर्षपूगे क्षीणे सति || ६ || विस्मृते मम भूपत्वे शवस्येव महाजवे | चाण्डालत्वे स्थिरीभूते पक्षच्छिन्न इवाचले || ७ || शवस्य मृतस्येव || ७ || संसारमिव कल्पान्तो दावाग्निरिव काननम् | सागरोर्मिस्तटमिव शुष्कवृक्षमिवाशनिः || ८ || अकाण्डे मरणोड्डीनं चण्डचण्डालमण्डलम् | निरन्नतृणपत्राम्बु विन्ध्यकच्छं तदाययौ || ९ || घनव्राते न वर्षति सति अकाण्डे मरणेन उड्डीनं परलोकगमनं यस्मिंस्तथाविधं दुर्भिक्षं कर्तृ | चण्डं चण्डालमण्डलं यस्मिंस्तथाविधं विन्ध्यकच्छं निरन्नतृणपत्राम्बु यथा स्यात्तथा आययौ प्राप | संसारमिवेत्यादिप्राक्तनानि क्रमात्कर्मकर्त्रोरुपमानानि बोध्यानि | अथवा तच्चण्डचण्डालमण्डलं विन्ध्यकच्छस्थलाख्यं देशान्तरं ययावित्यर्थः || ९ || न वर्षति घनव्राते दृष्टनष्टे क्वचित्स्थिते | पूताङ्गारकणोन्मिश्रगतौ वहति मारुते || १० || पूतैर्वस्रशोधितैरिव सूक्ष्मतमैरङ्गारकणैरुन्मिश्रा गतिर्यस्य || १० || शीर्णमर्मरपर्णासु दावाग्निवलितासु च | वनस्थलीषु शून्यासु चिरप्रव्रजितास्विव || ११ || चिरप्रव्रजितास्विवेति पिङ्गलजटिलत्वादिनोपमा || ११ || अकाण्डमभवद्भीममुद्दामदवपावकम् | शोषिताशेषगहनं भस्मशेषतृणोलपम् [तृणोपलम् इति पाठः] || १२ || अकाण्डमनवसरोत्थं दुर्भिक्षम् || १२ || पांसुधूसरसर्वाङ्गं क्षुधिताशेषमानवम् | निरन्नतृणपानीयं देशाद्युद्दावमण्डलम् || १३ || उद्दावं उत्कृष्टारण्यभूतं मण्डलं जनपदो यस्मिन् || १३ || कचन्मरुमरीच्यम्बुमज्जन्महिषमण्डलम् | वातोत्थसीकरव्यूहापरिवाहवनाम्बरम् || १४ || वातोत्थसीकरव्यूहमपि न परिवहतीत्यपरिवाहं वनाम्बरं यत्र || १४ || पानीयशब्दमात्रैकश्रवणोत्कनरव्रजम् | आतपाततिसंशोषसीदत्सकलमानवम् || १५ || आतपस्याततिर्विस्तारः || १५ || पत्रग्रसनसंरब्धक्षुधितोत्थितजीवितम् | स्वाङ्गचर्वणसंरम्भलुठद्दशनमण्डलम् || १६ || पत्रग्रसनोद्योगेन क्षुभितेभ्य उत्थितं प्रस्थितं जीवितं यत्र | स्वाङ्गचर्वणे संरम्भेणाभिलाषेण लुठन्ति परस्परमुपघ्नन्ति दशनमण्डलानि यत्र || १६ || मांसशङ्कानिगीर्णोग्रखदिराग्निकणोत्करम् | मण्डकासारसंग्रस्तवनपाषाणखण्डकम् || १७ || मण्डकानि स्नेहपिष्टकास्तद्भ्रान्त्या असारा अपि संग्रस्ता वनपाषाणखण्डका यत्र || १७ || अन्योन्यभूतसंसक्तमातृपुत्रपितृव्रजम् | गृध्रोदररटत्सारनिगीर्णवरसारिकम् || १८ || सारनिगीर्णा समग्रनिगीर्णा || १८ || परस्पराङ्गविच्छेदरक्तसिक्तधरातलम् | हरिग्रसनसंरब्धमत्तक्षुधितवारणम् || १९ || दरीनिगरणैकैकसिंहभ्रमणभीषणम् | अन्योन्यग्रसनोद्युक्तलोकमल्लकृतं वहत् || २० || दरीषु स्वस्य निगरणशङ्कया एकैकशः सिंहभ्रमणेन भीषणम् | अन्योन्यस्य ग्रसने हिंसने उद्युक्तैर्लोकैर्मल्लकृतं मल्लचरित्रम् || २० || निष्पत्रपादपोड्डीनप्रौढाङ्गारमयानिलम् | रक्तपानोत्कमार्जारलीढधातुतटावनि || २१ || ज्वालाघनघटाटोपसावर्तसवनानिलम् | सर्वस्थलरसद्वह्निपुञ्जपिञ्जरजङ्गलम् || २२ || दग्धाजगरकुञ्जोत्थधूममांसलगुल्मकम् | मारुतावलितज्वालासंध्याभ्रवलिताम्बरम् || २३ || दग्धा अजगरा यत्र थाविधात्कुञ्जादुत्थितेन धूमेन दोहदेनेव मांसलानि पुष्टानीव गुल्मकानि यत्र || २३ || उद्दामरवमुद्भ्रान्तभस्मनाऽस्तम्भमण्डलम् | साक्रन्दनरदाराग्रदीनार्भककृतारवम् || २४ || अस्तम्भान्यदण्डानि च्छत्रमण्डलानि यत्र || २४ || संभ्रान्तपुरुषव्यूहदन्तकृत्तमहाशवम् | मांसगन्धजवग्रस्तरक्तारक्तनिजाङ्गुलि || २५ || जवेन ग्रसनत्वरया ग्रस्ता रक्तैरारक्ता निजाङ्गुलिर्यत्र || २५ || प्. ३८२) २२७ नीलपत्रलताशङ्कापीतधूमघनच्छवि | भ्रमद्गृध्रनिगीर्णोग्रनभोभ्रान्तोल्मुकाभिषम् || २६ || इतरेतरभिन्नाङ्गलोकविद्रवणाकुलम् | ज्वलिताग्निटणत्कारविदीर्णहृदयोदरम् || २७ || गर्तमारुतक्राङ्कारभीमदावाग्निवल्गनम् | भीताजगरफूत्कारपतदङ्गारपादपम् || २८ || गर्तं प्रविशतो मारुतस्य क्राङ्कारो ध्वनिरिव भीमं दावाग्निवल्गनं यत्र | भीतानामजगराणां फूत्कारात्पतन्त उत्पतन्तोऽङ्गारा येषु तथाविधाः पादपा यत्र || २८ || सदकाण्डस्फुटद्देशं प्राप्य तच्छुष्ककोटरम् | द्वादशार्काग्निदग्धस्य जगतोऽनुकृतिं ययौ || २९ || सत् प्राग्रमणीयमपि विन्ध्यकच्छस्थलं प्राप्य तत् तादृशं दुर्भिक्षं प्रागुक्तमकाण्डस्फुटद्देशं सत् | अनुकृतिं साम्यम् || २९ || ज्वलदनलजटालवृक्षखण्ड- प्रसरमरुत्प्रसरावनुन्नलोकः | ज्वलनतपनभास्करात्मजानां रमणगृहानुकृतिं जगाम देशः || ३० || ज्वलदनलेन जटालेषु वृक्षखण्डेषु प्रसरो यस्य तथाविधस्य मरुतः प्रसरेण | अवनुन्नः पीडितो लोको जनो यत्र | ज्वलनतपनयोर्भास्करात्मजस्य शनैश्चरस्य च रमणं क्रीडास्थानभूतं यद्गृहं तस्यानुकृतिं साम्यम् || ३० || इत्यार्षे श्रीवासिष्ठमहारामायणे मोक्षोपाये उत्पत्तिप्रकरणे इन्द्रजालोपाख्याने अकाण्डवर्णनं नामाष्टोत्तरशततमः सर्गः || १०८ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे अकाण्डवर्णनं नामाष्टोत्तरशततमः सर्गः || १०८ || नवोत्तरशततमः सर्गः १०९ राजोवाच | तस्मिंस्तदा वर्तमाने कष्टे विधिविपर्यये | अकालोल्बणकल्पान्ते नितान्तं तापदायिनि || १ || निर्गतस्य सदारस्य दृष्ट्वा पुत्रापदं चिताम् | विविक्षोः प्रतिबुद्धस्य सभ्यसंवाद ईर्यते || १ || विधिविपर्यये दैवप्रातिकूल्ये || १ || जनाः केचन निष्क्रम्य सकलत्रसुहृज्जनाः | गता देशान्तरं व्योम्नः शरदीव पयोधराः || २ || देहावयवसंलीनपुत्रदाराग्र्यबन्धवः | शीर्णाः केचन तत्रैव च्छिन्ना इव वने द्रुमाः || ३ || देहावयवा इव संलग्नास्त्यक्तुमशक्या इति यावत् || ३ || भक्ताः केचन च व्याघ्रैर्निर्गतास्तु स्वमन्दिरात् | अजातपक्षकाः श्येनैः खगा नीडोद्गता इव || ४ || चकारो भिन्न क्रमोऽनुक्तसमुच्चयार्थः | व्याघ्रैरन्यैश्च श्वापदैरित्यर्थः || ४ || प्रविष्टाः केचिदनलं ज्वलितं शलभा इव | केचिच्छ्वभ्रेषु पतिताः शिला शैलच्युता इव || ५ || अहं तु तान्परित्यज्य श्वशुरादीन्स्वकं क्षमम् | कलत्रमात्रमादाय कृच्छ्राद्देशाद्विनिर्गतः || ६ || क्षमं स्वानुगमनसमर्थम् || ६ || अनलाननिलांश्चैव भक्षकांस्तक्षकानपि | वञ्चयित्वा भयान्मृत्योः सदारोऽहं विनिर्गतः || ७ || भक्षकान्व्याघ्रादीन् | तक्षकान् सर्पान् || ७ || प्राप्य तद्देशपर्यन्तं तत्र तालतरोस्तले | अवरोप्य सुतान्स्कन्धान्नानानर्थानिवोल्बणान् || ८ || तद्देशस्य पर्यन्तं प्रान्तम् || ८ || विश्रान्तोऽस्मि चिरं श्रान्तो रौरवादिव निर्गतः | दीर्घदावनिदाघार्तो ग्रीष्मे पद्म इवाजलः || ९ || अजलः पद्मः कमलिनीव शुष्यन्नित्यर्थः | अथवा अजलो मेकादिः पद्मे कमलिनीमूल इव विश्रान्तोऽस्मीत्यर्थः || ९ || अथ चाण्डालकन्यायां विश्रान्तायां तरोस्तले | सुप्तायां शीतलच्छाये द्वौ समालिङ्ग्य दारकौ || १० || पृच्छको नाम तनयो ममैकः पुरतः स्थितः | अत्यन्तवल्लभोऽस्माकं कनीयान्मौग्ध्यवानिति || ११ || स मामुवाच दीनात्मा बाष्पपूर्णविलोचनः | तात देह्याशु मे मांसं पातुं च रुधिरं क्षणात् || १२ || पुनःपुनर्वदन्नेवं स बालस्तनयो मम | प्राणान्तिकीं दशां प्राप्तः साक्रन्दो हि पुनः क्षुधा || १३ || तस्योक्तं तु मया पुत्र मांसं नास्तीति भूरिशः | तथापि मांसं देहीति वदत्येव स [सुदुर्मतिः इति पाठः] दुर्मतिः || १४ || अथ वात्सल्यमूढेन [युक्तेन इति पाठः] मया दुःखातिभारिणा | तस्योक्तं पुत्र मन्मांसं पक्वं संभुज्यतामिति || १५ || तदप्यङ्गीकृतं तेन देहीति वदता पुनः | मन्मांसभक्षणं क्षीणवृत्तिनाऽश्लेषवृत्तिना || १६ || क्षीणवृत्तिना अलब्धभक्ष्येण | अत्यन्तक्षुधितेनेति यावत् | आश्लेषवृत्तिना आलिङ्गनपरेण || १६ || सर्वदुःखापनोदाय स्नेहकारुण्यमोहिना | तस्य तामार्तिमालोक्य मया दुःखातिभारिणा || १७ || स्नेहकारुण्यमोहशब्दानां द्वन्द्वे हनिः || १७ || सोढुं तामापदं तीव्रामशक्तेन हतात्मना | मरणायातिमित्राय कृतोऽन्तर्निश्चयो मया || १८ || अतिमित्राय तत्कालो चितबन्धवे || १८ || प्. ३८३) २२७ तत्र काष्ठानि संचित्य चितां रचितवानहम् | चिता चटचटास्फोटैः स्थिता मदभिकाङ्क्षिणी || १९ || मदभिकाङ्क्षिणीव || १९ || तस्यां तु यावदात्मानं चितायां निक्षिपाम्यहम् | चलितोऽस्मि जवात्तावदस्मात्सिंहासनान्नृपः || २० || चलनात्संभावितां पतनक्रियां तत्फलं विभागं च गम्यमानमपेक्ष्य सिंहासनादिति अपादाने पञ्चमी बोध्या || २० || ततस्तूर्यनिनादेन जयशब्देन बोधितः | इति शाम्बरिकेणायं मोह उत्पादितो मम || २१ || अज्ञानेनेव जीवस्य दशाशतसमन्वितः | इत्युक्तवति राजेन्द्रे लवणे भूरितेजसि || २२ || अन्तर्धानं जगामाशु तत्र शाम्बरिकः क्षणात् | अथेदमूचुस्ते सभ्या विस्मयोत्फुल्ललोचनाः || २३ || नायं शाम्बरिको देव यस्य नास्ति धनैषणा | दैवी काचन मायेयं संसारस्थितिबोधिनी || २४ || दैवी त्वदनुग्रहाय देवैः प्रयुक्ता अत एव संसारस्येदृशी स्थितिरिति बोधिनी || २४ || मनोविलासः संसार इति यस्यां प्रतीयते | सर्वशक्तेरनन्तस्य विलासो हि मनोजगत् || २५ || अनन्तस्य विष्णोः | मन एव जगत् || २५ || सर्वशक्तेर्विचित्रा हि शक्तयः शतशो विधेः | यद्विवेकि मनोऽप्येष विमोहयति मायया || २६ || एषः विधिः || २६ || विज्ञातलोकवृत्तान्तः क्व नामायं महीपतिः | क्व सामान्यमनोवृत्तियोग्यो विपुलसंभ्रमः || २७ || सामान्यानां पृथग्जनानां मनोवृत्तेर्योग्यः || २७ || न च शाम्बरिकेच्छेयं माया मनसि मोहिनी | अर्थस्य सिद्ध्यै चेहन्ते नित्यं शाम्बरिकाः किल || २८ || अर्थस्य धनस्य सिद्ध्यै ईहन्ते प्रीतिहेतुकौतुकप्रदर्शनाय चेष्टन्ते नत्वीदृशदुर्भ्रान्तये || २८ || यत्नेन प्रार्थयन्तेऽर्थं नान्तर्धानं व्रजन्ति भो | इति संदेहवेलायां संस्थिता लुलिता वयम् || २९ || इति उक्ताल्लिङ्गद्वयाद्वयं संदेहसागरस्य वेलायां कूलभूते निर्णये स्थिताः || २९ || श्रीवसिष्ठ उवाच | सभायामवसं तस्यामहं राम तदा किल | तेन प्रत्यक्षतो दृष्टं मयैतन्नान्यतः श्रुतम् || ३० || उक्तेयमाख्यायिका न बालकाख्यायिकावत्कल्पितकथा नाप्यन्यतः श्रुता किंतु प्रत्यक्षदृष्टेत्याह - सभायामिति || ३० || इति बहुकलनाविवर्धिताङ्गं जयति चिरं विततं मनो महात्मन् | शममुपगमिते परस्वभावे परममुपैष्यसि पावनं पदं यत् || ३१ || उक्तामाख्यायिकां प्रस्तुते जगतो मनोमात्रविलासत्वे योजयंस्तत्फलमाह - इतीति | इति उक्तरीत्या बह्वीभिः कलनाभिर्विरचनैर्विवर्धिताङ्गं प्ररूढं चिरं विततं फलपल्लवशाखाभिर्विस्तीर्णं तरुशरीरमिव मनो जयति आत्मस्वरूपमभिभूय स्वयं सर्वोत्कर्षेण वर्तते | यन्मनोविचारज्ञानयोगेन [अत्र यस्मान्मनसि इति पाठोऽपेक्षितः] शमं निर्वासनतालक्षणं उपगमिते प्रापिते परस्वभावे सति त्वं भेदकोपाधिबाधात्परमं पावनं पूर्णात्मपदमुपैष्यसि अतस्तदर्थं वक्ष्यमाणोपायैर्यतस्वेत्यर्थः || ३१ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मो० दे० उ० इन्द्रजालोपाख्याने चण्डालत्वव्यपगमो नाम नवोत्तरशततमः सर्गः || १०९ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे चण्डालत्वव्यपगमो नाम नवोत्तरशततमः सर्गः || १०९ || दशोत्तरशततमः सर्गः ११० श्रीवसिष्ठ उवाच | परमात्कारणादादौ चिच्चेत्यपदपातिनी | कलनापदमासाद्य कला कलिलतां गता || १ || मनःप्रशमनोपायो मनोवैभववर्णनैः | प्रक्रम्यतेऽत्र गदितुं रामाय ब्रह्मसूनुना || १ || मनसो वासनामयत्वादात्यन्तिकज्ञेयवासनोच्छेद एव मनःप्रशमनोपायस्तस्मिंश्च शास्त्राचार्यस्वानुभवैर्दृश्यजातस्य मनोभ्रममात्रत्वनिश्चयपूर्वकः सप्तमभूमिकारोहणपर्यन्तं ज्ञानपरिपाचको मनोनिरोधप्रयत्न एवोपाय इति वक्तुं मूलतो मनस्स्वरूपं परिशोधयन्नाह - परमादिति | परमं कारणं चित्संवलितमज्ञानं तस्मादेव निमित्ताच्चिच्चेत्यपदपातिनी चेत्यगोचरा संपन्ना न वस्तुतः अविकारत्वात् | आदावित्यनेन प्राथमिकचेत्यपदपातस्याज्ञाननिमित्तत्वे तन्मूलद्वैतदर्शनानां सुतरां तन्निमित्तकत्वं सिद्धमिति सूच्यते | चेत्यपदपातादेव कलना अर्थप्रथेयमिति पदं नाम आसाद्य अर्थकलाभिर्नानारूपवैचित्र्यैः कलिलतां कलुषीभावं गता | स एव वासनाप्रथमाङ्कुर इति भावः || १ || असत्स्वेव विमोहेषु रामैवंप्रायवृत्तिषु | घनेषु तुच्छतामेत्य चिराय परिमूर्च्छति || २ || एवंप्राया ईदृश्यो वृत्तयः स्थितयो येषां तेषु विमोहेषु अर्थकलाभासभ्रमेषु क्राद्धनेषु उपचितेषु सैव चित्स्वां पूर्णतां विस्मृत्य तुच्छतां असन्मनोरूपतामेत्य चिराय अनादिकालादारभ्य मूर्च्छति जन्ममरणादिभ्रमैर्मुह्यति | तथाच चितश्चेत्योन्मुखतैवानर्थमनोबीजमिति सैव निरोद्धव्येति भावः || २ || असदेव मनोवृत्तिर्म्लाना विस्तारयत्यलम् | दुःखं दोषसहस्रेण वेतालानिव बालिका || ३ || एवं तुच्छवासनादोषसहस्रेण म्लाना मनोवृत्तिर्मनोभावेन स्थिता सा चिदसदेव दुःखं विस्तारयति || ३ || प्. ३८४) २२८ सदेव हि महादुःखमसत्तां नयति क्षणात् | निष्कलङ्का मनोवृत्तिरन्धकारमिवार्करुक् || ४ || यथा सकलङ्काषन्मनोवृत्तिश्चिद्दुःखं विस्तारयति एवं वासनाक्षये निर्वासनाकलङ्का स्वाभाविकसद्रूपैव सती महादुःखमसत्तां शून्यतां नयति | बोधेन बाध्यत इत्यर्थः || ४ || नयत्यभ्याशतां दूरं दूरमभ्याशतां नयेत् | मनो वल्गति भूतेषु बालो बालखगेष्विव || ५ || उक्तार्थसंभावनाय मनसोऽघटितघटनासमर्थ्यमाह - नयतीत्यादिना | अभ्याशतां समीपताम् || ५ || अभयं भयमज्ञस्य चेतसो वासनावतः | दूरतो मुग्धपान्थस्य स्थाणुर्याति पिशाचताम् || ६ || शत्रुत्वं शङ्कते मित्रे कलङ्कमलिनं मनः | मदाविष्टमतिर्जन्तुर्भ्रमत्पश्यति भूतलम् || ७ || पर्याकुले हि मनसि शशिनो जायतेऽशनिः | अमृतं विषभावेन भुक्तं याति विषक्रियाम् || ८ || सुरपत्तननिर्माणमसत्सदिव पश्यति | वासनावलितं चेतः स्वप्नवज्जाग्रदेव हि || ९ || सुरपत्तनं गन्धर्वनगरम् || ९ || मोहैककारणं जन्तोर्मनसो वासनोल्बणा | उत्खातव्या प्रयत्नेन मूलोच्छेदेन सैव च || १० || उत्खातव्या मूलत उच्छेत्तव्या || १० || वासनावागुराकृष्टो मनोहरिणको नृणाम् | परां विवशतामेति संसारवनगुल्मके || ११ || येन च्छिन्ना विचारेण जीवस्य ज्ञेयवासना | निरभ्रस्येव सूर्यस्य तस्यालोको विराजते || १२ || आलोकः प्रकाशः || १२ || अतस्त्वं मन् एवेदं नरं विद्धि न देहकम् | जडो देहो मनश्चात्र न जडं नाजडं विदुः || १३ || तत्र प्रथमं मन एव मे देहो नान्य इति सदा भावनाभ्यासः कार्य इत्याह ##- यत्कृतं मनसा तात तत्कृतं विद्धि राघव | यत्त्यक्तं मनसा तावत्तत्त्यक्तं विद्धि चानघ || १४ || मनोमात्रं जगत्कृत्स्नं मनः पर्यन्तमण्डलम् | मनो व्योम मनो भूमिर्मनो वायुर्मनो महान् || १५ || पर्यन्तो भूप्रान्तस्तन्मण्डलम् || १५ || मनो यदि पदार्थे तु तद्भावेन न योजयेत् | ततः सूर्योदयेऽप्येते [सूर्यादयोऽप्येते इति पाठः] न प्रकाशाः कदाचन || १६ || तद्भावेन प्रकाशादिभावेन न योजयेत् न कल्पयेत् | दिवान्धैर्वैपरीत्यदर्शनादिति भावः || १६ || मनो मोहमुपादत्ते यस्यासौ मूढ उच्यते | शरीरे मोहमापन्ने न शवो मूढ उच्यते || १७ || मोहं अप्रबोधम् || १७ || मनः पश्य भवत्यक्षि शृण्वच्छ्रवणतां गतम् | त्वग्भावं स्पर्शनादेति घ्राणतामेति जिघ्रणात् || १८ || रसनाद्रसतामेति विचित्रास्तत्र [विचित्रास्वत्र वृत्तिषु इति पाठः साधुः] वृत्तिषु | नाटके नटवद्देहे मन एवानुवर्तते || १९ || लघु दीर्घं करोत्येव सत्येऽसत्तां प्रयच्छति | कटुतां नयति स्वादु रिपुं नयति मित्रताम् || २० || स्वादु मधुरताम् || २० || य एव प्रतिभासोऽस्य चेतसो वृत्तिवर्तिनः | ततस्तदेव प्रत्यक्षं तथात्रानुभवादिह || २१ || प्रतिभासवशादेव स्वप्नाकुलितचेतसः | हरिश्चन्द्रस्य संपन्ना रात्रिर्द्वादशवार्षिकी || २२ || चित्तानुभाववशतो मुहूर्तत्वे गतं युगम् | इन्द्रद्युम्नस्य वैरिञ्च्यपुराभ्यन्तरवर्तिनः || २३ || अनुभावोऽत्रानुभवः प्रभावो वा | इन्द्रद्युम्नस्य रेवतापरनाम्नः || २३ || मनोज्ञया मनोवृत्त्या सुखतां याति रौरवम् | प्रातःप्राप्तव्यराज्यस्य सुबद्धस्येव बन्धनम् || २४ || दुःखस्य सुखत्वापत्तिः क्व दृष्टा तत्राह - मनोज्ञयेति | मनोज्ञया हरिस्मरणादिरूपया | रौरवं नरकदुःखमपि | श्वः प्रातरवश्यं राज्यं प्राप्तव्यमिति प्रमाणैर्निश्चयवतः करपादनिगडादिना सुष्ठु बद्धस्य बन्धनमिवेत्यर्थः || २४ || जिते मनसि सर्वैव विजिता चेन्द्रियावलिः | शीर्यते च यथा तन्तौ दग्धे मौक्तिकमालिका || २५ || सर्वत्र स्थितया स्वच्छरूपया निर्विकारया | समया सूक्ष्मया नित्यं चिच्छक्त्या साक्षिभूतया || २६ || हे राम किमन्यन्मनसोऽर्थविपरीतकल्पनसामर्थ्यं वाच्यं यत्सर्वत्र समया स्वच्छत्वनिर्विकारत्वादिस्वभावचिन्मात्ररूपया स्वसत्तया मूकं वागादिसर्वक्रियाशून्यमपि ब्रह्मदेहतादात्म्यकल्पनया देहसमं जडं च कृत्वा अन्तर्मननं एषणं कामः संकल्पः इत्यादिकया मुह्यया भ्रान्त्या बहिस्तु गिरिसरिद्व्योमसमुद्रपुरलीलया प्रकल्प्य व्यर्थं भ्रमतीति सर्वत्रेत्यादिश्लोकत्रयस्यैकोऽन्वयः || २६ || सर्वभावानुगतया न चेत्यार्थविभिन्नया | रामात्मसत्तया मूकमपि देहसमं जडम् || २७ || मनोऽन्तश्चलति व्यर्थं मननैषणमुह्यया | बहिर्गिरिसरिद्व्योमसमुद्रपुरलीलया || २८ || जाग्रच्चाभिमतं वस्तु नयत्यमृतमृष्टताम् | अनीहितं च विषतां नयत्यमृतमप्यलम् || २९ || ननु मूढं मनोऽन्यथा कल्पयितुं विचारजागरूकं तु नान्यथा कल्पयिष्यतीति किं तन्नाशोपायचिन्तया तत्राह - जाग्रच्चेति | विवेकजागरूकमपि मनोऽस्वादूच्छिष्टमपि योषिदधरादिवस्त्वभिमतं रागवशादिष्टममृतमिव मृष्टतां स्वादुतां नयति | अनीहितमनभिलषितं त्वमृतमपि विषतां विषवद्धेयतां नयति | विरक्तानाममृतेऽपि हेयताबुद्धिदर्शनादित्यर्थः || २९ || अमृष्टसर्वभावानामलमात्मचमत्कृतिम् | तर्हि तत्त्वज्ञानपि तत्कुतो न भ्रमयेत्तत्राह - अमृष्टेति | न मृष्टः साक्षात्कृतः सर्वभावः पूर्णता यैस्तेषामेव मनः स्वाभिमताकारमात्मचमत्कारभूतं रूपं सृजति नतु तत्त्वविदाम् | तेषां मिथ्याबुद्धिबाधितमनोविलासेषु चमत्कारदृष्ट्यभावादित्याशयः || ३० || प्. ३८५) २२८ स्पन्देषु वायुतामेति प्रकाशेषु प्रकाशताम् | द्रवेषु द्रवतामेति चिच्छक्तिस्फुरितं मनः || ३१ || रूपसर्गमेव प्रपञ्चयति - स्पन्देष्वित्यादिना || ३१ || पृथ्व्यां कठिनतामेति शून्यतां शून्यदृष्टिषु | सर्वत्रेच्छास्थितिं याति चिच्छक्तिस्फुरितं मनः || ३२ || शून्यतामभावताम् | शून्यदृष्टिषु नास्तीति गृह्यमाणवस्तुषु | इच्छास्थितिं अप्रतिहतस्वैरवृत्तिम् || ३२ || शुक्लं कृष्णीकरोत्येव कृष्णं नयति शुक्लताम् | विनैव देशकालाभ्यां शक्तिं पश्यास्य चेतसः || ३३ || मनस्यन्यत्र संसक्ते चर्वितस्यापि जिह्वया | भोजनस्यापि मृष्टस्य न स्वादोऽस्यानुभूयते || ३४ || यच्चित्तदृष्टं तद्दृष्टं न दृष्टं तदलोकितम् | अन्धकारे यथा रूपमिन्द्रियं निर्मितं तथा || ३५ || तेन चित्तेनालोकितमदृष्टं पुरःस्थमपि न दृष्टम् | तथाच चक्षुरादीन्द्रियमपि तेनैव स्वात्मनि कल्पितमित्याह - अन्धकारे इति | यथान्धकारे नैल्यं छायावैचित्र्यरूपं वा निर्मितं तद्वत् || ३५ || इन्द्रियेण मनो देहि मनसेन्द्रियमुन्मनः | इन्द्रियाणि प्रसूतानि मनसो नेन्द्रियान्मनः || ३६ || यद्यपीन्द्रियालोचिताकारधारणान्मन इन्द्रियेण निमित्तेन देहि साकारम् | इन्द्रियं च मनोधीनार्थालोचकत्वान्मनसा देहीति साम्यं तथापि मन उत् उत्कृष्टम् | तत्कुतस्तत्राह - इन्द्रियाणीति || ३६ || अत्यन्तभिन्नयोरैक्यं येषां चित्तशरीरयोः | ज्ञातज्ञेया महात्मानो मनस्यास्ते सुपण्डिताः || ३७ || तच्चेदं मनो मूढैरात्मकोटौ निक्षिप्याहमित्यात्मतया गृह्यते | तत्त्वज्ञैस्तु देहकोटौ निक्षिप्य जडदेहात्मना गृह्यते | अत एव ते निर्विकारात्मदर्शिनो वन्द्या इत्याह - अत्यन्तेति | मूढदृष्ट्या अत्यन्तभिन्नयोः || ३७ || कुसुमोल्लासिधम्मिल्ला हेलाचलितलोचना | काष्ठकुड्योपमाङ्गेषु लग्नाप्यमनसोऽङ्गना || ३८ || अत एव तेषां कामादिविकारो न दृश्यत इत्याह - कुसुमेति | अमनसो देहे लग्नाप्यङ्गना काष्ठकुड्योपमा | विकारं जनयितुमक्षमेत्यर्थः || ३८ || मनस्यन्यत्र संसक्ते वीतरागेण कानने | क्रव्यादचर्वितोऽङ्कस्थः स्वकरोऽपि न लक्षितः || ३९ || एवं दुःखनिमित्तैर्दुःखात्मकविकारोऽपि तेषां नास्तीत्याह - मनसीति | वीतरागेण तदाख्यमुनिना | अङ्कस्थो ध्यानकालेऽङ्के प्रसारितः || ३९ || सुखीकर्तुं सुदुःखानि दुःखीकर्तुं सुखानि च | सुखेनैवाशु युज्यन्ते मनसोऽतिशया मुनेः || ४० || मुनेर्मनसः अभ्यासपाटवकृता भावनातिशयाः सुखेनानायासेनैव युज्यन्ते क्षमन्ते || ४० || मनस्यन्यत्र संसक्ते कथ्यमानापि यत्नतः | लता परशुकृत्तेव कथा विच्छिद्यते बत || ४१ || मनस्यद्रितटारूढे गृहस्थेनापि जन्तुना | शुभ्राभ्रकन्दरभ्रान्तिदुःखं समनुभूयते || ४२ || समनुभूयते | स्वप्ने इति शेषः || ४२ || मनस्युल्लसिते स्वप्ने हृद्येव पुरपर्वताः | आकाश इव विस्तीर्णे दृश्यन्ते निर्मिताः क्षमाः || ४३ || हृद्येव निर्मिता अन्तःकृताः स्वस्वकार्यक्षमाश्च दृश्यन्ते || ४३ || मनो विलुलिते स्वप्ने हृद्येवाद्रिपुरावलिम् | तनोति चलिताम्भोधिर्वीचीचयमिवात्मनि || ४४ || मनः विलुलिते स्वेन विक्षिप्ते आत्मनि | तनोति विस्तारयति || ४४ || अन्तरब्धिजलाद्यद्वत्तरङ्गापीडवीचयः | देहान्तर्मनसस्तद्वत्स्वप्नाद्रिपुरराजयः || ४५ || अङ्कुरस्य यथा पत्रलतापुष्पफलश्रियः | मनसोऽस्य तथा जाग्रत्स्वप्नविभ्रमभूमयः || ४६ || व्यतिरिक्ता यथा हेम्नो न हेमवनिता तथा | जाग्रत्स्वप्नक्रियालक्ष्मीर्व्यतिरिक्ता न चेतसः || ४७ || हेमवनिता स्वर्णप्रतिमा || ४७ || धाराकणोर्मिफेनश्रीर्यथा संलक्ष्यतेऽम्भसः | तथा विचित्रविभवा नानातेयं हि चेतसः || ४८ || नानाता नानावैचित्र्यम् || ४८ || स्वचित्तवृत्तिरेवेह जाग्रत्स्वप्नदृशोदितम् | रसावेशादुपादत्ते शैलूष इव भूमिकाम् || ४९ || उदितमुदयमाविर्भावमादत्ते | रसो रागः शृङ्गारादिश्च तदावेशात् | शैलूषो नटः | भूमिकां वेषवैचित्र्यम् || ४९ || चण्डालत्वं हि लवणे प्रतिभासवशाद्यथा | तथेदं जगदाभोगि मनो मननमात्रकम् || ५० || यद्यत्संवेद्यते किंचित्तेन तेनाशु भूयते | मनो मनननिर्माणं यथेच्छसि तथा कुरु || ५१ || नानापुरसरिच्छैलरूपतामेत्य देहिनाम् | तनोत्यन्तःस्थमेवेदं जाग्रत्स्वप्नमयं मनः || ५२ || सुरत्वाद्दैत्यतामेत्य नागत्वान्नगतामपि | प्रतिभासवशाच्चित्तमापन्नं लवणो यथा || ५३ || नागत्वाद्गजत्वात्सर्पत्वाद्वा | नगतां वृक्षतां गिरितां वा || ५३ || नरत्वादेति नारीत्वं पितृत्वात्पुत्रतां गतः | यथा क्षिप्रं प्रति नरः स्वसंकल्पात्तथा मनः || ५४ || यथा पितृत्वात्पुत्रतां गतः पुमान् नरत्वान्नारीत्वमेति तद्वत् || ५४ || संकल्पतः प्रम्रियते संकल्पाज्जायते पुनः | मनश्चिरन्तनाभ्यस्ताज्जीवतामेत्यनाकृति || ५५ || अनाकृति स्वत आकारशून्यमपि जीवतां जीवाकारमेति || ५५ || प्. ३८६) २२९ मनो मननसंमूढमूढवासनमाततम् | संकल्पाद्योनिमायाति सुखदुःखे भयाभये || ५६ || मननेन सम्यङ्मूढा मोहातिशयं प्राप्ता मूढवासना यस्मिंस्तत् | ऊढवासनमिति वा छेदः | योनिं जन्मस्थानम् | मनोऽकृतेनायात्यस्मिञ्शरीरे इति हि श्रुतिः || ५६ || सुखं दुःखं च मनसि तिले तैलमिव स्थितम् | तद्देशकालवशतो घनं वा तनु वा भवेत् || ५७ || तैलं तिलस्य चाक्रान्त्या स्फुटतामेति शाश्वतीम् | चेतसो मननासङ्गाद्घनीभूते सुखासुखे || ५८ || आक्रान्त्या यन्त्रनिष्पीडनेन | चेतसोऽन्तर्घनीभूते सुखासुखे मननासङ्गात् स्फुरतां इतो गच्छत इति वचनविपरिणामेनानुषङ्गः || ५८ || देशकालाभिधानेन राम संकल्प एव हि | कथ्यते तद्वशाद्यस्माद्देशकालौ स्थितिं गतौ || ५९ || ननु देशकालकर्मविषयवैचित्र्यादेव सुखदुःखादिवैचित्र्यं प्रसिद्धं तत्कथं मननासङ्गादित्युच्यते तत्राह - देशेति | अल्पयोरपि देशकालयोर्मनसा वैपुल्यसंकल्पने वैपुल्यानुभवात्तुच्छेऽपि विषये मनसा बहुमते रागातिशयदर्शनाच्चेति भावः || ५९ || प्रशाम्यत्युल्लसत्येति याति नन्दति वल्गति | मनःशरीरसंकल्पे फलिते न शरीरकम् || ६० || एवं शरीरमपि मनःसंकल्पाधीनमेवेत्याह - प्रशाम्यतीति | मनःशरीरस्य संकल्पे फलिते सति स्थूलं शरीरकं प्रशान्त्यादिविकारभाग्भवति न स्वातन्त्र्येणेति शेषः || ६० || नानास्फारसमुल्लासैः स्वसंकल्पोपकल्पितैः | मनो वल्गति देहेऽस्मिन्साध्वीवान्तःपुराजिरे || ६१ || चापले प्रसरस्तस्मादन्तर्येन नदीयते | मनोविलयमादत्ते तस्यालान इव द्विपः || ६२ || मनसो निग्रहोपायं सफलं दर्शयति - चापले इति | विषयनुसंधानं चापलम् || ६२ || न स्पन्दते मनो यस्य शस्त्रस्तम्भ इवोत्तमः | सद्वस्तुतोऽसौ पुरुषः शिष्टाः कर्दमकीटकाः || ६३ || शस्त्रं स्तम्भनास्त्रं तत्कृते स्तम्भे यथा शत्रुर्न स्पन्दते तद्वत् | असावेव सद्वस्तुतः परमार्थतः पुरुषः || ६३ || यस्याचपलतां यातं मन एकत्र संस्थितम् | अनुत्तमपदेनासौ ध्यानेनानुगतोऽनघ || ६४ || ध्यानेन हेतुना असौ अनुत्तमपदेन अनुगतः संगतः | ब्रह्मीभूत एवेत्यर्थः || ६४ || संयमान्मनसः शान्तिमेति संसारविभ्रमः | मन्दरेऽस्पन्दतां याते यथा क्षीरमहार्णवः || ६५ || अस्पन्दतामिति च्छेदः || ६५ || मानस्यो वृत्तयो या या भोगसंकल्पविभ्रमैः | संसारविषवृक्षस्य ता एवाङ्कुरयोनयः || ६६ || चित्तं चलत्कुवलयं वलयन्त एते मूढा महाजडजवे मदमोहमन्दाः | आवर्तवर्तिनि विलूनविशीर्णचिन्ता- चक्रभ्रमे पुरुषदुर्भ्रमराः पतन्ति || ६७ || मदमोहमन्दा एते पुरुषदुर्भ्रमराश्चित्तरूपं चलत्कुवलयं संसारदुर्नदीप्रवाह्यमानोत्पलं वलयन्तः संवेष्ट्य भ्रमन्तः सन्तो महाजडजवे लडयोरभेदान्महाजाड्यप्रवाहरूपजलवेगे वाल्यावर्तवद्वर्तिनि परिवर्तमाने प्रबलचिन्तान्तरेण विलूना चिरं नैष्फल्याद्देहेन सह विशीर्णा च या चिन्ता तल्लक्षणे चक्रभ्रमे चक्रसदृशे आवर्ते पतन्तीत्यर्थः || ६७ || इत्यार्षे श्रीवासिष्ठमहारामायणे मोक्षोपायेषूत्पत्तिप्रकरणे चित्तचिकित्सापूर्वकं चित्तवर्णनं नाम दशोत्तरशततमः सर्गः || ११० || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे चित्तचिकित्सापूर्वकं चित्तवर्णनं नाम दशोत्तरशततमः सर्गः || ११० || एकादशोत्तरशततमः सर्गः १११ श्रीवसिष्ठ उवाच | अस्य चित्तमहाव्याधेश्चिकित्साया महौषधम् | स्वायत्तं शृणु वक्ष्यामि साधु सुस्वादु निश्चितम् || १ || यत्नादभिमतत्यागस्त्यागोऽहंताममत्वयोः | अत्र चित्तजयोपायश्चिदैकाग्र्यं च वर्ण्यते || १ || स्वायत्तं स्वाधीनम् | अवश्यं साधयति पुरुषार्थमिति साधु || १ || स्वेनैव पौरुषेणाशु स्वसंवेदनरूपिणा | यत्नेन चित्तवेतालस्त्यक्त्वेष्टं वस्तु जीयते || २ || इष्टं रागविषयं बाह्यविषयं त्यक्त्वा संवेदनं स्वात्ममात्राकारवृत्तिधारा तद्रूपिणा पौरुषेण यत्नेन जीयते || २ || त्यजन्नभिमतं वस्तु यस्तिष्ठति निरामयः | जितमेव मनस्तेन कुदन्त इव दन्तिना || ३ || तत्रेष्टत्यागः प्रथमपीठिका दृढीकार्येत्याशयेनाह - त्यजन्निति | अभिमतं इष्टम् | निरामयो रागादिचित्तरोगशून्यः || ३ || स्वसंवेदनयत्नेन पाल्यते चित्तबालकः | अवस्तुतो वस्तुनि च योज्यते बोध्यतेऽपि च || ४ || पाल्यते रागचापलादिरोगचिकित्सया रक्ष्यते | अवस्तुतः प्रत्याहृत्येति शेषः || ४ || शास्त्रसत्सङ्गधीरेण चिन्तातप्तमतापिना | छिन्धि त्वमायसेनायो मनसैव मनो मुने || ५ || चिन्तालक्षणे वह्वावातप्तं मनोरूपं अयः | अतप्तेन शान्ततापेन मनसैवायसा साधनेन च्छिन्धि || ५ || अयत्नेन यथा बाल इतश्चेतश्च योज्यते | भावैस्तथैव चेतोन्तः किमिवात्रास्ति दुष्करम् || ६ || भावैर्लालनभीषणाद्युपायैः || ६ || सत्कर्मणि समाक्रान्तमुदर्कोदयदायिनि | स्वपौरुषेणैव मनश्चेतनेन नियोजयेत् || ७ || सत्कर्मणि समाध्यभ्यासलक्षणे समाक्रान्तमुपक्रान्तम् | चेतनेन चिदात्मना नियोजयेदेकीकुर्यात् || ७ || प्. ३८७) २२९ स्वायत्तमेकान्तहितं स्वेप्सितत्यागवेदनम् | यस्य दुष्करतां यातं धिक्तं पुरुषकीटकम् || ८ || अविरक्तान्निन्दति - स्वायत्तमिति | स्वेप्सितस्य त्यागस्तद्विषयं वेदनं वैराग्यवृत्तिः || ८ || अरम्यं रम्यरूपेण भावयित्वा स्वसंविदा | मल्लेनेव शिशुश्चित्तमयत्नेनैव जीयते || ९ || अरम्यं विषयजातं परमार्थरम्यब्रह्मरूपेण भावयित्वा || ९ || पौरुषेण प्रयत्नेन चित्तमाश्वेव जीयते | अचित्तेनाप्रयत्नेन पदं ब्रह्मणि दीयते || १० || ब्रह्मणि पदमङ्घ्रिर्दीयते | ब्रह्म प्राप्यत इति यावत् || १० || स्वायत्तं च सुसाध्यं च स्वचित्ताक्रान्तिमात्रकम् | शक्नुवन्ति न ये कर्तुं धिक्तान्पुरुषजम्बुकान् || ११ || स्वचित्तस्य आक्रान्तिर्निग्रहस्तावन्मात्रम् || ११ || स्वपौरुषैकसाध्येन स्वेप्सितत्यागरूपिणा | मनःप्रशममात्रेण विना नास्ति शुभा गतिः || १२ || मनोमारणमात्रेण साध्येन स्वात्मसंविदा | निःसपत्नमनाद्यन्तमनिङ्गनमिहोच्यताम् || १३ || स्वात्मसंविदा स्वात्मतत्त्वसाक्षात्कारेण निःसपत्नं स्वसाम्राज्यसुखविरोधिमोहादिशत्रुरहितमत एवानिङ्गनमचलमनाद्यन्तं स्वाराज्यसुखमिहास्मिन्नेव जीवन्मुक्तदेहे उच्यताम् | निःशङ्कं प्रतिज्ञायतामित्यर्थः || १३ || ईप्सितावेदनाख्यात्तु मनःप्रशमनादृते | गुरूपदेशशास्त्रार्थमन्त्राद्या युक्तयस्तृणम् || १४ || ईप्सितस्य बाह्यविषयस्यावेदनमनवभासः | ईप्सितस्य मोक्षसुखस्य आवेदनं निवेदनसाधनं तदाख्याद्वा | युक्तयः साधनानि | नात्र गुरूपदेशनिन्दायां तात्पर्यं किंतु मनःप्रशमनस्तुतौ || १४ || सर्वं सर्वगतं शान्तं ब्रह्म संपद्यते तदा | असंकल्पनशस्त्रेण च्छिन्नं चित्तं गतं यदा || १५ || गतं सहमूलेनोच्छिन्नं यदेत्यर्थः || १५ || स्वसंवेदनसाध्येऽस्मिन्संकल्पानर्थशासने | शान्तायामत्र वपुषि पुंसः कैव कदर्थना || १६ || संकल्परूपस्य अनर्थस्य शासने निग्रहे शान्तायां शान्त्यादिसाधनसंपन्नायां जीवन्मुक्तौ | अत्र वपुषि अधिकारिशरीरे | कदर्थना क्लेशः || १६ || नूनं दैवमनादृत्य मूढसंकल्पकल्पितम् | पुरुषार्थेन संवित्त्या नय चित्तमचित्तताम् || १७ || ननु दैवप्रातिकूल्ये कथं कार्यसिद्धिस्तत्राह - नूनमिति || १७ || तां महापदवीमेकां [एतां इति पाठः] कामप्यधिगतं चिरम् | चित्तं चिद्भक्षितं कृत्वा चित्तादपि परो भव || १८ || अचित्ततानयने क उपायस्तमाह - तामिति | चित्तं चिरं तां महापदवीं ब्रह्मरूपतामधिगतं प्राप्तं कृत्वान्ते साक्षात्कारवृत्त्याविर्भूतचित्ता समनस्काविद्याबाधाच्चिद्भक्षितं कृत्वा चित्तादपि परः पूर्णचिन्मात्ररूपो भवेत्यर्थः || १८ || भव भावनया युक्तो युक्तः परमया धिया | धारयात्मानमव्यग्रो ग्रस्तचित्तं ततः परम् || १९ || तत्र प्रथमं चिन्मात्रभावनया युक्तो भव तत्स्थैर्यार्थं परमया अतिसावधानया धिया बुद्ध्या युक्तो भव | ततो ग्रस्तचित्तं ततश्चित्तात्परं आत्मानं धारय स्थापय नान्यदित्यर्थः || १९ || परं पौरुषमाश्र्तिय नीत्वा चित्तमचित्तताम् | तां महापदवीमेहि यत्र नाशो न विद्यते || २० || संवेदनविपर्यासरूपिणी धीरिवाचला | जेतुमाशु मनो राम पौरुषेणैव शक्यते || २१ || यथा दिङ्मोहे अचला स्थिरापि प्रतीच्यां प्राचीति संवेदनविपर्यासधीर्विवेकस्थैर्यलक्षणेन पुरुषप्रयत्नेन जेतुं शक्यते तद्वन्मनोऽपीत्यर्थः || २१ || अनुद्वेगः श्रियो मूलमनुद्वेगात्प्रवर्तते | जन्तोर्मनोजयो येन त्रिलोकीविजयस्तृणम् || २२ || चिरं मनोनिग्रहे प्रवृत्तस्योद्वेगात्तत्परित्यागो मा भूदिति तदुत्साहं वर्धयन्नाह - अनुद्वेग इति | श्रियो राज्यादिसंपदो मूलम् | दृष्टान्तार्थमिदम् | मनोजयः प्रवर्तते सिद्ध्यतीति यावत् || २२ || न शस्त्रदलनोत्पातपाता यस्यां मनागपि | स्वभावमात्रव्यावृत्तौ तस्यां कैव कदर्थना || २३ || श्रीसुखे युद्ध शस्त्रदलनकदर्थना स्वर्गसुखे उत्पातो मृत्वा ऊर्ध्वगमनं ततः पात इति कदर्थना मनोजयसुखे तु न कापीत्याह - न शस्त्रेति || २३ || अपि स्ववेदनाक्रान्तौ न शक्ता ये नराधमाः | कथं व्यवहरिष्यन्ति व्यवहारदशासु ते || २४ || स्वस्य वेदनं मनः | करणे ल्युट् | तस्याक्रान्तौ निग्रहे || २४ || पुमान्मृतोऽस्मि जातोऽस्मि जीवामीति कुदृष्टयः | चेतसो वृत्तयो भान्ति चपलस्यासदुत्थिताः || २५ || समाधिसुप्त्यादौ जन्ममरणादिदुःखानामननुभवाद्व्यवहारकाले मनोवृत्तिपूर्वकमेव तदनुभवाच्च मनोवृत्तिमात्रत्वं संसारस्येति दर्शयति - पुमानित्यादिना | असत्य एवोत्थिताः | कर्मधारयत्वात्पूर्वपदं पुंवत् || २५ || न कश्चनेह म्रियते जायते न च कश्चन | स्वयं वेत्ति मृतं स्वस्य लोकमन्यं स्वकं मनः || २६ || असत्त्वमेव दर्शयति - न कश्चनेति || २६ || इतो याति परं लोकं स्फुरत्यन्यतया मनः | तत्तस्यैत्येतदामोक्षमतो मृतिभयं कुतः || २७ || इहलोकेन विचरत्विहलोके परत्र च | चित्तमामोक्षमास्तेऽस्य रूपमन्यन्न विद्यते || २८ || इहलोके इहलोकेन इहलोकात्मना विचरतु भ्राम्यतु परत्र परलोके च परलोकभावेनेति शेषः | तथापि चित्तमेव तथा तथा आस्ते | अस्य संसारस्य चित्तादन्यद्रूपं न विद्यत इत्यर्थः || २८ || मृते भ्रातरि भृत्यादौ क्लेश आक्रियतेऽनृतः | तत्स्वचित्तं स्वचैतन्यव्यावृत्तात्मेति मे मतिः || २९ || एवं च शोकादयोऽप्यात्मचैतन्यव्यावृत्तचित्तमात्रधर्मा इत्याह - मृते इति | क्लेशः शोकः | निर्विकारस्वचैतन्याद्व्यावृत्तात्म विभक्तं स्वविकाररूपं स्वचित्तमेवेत्यर्थः || २९ || प्. ३८८) २३० सति पथ्ये तते शुभ्रे चित्तोपशमनादृते | तिर्यगूर्ध्वमधस्ताच्च भूयोभूयो विचारितम् || ३० || अतः परमात्मनि समूलचित्तनाश एव मुक्त्युपायो नान्य इति परिशेषयन्नुपसंहरति - सतीत्यादिना | सति अन्यनिरपेक्षसत्ताके पथ्ये सर्वहिते | शुभ्रे मायामालिन्यरहिते | ऋते प्रमाणमूर्धन्यश्रुतिबोधिते परमात्मनि चितो भावश्चित्ता तया उपशमनात्तद्भावमात्रपरिशेषलक्षणाच्चित्तस्योपशमनात् ऋते विना मुक्तेरुपायोऽन्यो नास्ति | यावदित्यवधारणे | नास्त्येवेत्यर्थः | एतदूर्ध्वमूर्ध्वलोकेषु अधस्तात् पातालादिलोकेषु तिर्यक् परितो द्वीपान्तरेषु च तत्त्वदर्शिभिर्विचार्य निर्धारितमित्युत्तरेण सहान्वयः || ३० || यावन्नास्ति किलोपायश्चित्तोपशमनादृते | ऋते तथ्ये तते शुभ्रे बोधे हृद्युदिते सति || ३१ || मनोविलये च समाधिपरिपाकपरिष्कृते मनस्यपरोक्षतया आविर्भूतब्रह्मात्मकबोध एवोपाय इत्याशयेनाह - ऋते तथ्ये इति | ऋते अबाध्ये || ३१ || मनोविलयमात्रेण विश्रान्तिरुपजायते | व्यायते हृदयाकाशे चिति चिच्चक्रधारया || ३२ || व्यायते अत्यन्तविस्तीर्णे हृदयाकाशे दहराकाशरूपे ब्रह्मचिति चरमवृत्तिद्धचिल्लक्षणया चक्रधारया मनो मारयेति परेणान्वयः || ३२ || मनो मारय निःशङ्कं त्वां प्रबध्नन्ति नाधयः | यदि रम्यमरम्यत्वे त्वया संविदितं विदा || ३३ || आधयो मानसदुःखानि त्वां न प्रबध्नन्ति न बन्धयिष्यन्ति | आपातरम्येषु विषयेषु दोषानुसंधानेनारम्यतादर्शनं प्रथमं संपाद्यमित्याशयेनाह - यदीति || ३३ || छिन्नान्येव तदाङ्गानि [तदङ्गानि इति पाठः क्वचित्] चित्तस्येति मतिर्मम | अयं सोऽहमिदं तन्म एतावन्मात्रकं मनः || ३४ || मनसश्छेद्यान्यङ्गान्युक्त्वा शरीरमाह - अयं सोऽहमिति | अयं दृश्यमानः स पित्रा उत्पादितो देहः अहं इदं देहसंबन्धि गृहक्षेत्रादि तत्प्राक् पित्राद्यर्जितं मे मदीयं इति यो भ्रम एतावन्मात्रकं एतावच्छरीरकं मन इत्यर्थः || ३४ || तदभावनमात्रेण दात्रेणेव विलूयते | छिन्नाभ्रमण्डलं व्योम्नि [व्योम इति पाठः] यथा शरदि धूयते || ३५ || वातेनाकल्पनेनैवं तथा तद्धूयते मनः | भवन्ति यत्र शस्त्राग्निपवनास्तत्र भीर्भवेत् || ३६ || वातेन यथा छिन्नाभ्रमण्डलं धूयते निरस्यते तथा एवं प्रागुक्तेनाहंमेत्यकल्पनेन मनो धूयत इत्यर्थः || ३६ || स्वायते मृदुनि स्वच्छे किमसंकल्पने भयम् | इदं श्रेय इदं नेति सिद्धमाबालमक्षतम् || ३७ || मृदुनि अकठिने | अनायाससाध्ये इति यावत् | सिद्धं प्रसिद्धम् || ३७ || बालं पुत्रमिवोदारे मनः श्रेयसि योजयेत् | अक्षयं चानवं चेतःसिंहं संसृतिबृंहणम् | घ्नन्ति ये ते जयन्तीह निर्वाणपददायिनः || ३८ || किं प्रसिद्धं तदाह - बालमिति | अक्षयं क्षेतुमशक्यम् | अनवं अबालम् | चेतोलक्षणं सिंहं ये घ्नन्ति ते जयन्ति सर्वोत्कर्षेण वर्तन्ते | अन्येभ्योऽपि निर्वाणपददायिनो भवन्तीत्यर्थः || ३८ || भीमाः संभ्रमदायिन्यः संकल्पकदनादिमाः | विपदः संप्रसूयन्ते मृगतृष्णा मराविव || ३९ || मन एव महाभयं मनोजय एवाभयप्रतिष्ठेत्याह - भीमा इति द्वाभ्याम् || ३९ || कल्पान्तपवना वान्तु यान्तु चैकत्वमर्णवाः | तपन्तु द्वादशादित्या नास्ति निर्मनसः क्षतिः || ४० || मनोबीजात्समुद्यन्ति सुखदुःखे शुभाशुभे | संसारखण्डका एते लोकसप्तकपल्लवाः || ४१ || खण्डका वनखण्डाः || ४१ || असंकल्पनमात्रैकसाध्ये सकलसिद्धिदे | असंकल्पनसाम्राज्ये तिष्ठावष्टब्धतत्पदः || ४२ || अवष्टब्धमवलम्बितं तत्परमात्मपदसिंहासनं येन तथाविधः सन् असंकल्पनसाम्राज्ये तिष्ठ || ४२ || प्रयच्छत्युत्तमानन्दं क्षीयमाणं मनः क्रमात् | काष्ठक्षीणाङ्गकाङ्गारो यथाङ्गारक्षयार्थिनः || ४३ || नन्वसंकल्पनमात्रेण कथं मनःक्षयानन्दसिद्धिस्तत्र दृष्टान्तमाह - काष्ठेति | यथा अङ्गारक्षयार्थिनो ज्वलदङ्गारनाशेन तापोपशमसुखार्थिनः पुरुषस्य काष्ठापसरणेनक्षीणाङ्गकः क्रमाद्भस्मीभावापन्नावयवः सोङ्गारस्तापोपशमनानन्दं प्रयच्छति तद्वदित्यर्थः || ४३ || अपि ब्रह्मकुटीलक्षं मनसश्चेत्समीहितम् | तदणोरन्तरे व्यक्तं विभक्तं परिदृश्यते || ४४ || संकल्पवृद्धौ ब्रह्माण्डलक्षाणामपि चिदणूदरे कल्पना संपद्यत इत्याह - अपीति | ब्रह्मकुटीनां ब्रह्माण्डानाम् | समीहितं संकल्पैरभिलषितं चेत् || ४४ || संकल्पमात्रविभवेन कृतात्यनर्थं संकल्पमात्रविभवेन सुसाधितार्थम् | संतोषमात्रविभवेन मनो विजित्य नित्योदितेन जयमेहि निरीप्सितेन || ४५ || संकल्पमात्रलक्षणेन स्वविभवेन सुसाधिता ब्रह्माण्डकोट्यादिपदार्था येन अत एव संकल्पमात्रविभवेनैव कृता अत्यनर्था जन्ममरणनिरयादयो येन तत्तथाविधं मनो नित्योदितेन निरन्तरभावितेन निरीहितेन निःसंकल्पेन संतोषमात्रविभवेन विजित्य विजयं सर्वोत्कर्षं एहि प्राप्नुहि || ४५ || परमपावनया विमनस्तया समतया मतयात्मविदामपि | शमितया मितयान्तरहंतया यदवशिष्टमजं पदमस्तु तत् || ४६ || आत्मविदां मतया संमतया अवैषम्यवृत्त्या शमितया निरस्तया अमितया वह्न्या अहंतयापि अन्तः यत् अजं जन्मादिविकारशून्यं पदमवशिष्टं तदेव तवास्तु प्राप्यमिति आशिषि लोट् || ४६ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० उत्पत्तिप्रकरणे चित्तचिकित्सानामैकादशोत्तरशततमः सर्गः || १११ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे चित्तचिकित्सा नामैकादशोत्तरशततमः सर्गः || १११ || प्. ३८९) २३० द्वादशोत्तरशततमः सर्गः ११२ श्रीवसिष्ठ उवाच | यस्मिंस्तस्मिन्पदार्थे हि येन तेन यथा तथा | तीव्रसंवेगसंपन्नं मनः पश्यति वाञ्छितम् || १ || अत्र चित्तक्षयोपायो वासनात्याग इर्यते | चिन्मात्रवासनाभ्यासात्तदेकदृढनिश्चयात् || १ || वासनाक्षयार्थं द्वैतविषये मनसस्तीव्रवेगो निरोद्धव्यश्चिन्मात्राकारे तु संपाद्य इति वक्तुं मनसः स्वतीव्रवेगानुसारिफलसंपादनस्वभावतामाह - यस्मिन्निति | यस्मिन्पदार्थे येन येन वाञ्छितेन निमित्तेन यथा यथा प्रकर्षेण मनस्तीव्रवेगाभिसंपन्नं भवति तस्मिन्पदार्थे तत्तद्वाञ्छितं पश्यतीत्यर्थः || १ || जायते म्रियते चैषा मनसस्तीव्रवेगिता | सौम्याम्बुबुद्बुदालीव निर्निमित्ता स्वभावतः || २ || हे सौम्य उपेक्षणेन जायते | निरोधप्रयत्नेन म्रियते शाम्यति | यत उत्पत्तौ निर्निमित्तेत्यर्थः || २ || शीतता तुहिनस्येव कज्जलस्येव कृष्णता | लोलता मनसो रूपं तीव्रातीव्रैकरूपिणी || ३ || स्वभावत इति यदुक्तं तद्विशदयति - शीततेति || ३ || श्रीराम उवाच | कथमस्यातिलोलस्य वेगो वेगैककारणम् | चलता मनसो ब्रह्मन्बलतो विनिवार्यते || ४ || वेग इत्यस्य व्याख्या चलतेति | वेगस्य तीव्रवेगस्य एकं मुख्यं कारणम् || ४ || श्रीवसिष्ठ उवाच | नेह चञ्चलताहीनं मनः क्वचन दृश्यते | चञ्चलत्वं मनोधर्मो वह्नेर्धर्मो यथोष्णता || ५ || यैषा हि चञ्चला स्पन्दशक्तिश्चित्तत्वसंस्थिता | तां विद्धि मानसीं शक्तिं जगदाडम्बरात्मिका || ६ || चित्तत्वं जगत्कारणमायासंवलितचैतन्यं तत्र संस्थिता स्पन्दशक्तिः क्रियाशक्तिस्तां मानसीं मनोरूपेण परिणतां विद्धित्यर्थः || ६ || स्पन्दास्पन्दादृते वायोर्यथा सत्तैव नोह्यते | तथा [तथाच इति पाठः] न चित्तसत्तास्ति चञ्चलस्पन्दनादृते || ७ || सत्ता अस्तिता | नोह्यते न विरर्क्यते || ७ || यत्तु चञ्चलताहीनं तन्मनो मृतमुच्यते | तदेव च तपःशास्त्रसिद्धान्तो मोक्ष उच्यते || ८ || मनोविलयमात्रेण दुःखशान्तिरवाप्यते | मनोमननमात्रेण दुःखं परमवाप्यते || ९ || दुःखमुत्पादयत्युच्चैरुत्थितश्चित्तराक्षसः | सुखायानन्तभोगाय तं प्रयत्नेन पातय || १० || अनन्तं त्रिविधपरिच्छेदरहितं यथा स्यात्तथा भुज्यत इव प्रथत इत्यनन्तभोगाय मोक्षसुखाय || १० || तस्य चञ्चलता यैषा त्वविद्या राम सोच्यते | वासनापदनाम्नीं तां विचारेण विनाशय || ११ || अविद्या रजःशक्तिबीजकत्वादविद्या | वासनापदनाम्नीमिति | मनः अनो बहुव्रीहेः इति प्रतिषेधविषये अन उपधालोपिन इति ङीप् पाक्षिकः || ११ || अविद्यया वासनया तयान्तश्चित्तसत्तया | विलीनया त्यागवशात्परं श्रेयोऽधिगम्यते || १२ || त्यागवशाद्बाह्यविषयानुसंधानत्यागबलात् || १२ || यत्तत्सदसतोर्मध्यं यन्मध्यं चित्त्वजाड्ययोः | तन्मनः प्रोच्यते राम द्वयोर्दोलायिताकृति || १३ || एवं वक्तव्योपयोगितया चाञ्चल्यधर्मकतां मनसः समर्थ्य वास्तवावस्तवरूपद्वयात्मकतामवास्तवांशहेयताप्रदर्शनाय वास्तवरूपप्रतिष्ठाया विनाशप्रसक्तिवारणाय चाह - यत्तदिति | सदसतोर्मध्यं मिथुनीभावरूपमन्तरालम् | अत एवान्यतररूपप्राधान्ये दोलायिताकृति अविश्रान्तस्थिति || १३ || जाड्यानुसंधानहतं जाड्यात्मकतयेद्धया | चेतो जडत्वमायाति दृढाभ्यासवशेन हि || १४ || कस्मात्तर्ह्येकतरकोटिविश्रान्तिस्तत्राह - जाड्येति द्वाभ्याम् | इद्धया प्ररूढया || १४ || विवेकैकानुसंधानाच्चिदंशात्मतया मनः | चिदेकतामुपायाति दृढाभ्यासवशादिह || १५ || चिदंशात्मतया इद्धयेत्यनुषज्यते || १५ || पौरुषेण प्रयत्नेन यस्मिन्नेव पदे मनः | पात्यते तत्पदं प्राप्य भवत्यभ्यासतो हि तत् || १६ || प्रयत्नेन स्वाभाविकेन शास्त्रीयेण वा || १६ || पुनः पौरुषमाश्रित्य चित्तमाक्रम्य चेतसा | विशोकं पदमाश्रित्य निराशङ्कः स्थिरो भव || १७ || भवभावनया मग्नं मनसैव न चेन्मनः | बलादुत्तार्यते राम तदुपायोऽस्ति नेतरः || १८ || तत्तत इतरः || १८ || मन एव समर्थं वो मनसो दृढनिग्रहे | अराजा कः समर्थः स्याद्राज्ञो राघव निग्रहे || १९ || तृष्णाग्राहगृहीतानां संसारार्णवरंहसि | आवर्तैरुह्यमानानां दूरे स्वं मन एव नौः || २० || दूरे उह्यमानानां प्रवाह्यमाणानाम् | नौस्तरिः || २० || मनसैव मनश्छित्त्वा पाशं परमबन्धनम् | उन्मोचितो न येनात्मा नासावन्येन मोक्ष्यते || २१ || या योदेति मनोनाम्नी वासना वासितान्तरा | तां तां परिहरेत्प्राज्ञस्ततोऽविद्याक्षयो भवेत् || २२ || मनोनाम्नी बाह्यार्थमननाभिधाना | ङीप् प्राग्वत् | परिहरेन्मिथ्यात्वानुसंधानेन निरस्येत् | यथा औष्ण्ये क्षीणे वह्निः शाम्यति तद्वद्वासनाक्षये सह मनसाऽविद्या क्षीयत इति भावः || २२ || प्. ३९०) २३१ भोगौघवासनां त्यक्त्वा त्यज त्वं भेदवासनाम् | भावाभावौ ततस्त्यक्त्वा निर्विकल्पः सुखी भव || २३ || वासनात्यागे क्रममाह - भोगौघेति | भावाभावौ चित्तचेत्यौ | कल्पनाव्युत्क्रमेण त्याग इति भावः || २३ || अभावनं भावनायास्त्वेतावान्वासनाक्षयः | एष एव मनोनाशस्त्वविद्यानाश उच्यते || २४ || चित्तचेत्यत्यागेऽपि तद्धेत्वज्ञानपरिशेषमाशङ्क्याह - अभावनमिति | न भाव्यते पूर्णतयानुभूयते येनाविद्यावरणेन तदविद्यावरणं भावनायास्तत्त्वसाक्षात्काराद्धेतोस्त्यक्त्वा सुखी भवेत्यनुषज्यते || २४ || यद्यत्संवेद्यते किंचित्तत्रासंवेदनं परम् | असंवित्तिस्तु निर्वाणं दुःखं संवेदनाद्भवेत् || २५ || अथवा साक्षाच्चित्तद्वारा वा यद्यत्किंचित्साक्षिणा संवेद्यते तत्र तत्र संवेद्यताया असंवेदनं परमुत्कृष्टमनोनाशनिर्वाणमिति संक्षेप इत्याह - यद्यदिति || २५ || स्वेनैव तत्प्रयत्नेन पुंसः संवेद्यते क्षणात् | भावस्याभावनं भूत्यै तत्तस्मान्नित्यमाहरेत् || २६ || तच्च वेद्यावेदनं पुरुषप्रयत्नाद्भवतीत्याह - स्वेनेति | भावस्याभावनं वेद्यस्यावेदनम् | तत्स्वप्रयत्नं नित्यमाहरेदभ्यसेत् || २६ || रागादयो ये मनसीप्सितास्ते बुद्ध्वेह तांस्तांस्त्वमवस्तुभूतान् | त्यक्त्वा तदास्याङ्कुरमस्तबीजं मा हर्षशोकं समुपैहि तृप्तः || २७ || उक्तमनूद्योपसंहरति - रागादय इति | ते तव मनसि ये ये रज्यन्ते येषु ते रागा विषयाः | आदिपदात्तदुपाया इप्सितास्तांस्तांस्त्वमनर्थभूतान् बुद्ध्वा ते रागादयः आस्याङ्कुरा बीजमुखनिर्गच्छदङ्कुरकल्पा यस्य तत्तथाविधं मनोऽपि अस्तबीजं अज्ञानवासनाबीजैः सह त्यक्त्वा पूर्णात्मानुभवामृततृप्तः सन् हर्षशोकं मा समुपहि मत्वा धीरो हर्षशोकौ जहाति इति श्रुतेरित्यर्थः || २७ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० उ० मुखरवेणोपदेशांशकथनं नाम द्वादशोत्तरशततमः सर्गः || ११२ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे मुखरवेणोपदेशांशकथनं नाम द्वादशोत्तरशततमः सर्गः || ११२ || त्रयोदशोत्तरशततमः सर्गः ११३ श्रीवसिष्ठ उवाच | एषा हि वासना नित्यमसत्यैव यदुत्थिता | द्विचन्द्रभ्रान्तिवत्तेन त्यक्तुं राघव युज्यते || १ || सर्वदुर्वासनोच्छेदी विचारैर्विविधैर्मृतः | द्वैतमिथ्यात्वधीरूढस्तत्त्वबोधोऽत्र वर्ण्यते || १ || यद्यतो हेतोरसत्यैवोत्थिता तत्ततस्त्यक्तुं बाधितुं युज्यते || १ || अविद्या विद्यमानेव नष्टप्रज्ञेषु विद्यते | नाम्नैवाङ्गीकृताभावात्सम्यक्प्रज्ञेषु सा कुतः || २ || नष्टप्रज्ञेषु विवेकविज्ञानशून्येषु विद्यमाना परमार्थसत्येव दृढतरा विद्यते | सम्यक्प्रज्ञेषु तु अभावादपरमार्थत्वान्नाम्नैवाङ्गीकृता वन्ध्यापुत्रवत् | अतः सा कुतः || २ || मा भवाज्ञो भव प्राज्ञः सम्यग्राम विचारय | नास्त्येवेन्दुर्द्वितीयः खे भ्रान्त्या संलक्ष्यते मुधा || ३ || अतस्तत्त्वज्ञतामेव विचारेण संपादयेत्याह - मा भवेति || ३ || नात्र तत्त्वादृते किंचिद्विद्यते वस्त्ववस्तु च | ऊर्मिमालिनि विस्तीर्णे वारिपूरादृते यथा || ४ || तत्त्वात्परमात्मनः | वस्तु भावः | अवस्तु अभावः || ४ || स्वविकल्पादृते नैतान्भावाभावानसन्मयान् | नित्येऽसिते तते शुद्धे मा समारोपयात्मनि || ५ || असिते देहादिबन्धनशून्ये | षिञ् बन्धने क्तः || ५ || नासि कर्ता किमेतासु क्रियासु ममता तव | एकस्मिन्विद्यमाने हि किं केन क्रियते कथम् || ६ || बन्धस्याकर्तृतामूलत्वात्तामेव प्रथमं त्यजेत्याह - नासीति | एकस्मिन् अद्वितीये | नह्येकमात्रकारकसाध्या क्रिया प्रसिद्धेति भावः || ६ || मा वाऽकर्ता भव प्राज्ञ किमकर्तृतयेहिते | साध्यं साध्यमुपादेयं तस्मात्स्वस्थो भवानघ || ७ || अकर्ता अकर्तृत्वाभिमानी च मा भव | अकर्तृतया ईहिते अभिमाने कृते उपादेयं प्राप्यं साध्यं स्वयत्ननिष्पाद्यं किं साध्यं फलमस्ति | न किंचिदित्यर्थः || ७ || कर्ता संस्त्वमसक्तत्वाद्भाअवाभावे रघूद्वह | असक्तत्वादकर्तापि कर्तृवत्स्पन्दनं कुतः || ८ || भावोऽभिमानस्तदभावे सति असक्तत्वादकर्तापि एवमकर्तापि संस्तत्राप्यभिमानाभावे अकर्तृत्वेऽप्यसक्तत्वात्कर्तापि | तर्हि किमज्ञवत्कर्ताहं नेत्याह - कर्तृवदिति | अस्पन्दात्मदर्शिनस्तव नाज्ञकर्तृवद्देहस्पन्दनेनात्मस्पन्दभ्रमलक्षणकर्तृताप्रसक्तिरित्यर्थ ः || ८ || सत्यं स्याच्चेदुपादेयं मिथ्या स्याद्धेयमेव चेत् | उपादेयैकसक्तत्वाद्युक्ता सक्तिर्हि कर्मणि || ९ || क्रियाफलमिथ्यात्वे कर्मासक्तिरेव न युक्तेति तर्केणापि दृढीकुर्वन्नाह - सत्यमिति || ९ || यत्रेन्द्रजालमखिलं मायामयमवस्तुकम् | तत्र कास्था कथं नाम हेयोपादेयदृष्टयः || १० || दर्शिततर्कस्य विपर्ययपर्यवसानं दर्शयति - यत्रेति | यत्रतत्रेति शब्दौ यर्हितर्हीत्यर्थे || १० || संसारबीजकणिका यैषा विद्या रधूद्वह | एषा ह्यविद्यमानैव सतीव स्फारतां गता || ११ || कुत इन्द्रजालतेति चेदाविद्यकत्वादित्याह - संसारेति || ११ || येयमाभोगिनिःसारा संसारारम्भचक्रिका | विज्ञेया वासनैषा सा चेतसो मोहदायिनी || १२ || चारुवंशलतेवान्तःशून्या निस्सारकोटरा | सरित्तरङ्गमालेव न व्युच्छिन्नापि नश्वरी || १३ || अविद्यारूपां संसारारम्भचक्रिकामेव विस्तरेण वर्णयति - चार्वित्यादिना | अन्तःशून्येत्यस्य विवरणं निःसारकोटरेति | मूलनाशं विना व्युच्छिन्नापि न नश्वरी || १३ || प्. ३९१) २३१ गृह्यमाणापि हस्तेन ग्रहीतुं नैव युज्यते | मृद्व्यप्यत्यन्ततीक्ष्णाग्रा निर्झरोर्मिरिवोत्थिता || १४ || निर्झरोर्मिपक्षे कूलद्रुमच्छेदिनीत्वात्तीक्ष्णाग्रेति बोध्यम् || १४ || दृश्यते प्रकराभासा सदर्थे नोपयुज्यते | तरङ्ग्ण्यतरङ्गाभा स्वाकारपरिनिष्ठिता || १५ || प्रकरः कार्यसमर्थकारणकलापस्तद्वदाभासः प्रथा यस्याः | तथापि सदर्थे सत्यपुरुषार्थे | तरङ्गिणीपक्षे स्नानपानादिसत्यार्थक्रियार्थे | अतरङ्गाभा सत्यतरङ्गशून्यस्वप्नतरङ्गिणीसदृशी मृगत्ष्णातरङ्गिणीव | स्वाकारः प्रतीतिमात्रशोभमान आकारस्तत्रैव परिनिष्ठिता परिसमाप्ता नार्थक्रियायामित्यर्थः || १५ || क्वचिद्वक्राः क्वचित्स्पष्टा दीर्घाः खर्वाः स्थिराश्चलाः | यत्प्रसादोद्भवास्तस्माद्व्यतिरेकमुपागताः || १६ || स्वाकारानेव प्रपञ्चयति - क्वचिदिति | यस्या वर्ण्यमानचक्रिकायाः प्रसादादुद्भवा आविर्भूताः व्यतिरेकं परस्परभेदमुपागताः सर्वपदार्था इति शेषः || १६ || अन्तःशून्यापि सर्वत्र दृश्यते सारसुन्दरी | न क्वचित्संस्थितापीह सर्वत्रैवोपलक्ष्यते || १७ || जडैव चिन्मयीवासावन्यस्पन्दोपजीविनी | निमेषमप्यतिष्ठन्ती स्थैर्याशङ्कां प्रयच्छति || १८ || अन्यस्पन्दं मनश्चाञ्चल्यमुपजीवति तच्छीला || १८ || ज्वालावच्छुद्धवर्णापि मषीमलिनकोटरा | वल्गत्यन्यप्रसादेन दीयते तदवेक्षणात् || १९ || सत्त्वगुणेन शुद्धवर्णापि तमसा मषीमलिनकोटरा | अन्यस्य परमात्मनः प्रसादेन सान्निध्येन वल्गति चलति | तस्यावेक्षणात्साक्षात्काराद्दीयते खण्ड्यते | दो अवखण्डने || १९ || आलोके विमले म्लाना तमस्यपि विराजते | मृगतृष्णेव शुष्काभा नानावर्णविलासिनी || २० || विमले स्वात्मालोके आवरकत्वान्म्लाना || २० || वक्रा विषमयी तन्वी मृद्वी संकटकर्कशा | ललनाचञ्चला लुब्धा तृष्णा कृष्णेव भोगिनी || २१ || तृष्णादिरूपेणापि तामेवाह - वक्रेति | संकटहेतुत्वात्कर्कशा | ललनेव चञ्चला | भोगिनी सर्पिणी || २१ || स्वयं दीपशिखेवाशु क्षीयते स्नेहसंक्षये | सिन्दूरधूलिलेखेव विना रागं विराजते || २२ || रागं स्नेहं विनापि सिन्दूरधूलिलेखेव रागवती विराजते || २२ || क्षणप्रकाशतरला कृतसंस्था जडाशया | मुग्धानां त्रासजननी वक्रा विद्युदिवोदिता || २३ || जडया आशया कृतसंस्था संपादितस्थितिः | विद्युत्पक्षे डलयोरभेदाज्जलस्याशया मेघे कृतस्थितिरित्यर्थः || २३ || यत्नाद्गृहीत्वा दहति भूत्वा भूत्वा प्रलीयते | लभ्यतेऽपि हि नान्विष्टा विद्युद्वदतिभङ्गुरा || २४ || दहति | संतापदुःखे पर्यवस्यतीति यावत् | विद्युत्पक्षे स्पष्टम् || २४ || अप्रार्थितैवोपनता रमणीयाप्यनर्थदा | अकालपुष्पमालेव श्रेयसेनाभिनन्दिता || २५ || अकालपुष्पमालाप्युत्पातत्वादनर्थदा || २५ || अत्यन्तविसृतैवातिसुखाय भ्रमदायिनी | दुःस्वप्नकलनेवेयमनर्थायैव तर्किता || २६ || तर्किता पुनःपुनस्तर्कैरनुसंधीयमाना || २६ || प्रतिभासवशादेषा त्रिजगन्ति महान्ति च | मुहूर्तमात्रेणोत्पाद्य धत्ते ग्रासीकरोति च || २७ || मुहूर्तो वत्सरश्रेणी लवणस्यानया कृता | रात्रिर्द्वादशवर्षाणि हरिश्चन्द्रस्य निर्मिता || २८ || वियोगिनामथान्येषां कान्ताविभवशालिनाम् | रात्रिवत्सरवद्दीर्घा भवेत्तस्याः प्रसादतः || २९ || सुखितस्याल्पतामेति दुःखितस्यैति दीर्घताम् | कालो यस्याः प्रसादेन विपर्यासैकशीलिनाम् || ३० || विपर्यासो भ्रमस्तदेकशीलिनां पुंसाम् || ३० || अस्याः स्वसत्तामात्रेण कर्तृतैतासु वृत्तिषु | दीपस्यालोककार्याणां यथा तद्वन्न वस्तुतः || ३१ || अविद्याया अपि ब्रह्मणि जगद्विवर्तारोपे सन्निधानमात्रेण निमित्तता नतु परिणामितेति स्वमतं दर्शयति - अस्या इति || ३१ || सनितम्बस्तनी चित्रे [त्वित्ते इति पाठः] न स्त्री स्त्रीधर्मिणी यथा | तथैवाकारचिन्तेयं कर्तुं योग्या न किंचन || ३२ || कुतो नास्याः कर्तृतेति चेदयोग्यत्वादित्याह - सनितम्बेति | स्त्रीधर्मिणी गृहकार्यकरणादिसमर्थेति यावत् | आकारचिन्ता प्रागनुभूतार्थवासनारूपा | इयमविद्या || ३२ || मनोराज्यमिवाकारभासुरा सत्यवर्जिता | सहस्रशतशास्त्रापि न किंचित्परमार्थतः || ३३ || तदेव स्पष्टमाह - मनोराज्यमिति || ३३ || अरण्ये मृगतृष्णेव मिथ्यैवाडम्बरान्विता | विडम्बयति तान्मुग्धमृगानेव न मानुषान् || ३४ || फेनमालेव संजातध्वस्ता विच्छेदवर्जिता | जडेव चञ्चलाकारा गृह्यमाणा न किंचन || ३५ || संजातध्वस्ता उत्पन्नप्रध्वंसिनी | विच्छेदवर्जिता प्रवाहनित्या | जडा नीहारपटलीव || ३५ || अटत्युड्डामराकारा रजःप्रसरधूसरा | बलात्कल्पान्तवात्येव स्वाक्रान्तभुवनान्तरा || ३६ || धूमालीवाङ्गसंलग्ना दाहखेदप्रदायिनी | गर्भीकृतरसाक्रम्य जगन्ति परिवर्तते || ३७ || गर्भीकृतो रसः परमात्मा जलं च यया | अत एव जगन्ति आक्रम्य प्रक्रम्य परिभूय च परिवर्तते भ्रमति || ३७ || धारा जलधरस्येव सुदीर्घा जलनिर्मिता | असारसंसारदृढा रज्जुस्तृणगणैरिव || ३८ || असारैः पेलवैः संसारैः संसरणसंस्कारैर्दृढा | तत्र दृष्टान्तः ##- प्. ३९२) २३२ तरङ्गोत्पलमालेव कल्पनामात्रवर्णिता | मृणालीव बहुच्छिद्रा पङ्कप्रौढा जलात्मिका || ३९ || कविभिः कल्पनामात्रेण वर्णिता तरङ्गमालेवोत्पलमालेव च पङ्के पापे कर्दमे च प्रौढा जलात्मिका जडात्मिका | लडयोरभेदात् || ३९ || जनेन दृश्यते वृद्धितत्परा नच वर्धते | विषास्वाद इवापातमधुराऽन्ते सुदारुणा || ४० || विषास्वादः सविषमोदकास्वादः || ४० || नष्टा दीपशिखेवैषा न जाने क्वेव गच्छति | मिहिकेवाग्रदृष्टापि गृह्यमाणा न किंचन || ४१ || न जाने इति | बाधितस्य वादिसहस्रैरपि स्वरूपनिरूपणासंभवादिति भावः | मिहिका नीहारधूमपटलीव || ४१ || पांसुमुष्टिरिवाकीर्य प्रेक्षिता पारमाणवी | आकाशनीलिमेवैषा निर्निमित्तैव दृश्यते || ४२ || द्विचन्द्रमोहवज्जाता स्वप्नवद्विहितभ्रमा | यथा नौयायिनः स्थाणुस्पन्दस्तद्वदिहोत्थिता || ४३ || अनयोपहते चित्ते दीर्घकालमिवाकुलैः | जनैराकल्प्यते दीर्घसंसारस्वप्नविभ्रमः || ४४ || इवशब्दो मिथ्यात्वद्योतकः || ४४ || अनयोपहते स्वस्मिंश्चित्राश्चेतसि विभ्रमाः | उत्पद्यन्ते विनश्यन्ति तरङ्गास्तोयघेरिव || ४५ || स्वस्मिन्स्वात्मनि अनया उपहृते | आवरणेनासत्प्राये कृते सतीत्यर्थः || ४५ || मनोज्ञमपि सत्यं च दृश्यते सदसत्तया | अमनोज्ञमसत्यं च दृश्यते सत्तयाप्यसत् || ४६ || तस्या विपर्यासशक्तिमाह - मनोज्ञमिति | सद्ब्रह्म | असज्जगत् || ४६ || पदार्थरथमारूढा भावनैषा बलान्विता | आक्रामति मनः क्षिप्रं विहगं वागुरा यथा || ४७ || पदार्था विषयास्तद्रूपं रथं | तदाकारतामिति यावत् | भावना उद्भूतवासनारूपा एषा अविद्या मनः आक्रामति मोहयित्वा बध्नाति || ४७ || करुणास्यन्दमानाक्षी स्रवत्क्षीरलवस्तनी | भवत्युल्लसितानन्दं जननी गृहिणी यथा || ४८ || मातृपत्न्यादिरूपतामप्यविद्यैव धारयतीत्याह - करुणेति || ४८ || विषीकरोति निःस्यन्दसंतर्पितजगत्त्रयम् | सुधार्द्रार्द्रमपि क्षिप्रं प्रवृद्धं बिम्बमैन्दवम् || ४९ || निःस्यन्दैरमृतद्रवैश्चन्द्रिकाद्यात्मना परिणतैः संतर्पितजगत्त्रयमैन्दवं बिम्बमपि विषीकरोति || ४९ || उन्मत्तरववेतालनर्तनारम्भसंभ्रमम् | स्थाणवः संप्रयच्छन्ति मूका अप्येतयान्धया || ५० || अन्धयतीत्यन्धया एतया निमित्तभूतया मूका वागादिसर्वकर्मेन्द्रियव्यापारशून्या अपि स्थाणव उन्मत्तरववेतालनर्तनारम्भसंभ्रमं संप्रयच्छन्ति जनयन्ति वने इत्यर्थः || ५० || संध्यादिषु च कालेषु लोष्टपाषाणभित्तयः | अस्याः प्रसादाद्दृश्यन्ते सर्पाजगरदृष्टिभिः || ५१ || सर्पाजगरदृष्टिभिस्तथा तथा भ्रान्तिभिः || ५१ || एकोऽपि द्वितयोदेति यथा द्विशशिदर्शने | दूरमभ्याशतां याति स्वप्ने स्वमरणं यथा || ५२ || अभ्याशतां सामीप्यम् || ५२ || आदीर्घं क्षणतामेति कालस्येष्टा यथा निशा | क्षणो वर्षमिवाभाति कान्ताविरहिणामिव || ५३ || कालस्य संहाररुद्रस्येष्टा निशा प्रलयरातिरिव || ५३ || न तदस्तीह यन्नाम न करोतीयमुद्धता | अस्यास्त्वकिंचनायास्तु शक्ततां पश्य राघव || ५४ || अकिंचनायाः स्वसत्तायामपि दरिद्रायाः || ५४ || संरोधयेत्प्रयत्नेन संविदेवाशु संविदम् | सरित्स्रोतोनिरोधेन शुष्यत्येषा मनोनदी || ५५ || संविदा विवेकबुद्ध्या | संविदं विषयबुद्धिम् | संरोधफलमाह - सरिदिति | स्रोतोनिरोधेन सरिदिवेत्यध्याहार्यम् || ५५ || श्रीराम उवाच | अविद्यमानयैवेदं पेलवाङ्ग्या सुतुच्छया | मिथ्याभावनया नाम चित्रमन्धीकृतं जगत् || ५६ || इत्थं विस्मापितो रामोऽविद्यास्वरूपपर्यालोचनेन विस्मितस्तां वर्णयन्विस्मयमभिनयति - अविद्यमानयैवेत्यादिना || ५६ || अरूपया निराकृत्या चारुचेतनहीनया | असत्येवाप्यनश्यन्त्या चित्रमन्धीकृतं जगत् || ५७ || आकृतेः पृथग्ग्रहणाद्रूपपदं नीलादिपरम् | असत्या मृगतृष्णानद्येवानश्यन्त्या अशुष्यन्त्या || ५७ || आलोकेन विनश्यन्त्या [विनाश्यन्त्या इति पाठः] स्फुरन्त्या तमसोन्तरे | कौशिकेक्षणधर्मिण्या चित्रमन्धीकृतं जगत् || ५८ || कौशिकस्येक्षणं चक्षुस्तद्धर्मिण्या तत्सदृशया || ५८ || कुकर्मैकान्तकारिण्या न सहन्त्या विलोकनम् | देहमप्यविजानन्त्या चित्रमन्धीकृतं जगत् || ५९ || क्रियाशक्तिमात्राश्रयत्वात्कुकर्मैकान्तकारिण्या ज्ञानशक्तिशून्यत्वाद्देहमप्यविजानन्त्या || ५९ || सुदीनाचारधर्मिण्या नित्यं प्राकृतकान्तया | अनारतास्तंगतया चित्रमन्धीकृतं जगत् || ६० || प्राकृतानां मूढानां कान्तया रम्यया | प्राकृतस्य पृथग्जनस्य कान्तया भार्यया च अस्तंगतया असत्या तमस्तिरोहितया च || ६० || अनन्तदुःखाकुलया सदैव मृतयानया | संबोधहीनया यत्र चित्रमन्धीकृतं जगत् || ६१ || मृतया मृतकल्पया || ६१ || कामकोपघाङ्गिन्या तमःप्रसरवक्रया | अचिरेणाशरीरिण्या चित्रमन्धीकृतं जगत् || ६२ || अचिरेण ज्ञानोदये वधे च अशरीरिण्या || ६२ || स्वात्मान्धरूपास्पदया जडया जाड्यजीर्णया | दुःखदीर्घप्रलापिन्या चित्रमन्धीकृतं जगत् || ६३ || स्वात्मविषये येऽन्धरूपा मूढास्तदास्पदया | इह श्लोकपञ्चके श्लिष्टैर्विशेषणैः समासोक्त्या निशाचरी दीना स्त्री काचिदुपमा गम्यते || ६३ || पुरुषासङ्गसङ्गिन्या रागिण्या क्रिययानया | विद्रवन्त्या विवक्षासु चित्रमन्धीकृतः पुमान् || ६४ || इतस्त्रिभिः श्लोकैस्तां पुरुषस्य प्रतिकूलभार्यात्वेन वर्णयति - पुरुषेति | पुरुषस्य आसक्तिरसङ्ग ऐक्याध्यासस्तेन पुरुषसङ्गिन्या | नानाविचित्रविषयकल्पनक्रियया पुरुषस्य भोगसंपादनात्पुरुषानुरागिण्या | विवक्षासु स्वतत्त्वविचारेषु विद्रवन्त्या || ६४ || प्. ३९३) २३२ पुरुषस्य न या शक्ता सोढुमीक्षितुमप्यलम् | तया स्त्रियावरणया चित्रमन्धीकृतः पुमान् || ६५ || ईक्षितं साक्षात्कारम् | आवृणोतीत्यावरणा | नन्द्यादित्वकल्पनाल्ल्युः || ६५ || न यस्याश्चेतनैवास्ति याप्यनष्टैव नश्यति | तया स्त्रिया परुषया चित्रमन्धीकृतः पुमान् || ६६ || अनन्तदुष्प्रसरविलासकारिणी क्षयोदयोन्मुखसुखदुःखभागिनी | इयं प्रभो विगलति केन वाऽसमा मनोगुहानिलयनिबद्धवासना || ६७ || वर्णितां वासनामयीमविद्यामुपसंहरंस्तदुच्छेदोपायं पृच्छति - अनन्तेति | दुष्प्रसरविलासा दुश्चेष्टाविभ्रमाः | क्षयोदयोन्मुखानि मरणजन्मप्रभृतीनि सुखदुःखानि भाजयति प्रापयति तच्छीला | असमा विषमा | केनोपायेन विगलति नश्यति || ६७ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये उत्पत्तिप्रकरणे अविद्यावर्णनं नाम त्रयोदशोत्तरशततमः सर्गः || १३३ || इति श्रीवासिष्ठमहारामायणे तात्पर्यप्रकाशे उत्पत्तिप्रकरणे अविद्यावर्णनं नाम त्रयोदशोत्तरशततमः सर्गः || ११३ || चतुर्दशोत्तरशतमः सर्गः ११४ श्रीराम उवाच | अविद्याविभवप्रोत्थं निबिडं पुरुषस्य हि | महदान्ध्यमिदं ब्रह्मन्कथं नाम विनश्यति || १ || इहाविद्याक्षयोपायः स्वात्मदर्शनमुच्यते | विशुद्धात्मस्वरूपं चासंकल्पाद्वासनाक्षयः || १ || वासनाक्षयोपायं पृष्ट्वा तन्मूलाविद्यावरणक्षयोपायं पृच्छति - अविद्येति || १ || श्रीवसिष्ठ उवाच | यथा तुषारकणिका भास्करालोकनात्क्षणात् | नश्यत्येवमविद्येयं राघवात्मावलोकनात् || २ || एवं पृष्टो वसिष्ठः प्रथममविद्याक्षयोपायमाह - यथेत्यादिना || २ || तावत्संसारभृगुषु स्वात्मना सह देहिनम् | आन्दोलयति नीरन्ध्रदुःखकण्टकशालिषु || ३ || संसारलक्षणेषु भृगुषु गिरिप्रपातेषु | देहिनं देहाभिमानिनमहंकारम् | आन्दोलयत्यधोधःपातनेनावलोडयति || ३ || अविद्या यावदस्यास्तु नोत्पन्ना क्षयकारिणी | स्वयमात्मावलोकेच्छा मोहसंक्षयदायिनी || ४ || अस्याः परं प्रपश्यन्त्याः स्वात्मनाशः प्रजायते | आतपानुभवार्थिन्याश्छायाया इव राघव || ५ || परं परमात्मानम् || ५ || दृष्टे सर्वगते बोधे स्वयमेव विलीयते | सर्वाशाभ्युदितेच्छाया द्वादशार्कगणे यथा || ६ || सर्वासु आशासु दिक्षु अभ्युदिते द्वादशार्कगणे छाया यथा तथा || ६ || इच्छामात्रमविद्येह तन्नाशो मोक्ष उच्यते | स चासंकल्पमात्रेण सिद्धो भवति राघव || ७ || कारणाविद्यानाशोपायमुक्त्वा कार्याविद्याजयोपायमाह - इच्छेति | तन्नाश इति | तथाच श्रुतिः यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि श्रिताः | अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्रुते इति || ७ || मनागपि मनोव्योम्नि वासनारजनीक्षये | कालिमा तनुतामेति चिदादित्यमहोदयात् || ८ || वासना कामवासना | कालिमा अविद्यावरणम् || ८ || यथोदिते दिनकरे क्वापि याति तमस्विनी | तथा विवेकेऽभ्युदिते क्वाप्यविद्या विलीयते || ९ || दृढवासनया बन्धो घनतामेति चेतसः | बलाद्वेतालसंकल्पः संध्याकाले यथा शिशोः || १० || शिशोर्दृढतरवेतालवासनावासितस्येति शेषः || १० || श्रीराम उवाच | यावत्किंचिदिदं दृश्यं साविद्या क्षीयते च सा | आत्मभावनया ब्रह्मन्नात्मासौ कीदृशः स्मृतः || ११ || प्रश्नः स्पष्टः || ११ || श्रीवसिष्ठ उवाच | चेत्यानुपातरहितं सामान्येन च सर्वगम् | यच्चित्तत्त्वमनाख्येयं स आत्मा परमेश्वरः || १२ || चेत्यानुपातो विषयव्याप्तिस्तद्रहितम् | सर्वचेत्यानां कारणत्वात्सामान्यमविद्या तेन च वर्जितम् | निर्विशेषावरणमिति [निर्विक्षेपावरणं इति पाठः] यावत् || १२ || आब्रह्म स्तम्बपर्यन्तं तृणादि यदिदं जगत् | तत्सर्वं सर्वदात्मैव नाविद्या विद्यतेऽनघ || १३ || तदसंभावनावारणाय सकार्याविद्यायास्तत्र बाधं प्रपञ्चयति - आब्रह्मेत्यादिना || १३ || सर्वं च खल्विदं ब्रह्म नित्यं चिद्घनमक्षतम् | कल्पनान्या मनोनाम्नी विद्यते नहि काचन || १४ || न जायते न म्रियते किंचिदत्र जगत्त्रये | न च भावविकाराणां सत्ता क्वचन विद्यते || १५ || केवलं केवलाभासं सर्वसामान्यमक्षतम् | चेत्यानुपातरहितं चिन्मात्रमिह विद्यते || १६ || सर्वसामान्यं सर्वानुगतसद्रूपम् || १६ || प्. ३९४) २३३ तस्मिन्नित्ये तते शुद्धे चिन्मात्रे निरुपद्रवे | शान्ते समसमाभोगे निर्विकारोदितात्मनि || १७ || यैषा स्वभावातिगतं स्वयं संकल्प्य धावति | चिच्चैत्यं स्वयमाम्लाना सा म्लाना तन्मनः स्मृतम् || १८ || तस्मिन्नात्मनि यैषा आम्लाना सावरणा चित् स्वभावातिगतं चित्स्वभावविरुद्धं जाड्यपरिच्छेदादिस्वभावं चेत्यं स्वयं संकल्प्य धावति सा विक्षेपम्लाना तत्प्रसिद्धं मनः स्मृतमित्यर्थः || १८ || एतस्मात्सर्वगाद्देवात्सर्वशक्तेर्महात्मनः | विभागकलनाशक्तिर्लहरीवोत्थिताम्भसः || १९ || एतस्मान्मनोदेवात् || १९ || एकस्मिन्वितते शान्ते या न किंचन विद्यते | संकल्पमात्रेण गता सा सिद्धिं परमात्मनि || २० || या संसृतिः || २० || अतः संकल्पसिद्धेयं संकल्पेनैव नश्यति | येनैव जाता [जायते तेन इति पाठः] तेनैव वह्निज्वालेव वायुना || २१ || वायुनेति | वायोरग्निः इति श्रुतेरिति भावः || २१ || पौरुषोद्योगसिद्धेन भोगाशा रूपतां गता | असंकल्पनमात्रेण साविद्या प्रविलीयते || २२ || निदिध्यासनपरिपाकपौरुषोद्योगात्सिद्धेन साक्षात्कारप्रतिष्ठितेन असंकल्पनमात्रेण || २२ || नाहं ब्रह्मेति संकल्पात्सुदृढाद्बध्यते मनः | सर्वं ब्रह्मेति संकल्पात्सुदृढान्मुच्यते मनः || २३ || तथाच बन्धमोक्षावपि मनोधर्मावेव नात्मधर्मावित्याह - नाहमिति || २३ || संकल्पः परमो बन्धस्त्वसंकल्पो विमुक्तता | संकल्पं संविजित्यान्तर्यथेच्छसि तथा कुरु || २४ || नाहं ब्रह्मेति संकल्पं सर्वं ब्रह्मेति विरोधिसंकल्पप्रतिष्ठितज्ञानेन संविजित्येत्यर्थः || २४ || दृढा न याम्बरेऽत्रास्ति नलिनी हेमपङ्कजा | लोलवैदूर्यमधुपा सुगन्धितदिगन्तरा || २५ || अत्राम्बरे या नास्ति सा नलिनीव बालेन मनःस्वार्थो मनोरथस्तेन विलासार्थं यथा दृढा कल्प्यते तथैवेयं द्विविधाप्यविद्या इत्थं विकल्पजालिकेवासत्येवापि सत्समा बालेन मूढजनेन न सुखाय अत्यन्तदुःखायैव दृढा कलिता कल्पितेति चतुर्थेनान्वयः | नलिनीविशेषणानि स्पष्टानि || २५ || उद्दण्डैः प्रकटाभोगैर्मृणालभुजमण्डलैः | विहसन्ती प्रकाशस्य शशिनो रश्मिमण्डलम् || २६ || विकल्पजालिकेवेत्थमसत्येवापि सत्समा | मनःस्वार्थविलासार्थं यथा बालेन कल्प्यते || २७ || तथैवेयमविद्येह भवबन्धनबन्धनी | चपला न सुखायैव बालेन कलिता दृढा || २८ || कृशोऽति दुःखी बद्धोऽहं हस्तपादादिमानहम् | इति भावानुरूपेण व्यवहारेण बध्यते || २९ || बन्धकल्पनाभेदान्प्रपञ्चयति - कृश इति || २९ || नाहं दुःखी न मे देहो बन्धः कस्यात्मनः स्थितः | इति भावानुरूपेण व्यवहारेण मुच्यते || ३० || नाहं मांसं न चास्थीनि देहादन्यः परो ह्यहम् | इति निश्चयवानन्तः क्षीणाविद्य इहोच्यते || ३१ || तन्मोक्षोपायकल्पनां दर्शयति - नाहमिति || ३० || ३१ || प्रोत्तुङ्गसुरशैलाग्रवैदूर्यशिखरप्रभा | अथवार्कांशुदुर्भेदा तिमिरश्रीः स्थितोपरि || ३२ || अविद्यादिकल्पनाया दृष्टान्तान्तरमाह - प्रोत्तुङ्गेत्यादिना | वैदूर्यं नीलमणिविशेषस्तन्मयशिखरस्य प्रभा परितः प्रसृता व्योम्नः कालिमेति योगभाष्यकारमतेनोक्तम् | ज्यौतिषिकमतेनाप्याह - अथवेति | दूरत्वादर्कांशुमिर्दुर्भेदा निरसितुमशक्या ब्रह्माण्डखर्परसंनिहितप्राग्वर्णिततिमिरस्य श्रीः कान्तिरेव व्योम्नः कालिमेति यथा धरणिसंस्थेन पुंसा कल्प्यते एवमियमविद्या इद्धया स्वसंकल्पनया कल्पितेत्यर्थः || ३२ || कल्प्यते हि यथा व्योम्नः कालिमेति स्वभावतः | पुंसा धरणिसंस्थेन स्वसंकल्पनयेद्धया || ३३ || कल्पितैवमविद्येयमनात्मन्यात्मभावना | पुरुषेणाप्रबुद्धेन न प्रबुद्धेन राघव || ३४ || श्रीराम उवाच | मेरुनीलमणिच्छाया नेयं नापि तमःप्रभा | तदेतत्किंकृतं ब्रह्मन्नीलत्वं नभसो वद || ३५ || नीलमणि प्रभात्वे शरन्मेघनीरपटलादिष्वपि नीलिमप्रतिभासापत्तेरुत्तरतो नैल्याधिक्यप्रतीत्यापत्तेर्मेरोः पद्मरागादिमणिमयशृङ्गप्रभया रक्तिमादिप्रतिभासस्याप्यवर्जनाद्विनिगमकाभावान्न योगिकल्पना युक्तिमती | ब्रह्माण्डोर्ध्वाधःखर्परयोः स्वर्णरजतमयत्वात् तदण्डमभवद्धैमं सहस्रार्कसमद्युति इति पुराणेषु ब्रह्माण्डस्य महाप्रकाशताश्रवणादूर्ध्वोर्ध्वं सत्यलोकादिलोकैर्भास्वरतरतमैर्व्याप्तत्वादाब्रह्माण्डखर्परमसति व्यवधाने आदित्यरश्मिव्याप्तेर्दुर्वारत्वान्मध्ये तिमिरासंभवादतिदूरपातिनामादित्यरश्मीनामगम्येदूरतमे देशे अस्मदादिचक्षुःप्रसरकल्पनाया असंभावनीयत्वान्निशि नक्षत्रादिदर्शने तमसो व्यवधायकत्वादर्शनाद्ब्रह्माण्डखर्परस्यापि दर्शनापत्तेरान्तरालिकसत्यादिलोकविमानादिदर्शनावर्जनप्रसङ्गाच्च न ज्यौतिषिककल्पनापि युक्तेति मन्यमानो रामस्तत्पक्षावाक्षिप्य नभोनैल्यतत्त्वं पृच्छति - मेर्विति || ३५ || श्रीवसिष्ठ उवाच | न नाम नीलता व्योम्नः शून्यस्य गुणवत्स्थिता | अन्यरत्नप्रभाभावान्न वाप्येषा च मैरवी || ३६ || रामाभिप्रेतयुक्तीरेवानूद्य दर्शयन्वसिष्ठः पक्षद्वयासंभवं स्वयमपि दर्शयति - नेति | अन्येषां पद्मरागादिरत्नानां प्रभाया अभावात्तद्वन्मैरवी मेरुसंबन्धिनी नीलमणिप्रभापि नेत्यर्थः || ३६ || तेजोमयत्वादण्डस्य स्फारत्वादिव तेजसः | प्राकाश्यादण्डपारस्य तमसो नात्र संभवः || ३७ || प्रथमपक्षं निरस्य द्वितीयं निरस्यति - तेजोमयत्वादिति | इवशब्दोऽनर्थकः प्रसिद्धिद्योतको वा | प्राकाश्यात्सर्वतः प्रकाशव्याप्तत्वात् | अण्डपारस्य अण्डान्तर्वर्तिनभःपारस्य || ३७ || प्. ३९५) २३३ केवलं शून्यतैवैषां वह्नि सुभग लक्ष्यते | वयस्येवानुरूपा या अविद्याया असन्मयी || ३८ || एवं पक्षद्वयमनूद्य सिद्धान्तमाह - केवलमिति | बह्वी विपुला | अविद्याया अनुरूपा वयस्या सखीव या लक्ष्यते || ३८ || स्वदृष्टिक्षयसंपत्तावक्ष्णोरेवोदितं तमः | वस्तुस्वभावात्तद्व्योम्नः कार्ष्ण्यमित्यवलोक्यते || ३९ || अक्ष्णोरेव स्वदृष्टेः स्वीयदर्शनशक्तेः क्षयस्य दूरे कुण्ठीभावस्य संपत्तौ सत्यां यद्वस्तु स्वभावात्तमोऽदर्शनमुदितं तद्व्योम्नः कार्ष्ण्यं नैल्यमित्यवलोक्यत इत्यर्थः || ३९ || एतद्बुद्ध्वा यथा व्योम्नि दृश्यमानोऽपि कालिमा | न कालिमेति बुद्धिः स्यादविद्यातिमिरं तथा || ४० || एतत् निदर्शनम् | तथेति बुद्ध्यस्वेति शेषः || ४० || असंकल्पो ह्यविद्याया निग्रहः कथितो बुधैः | यथा गगनपद्मिन्याः स भाति सुकरः स्वयम् || ४१ || प्रासङ्गिकं समाधाय प्रकृतमनुसंधत्ते - असंकल्प इत्यादिना | सः असंकल्पः सुकरो भाति न दुष्कर इत्यर्थः || ४१ || भ्रमस्य जागतस्यास्य जातस्याकाशवर्णवत् | अपुनःस्मरणं मन्ये साधो विस्मरणं वरम् || ४२ || एतदेवाभिप्रेत्य प्राक्प्रतिज्ञातमित्याह - भ्रमस्येति || ४२ || नष्टोऽहमिति संकल्पाद्यथा दुःखेन नश्यति | प्रबुद्धोऽस्मीति संकल्पाज्जनो ह्येति यथा सुखम् || ४३ || दुःखेन नश्यति स्वप्ने | प्रबुद्धो जाग्रदस्मीति संकल्पात्सुखं स्वाप्नदुःखापगमम् || ४३ || तथा संमूढसंकल्पान्मूढतामेति वै मनः | प्रबोधोदारसंकल्पात्प्रबोधायानुधावति || ४४ || प्रबोधाय बोधैकरसब्रह्मभावाय || ४४ || क्षणात्संस्मरणादेषा ह्यविद्योदेति शाश्वती | यस्माद्विस्मरणादन्तः परिणश्यति नश्वरी || ४५ || संस्मरणादज्ञोऽस्मीति संकल्पनात् | शाश्वतीति अनाद्यविद्यावत्तदनादितापि तत्प्रतीतिक्षणकल्पितैवेति न नित्यमुक्तत्वविरोध इति सूचनाय | विस्मरणात्संकल्पवासनामूलोच्छेदान्नश्वरी नित्यनष्टा || ४५ || भावनी सर्वभावानां सर्वभूतविमोहिनी | भारिणी स्वात्मनो नाशे स्वात्मवृद्धौ विनाशिनी || ४६ || स्वात्मनो नाशे अदर्शने भारिणी गुरुतरा | वृद्धिशीलेति यावत् | स्वात्मनो वृद्धौ अपरिच्छिन्नस्वरूपावाप्तौ || ४६ || मनो यदनुसंधत्ते तत्सर्वेन्द्रियवृत्तयः | क्षणात्संपादयन्त्येता राजाज्ञामिव मन्त्रिणः || ४७ || मनसो निरोधेऽपि कथमिन्द्रियैर्वासनोद्भवो न स्यात्तत्राह - मन इति || ४७ || तस्मान्मनोनुसंधानं भावेषु न करोति यः | अन्तश्चेतनयत्नेन स शान्तिमधिगच्छति || ४८ || अन्तश्चेतनयत्नो ब्रह्माहंभावना || ४८ || यदादावेव नास्तीदं तदद्यापि न विद्यते | यदिदं भाति तद्ब्रह्म शान्तमेकमनिन्दितम् || ४९ || तमेवान्तश्चेतनयत्नप्रकारं दर्शयति - यदित्यादिना || ४९ || मननीयमतो नान्यत्कदा कस्य कथं कुतः | निर्विकारमनाद्यन्तमास्यतामपयन्त्रणम् || ५० || अतो ब्रह्मणोऽन्यन्नास्ति | चतुर्भिः किंवृत्तैः कालसंबन्धिप्रकारनिमित्तानि व्युदस्यन्ते | अपयन्त्रणमपगतसंकोचं पूर्णतयेति यावत् || ५० || परं पौरुषमाश्रित्य यत्नात्परमया धिया | भोगाशाभावनां चित्तात्समूलामलमुद्धरेत् || ५१ || यदुदेति परो मोहो जरामरणकारणम् | आशापाशशतोल्लासिवासना तद्विजृम्भते || ५२ || परो मोहः स्वाज्ञानं तदेव जरामरणादिकारणे | यद्यत्कार्यात्मना उदेति तत्सर्वं वासनैव विजृम्भते न वस्तुसदित्यर्थः || ५२ || मम पुत्रा मम धनमयं सोऽहमिदं मम | इतीयमिन्द्रजालेन वासनैव विवल्गति || ५३ || शून्ये एव शरीरेऽस्मिन्विलोलो जलवातवत् | अनन्यया वासनया त्वहंभावाहिरर्पितः || ५४ || यथा जले वातेन तरङ्गाहिः कल्पितस्तथा वासनया आत्मनि अहंभावलक्षणोऽहिः कल्पितः || ५४ || परमार्थेन तत्त्वज्ञ ममाहमिदमित्यलम् | आत्मतत्त्वादृते सत्यं न कदाचन किंचन || ५५ || हे तत्त्वज्ञ विवेकिन् परमार्थेन दर्शनेन मम अहमिति द्वयम्पि अलम् | नास्त्येवेत्यर्थः || ५५ || खाद्रिद्यूर्वीनदिश्रेण्यो दृष्टिसृष्ट्या पुनः पुनः | सैवान्येव विचित्रेयमविद्या परिवर्तते || ५६ || खं च अद्रयश्च द्यौश्च उर्वी च नदीश्रेण्यश्चेति द्वन्द्वः | दृष्टिसमकालया सृष्ट्या | जीवन्मुक्तानां दृष्ट्या दृष्टिसृष्टिवादस्यैव शास्त्रे प्रतिष्ठापनादिति भावः || ५६ || उदेत्यज्ञानमात्रेण नश्यति ज्ञानमात्रतः | सन्मात्रे परिविच्छेद्या रज्ज्वामिव भुजंगधीः || ५७ || परितो विच्छेद्या त्रिविधपरिच्छेदवती || ५७ || खाद्यब्ध्युर्वीनदी सेयं याऽविद्याऽज्ञस्य राघव | नाविद्या ज्ञस्य तद्ब्रह्म स्वमहिम्ना व्यवस्थितम् || ५८ || खाद्रीत्यादिसमाहारद्वन्द्वः | आर्षं स्त्रीत्वम् | इयं या अविद्या सा अज्ञस्य | ज्ञस्य अविद्या नास्ति | तत् खादि ब्रह्मैवेत्यर्थः || ५८ || रज्जुसर्पविकल्पौ द्वावज्ञेनैवोपकल्पितौ | ज्ञेन त्वेकैव निर्णीता ब्रह्मदृष्टिरकृत्रिमा || ५९ || द्वौ व्यावहारिकप्रातिभासिको विकल्पौ | अकृत्रिमा स्वतःसिद्धा || ५९ || मा भवाज्ञो भव प्राज्ञो जहि संसारवासनाम् | अनात्मन्यात्मभावेन किमज्ञ इव रोदिषि || ६० || कस्तवायं जडो मूको देहो भवति राघव | यदर्थं सुखदुःखाभ्यामवशः परिभूयसे || ६१ || अनात्मनि देहे आत्मताभ्रान्तिरेव सर्वदुःखनिदानमिति प्रथमं तां वारयति - क इति | जडत्वादेव मूको वागाद्यनधिष्ठाता || ६१ || प्. ३९६) २३४ यथा हि काष्ठजतुनोर्यथा बदरकुण्डयोः | श्लिष्टयोरपि नैकत्वं देहदेहवतोस्तथा || ६२ || जतु लाक्षा | श्लिष्टयोरपीत्यपिशब्दादत्यन्तासंश्लिष्टयोरध्यस्तासङ्गयोर्दूरनिरस्तमेकत् वमिति द्योत्यते || ६२ || भस्त्रादाहे यथा दाहो न भस्त्रान्तरवर्तिनः | पवनस्य तथा देहनाशे नात्मा न नश्यति || ६३ || विदेहत्वादेवात्मनो जन्ममरणादिसंभावनापि नास्तीत्याह - भस्त्रेति || ६३ || दुःखितोऽहं सुखाढ्योऽहमिति भ्रान्तिं रघूद्वह | मृगतृष्णोपमां बुद्ध्वा त्यज सत्यं समाश्रय || ६४ || अहो नु चित्रं यत्सत्यं ब्रह्म तद्विस्मृतं नृणाम् | यदसत्यमविद्याख्यं तन्नूनं स्मृतिमागतम् || ६५ || प्रसरं त्वमविद्याया मा प्रयच्छ रधूद्वह | अनयोपहिते चित्ते दुष्पारेह कदर्थना || ६६ || अविद्याया आत्मविस्मृतेः | अदर्थना दुरुक्तिः | दुष्पारा दुरुत्तरा || ६६ || मथ्यैवानर्थकारिण्या मनोमननपीनया | अनया दुःखदायिन्या महामोहफलान्तया || ६७ || अविद्याया असंभावितानर्थसहस्रकारितां प्रपञ्चयति - मिथ्यैवेत्यादिना | अनया चन्द्रबिम्बेऽपि दाहसंशोषदुःखं समनुभूयते इति परेणान्वयः || ६७ || चन्द्रबिम्बे सुधार्द्रेऽपि कृत्वा रौरवकल्पनम् | नारकं दाहसंशोषदुःखं समनुभूयते || ६८ || जलकल्लोलकह्लारपुष्पसीकरवीचिषु | सरस्सु मृगतृष्णाढ्यं मरुत्त्वं परिदृश्यते || ६९ || अनयेत्येतदत्रोत्तरश्लोके चानुषज्जते || ६९ || नभोनगरनिर्माणपातोत्पातनसंभ्रमाः | स्वप्नादिष्वनुभूयन्ते विचित्राः सुखदुःखदाः || ७० || संसारवासनाश्चेतो यदि नाम न पूरयेत् | तज्जाग्रत्स्वप्नसंरम्भाः किं नयेयुरिहापदम् || ७१ || न पूरयेत् इयमिति शेषः | तत्तर्हि | नयेयुरात्मानमिति शेषः || ७१ || दृश्यते रौरवा वीचिनरकानर्थशासना | मिथ्याज्ञाने गते वृद्धिं स्वप्नोपवनभूमिषु || ७२ || शासना यातना | मिथ्याज्ञाने वृद्धिं गते सति || ७२ || अनया वेधितं चेतो बिसतन्तावपि क्षणात् | पश्यत्यखिलसंसारसागरानर्थविभ्रमम् || ७३ || अनयोपहते चित्ते राज्य एव हि संस्थिताः | तास्तादृश्यो जना यान्ति या न योग्याः श्वपाकिनः || ७४ || न योग्याः नोचिताः || ७४ || तस्माद्राम परित्यज्य वासनां भवबन्धनीम् | सर्वरागमयीं तिष्ठ नीरागः स्फटिको यथा || ७५ || सर्वरागः सर्वद्वैताकाररञ्जनं तन्मयीम् || ७५ || तिष्ठतस्तव कार्येषु मास्तु रागेषु रञ्जना | स्फटिकस्येव चित्राणि प्रतिबिम्बानि गृह्णतः || ७६ || कार्येषु व्यवहारेषु | रागेषु रक्तिविषयेषु | रञ्जना आसक्तिः || ७६ || विदितकौतुकसङ्घसमिद्धया [१] यदि करोषि सदैव सुशीलया | वरधिया गतप्राकृतिकक्रिय- स्तदसि केन सहानुपमीयसे || ७७ || विदितं निरतिशयानन्दरूपत्वात्परमकौतुकं ब्रह्म यैस्ते विदितकौतुकास्तत्त्वविदस्तेषां सङ्घे समाजे पुनःपुनर्विचारेण समिद्धया दृढतरब्रह्माहंभावनिश्चयप्रदीप्तया अत एव सर्वत्र समदर्शान्दिसुशीलया वरधिया अनासङ्गबुद्ध्या यदि करोषि सदा व्यवहरसि तत्तर्हि गता अपगताः प्राकृतिका अविद्याप्रयुक्ताः क्रिया जन्ममरणादिविभ्रमा यस्य तथाविधोऽसि | नित्यमुक्तस्वरूपोऽसीति यावत् | तदा केन जीवन्मुक्तेन महाप्रभावेण ब्रह्मणा हरिणा हरेण वा सह अनुपमीयसे नोपमां गच्छसि | नञस्तिङन्तेन समासश्छान्दसः | अनुपम आत्मा इष्यसे इति क्यचि कर्मणि अनुपम इवाचरसीति क्यङि वा च्छान्दसेनेत्वेन कथंचिद्योज्यम् | महानुपमीयसे इति पाठास्तु ऋजुः | संयुक्तात्पूर्वं गुरु रहसंयुक्ताद्वेति च्छन्दःशिक्षावचनाद्गतप्राकृतिक इत्यत्र न वृत्तभङ्गः शङ्क्यः || ७७ || इत्यार्षे श्रीवासिष्ठमहारामायणे मोक्षोपाये उत्पत्तिप्रकरणे यथाकथितदोषपरिहारोपदेशो नाम चतुर्दशोत्तरशततमः सर्गः || ११४ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे यथाकथितदोषपरिहारोपदेशो नाम चतुर्दशोत्तरशततमः सर्गः || ११४ || पञ्चदशोत्तरशततमः सर्गः ११५ श्रीवाल्मीकिरुवाच | एवमुक्तो भगवता वसिष्ठेन महात्मना | रामः कमलपत्राक्ष उन्मीलित इवाबभौ || १ || रामस्य बोधादाश्चर्यं मायातन्नाशसंस्थितिः | लवणापन्निदानं च पृष्टमत्र प्रकीर्त्यते || १ || उन्मीलितो विकासितः | अर्थात्पद्म इवेति गम्यते || १ || विकासितान्तःकरणः शोभामलमुपाययौ | आश्वस्तस्तमसि क्षीणे पद्मोऽर्कालोकनादिव || २ || तदेव स्पष्टमाह - विकासितेति | आश्वस्तः समाधानतोषितः || २ || बोधविस्मयसंजातसौम्यस्मितसिताननः | दन्तरश्मिसुधाधौतामिमां वाचमुवाच ह || ३ || बोधप्रयुक्तविस्मयात्संजातेन सौम्येन स्मितेन सितं धवलितमाननं यस्य || ३ || श्रीराम उवाच | अहो नु चित्रं पद्मोत्थैर्बद्धास्तन्तुभिरद्रयः | अविद्यमाना या विद्या तया सर्वे वशीकृताः || ४ || अविद्यमाना अत्यन्तासती या तया || ४ || प्. ३९७) २३४ इदं तद्वज्रतां यातं तृणमात्रं जगत्त्रये | अविद्ययापि यन्नामासदेव सदिव स्थितम् || ५ || इदं दृश्यमानं तत् प्रसिद्धं संसारदुःखमविद्ययोपादानभूतयापि [पाधिभूतयेति इति पाठः] | नामेति किलार्थे || ५ || अस्याः संसारमायाया नद्यास्त्रिभुवनाङ्गणे | रूपं मदवबोधार्थं कथयानुग्रहात्पुनः || ६ || नद्या इव प्रवाहवत्याः संसारनिदानभूताया मायायाः | मदवबोधार्थं ममावबोधदार्ढ्यार्थं पुनः कथय || ६ || अन्यो यत्संशयोऽयं मे महात्मन्हृदि वर्तते | लवणोऽसौ महाभागः किं नामापदमाप्तवान् || ७ || किं कस्मान्निमित्तात् | नामेति किलार्थे || ७ || संश्लिष्टयोराहतयोर्द्वयोर्वा देहदेहिनोः | ब्रह्मन्क इव संसारी शुभाशुभफलैकभाक् || ८ || तृतीयं पृच्छति - संश्लिष्टयोरिति | जतुकाष्ठवत्संश्लिष्टयोर्मल्लमेषवत्परस्पराहतयोर्वा देहदेहिनोर्मध्ये कः शुभाशुभकर्मफल्योरेकभाक् | मुख्यो भोक्तेत्यर्थः || ८ || लवणस्य तथा दत्त्वा तामापदमनुत्तमाम् | किं गतश्चञ्चलारम्भः कश्चासावैन्द्रजालिकः || ९ || चतुर्थः प्रश्नः स्पष्टः || ९ || श्रीवसिष्ठ उवाच | काष्ठकुड्योपमो देहो न किंचन इहानघ | स्वप्नालोक इवानेन चेतसा परिकल्प्यते || १० || एवं पृष्ठो वसिष्ठो विवेकदार्ढ्यहेतुत्वप्रकर्षात्तृतीयं प्रश्नं प्रथमं समादधानोऽर्थात्प्रथममपि समाधत्ते - काष्ठेत्यादिना | न किंचन वस्तुसदित्यर्थः | तथाचाचेतनत्वादसत्त्वाच्च न देहस्य कर्मफलभोक्तृताप्रसक्तिरित्यर्थः || १० || चेतस्तु जीवतां यातं चिच्छक्तिपरिभूषितम् | विद्यात्संसारसंरम्भं कपिपोतकचञ्चलम् || ११ || किं तर्हि भोक्तृ तदाह - चेतस्त्विति | तस्य जाड्यदोषं परिहरति - चिच्छक्तीति | चिदाभासतादात्म्यापन्नमित्यर्थः | संसारे भोक्तृत्वे संरम्भोऽभिनिवेशो यस्य तत् || ११ || देही हि कर्मभाग्यो हि नानाकारशरीरधृक् | अहंकारमनोजीवनामभिः परिकल्प्यते || १२ || तदेव जीव इत्याह - देहीति || १२ || तस्येमान्यप्रबुद्धस्य न प्रबुद्धस्य राघव | सुखदुःखान्यनन्तानि शरीरस्य न कानिचित् || १३ || अप्रबुद्धं मनो नानासंज्ञाकल्पितकल्पनम् | वृतीरनुपतच्चित्रा विचित्राकृतितां गतम् || १४ || नानावृत्तीरनुपतदिति नामभेदे निमित्तोक्तिः || १४ || अप्रबुद्धं मनो यावन्निद्रितं तावदेव हि | संभ्रमं पश्यति स्वप्ने न प्रबुद्धं कदाचन || १५ || तस्य चाप्रबोधो निमित्तमित्याह - अग्रबुद्धमिति || १५ || अज्ञाननिद्राक्षुभितो जीवो यावन्न बोधितः | तावत्पश्यति दुर्भेदं संसारारम्भविभ्रमम् || १६ || संप्रबुद्धस्य मनसस्तमः सर्वं विलीयते | कमलस्य यथा हार्दं दिनालोकविकासिनः || १७ || हार्दं हृदयस्थम् || १७ || चित्ताविद्यामनोजीववासनेति कृतात्मभिः | कर्मात्मेति च यः प्रोक्तः स देही दुःखकोविदः || १८ || दुःखस्य कोविदो भोक्ता || १८ || जडो देहो न दुःखार्हो दुःखी देह्यविचारतः | अविचारो घनाज्ञानादज्ञानं दुःखकारणम् || १९ || शुभाशुभानां धर्माणां जीवो विषयतां गतः | अविवेकैकदोषेण कोशेनेव हि कीटकः || २० || कीटकः कौशेयकोशकाराख्यः || २० || अविवेकामयोन्नद्धं मनो विविधवृत्तिमत् | नानाकारविहारेण परिभ्रमति चक्रवत् || २१ || अविवेकलक्षणेनामयेन रोगेणोन्नद्धं बद्धम् || २१ || उदेति रौति हन्त्यत्ति याति वल्गति निन्दै | मन एव शरीरेऽस्मिन्न शरीरं कदाचन || २२ || भ्रमणमेव प्रपञ्चयति - उदेतीति || २२ || यथा गृहपतिर्गेहे विविधं हि विचेष्टते | न गृहं तु जडं राम तथा देहे हि जीवकः || २३ || सर्वेषु सुखदुःखेषु सर्वासु कलनासु च | मनः कर्तृ मनो भोक्तृ मानसं विद्धि मानवम् || २४ || मानवं जीवम् || २४ || अत्र ते शृणु वक्ष्यामि वृत्तान्तमिममुत्तमम् | लवणोऽसौ यथा यातश्चण्डालत्वं मनोभ्रमात् || २५ || तदुपपादकत्वे द्वितीयप्रश्नोत्तरमवतारयति - अत्रेति || २५ || मनः कर्मफलं भुङ्क्ते शुभं वाऽशुभमेव वा | यथैतद्बुद्ध्यसे नूनं तथाकर्णय राघव || २६ || हरिश्चन्द्रकुलोत्थेन लवणेन पुरानघ | एकं [एकान्तेनेति इति पाठः] तेनोपविष्टेन चिन्तितं मनसा चिरम् || २७ || पितामहो मे सुमहाव्राजसूयस्य याजकः | अहं तस्य कुले जातस्तं यजे मनसा मखम् || २८ || बाह्यसंभारासामर्थ्याद्राजादिपीडानिमित्ते राजसूये मन्त्रिपुरोहिताद्यसंमतेर्वा मनसा यज्ञकल्पनमिति बोध्यम् || २८ || इति संचिन्त्य मनसा कृत्वा संभारमादृतः | राजसूयस्य दीक्षायां प्रविवेश महीपतिः || २९ || ऋत्विजश्चाह्वयामास पूजयामास सन्मुनीन् | देवानामन्त्रयामास ज्वालयामास पावकम् || ३० || यथेच्छं यजमानस्य मनसोपवनान्तरे | ययौ संवत्सरः साग्रो देवर्षिद्विजपूजया || ३१ || भूतेभ्यो द्विजपूर्वेभ्यो दत्त्वा सर्वस्वदक्षिणाम् | विबुध्यत दिनस्यान्ते स्व एवोपवने नृपः || ३२ || विबुध्यत बाह्यदृष्टिं प्रापेत्यर्थः | अडभावश्छान्दसः | स्वे स्वीये || ३२ || प्. ३९८) २३५ एवं स लवणो राजा राजसूयमवाप्तवान् | मनसैव हि तुष्टेन युक्तं तस्य फलेन च || ३३ || तस्य फलेन युक्तं भवितुमिति शेषः || ३३ || अतश्चित्तं नरं विद्धि भोक्तारं सुखदुःखयोः | तन्मनः पावनोपाये सत्ये योजय राघव || ३४ || तत्तस्मात्कारणान्मनसः पावने विशोधने उपाये विचारनिरोधादौ | मन एव क्रियाशक्तिप्राधान्येन कर्तृ करणं क्रिया च | सैव सुखदुःखफलात्मना परिणता तत्फलं मन एव चिदाभासव्याप्त्या चिच्छक्तिप्राधान्येन भोक्तृ भोगश्चेति कर्तृभोक्तृभावप्रवाह एव मायानद्याः स्वरूपमित्यर्थात्प्रथमप्रश्नविषयोऽप्यनेन संदर्भेण संदर्शितो बोध्यः | चतुर्थप्रश्नं तूत्तरसर्गे समाधास्यति || ३४ || पूर्णे देशे सुसंपूर्णः पुमान्नष्टे विनश्यति | देहोऽहमिति येषां तु निश्चयस्तैरलं बुधाः || ३५ || एवं रामं समाधाय देवादीन्सभ्यान्प्रति विस्तरेण वर्णितमर्थं पिण्डीकृत्याह - पूर्णे इति | हे बुधाः अयं मनोरूपः पुमान्पूर्णे कालादिपरिच्छेदशून्ये दिशति स्वात्माकारं ददातीति देश आलम्बनं तत्र प्रतिष्ठितः सम्पूर्णो भवति | नष्टे नित्यनश्वरे परिच्छिन्ने देहादिदेशे प्रतिष्ठितस्तु तद्भावप्राप्त्या विनश्यति | अतो देहोऽहमिति येषां नश्वराहंभावनिश्चयस्तैरलम् | प्रयोजनं नास्तीत्यर्थः || ३५ || उच्चैर्विवेकवति चेतसि संप्रबुद्धे दुःखान्यलं विगलितानि विविक्तबुद्धेः | भास्वत्करप्रकटिते ननु पद्मखण्डे संकोचजाड्यतिमिराणि चिरं क्षतानि || ३६ || उपसंहरति - उच्चैरिति | शास्त्राचार्यपुरस्कृतसम्यग्विचारपरिपाकादुच्चैर्विवेकवति निरूढसारासारविवेके चेतसि संप्रबुद्धे नास्म्यहं कदापि देहादिस्वभावः किंतु पूर्णानन्दस्वप्रकाशैकरसं ब्रह्मैवाहमस्मीति सम्यक् प्रबुद्धे सति विविक्ता वृत्तीद्धबोधेन बाधिता बुद्धिवृत्तिरपि येन तथाविधस्य ब्रह्मीभूतस्याधिकारिणः सर्वदुःखानि अलं समूलं चिरं विगलितानि कदाचिदपि न भवन्तीत्यर्थः | पद्मखण्डे भास्वतः सूर्यस्य करैः प्रकटिते संकोचो मुकुलता जाड्यं तुहिनम्लानता तिमिरं कोशान्तर्बाह्यान्धकारश्च चिरं यथा क्षतानि नष्टानि भवन्ति तद्वदित्यर्थः || ३६ || इत्यार्षे श्रीवासिष्ठमहारामायणे वा० मो० उत्पत्तिप्रकरणे सुखदुःखभोक्तृतोव्पदेशो नाम पञ्चदशोत्तरशततमः सर्गः || ११५ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे सुख्दुःखभोक्तत्वोपदेशो नाम पञ्चदशोत्तरशतमः सर्गः || ११५ || षोडशोत्तरशततमः सर्गः ११६ श्रीराम उवाच | राजसूयफलं प्राप्तं लवणेन किल प्रभो | प्रमाणं किमिवात्र स्यात्कल्पनाजालशम्बरे || १ || तुर्यप्रश्नसमाधाने वर्णितार्थनिदर्शनात् | सोपोद्घातास्ततो योगभूमयोऽन्नावतारिताः || १ || चतुर्थप्रश्नस्योत्तरं जिज्ञासू रामस्तदुपोद्बलकं द्वितीयप्रश्नोत्तरे प्रमाणं पृच्छति - राजसूयफलमिति | लवणेन राज्ञा चण्डालभावादिकल्पनारूपे जालशम्बरे शाम्बरिकोपदर्शितमायाजाले राजसूयप्रयुक्तमनिष्टफलं प्राप्तम् | किलेत्यैतिह्येन यदुक्तमत्रास्मिन्नर्थे किमिव प्रमाणं स्यात् | इवशब्दस्तदसंभवद्योतनार्थः | न तावत्प्रत्यक्षम् | मदीयमानसराजसूयस्येदं फलमिति लवणेन स्वतो ज्ञातुमशक्यत्वात् | तद्व्याप्यलिङ्गानामप्यप्रसिद्धेस्तेनान्यैर्वा ज्ञातुमशक्त्या तन्मूलशब्दस्य ह्यैतिह्यस्य वा तत्राप्रसरादित्यर्थः | कल्पनाजालमम्बरे इति पाठे तु अम्बरे चित्ताकाशे कल्पनाजालात्मकं फलमित्यन्वयः || १ || श्रीवसिष्ठ उवाच | यदा शाम्बरिकः काले संप्राप्तो लावणीं सभाम् | तदाहमवसं तत्र तत्प्रत्यक्षेण दृष्टवान् || २ || यद्यप्यन्येषां तत्र प्रमाणाप्रसरस्तथापि योगबलात्स्वस्य तत्प्रत्यक्षमिति तन्मूलैवान्येषां प्रसिद्धिरिति वसिष्ठः समाधत्ते - यदेत्यादिना || २ || अहं सभ्यैस्ततस्तत्र गते शाम्बरिकर्मणि | किमेतदिति यत्नेन पृष्टश्च लवणेन च || ३ || शाम्बरमस्यास्तीति शाम्बरि तथाविधं कर्म चरित्रं यस्य तस्मिन् | सभ्यैर्लवणेन च पृष्ठः || ३ || चिन्तयित्वा मया दृष्ट्वा तत्र तत्कथितं ततः | शृणु तत्ते प्रवक्ष्यामि राम शाम्बरिकेहितम् || ४ || दृष्ट्वा | योगबलेनेति शेषः | प्रासङ्गिकं प्रश्नं समाधाय प्राक्तनं चतुर्थप्रश्नसमाधानं प्रतिजानीते - शृण्विति | शाम्बरिकस्येहितमभिप्रायम् || ४ || राजसूयस्य कर्तारो ये हि ते द्वादशाब्दिकम् | आपदुःखं प्राप्नुवन्ति नानाकारव्यथामयम् || ५ || अतः शक्रेण गगनाद्दुःखाय लवणस्य सः | प्रहितो देवदूतो हि राम शाम्बरिकाकृतिः || ६ || राजसूयक्रियाकर्तुस्तस्य दत्त्वा महापदम् | अगच्छत्स नभोमार्गं सुरसिद्धनिषेवितम् || ७ || महापदं शारीरराजसूयफलद्वादशाब्दिकापदपेक्षया पञ्चगुणां षष्टिवर्षकल्पनात्मिकामित्यर्थः | अनेन मानसराजसूयादेः स्वाराज्यादिसुखफलमपि शारीरापेक्षया पञ्चगुणमधिकमिति गम्यते || ७ || तस्मात्प्रत्यक्षमेवैतद्राम नात्र संदेहोऽस्ति | मनो हि विलक्षणानां क्रियाणां कर्तृ भोक्तृ च तदेव निर्घृष्य संशोध्य चित्तरत्नमिह हिमकणमिवातपेन विलीनतां विवेकेन नीत्वा परं श्रेयः प्राप्स्यसि | चित्तमेव सकलभूताडम्बरकारिणीमविद्यां विद्धि | सा विचित्रकेन्द्रजालवशादिदमुत्पादयति | अविद्याचित्तजीवबुद्धिशब्दानां भेदो नास्ति वृक्षतरुशब्दयोरिवेति ज्ञात्वा चित्तमेव विकल्पनं कुरु | अभ्युदिते चित्तवैमल्यार्कबिम्बे सकलङ्कविकल्पोत्थदोषतिमिरापहरणं न तदस्ति राघव यन्न दृश्यते यन्नात्मीक्रियते यन्न परित्यज्यते यन्न म्रियते यन्नात्मीयं यन्न परकीयं सर्वं सर्वदा सर्वो भवतीति परमार्थः || ८ || उक्तमुपसंहरन्प्रकृते योजयति - तस्मादित्यादिना गद्येन | हठयोगेन निर्घृष्य राजयोगेन संशोध्य निर्विकल्पसमाधिना विलीनतां नीत्वा विवेकेन तत्त्वसाक्षात्कारेण परं श्रेयो मोक्षं प्राप्स्यसि | विचित्रकं विविधचित्ररचनाप्रकृतिभूतं यदिन्द्रजालमिव वासनारूपं तद्वशात् | विकल्पनं विगतकल्पनं कुरु | तिमिरापहरणं भविष्यतीति शेषः | नतु स्वचित्तलये स्वाविद्याक्षये वा स्वादृष्टार्जितस्य स्वाविद्याकार्यस्यैव निवृत्तिः स्यान्न सर्वादृष्टाविद्याकार्यस्य स्वचित्तादेस्तदकारणत्वादित्याशङ्क्य सर्वं सर्वादृष्टकार्यं सर्वोपभोग्यं चेति सर्वाविद्याकार्यं सर्वात्मकस्वात्मदर्शनात्सर्वं दृष्टं भवति सर्वमप्यात्मीकृतं भवति सर्वमपि त्यक्तं भवति सर्वमपि मारितं भवतीति नात्रासंभावना युक्तेत्याशयेनाह - न तदस्तीति | तत्कुतस्तत्राह - यन्नात्मीयमिति | यतः सर्वमात्मीयं सर्वं परकीयं यस्मात्सर्वं सर्वदा सर्वो भवतीति परमार्था स्थितिरित्यर्थः | तथाच मधुब्राह्मणश्रुतिः इयं पृथिवी सर्वेषां भूतानां मध्वस्यै पृथिव्यै सर्वाणि भूतानि मधु इत्याद्या प्रसिद्धेत्याशयः || ८ || प्. ३९९) २३५ भावराशिस्तथा बोधः सर्वो यात्येकपिण्डताम् | विचित्रमृद्भाण्डगणो यथाऽपक्वो जले स्थितः || ९ || अतः समाधिपरिपाकजन्यबोधेन मनस्तत्कार्यप्रपञ्चयोरविद्यायाश्चैकरसब्रह्मात्मभावः परिशिष्यत इति पद्येनोपसंहरति - भावराशिरिति | भावराशिर्दृश्यपदार्थसमूहस्तथा तद्विषयकविचित्रवृत्तिरूपो बोधस्तदुपहितः सर्वो जीवश्चैकपिण्डतां ब्रह्मैकरसतां याति | यथा अपक्व इति च्छेदः || ९ || श्रीराम उवाच | एवं मनःपरिक्षये सकलसुखदुःखानामन्तः प्राप्यत इति भवता प्रोक्तं तत्कथं महात्मंश्चपलवृत्तिरूपस्यास्य मनसोऽसत्ता भवति || १० || गुरूक्तेस्तात्पर्यसर्वस्वमनूद्य दर्शयन् रामो मनःसमुच्छेदं स्वबुद्धितर्कितोपायैरशक्यं मन्यमानस्तदुपायान्तरं जिज्ञासुर्गद्येन पृच्छति - एवमिति || १० || श्रीवसिष्ठ उवाच | रघुकुलेन्दो शृणु मनःप्रशमने युक्तिं यां ज्ञात्वा स्वस्वाचारदूरे मनःसंधिरयमेष्यसि || ११ || वसिष्ठस्तदुपायं वक्तुं प्रतिजानीते - रघुकुलेन्दो इति | स्वानि स्वानि बहिःप्रचारद्वाराणीन्द्रियाणि तेषामाचारः संचारस्तस्य दूरे तदविषये ब्रह्मणि मनःसंधिरयं मनोवृत्तिधाराम् | रलयोरभेदान्मनसः संधानेन लयं वा एष्यसि प्राप्स्यसि || ११ || इह हि तावद्ब्रह्मणः सर्वभूतानां त्रिविधोत्पत्तिरिति तत्पूर्वोक्तम् || १२ || ननु यस्यानादौ संसारे कदापि नाशो न प्रसिद्धस्तस्य कथमुच्छेदः संभाव्यत इत्याशङ्क्य तत्संभावनाय मध्ये मध्ये तस्य नाशप्रसिद्धिं परिणामिस्वभावतया इतरभूतादितुल्यतां च दर्शयितुं प्रागुक्तां सात्त्विकादिभेदेन त्रिविधां जीवसृष्टिं स्मारयति - इह हीत्यादिना | पूर्वोक्तं स्मर्तव्यमिति शेषः | यद्यपि द्वादशधा जीवजातयः प्रागुक्तास्तथापि सात्त्विकादित्रैविध्ये द्वादशानामन्तर्भावात्त्रिविधेत्युक्तम् | आध्यात्मिकाधिदैविकाधिभौतिकभेदाद्वा त्रिविधा | तासु त्रिविधास्वपि सृष्टिषु मूलकारणं हैरण्यगर्भं मनस्तत्संकल्पानुसारीण्यन्यानि मनांसीत्यपि प्रागुक्तम् || १२ || तत्रेदंप्रथमया मनःकल्पनया देहीति सा ब्रह्मरूपिणी संकल्पमयी भूत्वा यदेव संकल्पयति तदेव पश्यति तेनेदं भुवनाडम्बरं कल्प्यते || १३ || तत्र हैरण्यगर्भमनसः स्वसंकल्पवैचित्र्यब्रह्माण्डाकारपरिणतस्य कल्पान्ते विलयः प्रसिद्धस्तत्कार्याणां च भौतिकानां विलयदर्शनात्तस्यापि विलयस्वभावतानुमातुं शक्यते | एवं मूलकारणे मनसि विलयस्वभावतानिश्चये तत्तुल्यस्वभावतया अस्मदादिमनःस्वपि सा संभावयितुं शक्यत इत्याशयेनाह - तत्रेदंप्रथमयेत्यादिना | इदंप्रथमया आद्यया | देही चतुर्मुखाकारदेहवानहमिति या ब्रह्मरूपिणी धातृस्वरूपा कल्पना सा तदेव पश्यति सत्यसंकल्पत्वादित्याशयः || १३ || तत्र जननमरणसुखदुःखमोहादिकं संसरणं कल्पयन्ती कल्पानुरचना बहुनाममन्थरं स्थित्वा स्वयं विलीयते हिमकणिकेवातपगता || १४ || अस्मदादिजन्ममरणादिसंसारोऽपि तदीयकल्पनैवेत्याह - तत्रेति | कल्पेषु चतुर्युगसहस्रमितेषु स्वाहस्सु तत्तदनुकूलरचनाभी रचितानां देवासुरादीनां बहुभिर्नामभिर्मन्थरं गुरुतरं यथा स्यात्तथा स्थित्वा भोगिपर्यङ्कशायिनि विष्णौ स्वयं विलीयते आतपगता हिमकणिका यथा स्वकारणे तेजसि लीयते तद्वत् || १४ || कालोदितः संकल्पवशात् पुनरन्यतया जायते सापि पुनर्विलीयते पुनरप्युदेति सैवेति भूयोभूयोऽनुसंसरन्ती स्वयमुपशाम्यति || १५ || पुनः सृष्टिकाले उदितो भगवन्नाभिपद्मादाविर्भूतश्चेत् पुनरन्यतया कल्पान्तरसर्गान्तरतया सा प्राक्तनी कल्पना जायते स पुनः कल्पान्ते विलीयते पुनरप्युदेति | इति यावदधिकारप्रारब्धक्षयं संसरन्ती तत्क्षये स्वतःसिद्धादात्मबोधाद्द्विपरार्धावसाने समूलं स्वयमुपशाम्यति || १५ || इत्थमनन्ता ब्रह्मकोटयोऽस्मिन्ब्रह्माण्डेऽन्येषु च समतीता भविष्यन्तीति सन्ति चेतरा अनन्ता यासां संख्यापि न विद्यते || १६ || एवमन्येष्वपि हैरण्यगर्भमनस्सु नश्वरस्वभावता प्रमाणसिद्धेत्याह - इत्थमित्यादिना | अस्मिन् ब्रह्माण्डेऽपि प्रतिपरमाणु ब्रह्माण्डकोटिकल्पनास्तीति प्रागुक्तरीत्या बोध्यम् || १६ || प्. ४००) २३६ एवमस्यां तादृशि वर्तमानायामीश्वरादागत्य जीवो यथा जीव्यते विमुच्यते तच्छृणु || १७ || यथा समष्टिमनांसि पुरुषयत्नसाध्यैरेवोपासनज्ञानैरुपचीयन्ते शाम्यन्ति चैवं व्यष्टिजीवमनांस्यपि जन्ममरणबीजकामकर्मवासनासंकल्पैरुपचीयन्ते निरोधज्ञानाभ्यासप्रकर्षैः शाम्यन्तीति नासंभावनीयो मनोनाश इत्याशयेन सृष्ट्यादिकालादारभ्य मोक्षकल्पनान्तां जीवसंसृतिं संक्षेपविस्तराभ्यां प्रपञ्चयति - एवमस्यामित्यादिना | अस्यां प्रागुक्तायां समष्टिकल्पनायां तादृशि परमात्मनि वर्तमानायां सत्यां जीवो व्यष्टिजीवो जीव्यते जीवति | पदविकरणव्यत्ययश्छान्दसः || १७ || ब्रह्मणो मनःशक्तिरभ्युदिता पुरःस्थितकाशशक्तिमवलम्ब्य तत्रस्थपवनतानुपातिनी घनसंकल्पत्वं गच्छति || १८ || संक्षेपेण सूत्रितमर्थं विवरीतुकामः प्रथममीश्वरादागत्येत्यंशं विवृणोति - मनःशक्तिरिति | प्रलये उपाधिविलयादव्याकृते लीनानां जीवानां संस्कारमात्रेण परिशिष्टा मनःशक्तिः प्रथममव्याकृतात् शब्दतन्मात्रात्मकाकाशशक्त्याविर्भावे सति पुरःस्थितां प्रथमोत्पन्नां तामवलम्ब्य स्वयमप्यभुदिता सती पवनशक्त्यात्मकस्पर्शतन्मात्रोत्पत्तौ तत्रत्यपवनतानुपातिनी ईषच्चलनयोग्यतालक्षणं घनसंकल्पत्वं गच्छति || १८ || ततः पुरःप्राप्तभूततन्मात्रपञ्चकतामेत्यान्तःकरणतां नीत्वा सात्वसूक्ष्मा प्रकृतिर्भूत्वा गगनपवनतेजोरूपतासंकल्पात्प्रालेयरूपतामुपेत्य शाल्योषधिं विशन्ती प्राणिनां गर्भतां च गच्छति || १९ || ततः पुरःप्राप्तरूपरसगन्धात्मकतन्मात्रक्रमेण पञ्चकतामपञ्चीकृतपञ्चभूतात्मकतामेत्य अन्तःकरणतां मनोबुद्धिरहंकारश्चित्तमिति व्यवहारबीजजीवोपाधितां नीत्वा प्राप्य सा प्रागुक्तमनःशक्तिरसूक्ष्मोपचिता पञ्चीकृतस्थूलप्रकृतिर्भूत्वा पञ्चीकृतगगनपवनतेजोरूपतासंकल्पात् क्रमेण प्रालेयरूपतां नीहारवृष्ट्यादिजलरूपतामुपेत्य शालिगोधूमाद्योषधिं सस्यं विशन्ती अन्नभूता पुरुषैर्भुक्ता रेतोभावं प्राप्य स्त्रीयोनौ निषिक्ता कललबुद्बुदादिक्रमेण प्राणिनां गर्भतां च गच्छति || १९ || जायते तस्मात्ततः पुरुषः संपद्यते || २० || तस्माज्जायते प्रसूयते ततो जन्मनः कदाचित्सुकृताधिक्यात्कर्मज्ञानाधिकृतः पुरुषः संपद्यत इत्यर्थः || २० || तेन पुरुषेण जातमात्रेणैव बाल्यात्प्रभृति विद्याग्रहणं कर्तव्यं गुरवोऽनुगन्तव्याः || २१ || तेनेत्यादि निगदव्याख्यातम् || २१ || ततः क्रमात्पुंसस्तवेव चमत्कृतिर्जायते || २२ || तवेव चमत्कृतिर्विवेकवैराग्यादिसाधनसंपत्तिर्जायते || २२ || स्वच्छदृशा चित्तवृत्तेः पुरुषस्य हेयोपादेयविचार उत्पद्यते || २३ || स्वच्छदृशा चित्तवृत्तेः पुरुषस्य संसारानर्थो हेयो मोक्षोपाय उपादेय इति विचार उत्पद्यते || २३ || तादृग्विवेकवति संकलिताभिमाने पुंसि स्थिते विमलसत्त्वमयाग्र्यजातौ | सप्तात्मिकावतरति क्रमशः शिवाय चेतःप्रकाशनकरी ननु योगभूमिः || २४ || गद्योक्तार्थसारं पद्येनोक्त्वोपसंहरंस्तादृशे पुरुषे योगभूमिकामात्यन्तिकमनोनाशोपायभूतामवतारयति - तादृगिति | तादृक्साधनान्तरोपचितो यो विवेकस्तद्वति विमलसत्त्वमयी अग्र्यजातिर्ब्राह्मणाद्युत्तमजातिर्यस्य स तादृशोऽहमिति संकलितः स्वीकृतोऽभिमानोऽनेन तस्मिन्नधिकारिपुंसि स्थिते अचले सति शिवाय परमपुरुषार्थाय वक्ष्यमाणसाप्तविध्यात्मिका चेतसः प्रकाशनं ज्ञानेनामिज्वलनं तत्करणशीला योगभूमिः क्रमशश्चित्तोपरमतारतम्यक्रमेणावतरति | वक्ष्यमाणलक्षणैराविर्भवतीत्यर्थः || २४ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मोक्षो० उत्पत्तिप्रकरणे साधकजन्मावतारो नाम षोडशोत्तरशततमः सर्गः || ११६ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे साधकजन्मावतारो नाम षोडशोत्तरशततमः सर्गः || ११६ || सप्तदशोत्तरशततमः सर्गः ११७ श्रीराम उवाच | कीदृश्यो भगवन्योगभूमिकाः सप्तसिद्धिदाः | समासेनेति मे ब्रूहि सर्वतत्त्वविदांवर || १ || ज्ञानभूमिप्रभेदानामुपोद्घातेन वर्ण्यते | अज्ञानभूमिका सप्तविधा यद्वा प्रसङ्गतः || १ || समासेन संग्रहेण | इतिशब्दो लक्षणप्रभेदानां तदुपयोग्यर्थान्तराणां च प्रश्नस्य द्योतनाय || १ || श्रीवसिष्ठ उवाच | अज्ञानभुः सप्तपदा ज्ञभुः सप्तपदैव हि | पदान्तराण्यसंख्यानि भवन्त्यन्यान्यथैतयोः || २ || तत्र इतिशब्दपृष्टं ज्ञानभूमिकाबोधोपयुक्तमज्ञानभूमिकाभेदं प्रथमं वक्तुकामो वसिष्ठो ज्ञानाज्ञानभूमिके विभज्य दर्शयति - अज्ञानेति || २ || स्वयत्नसाधकरसान्महासत्ताभरोन्नतेः | एते प्रतिपदं बद्धमूले संफलतः फलम् || ३ || स्वाभाविकप्रवृत्तिलक्षणः पुरुषप्रयत्नो भोगरागदार्ढ्यलक्षणो रसावेशश्चाज्ञानभूप्रतिष्ठायामसाधारणहेतू | शास्त्रीयसाधनचतुष्टयविशिष्टः श्रवणादिप्रयत्नो मुमुक्षादार्ढ्यलक्षणरसावेशश्च ज्ञानभूप्रतिष्ठायाम् | अधिष्ठानब्रह्मसत्तोत्कर्षाधीनस्वसत्तालाभस्तूभयत्र साधारणो हेतुः | एतेभ्यो हेतुभ्य एते भूमिके प्रतिपदं स्वस्वविषये बद्धमूले सत्यौ स्वस्वोचितं संसारस्थितिदुःखलक्षणं तन्मुक्तिनिर्तिशयानन्दावाप्तिलक्षणं च फलं संफलतः | यथा अधोभुवनभुवः सप्तपदा उत्तरोत्तरं रजस्तमोदुःखबहुला नरकान्ताः ऊर्ध्वभुवनभुवस्तूत्तरोत्तरं सत्त्वसुखज्ञानबहुलाः सत्यलोकान्ताः क्रममुक्तिफलाश्च तद्वदित्यर्थाद्गम्यते || ३ || प्. ४०१) २३६ तत्र सप्तप्रकारां त्वमज्ञानस्य भुवं शृणु | ततः सप्तप्रकारां त्वं श्रोष्यसि ज्ञानभूमिकाम् || ४ || तत्र तयोर्भूमिकयोर्मध्ये || ४ || स्वरूपावस्थितिर्मुक्तिस्तद्भ्रंशोऽहंत्ववेदनम् | एतत्संक्षेपतः प्रोक्तं तज्ज्ञत्वाज्ञत्वलक्षणम् || ५ || तत्र भूमिद्वयस्य प्रत्येकं फलतः सामान्यलक्षणमाह - स्वरूपेति || ५ || शुद्धसन्मात्रसंवित्तेः स्वरूपान्न चलन्ति ये | रागद्वेषोदयाभावात्तेषां नाज्ञत्वसंभवः || ६ || तत्राद्यलक्षणं स्फुटयति - शुद्धेति || ६ || यत्स्वरूपपरिभ्रंशाच्चेत्यार्थे चितिमज्जनम् | एतस्मादपरो मोहो न भूतो न भविष्यति || ७ || द्वितीयं स्फुटयति - यदिति || ७ || अर्थादर्थान्तरं चित्ते याति मध्ये हि या स्थितिः | निरस्तमनना यासौ स्वरूपस्थितिरुच्यते || ८ || आद्यस्याप्रसिद्धिं वारयति - अर्थादिति | पूर्वविषयाच्च्युतस्य विषयान्तरमननात्प्राङ् निरस्तमनना स्वरूपावस्थितिः प्रसिद्धेत्यर्थः || ८ || संशान्तसर्वसंकल्पा या शिलान्तरिव स्थितिः | जाड्यनिद्राविनिर्मुक्ता सा स्वरूपस्थितिः स्मृता || ९ || मूर्च्छासुषुप्त्योर्वारणाय विशिनष्टि - जाड्यनिद्रेति || ९ || अहंतांशे क्षते शान्ते भेदे निःस्पन्दतां गते | अजडा या प्रकचति तत्स्वरूपमिति स्थितम् || १० || अन्तरहंतांशे बहिर्भेदे | उभयत्र निस्पन्दतां गते | अजडा स्वप्रकाशा या चिदिति शेषः || १० || तत्रारोपितमज्ञानं तस्य भूमीरिमाः शृणु | बीजजाग्रत्तथा जाग्रन्महाजाग्रत्तथैव च || ११ || तत्र तस्यां प्रत्यक्चिति | आरोपितमनादितयाध्यस्तम् || ११ || जाग्रत्स्वप्नस्तथा स्वप्नः स्वप्नजाग्रत्सुषुप्तकम् | इति सप्तविधो मोहः पुनरेव परस्परम् || १२ || श्लिष्टो भवत्यनेकाख्यः शृणु लक्षणमस्य च | प्रथमे चेतनं यत्स्यादनाख्यं निर्मलं चितः || १३ || पदान्तराण्यसंख्यानीति यदुक्तं तदुपपादयति - पुनरेव परस्परं श्लिष्ट इति | अस्य सप्तविधस्य मोहस्य प्रत्येकं लक्षणं शृण्वित्यर्थः | बीजजाग्रल्लक्षणमाह - प्रथममिति | चितो मायाशबलचैतन्यात्सकाशात्सर्गादौ जागरादौ वा प्रथमं चेतनं चिदाभाससंवलितरूपं यत्स्यात्तत्प्राणधारणादिक्रियोपाधिना भविष्यच्चित्तजीवादिनामशब्दानां तदर्थानां च भाजनं वक्ष्यमाणजाग्रद्बीजभूतं स्थितं बीजजाग्रदिति परेणान्वयः || १३ || भविष्यच्चित्तजीवादिनामशब्दार्थभाजनम् | बीजरूपं स्थितं जाग्रद्बीजजाग्रत्तदुच्यते || १४ || एषा ज्ञप्तेर्नवावस्था त्वं जाग्रत्संसृतिं शृणु | नवप्रसूतस्य परादयं चाहमिदं मम || १५ || जाग्रल्लक्षणं श्रावयति -त्वमिति | नवप्रसूतस्य बीजजाग्रतः परात् परतः | अयं स्थूलदेहोऽहं इदं देहभोग्यजातं मम इति यः प्रत्ययस्तज्जाग्रदित्यर्थः || १५ || इति यः प्रत्ययः स्वस्थस्तज्जाग्रत्प्रागभावनात् | अयं सोऽहमिदं तन्म इति जन्मान्तरोदितः || १६ || अयं सोऽहमिदं तन्मे इत्युक्तलक्षणस्य जाग्रत्प्रत्ययस्य जन्मानन्तरमुदितः | नकारलोपश्छान्दसः | अथवा सजातीयपूर्वपूर्वज्न्मसंस्कारोद्बोधेन दृढतरोदितः अत एव पीवरः अभ्यासादुपचितः | तथाहि ब्राह्मणादिजन्मसाधारण्येऽपि जन्मान्तराभ्यासात् केषांचिद्ब्राह्मणोचितक्रियास्वभिनिवेशः पाटवातिशयश्च दृश्यते न सर्वेषाम् | तथाचैहिकात्प्राक्तनाद्वा दृढाभ्यासपाटवादुपचिताभिनिवेशो जाग्रत्प्रत्ययो महाजाग्रदित्यर्थः || १६ || पीवरः प्रत्ययः प्रोक्तो महाजाग्रदिति स्फुरन् | अरूढमथ वा रूढं सर्वथा तन्मयात्मकम् || १७ || जाग्रत्स्वप्नं लक्षयति - अरूढमिति | अरूढमनभ्यासपेलवं रूढमभ्यासदृढम् | यथा लवणस्य || १७ || यज्जाग्रतो मनोराज्यं जाग्रत्स्वप्नः स उच्यते | द्विचन्द्रशुक्तिकारूप्यमृगतृष्णादिभेदतः || १८ || द्विचन्द्रशुक्तिरूप्यादिभ्रान्तयोऽपि जाग्रत्स्वप्नभेदा एवेत्याह - द्विचन्द्रेति || १८ || अभ्यासात्प्राप्य जाग्रत्त्वं स्वप्नोऽनेकविधो भवेत् | अल्पकालं मया दृष्टमेवं नो सत्यमित्यपि || १९ || स्वप्नं लक्षयति - अल्पकालमिति | निद्रान्ते निद्रामध्ये निद्रावसाने वा प्रतीयत इति प्रत्ययः | यः प्रत्ययोऽनुसंधीयते स स्वप्नः कथित इत्यर्थः | तस्याज्ञस्य | स च महाजाग्रत्स्थितेर्महाजाग्रदन्तर्गतस्थूलशरीरस्य हृदि कण्ठादि हृदयान्तनाडीप्रदेशे भवतीत्यर्थः || १९ || निद्राकालानुभूतेऽर्थे निद्रान्ते प्रत्ययो हि यः | स स्वप्नः कथितस्तस्य महाजाग्रत्स्थितेर्हृदि || २० || चिरसंदर्शनाभावादप्रफुल्लबृहद्वपुः | स्वप्नो जाग्रत्तया रूढो महाजाग्रत्पदं गतः || २१ || उक्तलक्षणोपपादनाय स्वप्नमेव पुनर्विशिनष्टि - चिरसंदर्शनाभावादिति | स्वप्नजाग्रतोर्लक्षणमाह - स्वप्नो जाग्रत्तयेति | रूढो दृढाभिनिवेशाच्चिरकालस्थायित्वकल्पनाद्वा उपचितः यथा हरिश्चन्द्रस्य द्वादशवर्षात्मकः | महाजाग्रत्पदं महाजाग्रत्साम्यं गतः सन्नित्यर्थः || २१ || अक्षतेवाक्षते देहे स्वप्नजाग्रन्मतं हि तत् | षडवस्थापरित्यागे जडा जीवस्य या स्थितिः || २२ || स चास्य दैवाद्देहनाशेऽपि तथैवाग्रेऽप्यनुवर्तते इति सूचनाय क्षते देहे इत्युक्तम् | सुषुप्तिं लक्षयति - षडवस्थेति | पूर्वाः षडवस्थाः कर्मफलभोगभूमित्वात्कर्मजाः | सुषुप्तिस्तु पूर्वोद्भूतकर्मणां भोगेन क्षये उत्तरेषामनुद्भवेऽन्तराले छत्रापायवत्सर्वसूक्ष्मस्थूलप्रपञ्चविलये तद्बीजाज्ञानमात्रपरिशेषात्तदुपहितात्ममात्रपरिशेषरूपेत्याशयेनाह - जडा जीवस्य या स्थितिरिति || २२ || प्. ४०२) २३७ भविष्यद्दुःखबोधाढ्या सौषुप्ती सोच्यते गतिः | एते तस्यामवस्थायां तृणलोष्टशिलादयः || २३ || भविष्यद्दुःखानि [१] बोधयन्ति अनुभावयन्तीति भविष्यद्दुःखबोधानि वासनाकर्माणि तैराढ्या संपन्ना सुषुप्तिरेव सौषुप्ती | सुषुप्तौ कारणे विलीनस्य जगतः संस्कारात्मना सत्वमेव नासत्वं पुनरुद्भवाभावप्रसङ्गादित्याशयेनाह - एते इति || २३ || पदार्थाः संस्थिताः सर्वे परमाणुप्रमाणिनः | सप्तावस्था इति प्रोक्ता मयाऽज्ञानस्य राघव || २४ || उपसंहरति - सप्तावस्था इति || २४ || एकैका शतशाखात्र नानाविभवरूपिणी | जाग्रत्स्वप्नश्चिरं रूढो जागृतावेव गच्छति || २५ || तास्वेकैकान्तरन्यान्याविर्भावात्परस्परं संवलनाच्चानन्तभेदाः संभवन्तीत्याह - एकैकेति | जागृतावेव गच्छति मिलति || २५ || नानापदार्थभेदेन सविकासं विजृम्भते | अस्यामप्युदरे सन्ति महाजाग्रद्दशादृशः || २६ || अस्यां जाग्रद्भावापन्नायां जाग्रत्स्वप्नदशायाम् | उदरे अन्तः महाजाग्रद्दशालक्षणाः दृशः प्रत्ययाः | दृशः साक्षिणो महाजाग्रद्दशाः सन्तीति पृथक् पदच्छेदो वा || २६ || तासामप्यन्तरे लोको मोहान्मोहान्तरं व्रजेत् | अन्तःपातिजलावर्त इव धावति नौर्भ्रमम् || २७ || लोको जनः जीव इति यावत् | नद्यन्तःपातिजलावर्ते नौरिव भ्रमं धावति गच्छति || २७ || काश्चित्संसृतयो दीर्घं स्वप्नजाग्रत्तया स्थिताः | काश्चित्पुनः स्वप्नजाग्रज्जाग्रत्स्वप्नास्तथेतराः || २८ || दीर्घं दीर्घकालम् | स्वप्नजाग्रदिति जातावेकवचनम् || २८ || अज्ञानभूमिरिति सप्तपदा मयोक्ता नानाविकारजगदन्तरमेदहीना | अस्याः समुत्तरसि चारुविचारणाभि- र्दृष्टे प्रबोधविमले स्वयमात्मनीति || २९ || वर्णितामज्ञानभूमिकामुपसंहरंस्तदुत्तरणोपायमाह - अज्ञानभूमिरिति | नानाविकारैर्जगदन्तरभेदैश्च हीना निन्द्या अवश्यहेयेति यावत् | इति उक्तवक्ष्यमाणप्रकाराभिश्चारुविचारणाभिः प्रबोधमले स्वयं प्रत्यङ्मात्रैकरसे आत्मनि दृष्टे सति अस्याः अविद्याभूमेः सकाशात्समुत्तरसि निर्गत एवासीत्यर्थः | स्वयमुत्तरसीति वा संबन्धः || २९ || इत्यार्षे श्रीवासिष्ठमहारामायणे वा० मोक्षोपायेषूत्पत्तिप्रकरणे अज्ञानभूमिकावर्णनं नाम सप्तदशोत्तरशततमः सर्गः || ११७ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे अज्ञानभूमिकावर्णनं नाम सप्तदशोत्तरशततमः सर्गः || ११७ || अष्टादशोत्तरशततमः सर्गः ११८ श्रीवसिष्ठ उवाच | इमां सप्तपदां ज्ञानभूमिमाकर्णयानघ | नानया ज्ञातया भूयो मोहपङ्के निमज्जसि || १ || इह सप्तपदा ज्ञानभूमिका लक्षणैः स्वकैः | आरूढलक्षणैश्चैव मोक्षान्ता साधु वर्ण्यते || १ || ज्ञातया अभ्यासक्रमेणानुभूतया || १ || वदन्ति बहुभेदेन वादिनो योगभूमिकाः | मम त्वभिमता नूनमिमा एव शुभप्रदाः || २ || ननु योगशास्त्रे यमनियमाद्यष्टाङ्गभेदभिन्ना योगभूमिकाः प्रसिद्ध एव किं ता एवैता नेत्याह - वदन्तीति | वादिनो योगसांख्यवादिनः | ता योगभूमिकास्तुच्छसिद्धिफला अन्येषामभिमताः | मम तु इमा ज्ञानभूमिका एवाभिमताः | यतः परमपुरुषार्थलक्षणशुभप्रदा इत्यर्थः || २ || अवबोधं विदुर्ज्ञानं तदिदं सप्तभूमिकम् | मुक्तिस्तु ज्ञेयमित्युक्तं भूमिकासप्तकात्परम् || ३ || किं तज्ज्ञेयं किं वा ज्ञानं यद्भूमयो वर्ण्यन्ते इति ते लक्षयति - अवबोधमिति | अखण्डस्वाकारवृत्त्या रूढं ब्रह्म अज्ञाननिवर्तकत्वाज्ज्ञानं निवृत्ताज्ञानं तु तदेव ज्ञेयमित्युपचाराद्द्विधोच्यत इत्यर्थः || ३ || सत्यावबोधो मोक्षश्चैवेति पर्यायनामनी | सत्यावबोधो जीवोऽयं नेह भूयः प्ररोहति || ४ || तथाच पूर्वापरावस्थाकल्पितावान्तरप्रवृत्तिनिमित्तभेदस्य मिथ्याभूतस्यापाये अवबोधमोक्षपदयोरेकार्थमात्रनिष्ठत्वात्पर्यायनामता फलिता | यतस्तादृशो जीवो न भूयः प्ररोहति येन भेदादपर्यायता स्यादित्याशयेनाह - सत्यावबोध इति || ४ || ज्ञानभूमिः शुभेच्छाख्या प्रथमा समुदाहृता | विचारणा द्वितीया तु [भविष्यदुःखेति मुद्रितपुस्तके पाठः] तृतीया तनुमानसा || ५ || उद्देशः स्पष्टः || ५ || सत्त्वापत्तिश्चतुर्थी स्यात्ततोऽसंसक्तिनामिका | पदार्थाभावनी षष्ठी सप्तमी तुर्यगा स्मृता || ६ || आसामन्ते स्थिता मुक्तिस्तस्यां भूयो न शोच्यते | एतासां भूमिकानां त्वमिदं निर्वचनं शृणु || ७ || उद्दिष्टानां लक्षणोक्तिं वक्तुं प्रतिजानीते - एतासामिति || ७ || स्थितः किं मूढ एवास्मि प्रेक्ष्येऽहं शास्त्रसज्जनैः | वैराग्यपूर्वमिच्छेति शुभेच्छेत्युच्यते बुधैः || ८ || प्रेक्ष्ये प्रेक्षिष्ये | इडभावश्छान्दसः | शास्त्रैर्विचारितवेदान्तवाक्यैः सज्जनैर्गुरुभिश्च | वैराग्यग्रहणं साधनचतुष्टयोपलक्षणम् | तथाच निषिद्धवर्जननिष्कामयज्ञदानाद्यनुष्ठानप्रयुक्ता संन्याससाधनचतुष्टयसंपत्तिसहिता मुक्तिपर्यवसिता श्रवणादिप्रवृत्तिफलोपहितात्मसाक्षात्कारोत्कटेच्छैव प्रथमा भूमिकेत्यर्थः || ८ || शास्त्रसज्जनसंपर्कवैराग्याभ्यासपूर्वकम् | सदाचारप्रवृत्तिर्या प्रोच्यते सा विचारणा || ९ || गुरुशुश्रुषाभिक्षाशनशौचादियतिधर्मपालनसहिते श्राणमनने एवात्र सदाचारः | अन्यस्य चित्तशुद्धिमात्रहेतुत्वेन प्रागेव सिद्धत्वात् || ९ || प्. ४०३) २३७ विचारणाशुभेच्छाभ्यामिन्द्रियार्थेष्वसक्तता | यात्र सा तनुता भावात्प्रोच्यते तनुमानसा || १० || अभ्यर्हितत्वाद्विचारणाशब्दस्य पूर्वनिपातः | भावनं भावो निदिध्यासनं तस्मात् | तथाच साधनचतुष्टयसंपत्त्यादिपूर्वकश्रवणमननाभ्यां सहितान्निदिध्यासनाद्या मनस इन्द्रियार्थेषु शब्दादिविषयेषु असक्तता अग्रहणपर्यन्ता तनुता सविकल्पसमाधिरूपा सूक्ष्मता सा तनुमानसाख्या भूमिका प्रोक्ता | तनु सूक्ष्मतमं मानसं यस्यामिति व्युत्पत्तेरित्यर्थः | अण्णन्तस्योपसर्जनत्वान्न ङीप् | तथाचोक्तं योगशास्त्रे श्रोत्रादिकरणैर्यावच्छब्दादिविषयग्रहः | तावद्ध्यानमिति प्रोक्तं समाधिः स्यात्ततः परः || इति || १० || भूमिकात्रितयाभ्यासाच्चित्तेऽर्थे विरतेर्वशात् | सत्यात्मनि स्थितिः शुद्धे सत्त्वापत्तिरुदाहृता || ११ || अर्थे बाह्यार्थे विषये संस्कारोच्छेदादात्यन्तिकी चित्ते या विरतिस्तद्वशात्तत्स्थैर्यात् | शुद्धे मायातत्कार्यादवस्थात्रयाच्च शोधिते सर्वाधिष्ठानसन्मात्ररूपे आत्मनि क्षीरोदकवत्त्रिपुटीविलयेन साक्षात्कारपर्यन्ता या स्थितिर्निर्विकल्पकसमाधिरूपा सा सत्त्वापत्तिर्मनसः परमात्मसत्त्वात्मनैवापन्नत्वादित्यर्थः | अत्र ह्यसौ ब्रह्मविदित्युच्यते || ११ || दशाचतुष्टयाभ्यासादसंसङ्गफलेन च | रूढसत्त्वचमत्कारात्प्रोक्ताऽसंसक्तिनामिका || १२ || असंसङ्गश्चित्तस्य बाह्याभ्यन्तराकारैस्तत्संस्कारैश्चास्पर्शस्तल्लक्षणेन समाधिपरिपाकफलेन च हेतुना रूढ उपचितश्चित्ते निरतिशयानन्दनित्यापरोक्षब्रह्मात्मभावसाक्षात्कारलक्षणश्चमत्कारो यस्यां सा | यद्यप्युत्तमाधिकारिणां द्वितीयभूमिकायामपि साक्षात्कारः शाब्दापरोक्षात्प्रसिद्धस्तथापि पञ्चमभूमिकायामात्यन्तिकद्वैतसंस्कारोच्छेदप्रयुक्तोत्कर्षातिशयस्य मन्दमध्यमाधिकारिणामपि चतुर्थभूमिकान्तोत्पन्नसाक्षात्कारस्य पञ्चम्यां निरूढतरत्वोपपत्तेश्च सूचनाय रूढेति चमत्कारविशेषणम् | अत एव चतुर्थभूमिकान्ते क्वचित्पञ्चमीं भूमिकां प्राप्तो ब्रह्मविद्वर इत्युच्यते | न विद्यते अविद्यातत्कार्यसंसक्तिः सर्वथा यस्यामिति व्युत्पत्त्या असंसक्तिनामिका || १२ || भूमिकापञ्चकाभ्यासात्स्वात्मारामतया दृढम् | आभ्यन्तराणां बाह्यानां पदार्थानामभावनात् || १३ || अस्या एव परिपाकोत्कर्षादुत्तरे द्वे भूमिके भवत इत्याशयेनाह - भूमिकापञ्चकेति | वक्ष्यमाणं नाम अन्वर्थतया निर्वक्ति - आभ्यन्तराणामिति || १३ || परप्रयुक्तेन चिरं प्रयत्नेनार्थभावनात् | पदार्थाभावनानाम्नी षष्ठी संजायते गतिः || १४ || तर्हि कथं देहयात्रासिद्धिस्तत्राह - परप्रयुक्तेनेति | अस्यां च भूमिकायां ब्रह्मविद्वरीयानित्याख्यायते || १४ || भूमिषट्कचिराभ्यासाद्भेदस्यानुपलम्भतः | यत्स्वभावैकनिष्ठत्वं सा ज्ञेया तुर्यगा गतिः || १५ || सप्तमीं भूमिकामाह - भूमिषट्केति | परप्रयत्नेनापि भेदस्यानुपलम्भत इत्यर्थाद्गम्यते | तुर्यं जाग्रदाद्यवस्थात्रयनिर्मुक्तं शिवमद्वैतं चतुर्थं मन्यन्ते इति श्रुत्या तादृशीविद्वदनुभवसिद्धत्वेन प्रतिपादितं ब्रह्म गच्छति आत्मतयानुभवत्यखण्डितं यस्यामवस्थायां सा तुर्यगा | तां तु प्राप्तो ब्रह्मविद्वरिष्ठ इत्युच्यते | सच ब्रह्मवित्प्रभृतिषु तुरीयस्तं गच्छतीति तुर्यगा || १५ || एषा हि जीवन्मुक्तेषु तुर्यावस्थेह विद्यते | विदेहमुक्तिविषयस्तुर्यातीतमतः परम् || १६ || इहास्मिन्नेव देहे विद्यते | अतोऽस्या अवस्थायाः परं विदेहमुक्तिविषयस्तुर्यातीतं ब्रह्मैवेति न भूमिकासु गण्यत इत्यर्थः || १६ || ये हि राम महाभागाः सप्तमीं भूमिकां गताः | आत्मारामा महात्मानस्ते महत्पदमागताः || १७ || जीवन्मुक्ता न सज्जन्ति सुखदुःखरसस्थितौ | प्रकृतेनार्थकार्याणि किंचित्कुर्वन्ति वा न वा || १८ || किंचित्कुर्वन्ति षष्ठभूमिकायां न वा कुर्वन्ति सप्तमभूमिकायामित्याशयः || १८ || पार्श्वस्थबोधिताः सन्तः सर्वाचारक्रमागतम् | आचारमाचरन्त्येव सुप्रबुद्धवदक्षतम् || १९ || कुर्वन्ति वा नवेत्युक्तेर्यथेष्टाचारपरत्वाशङ्कां वारयन् स्वाशयं प्रकटयति - पार्श्वस्थेति | सर्वेषां तत्तदाश्रमनिष्ठानामाचारक्रमेणागतमाचारं सदाचारमेवाचरन्ति आचरन्त्येवेति द्विविधोऽपि नियमोऽत्र विवक्षितः | अक्षतं आसङ्गेनादूषितम् | अक्षता इति पाठे फलासक्तिलक्षणक्षतरहिता इत्यर्थः | तथाच न यथेष्टाचरणप्रसक्तिरिति भावः | तथाचाहुः - विदितब्रह्मतत्त्वस्य यथेष्टाचरणं यदि | शुनां तत्त्वविदां चैव को भेदोऽशुचिभक्षणे || इति || १९ || आत्मारामतया तांस्तु सुखयन्ति न काश्चन | जगत्क्रिया सुसंसुप्तान्रूपालोकाः स्त्रियो यथा || २० || अनासङ्गव्यवहारेण सुखदुःखानुदयं सदृष्टान्तमाह - आत्मारामतयेति | जगत्क्रियाव्यवहारास्तान् जीवन्मुक्तान्न सुखयन्ति | यथा सुसंसुप्तान् गाढनिद्रावशान् रूपेण सौन्दर्यातिशयेन आलोक्यन्त इति रूपालोकाः स्त्रियो न सुखयन्ति तद्वदित्यर्थः | जगत्क्रियासु संसुप्तान् रूपालोकः स्त्रियो यथा इति पाठे तु यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः इति भगवदुक्तदिशा जगद्व्यापारेषु स्वप्नवन्मिथ्यात्वदर्शनात्सुप्तप्रायांस्तान् ब्रह्मादिसंपदोऽपि न सुखयन्ति | यथा स्त्रीरूपालोकोऽन्याः स्त्रियो न सुखयति तत्र रागाभावात्तद्वदित्यर्थः || २० || भूमिकासप्तकं चैतद्धीमतामेव गोचरम् | न पशुस्थावरादीनां न च म्लेच्छादिचेतसाम् || २१ || म्लेच्छादिवच्चेतो देहात्मबुद्धिर्येषां तेषां मनुष्यादीनां चेत्यर्थः || २१ || प्राप्ता ज्ञानदशामेतां पशुम्लेच्छादयोऽपि ये | सदेहा वाप्यदेहा वा ते मुक्ता नात्र संशयः || २२ || पशवो हनुमत्प्रभृतयः | म्लेच्छा धर्मव्याधादयः आदिपदादसुराः प्रह्लादकर्कटीप्रमृतयश्च गृह्यन्ते || २२ || ज्ञप्तिर्हि ग्रन्थिविच्छेदस्तस्मिन्सति हि मुक्तता | मृगतृष्णाम्बुबुद्ध्यादि शान्तिमात्रात्मकस्त्वसौ || २३ || मृगतृष्णाम्बुबुद्धेरादिपदाच्छुक्तिरूप्यबुद्धेश्च या शान्तिर्बाधः सैव मात्रा तुला यस्य तदात्मकः | तत्तुल्य इति यावत् || २३ || प्. ४०४) २३८ ये तु मोहात्समुत्तीर्णा न प्राप्ताः पावनं पदम् | आस्थिता भूमिकास्वासु स्वात्मलाभपरायणाः || २४ || यद्यपि द्वितीयादिभूमिषु चतुर्थभूमौ वा ज्ञानोदयेनाज्ञानावरणभङ्गान्मोहात्सम्यगुत्तिर्णा एव तथापि प्रबलप्रारब्धप्रयुक्तविक्षेपात्पावनमात्यन्तिकमनोनाशोपलक्षितनिरतिशया नन्दपूर्णतालक्षणं विदेहकैवल्यं न प्राप्ता इत्यर्थः || २४ || सर्वभूमिगताः केचित्केचिद्द्वित्रैकभूमिकाः | भूमिषट्कगताः केचित्केचित्सप्तैकभूमिकाः || २५ || एकस्मिन्नेव जन्मनि क्रमात्सर्वभूमिगताः | एवं सर्वत्र सप्तैकभूमिका सप्तमैकभूमिकाः सनकादयः || २५ || भूमित्रयगताः केचित्केचिद्न्त्यां भुवं गताः | भूचतुष्टयगाः केचित्केचिद्भूमिद्वये स्थिताः || २६ || भूचतुष्टयगाः केचिदित्येतदन्यस्य पूर्वोक्तस्यैवानुवादः प्रपञ्चार्थः || २६ || भूम्यंशभाजनाः केचित्केचित्सार्धत्रिभूमिकाः | केचित्सार्धचतुर्भूगाः सार्धषड्भूमिकाः परे || २७ || भूम्यंशः पादभूम्यर्धभूम्यादिः || २७ || विवेकिनो नरा लोके चरन्त इति भूमिषु | ग्रहायतनतापस्य दृशावेशेषु संस्थिताः || २८ || इति उक्तप्रकारासु भूमिषु चरन्तः सन्तो दृशा भूमात्मदृष्ट्या गृह्णन्तीति ग्रहाः ग्रहातिग्रहाख्याः सान्तर्बाह्यकरणतद्विषयाः आयतनं तदाधारभूतं शरीरं च तत्प्रयुक्तस्य तापस्याध्यात्मिकादिभेदभिन्नस्य आवेशेषु बाधलक्षणेष्वात्मान्तःप्रवेशनेषु संस्थिता उद्युक्ताः सन्तीत्यर्थः || २८ || ते हि धीराः सुराजानो दशास्वासु जयन्ति ये | तृणायतेऽत्र दिग्दन्तिघटाभटपराजयः || २९ || सेन्द्रियमनोजय एव सर्वशत्रुजयादुत्कृष्टः स्वात्मसाम्राज्यमेव सर्वोत्कृष्टा राजता नान्येत्याह - ते हीति | शोभनाः सर्वोत्कृष्टा राजानः | न पूजनात् इति न टच् | अत्र अस्याग्रे दिग्दन्तिघटासहितानां सर्वशत्रुभटानां पराजयस्तत्प्रयुक्तसप्तद्वीपराज्यं च तृणायते तुच्छीभवतीत्यर्थः || २९ || ये तासु भूमिषु जयन्ति हि ये महान्तो वन्द्यास्त एव हि जितेन्द्रियशत्रवस्ते | सम्नाड्विराडपि च यत्र तृणायते वै तस्मात्परं जगति ते समवाप्नुवन्ति || ३० || उक्तमेवार्थं स्फुटं वदन्नुपसंहरति - एतास्विति | येनेष्टं राजसूयेन यश्चैकः सर्वभूमण्डलाधिपतिरन्येषां राज्ञां शासिता स सम्राट् | युवा स्यात्साधुयुवाध्यापकः | आशिष्टो द्रढिष्ठो बलिष्ठः | तस्येयं पृथिवी सर्वा वित्तस्य पूर्णा स्यात् | स एको मानुष आनन्दः इति श्रुत्युक्तलक्षणमानुषानन्दसंपन्न इत्यर्थः | विराट् ब्रह्मशरीरः प्रजापतिर्दैवानन्दपरमावधिरपि यत्र सप्तमभूमौ तृणायते तस्मात्परं विदेहकैवल्यसुखं जगति इहैव यतस्ते समवाप्नुवन्तीत्यर्थः || ३० || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषुत्पत्तिप्रकरणे ज्ञानभूमिकोपदेशो नामाष्टादशोत्तरशततमः सर्गः || ११८ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे ज्ञानभूमिकोपदेशो नामाष्टादशोत्तरशततमः सर्गः || ११८ || एकोनविंशोत्तरशततमः सर्गः ११९ श्रीवसिष्ठ उवाच | ऊर्मिकासंविदा हेम यथा विस्मृत्य हेमताम् | विरौति नाहं हेमेति तथात्माहंतयानया || १ || निरस्य मायिकं रूपं सन्मात्रैकत्वदर्शनम् | भूमिकासु स्थिरीकर्तुं युक्तिरत्र प्रपञ्च्यते || १ || तदर्थं परमात्मनः सहजस्वपूर्णानन्दस्वप्रकाशभावविस्मरणे मायिकजीवजगद्भावारोपेण नानाविधदुःखशोकादिप्राप्तौ च दृष्टान्तमाह - ऊर्मिकेति | यथा हेम स्वतः सर्वतः कालत्रयेऽपि स्वर्णैकस्वभावं परमार्थतो लेशतोऽप्यस्वर्णशून्यमपि स्वात्मन्येव कल्पितया ऊर्मिकासंविदा अङ्गुलीयकभ्रान्त्या स्वां हेमतां हेमैकरसतां विस्मृत्य अदृष्ट्वा बाह्यमलसंपर्कप्रयुक्तकांस्यादिभावकल्पनया विरौति रोदिति | अचेतनस्य रोदनायोगात्कांस्योर्मिकादिशब्दाभिलापस्तत्स्वामिरोदनं वा तदीयरोदनत्वेनोपचर्यते | तथा आत्माप्यहंतया रोदितीत्यर्थः || १ || श्रीराम उवाच | ऊर्मिकासंविदुदयः कथं हेम्नो यथा मुने | अहंता चात्मन इति यथावद्ब्रूहि मे प्रभो || २ || यथाशब्दोऽपि कथमित्यर्थे उत्तरान्वयी | तथाच आत्मनः अहंता च कथं इति दृष्टान्तं दार्ष्टान्तिकं च यथावदुपपत्तिभिर्ब्रूहि | व्यक्तं वर्णयेत्यर्थः || २ || श्रीवसिष्ठ उवाच | सत एवागमापायौ प्रष्टव्यौ नासतः सता | अहंत्वमूर्मिकात्वं च सती तु न कदाचन || ३ || आगमापायावुत्पत्तिनाशौ स्वतःसिद्धेन द्रष्ट्रा द्रष्टुं शक्यौ अतस्तादृशावेव प्रष्टव्यौ त्वयेत्यर्थः | अयं भावः | षट्सु भावविकारेषु मध्यमाश्चत्वारः सत एव प्रसिद्धाः नासतस्तद्वदुत्पत्तिनाशावपि सत एव वाच्यौ | नह्यसदुत्पत्तिक्रियां कर्तुं नाशक्रियाधारीभवितुं वा शक्नोति | यद्यसदुत्पद्येत नश्येद्वा तर्ह्यसद्धर्मावुत्पत्तिनाशावप्यसन्तौ स्याताम् | नहि तौ तदा द्रष्टुं शक्यौ | सतोऽसद्भिः संबन्धाभावात् | तस्मात्सदेव हेम ब्रह्म वा ऊर्मिकाहन्तादिवेषेणोत्पद्यत इति || ३ || प्. ४०५) २३८ हेम [यदि हेम ग्राह्यं तर्हि हेम्नि हेमनिमित्तमूर्मिकां त्वं गृहाणेति मध्यस्थेन उदितो भवत्यर्थात्क्रेता तत्तदा सोर्मिकेणार्थाद्विक्रेत्रा यद्दीयते तदस्ति सत्यमित्यन्वयः | उदिते यदीति सप्तम्यन्तपाठेऽर्थात्क्रेतरि मध्यस्थेन इति उदिते सति इत्याद्यन्वयः | हेम्नीति निमित्तात्कर्मयोगे इति सप्तमी] हेम्न्यूर्मिकां च त्वं गृहाणेत्युदितो यदि | यद्दीयते सोर्मिकेण तत्तदस्ति न संशयः || ४ || हानोपादानादिक्रियासंबन्धोऽपि सत एव दृष्टो नासत इत्याह - हेमेति | गृहाण मूल्येन क्रीणीहि इति मूल्ये दापिते सोर्मिकेण विक्रेत्रा यत् हेम बहुमूल्येन दीयते तदस्ति सत्यम् | तथाच ब्रह्मैव सर्वव्यवहारगोचरो नाणुमात्रमपि तदन्यद्व्यवहारेऽपि निरूपयितुं शक्यमिति भावः || ४ || श्रीराम उवाच | एवं चेत्तत्प्रभो किं स्यादूर्मिकात्वं तु कीदृशम् | अनयैवार्थनिश्चित्या ज्ञास्यामि ब्रह्मणो वपुः || ५ || यदि हेमैव क्रयादिसर्वव्यवहारगोचरस्तर्हि तदनुभातस्योर्मिकाद्याकारस्य हेमस्वरूपातिरिक्तं किं स्वरूपं स्यात्कीदृशं किंप्रकारं वा यदूर्मिकादिशब्दैरभिलप्यत इति प्रश्नार्थः || ५ || श्रीवसिष्ठ उवाच | रूपं राघव नीरूपमसतश्चेन्निरूप्यते | तद्बन्ध्यातनयाकारगुणांस्त्वं समुदाहर || ६ || अविचारितरमणीयं तत् विचारिते तु न किंचिदित्याशयेनोत्तरमाह - रूपमिति || ६ || ऊर्मिकात्वं मुधा भ्रान्तिर्मायैषा सत्स्वरूपिणी | रूपं तदेतदेवास्याः प्रेक्षिता यन्न दृश्यते || ७ || यद्यवश्यं रूपं वाच्यं तर्ह्यविचारकालमात्रस्थितिकत्वं मायाया रूपमित्याशयेनाह - रूपमिति | प्रेक्षिता विचार्य दृष्टा सती न दृश्यते तुच्छीभवतीति यत्तत्प्रसिद्धमेतदेवास्या रूपमित्यर्थः || ७ || मृगतृष्णाम्भसि द्वीन्दावहंतारूपकादिषु | एतावदेव रूपं यत्प्रेक्ष्यमाणं न लभ्यते || ८ || तथा प्रसिद्धिमेवान्यत्रापि मायिके दर्शयति - मृगतृष्णेत्यादिना || ८ || यः शुक्तौ रजताकारं प्रेक्षते रजतस्य सः | न संप्राप्नोत्यणुमपि कणं क्षणमपि क्वचित् || ९ || अपर्यालोकनेनैव सदिवासद्विराजते | यथा शुक्तौ रजतता जलं मरुमरीचिषु || १० || यन्नास्ति तस्य नास्तित्वं प्रेक्ष्यमाणं प्रकाशते | अप्रेक्ष्यमाणं स्फुरति मृगतृष्णास्विवाम्बुधीः || ११ || अप्रेक्ष्यमाणं नास्तित्वं स्फुरति रजतादिभावेनेति शेषः || ११ || असदेव च सत्कार्यकरं भवति च स्थिरम् | बालानां मरणायैव वेतालभ्रान्तिसंभ्रमः || १२ || नन्वसतः सत्कार्यकारिता स्थिरता च क्व दृष्टा तत्राह - बालानामिति | भ्रान्तिप्रयुक्तः संभ्रमो भयरोदनादिः || १२ || हेमतां वर्जयित्वैकां विद्यते हेम्नि नेतरत् | ऊर्मिकाकटकादित्वं तैलादिसिकतास्विव || १३ || नेहास्ति सत्यं नो मिथ्या यद्यथा प्रतिभाव्यते [भासत इति पाठः] | तत्तथार्थक्रियाकारि बालयक्षविकारवत् || १४ || न वस्तुसत्ता अर्थक्रियाव्यवस्थाहेतुः किंत्वारोपे अधिष्ठानसत्ताप्रतिभास एवेत्याशयेनाह - नेहेति | सत्यमेवार्थक्रियाकारि मिथ्याभूतमेव वा अर्थक्रियाकारीति नियमो नास्तीत्यर्थः || १४ || सद्वा भवत्वसद्वापि सुरूढं हृदये हि यत् | तत्तदर्थक्रियाकारि विषस्येवामृतक्रिया || १५ || इदं च प्राग्बहुश उक्तमेवेति स्मारयति - सद्वेति || १५ || परमैषैव सा विद्या मायैषा संसृतिर्ह्यसौ | असतो निष्प्रतिष्ठस्य यदहंत्वस्य भावनम् || १६ || दृष्टान्तं व्युत्पाद्य दार्ष्टान्तिकेऽपि तत्साम्यमाह - परमेषैवेत्यादिना || १६ || हेम्न्यस्ति नोर्मिकादित्वमहन्ताद्यस्ति नात्मनि | अहन्ताभाववस्त्वेमं स्वच्छे शान्ते सिते परे || १७ || अभाववस्त्वसदेव वस्तु न परमार्थवस्त्वित्यर्थः || १७ || न सनातनता काचिन्न च काचिद्विरिञ्चिता | न च ब्रह्माण्डता काचिन्न च काचित्सुतादिता || १८ || अवस्तुत्वं ब्रह्मातिरिक्तस्य सर्वस्य अथात आदेशो नेति नेति स एष नेति नेत्यात्मा तदेतद्ब्रह्मापूर्वमनपरमनन्तरमबाह्यम् नेह नानास्ति किंचन यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमा इत्याद्यपवादकश्रुतिसहस्रसिद्धमित्याशयेनाह - न सनातनतेत्यादिना | सर्वकालसंबन्धः सनातनता सा च कालातीते नास्ति | सुता ब्रह्मसूनवः प्रजापतयस्तदादिता || १८ || न लोकान्तरता काचिन्न च स्वर्गादिता क्वचित् | न मेरुता नासुरता न मनस्त्वं न देहता || १९ || न महाभूतता काचिन्न च कारणता क्वचित् | न च त्रिकालकलना न भावाभाववस्तुता || २० || त्वत्ताहन्तात्मता तत्ता सत्ताऽसत्ता न काचन | न क्वचिद्भेदकलना न भावो न च रञ्जना || २१ || भावो रागस्तत्कार्यं रञ्जना || २१ || सर्वं शान्तं निरालम्बं जगत्त्वं शाश्वतं शिवम् | अनामयमनाभासमनामकमकारणम् || २२ || सर्वं जगत्त्वं जगतः पारमार्थिकं रूपं शान्तमधिष्ठानसन्मात्रमित्यर्थः || २२ || न सन्नासन्न मध्यान्तं न सर्वं सर्वमेव च | मनोवचोभिरग्राह्यं शून्याच्छून्यं सुखात्सुखम् || २३ || सत् उत्पत्त्याख्यभावविकारवत् | असत् नाशाख्यभावविकारवत् | मध्यान्तं आन्तरालिकभावविकारवत् | अथवा सन्न नष्टम् असन्न स्थितम् अनयोर्मध्यं उत्पत्तिनाशौ अन्तौ अवधी यस्य तथाभूतम् || २३ || प्. ४०६) २३९ श्रीराम उवाच | अवबुद्धं समं ब्रह्म सर्वमेव मयाधुना | तथापि भूयः कथय सर्गः किमिव लोक्यते || २४ || इत्थं निष्प्रपञ्चे परमार्थैकरसे ब्रह्मणि बोधितेऽपि तत्र चित्तवृत्तिस्थिरीकरणाशक्तेः परावृत्तः पुनर्विपरीतभावनाकातरो रामः पृच्छति - अवबुद्धमिति | किमिव लोक्यत इति | ज्ञानेनाज्ञाने नष्टे तन्मूलजगतोऽपि बाधात्पुनर्भानमनुपपन्नमिति भावः || २४ || श्रीवसिष्ठ उवाच | परे शान्ते परं नाम स्थितमित्थमिदंतया | नेह सर्गो न सर्गाख्या काचिदस्ति कदाचन || २५ || यदि त्वया तत्त्वं बुद्धं तर्हि पुनर्जगद्भानं ब्रह्मभानमेव || २५ || महार्णवाम्भसीवाम्बु संस्थिता परमेश्वरे | जलं द्रवत्वात्स्पन्दीव निस्पन्दं परमं पदम् || २६ || तत्र सकृद्भेदस्य तदाख्यायाश्च निमित्तापायादेव असत्त्वादित्याशयेन वसिष्ठः परिहरति - परे इति | परं तत्त्वं परे शान्ते स्वस्वभावे एव स्थितं न ताः प्रच्युतम् | इत्थं च पूर्णात्मभावात्सर्गस्तदाख्या च इदन्तया इह ब्रह्मणि नास्ति किंतु तत्स्वभावेनैवास्तीत्यर्थः | कदाचनेत्युक्तेस्तादृशस्थितेः कादाचित्कत्वाभाव उक्तः | किमिव लोक्यते इति किं दृष्टान्तस्य प्रश्न उत निमित्तस्य | आद्ये बाधाद्ब्रह्मीभूतनामरूपस्य ब्रह्मस्वरूपे स्थितौ दृष्टान्तमुक्त्वा यस्ततो विशेषस्तमाह - जलमिति || २६ || भाः स्वात्मनीव कचति न कचत्येव तत्पदम् | भासां तत्त्वं हि कचनं पदं त्वकचनं विदुः || २७ || तस्य स्वप्रकाशत्वे दृष्टान्तमुक्त्वा तत्रापि पूर्ववद्विशेषमाह - भा इति | भाः सूर्यादिज्योतिः कचति दीप्यते | कचनं दीप्तिक्रिया भासां सूर्यादीनां तत्त्वं स्वभावः | अकचनं निष्क्रियम् || २७ || अध ऊर्ध्वं वर्जयित्वा यथाब्धेरुदरे पयः | स्फुरत्येवं परे चित्त्वादिदं नानेव तत्परम् || २८ || ईषद्विदः स्वयं चित्त्वाच्चेत्यतामिव गच्छति | बुद्ध्यते सर्ग इत्येव समास्थास्यति शास्वतम् || २९ || द्वितीयेऽप्याह - ईषदिति | ईषद्विदः अपरिपक्वबोधस्य तव | चेत्यतामिव गच्छतीत्यस्य विशदीकरणं बुध्यते सर्ग इत्येवेति | सच सर्गो ज्ञानपरिपाके शाश्वतं ब्रह्मस्वरूपं प्रतिष्ठास्यति || २९ || सर्गस्तु परमार्थस्य संज्ञेत्येव विनिश्चयः | नानास्ति नायमत्यन्तमम्बरस्य यथाम्बरम् || ३० || यतस्तदा अयमज्ञदृष्टो नानाभेदः अत्यन्तं नास्ति | यथा अम्बरस्याकाशस्याम्बरमाकाशान्तरं नास्त्यनवस्थापातादतस्तथा परमार्थस्य परमार्थान्तराभावात्सर्गशब्दो ब्रह्मण एव संज्ञेति विद्वन्निश्चय इत्यर्थः || ३० || चित्तात्सर्गसमापत्तिरचित्तात्सर्गसंक्षयः | परे परमसंशान्ते हेम्नीव कटकभ्रमः || ३१ || तथा चात्यन्तिकचित्तविनाशाभाव एव तव पुनः सर्गालोकने हेतुरित्याशयेनाह - चित्तादिति || ३१ || सन्नेव सर्गो सत्यत्वमेति चित्तशमोदये | असत्सत्तामवाप्नोति स्वतः संवेदनोदये || ३२ || संवेदनं चित्तं तस्योदये || ३२ || संवेदनमहंतावत्सर्गसंभ्रमसंभ्रमः | असंवेदनमाशान्तं परं विद्धि न तज्जडम् || ३३ || अहंतावत् अभिमानयुक्तं संवेदनं चित्तमेव सर्गभ्रमणभ्रान्तिः || ३३ || नानेव सर्गो नानायं ज्ञस्यैकात्मशिवात्मकः | पुंस्त्वकर्मक्रिया सेना मृन्मयी शिल्पिनां यथा || ३४ || ज्ञानिनामपि व्युत्थानदशायां चित्ताभासोदये कथं सर्गभानं तदाह ##- शेषः | यथा शिल्पिनां पुंस्त्वं पुरुषचातुरी तत्कर्मणा क्रियानिष्पत्तिर्यस्यास्तथाविधा मृन्मयी सेना वस्तुतो मृदपि सेनेव भासते तद्वदित्यर्थः | अथवा मृन्मयी पुरुषाद्याकारा सेना पुंस्त्वकर्मक्रिया युद्धादिपुरुषार्थकारिणीव भाति तद्वदित्यर्थः || ३४ || इदं पूर्णमनारम्भमनन्तमनघोदरम् | पूर्णे पूर्णपरापूरैः पूर्णमेवावतिष्ठते || ३५ || तेषां पारमार्थिकदृष्टौ तु इदं जगत्पूर्ण ब्रह्मैवावतिष्ठते इत्यत्र पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते | पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते इति श्रुतिमर्थतो दर्शयति - इदमिति | अनारम्भमनुत्पत्तिकम् | अनन्तं नाशरहितम् | अत एव विकारान्तरदोषरहितमुदरं मध्यं यस्य तथाभूतम् | यतः पूर्णस्यैव परमात्मन आपूरैः सर्वतोव्याप्तिभिः पूर्णमतः पूर्णं सत्पूर्णमेवावतिष्ठते नाणुमात्रमप्यपूर्णतां यातीत्यर्थः || ३५ || यदयं लक्ष्यते सर्गस्तद्ब्रह्म ब्रह्मणि स्थितम् | नभो नभसि विश्रान्तं शान्तं शान्ते शिवे शिवम् || ३६ || तदेव दृढीकाराय पुनराह - यदयमिति | सामान्ये नपुंसकम् || ३६ || मुकुरप्रतिबिम्बस्थे नगरे नवयोजने | यथा दूरमदूरं च तथेशे तदतत्क्रमः || ३७ || ईशे ब्रह्मणि | तस्य दूरत्वस्य अतस्य सामीप्यस्य वा क्रमः परिपाटीत्यर्थः || ३७ || असदभ्युदितं विश्वं सदप्यभ्युदितं सदा | प्रतिभासात्सदाभासमवस्तुत्वादसन्मयम् || ३८ || एवं च सत एवासद्विश्वाकारेण भानात्तत्त्वदृशा सदेवाभ्युदितमतत्त्वदृशा असदेवभूदितम् | यतो भेदप्रतिभासात्तत्सदाभासमसद्भेददर्शने त्वसन्मयमित्यर्थः || ३८ || आदर्शनगराकारे मृगतृष्णाम्बुभास्वरे | द्विचन्द्रविभ्रमाभासे सर्गेऽस्मिन्कैव सत्यता || ३९ || मायाचूर्णपरिक्षेपाद्यथा व्योम्नि पुरभ्रमः | तथा संविदि संसारः सारोऽसारश्च भासते || ४० || ऐन्द्रजालिकैः परमोहनायाभिमन्त्रितमौषधचूर्ण मायाचूर्णम् | सारः सत्योऽसारो मृतश्च || ४० || प्. ४०७) २३९ यावद्विचारदहनेन समूलदाहं दग्धा न जर्जरलतेव बलादविद्या | शाखाप्रतानगहनानि बहूनि ताव- न्नानाविधानि सुखदुःखवनानि सूते || ४१ || सवासनाविद्यानाशो यावत्सप्तमभूमिकाधिरोहणपर्यन्तो न संपन्नस्तावद्विक्षेपदुःखं तत्त्वज्ञानामपि भासत एवातो जीवन्मुक्तिसुखार्थिभिर्भुमिकाभ्यासः कार्य इत्याशयेनोपसंहरति - यावदिति || ४१ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० उत्पत्तिप्रकरणे हेमोर्म्युपदेशो नामैकोनविंशत्युत्तरशततमः सर्गः || ११९ || इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे हेमोर्म्युपदेशो नामैकोनविंशत्युत्तरशततमः सर्गः || ११९ || विंशत्युत्तरशततमः सर्गः १२० श्रीवसिष्ठ उवाच | हेमोर्मिकादिवन्मिथ्या कथितायाः क्षयोन्मुखम् | त्वं महत्त्वमविद्यायाः शृणु राघव कीदृशम् || १ || लवणेन पुनर्गत्वा प्राग्दृष्टं विन्ध्यपक्कणम् | चण्डालीश्वश्रुसंवादः कृतोऽत्र प्रतिपाद्यते || १ || हेमोर्मिकानिदर्शनेन वर्णितं विश्वस्य ब्रह्मविवर्तत्वं तत्परिक्षितवतो लवणस्यानुभवसिद्धमिति त्वयापि विमृश्य द्रष्टव्यमित्याशयेनाह - हेमोर्मिकेति | मिथ्याशब्दोत्तरमितिशब्दोऽध्याहार्यः | विमर्शमात्रेण क्षयोन्मुखं महत्त्वमाशर्यभूतत्वम् || १ || लवणोऽसौ महीपालस्तथा दृष्ट्वा तदा भ्रमम् | द्वितीये दिवसे गन्तुं प्रवृत्तस्तां महाटवीम् || २ || असौ प्राग्वर्णितो लवणः | तामैन्द्रजालिकोपदर्शिताम् || २ || यत्र दृष्टं मया दुःखमरण्यानीं स्मरामि ताम् | चित्तादर्शगतां विन्ध्यात्कदाचिल्लभ्यते हि सा || ३ || चित्तमेवादर्शो दर्पणस्तद्गताम् | विन्ध्यादिति ल्यब्लोपे कर्मण्यधिकरणे वा पञ्चमी | विन्ध्यं प्राप्य विन्ध्ये गत्वा वेत्यर्थः || ३ || इति निश्चित्य सचिवैः प्रययौ दक्षिणापथम् | पुनर्दिग्विजयायेव प्राप्य विन्ध्यमहीधरम् || ४ || पूर्वदक्षिणपाश्चात्यमहार्णवतटस्थलीम् | बभ्राम कौतुकात्सर्वां व्योमवीथीमिवोष्णगुः || ५ || उष्णगुः सूर्यः || ५ || अथैकस्मिन्प्रदेशे तां चिन्तामिव पुरोगताम् | ददर्शोग्रामरण्यानीं परलोकमहीमिव || ६ || अरण्यानीं महारण्यम् | अरण्यान्महत्त्वे आनुक् || ६ || स तत्र विहरंस्तांस्तान्वृत्तान्तान्सकलानथ | दृष्टवान्पृष्टवांश्चैव ज्ञातवांश्च विसिस्मिये || ७ || तांस्तान् प्रागनुभूतानित्यर्थः || ७ || तान्परिज्ञातवांश्चासीद्व्याधान्पुल्कसजान्पुनः | विस्मयाकुलया बुद्ध्या भूयो बभ्राम संभ्रमी || ८ || संभ्रमी कुतूहली || ८ || अथ प्राप्य महाटव्यां पर्यन्ते धूमधूसरे | तमेव ग्रामकं यस्मिन्सोऽभवत्पुष्टपुल्कसः || ९ || तत्रापश्यज्जनांस्तांस्तांस्ताः स्त्रियस्ताः कुटीरकाः | नानाकाराञ्जनाधारांस्तांस्तांश्च वसुधातटान् || १० || कुटीरकाः अल्पाः कुटीः | कुटीशमीशुण्डाभ्यो रः स्वार्थे कन् || १० || तांश्चाकाण्डपरिभ्रष्टांस्तान्वृक्षांस्तांस्त्वनुव्रजान् | तांस्तथैव समुद्देशांस्तान्व्याधानेकलान्सुतान् || ११ || अकाण्डे दुर्भिक्षे परिभ्रष्टान् दुर्दशाक्रान्तान् | अनुव्रजान् स्वानुगान् | एकलान् बन्धुवर्जितान् || ११ || अन्यासु वृद्धासु सबाष्पनेत्रा- स्वार्तार्तियुक्तासु च वर्णयन्ती | अकालकान्तारविशीर्णबन्धु- दुःखान्यसंख्यानि सखीषु वृद्धा || १२ || तत्रत्यं वृत्तान्तं वर्णयति - अन्यास्वित्यादिना | वृद्धा अस्य श्वश्रूः | आर्तानां स्वबन्धूनामार्तिभिर्युक्तास्वन्यासु वृद्धासु सखीषु अकाले दुष्काले कान्तारेषु विशीर्णानां स्वबन्धूनां दुःखानि वर्णयन्ती सती इदं वक्ष्यमाणप्रकारं परिरोदितीति परेणान्वयः || १२ || वृद्धा प्रवृद्धोज्ज्वलनेत्रबाष्पा कष्टं [कंथावृता इति पाठः] बताशुष्ककुचा कृशाङ्गी | अवग्रहोग्राशनिदग्धदेशे तत्रार्तनादा परिरोदितीदम् || १३ || तामेव विशिनष्टि - वृद्धेति | इतरवृद्धापेक्षया प्रकर्षेण वृद्धान्युज्ज्वलानि नेत्रबाष्पाणि यस्याः | अवग्रहोऽनावृष्टिस्तल्लक्षणेनोग्राशनिना दग्धप्राये देशे || १३ || हा पुत्रि पुत्रावृतसर्वगात्रे दिनत्रयाभोजनजर्जराङ्गि | कृत्वासिना वर्मणि जीर्णदेहाः कथं क्व मुक्ता भवतासवस्ते || १४ || रोदनप्रकारमेवाह - हा पुत्रीत्यादिना | वर्मणि स्वकोशे असिनेव प्रवेशं कृत्वा भवता स्थितेन राज्ञा अत एव प्राणप्रियास्ते यूयं दुर्भिक्षजीर्णदेहाः कथं मुक्तास्त्यक्ताः क्व वा मुक्ता इति पुत्रैः सह बहुत्वोक्तिः | अथवा पूर्ववदसिना भवता राज्ञा जीर्णदेहा जर्जरशरीरा असवः स्वप्राणाः कथं मुक्ताः क्व मुक्ता इत्यर्थः | निर्विसर्गपाठे तु जीर्णदेहा त्वं कथं मुक्ता असवश्च ते कथं मुक्ता इति योज्यम् || १४ || तालीदलालम्बनमम्बुदाद्रौ दन्तान्तरस्थारुणसत्फलस्य | स्मरामि गुञ्जाफलदाम भर्तुः पुरस्थमुद्रामरहासिनस्ते || १५ || इदानीं राज्ञः कुटुम्बभरणाय कृतं साहसकृत्यं स्मरन्त्याह - तालीति | अम्बुदवदुन्नते अद्रौ तालवृक्षमारुह्य फलं गृहीत्वा अवतरणकाले करद्वयस्यापि व्यापृतत्वात्फलधारणाशक्तेर्दन्तान्तरस्थं दन्तावष्टब्धं अरुणं सत् परिपक्वं फलं यस्य तथाविधस्य अत एव पुरस्थमुद्रया तत्कालोपस्थितवेषेण अमरं मरणवर्जितं हनूमन्तं हासिनः हसितुं शीलस्य ते तव दैवात्स्खलने तालीदलस्य सन्निहिततालान्तरशाखाया आलम्बनं साहसम् | तलालम्बनम् इति पाठे तले मूले आलम्बनमवतरणं साहसं स्मरामीत्यर्थः || १५ || प्. ४०८) २४० कदम्बजम्बीरलवङ्गगुञ्जा- कुञ्जान्तरतस्तु चरत्तरक्षोः | पश्यामि पुत्रस्य कदा नु भूयो भयंकराण्युड्यतिवल्गितानि || १६ || कदम्बजम्बीरवृक्षाणां लवङ्गगुञ्जावल्लीनां च कुञ्जस्यान्तरन्तःप्रदेशे निलीय चरतस्तरक्षोर्व्याघ्रजातिमेदस्य भयंकराणि भयजनकानि पुत्रस्य पुत्रात्प्रियतमस्य जामातुः उड्यतिना उड्ड्यनेन वल्गितानि तद्वधार्थं गमनानि || १६ || न तानि कामस्य विलासिनीह मुखेऽपि शोभालसितानि सन्ति | तमालनीले चिबुकैकदेशे सुतस्य चान्यास्यगतामिषस्य || १७ || इदानीं स्वपुत्र्यां सकामस्य तस्य मुखशोभां स्मृत्वा वर्णयति - न तानीति | पानादिकाले अन्यस्याः स्वप्रेयस्या आस्यात् गतं प्रीत्या प्राप्तमामिषं मांसशकलं येन तथाविधस्य सुतस्य अनुकंप्यस्य ते तच्चर्वणकाले तमालसदृशश्मश्रुभिर्नीले चिबुकैकदेशे यानि शोभायुक्तानि लसितानि विलासाः सन्ति तानि इह जगति विलासिनि कामस्य मन्मथस्य मुखे संपूर्णेऽपि न सन्तीत्यर्थः || १७ || सुतापनीता सह तेन भर्त्रा यमेन यस्या यमुना समाना | तमालवल्लीसहपुष्पगुच्छा समीरणेनेव वने वरेण || १८ || इदानीं भर्त्रा सह पुत्र्या मरणं संभावयन्त्याह - सुतेति | यस्याः यमुना वर्णेन समाना सा मम सुता तेन भर्त्रा सह यमेन अपनीता नूनमित्यर्थः | वरेण बलीयसा || १८ || हा पुत्रि गुञ्जाफलदामहारे समुन्नताभोगपयोधराङ्गि | वातोल्लसत्कज्जललोलवर्णे पर्णाम्बरे बादरजम्बुदन्ते || १९ || पर्णान्येव अम्बरादिवस्त्रवत्परिधानादीनि यस्याः | बादराणि बदरबीजानि जम्बूनि तद्बीजानीव वा दन्ता यस्याः || १९ || हा राजपुत्रेन्दुसमानकान्त संत्यज्य शुद्धान्तविलासिनीस्ताः | रतिं प्रयातोऽसि ममात्मजायां न सापि ते सुस्थिरतामुपेता || २० || संसारनद्याः सुतरङ्गभङ्गैः क्रियाविलासैर्विहितोपहासैः | किं नाम तुच्छं न कृतं नृपेशो यद्योजितः पुष्कसकन्यकायाम् || २१ || विहितः उचित उपहासो येभ्यस्तथाविधैः क्रियाविलासैः कर्मपरिपाकैः | सुतरङ्गभङ्गैरिति व्यस्तरूपकम् | किं नाम तुच्छं निन्द्यं फलं न कृतम् | तदेवाह - नृपेश इति || २१ || सा त्रस्तसारङ्गसमाननेत्रा स दृप्तशार्दूलसमानवीर्यः | उभौ गतावेकपदेन नाश- माशा सहार्थेन यथा महेहा || २२ || एकपदेन युगपत् यथा महेहा बहुमनोरथयुक्ता आशा अर्थेन धनेन सह नाशं गच्छति भाग्यविपर्यये तद्वदित्यर्थः || २२ || मृतेश्वराश्वस्तनिजात्मजास्मि दुर्देशयातास्मि च दुर्गताऽस्मि | दुर्जातिजातास्मि महापदेऽस्मि साक्षाद्भयं भोऽस्मि महापदस्मि || २३ || इदानीं स्वात्मानमनुशोचन्त्याह - मृतेश्वरेति | आशु अस्तनिजात्मजा मृतस्वपुत्री | दुर्गता दरिद्रास्मि | महति अपदे विषमस्थाने अस्मि | किंच भो सख्यः साक्षाद्भयमेवाहमस्मि | महापदेवाहमस्मीत्यतिशयद्योतनायाभेदारोपः || २३ || नीचावमानप्रभवस्य मन्योः क्षुधाप्रपन्नस्य कलत्रकस्य | शोकस्य वृत्तावनिवार्यवृत्ते- र्नार्यस्म्यनेकायतनं विनाथा || २४ || विनाथा अहं नीचावमानप्रभवस्य मन्योः कोपस्य क्षुधया प्रपन्नस्य कलत्रकस्य पोष्यवर्गस्य वृत्तौ आहारविषये अनिवार्यवृत्तेः शोकस्य चेत्याद्यनेकेषामायतनं गृहं नारीरूपं धात्रा निर्मितास्मीति शेषः || २४ || दैवोपतप्तस्य विबान्धवस्य मूढस्य रूढस्य महाधिभूमौ | यत्प्राणनं यन्मरणं महाप- द्यस्यात्मनिर्जीवितमुत्तमं तत् || २५ || इदानीं स्वसदृशं जनमन्यमपि निन्दन्त्याह - दैवेति | महत्यां आधिर्मानसदुःखं तल्लक्षणायां भूमौ रूढस्य प्रादुर्भूतस्य ईदृशस्य यस्य जनस्य यत्प्राणनं जीवनं यन्मरणं या च महापत् तत् ततः आत्मनिर्जीवितं स्वतो जीवशून्यं पाषाणादि उत्तमं श्रेष्ठमित्यर्थः || २५ || जनैर्विहीनस्य कुदेशवृत्ते- र्दुःखान्यनन्तानि समुल्लसन्ति | सहस्रशाखारससंकुलानि तृणानि वर्षास्विव पर्वतस्य || २६ || जनैः स्वजनैर्विहीनस्य कुदेशे वृत्तिः स्थितिर्यस्य तथाविधस्य पुंसः | विशेषणे पुंस्पर्वतसाधारणे || २६ || एवं लपन्तीं स्वकलत्रवृद्धां दासीभिराश्वास्य नृपः स्त्रियं ताम् | पप्रच्छ किंवृत्तमिहैव का च का ते सुता कश्च सुतस्तवेति || २७ || लपन्तीं विलपन्तीम् | स्वकलत्रवृद्धां पुल्कसीभूतस्वपोष्येषु वृद्धां श्वश्रूं दासीभिराश्वास्येति साक्षादसंभाष्यत्वद्योतनाय || २७ || प्. ४०९) २४० उवाच सा बाष्पविलोचनाथ ग्रामस्त्वयं पुष्पसघोषनामा | इहाभवत्पुष्कसकः पतिर्मे बभूव तस्येन्दुसमा सुतैका || २८ || सा दैवयोगात्पतिमिन्द्रतुल्य- मिहागतं दैववशेन भूपम् | अयं विशीर्णं मधुकुम्भमाप वने वराकी करमी यथैका || २९ || दैवयोगाद्भाग्यवशात् | दैववशेन दुरदृष्टवशेन अयं शुभावहं विधिं प्राप्येति शेषः | विशीर्णं विशीर्णमुखपिधानं मधुकुम्भं करभी गर्दभी उष्ट्री वा आप प्राप्तवती || २९ || सा तेन सार्धं सुचिरं सुखानि भुक्त्वा प्रसूता तनयाः सुतांश्च | वृद्धिं गता काननकोटरेऽस्मिं- स्तुम्बीलता पादपसंश्रितेव || ३० || तुम्बीलता अलाबुवल्ली || ३० || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मोक्षोपायेषूत्पत्तिप्रकरणे चण्डालीशोचने नाम विंशत्युत्तरशततमः सर्गः || १२० || इति श्रीवासिष्ठमहारामायणतातर्यप्रकाशे उत्पत्तिप्रकरणे चण्डालीशोचनं नाम विंशत्युत्तरशततमः सर्गः || १२० || एकविंशत्युत्तरशततमः सर्गः १२१ चण्डाल्युवाच | केनचित्त्वथ कालेन ग्रामकेऽस्मिञ्जनेश्वर | अवृष्टिदुःखमभवद्भीषणं भग्नमानवम् || १ || तच्छ्रुत्वा विस्मितस्यात्र लवणस्य गृहागमे | विनिर्णयो वसिष्ठोक्त्या रामस्याप्यत्र कीर्त्यते || १ || अवृष्टिप्रयुक्तं दुर्भिक्षदुःखम् | भग्ना मानवा येन तत् || १ || महतानेन दुःखेन सर्वे ते ग्रामका जनाः | विनिर्गत्य गता दूरं सर्वे पञ्चत्वमागताः || २ || पञ्चत्वं मरणम् || २ || तेनेमा दुःखभागिन्यः शून्या वयमिह प्रभो | सौम्य शोचाम सद्बाष्पमाचान्तेक्षणधारया || ३ || तेन बन्धुमरणेन दुर्भिक्षेण च सद्बाष्पं सबाष्पं आचान्तयेव स्रवन्त्या ईक्षणधारया अस्त्रधारया | सद्बाष्पाः इति पाठे वयमित्यस्य विशेषणम् || ३ || इत्याकर्ण्याङ्गनावक्त्राद्राजा विस्मयमागतः | मन्त्रिणां मुखमालोक्य चित्रार्पित इवाभवत् || ४ || भूयो विचारयामास तदाश्चर्यमनुत्तमम् | भूयो भूयोऽथ बभूवाश्चर्यवानिति || ५ || इतिशब्दः प्रश्नप्रकारबाहुल्यद्योतकः || ५ || तेषां समुचितैर्दानसन्मानैर्दुःखसंक्षयम् | कृत्वा करुणयाविष्टो इष्टलोकपरावरः || ६ || तेषां पक्वणजनानाम् [पक्वणेति पाठो मुद्रितपुस्तके सर्वत्र] || ६ || स्थित्वा तत्र चिरं कालं विमृश्य नियतेर्गतीः | आजगाम गृहं पौरैर्वन्दितः प्रविवेश ह || ७ || नियतेर्दैवस्य || ७ || प्रातस्तत्र सभास्थाने मामपृच्छदसौ नृपः | कथमेवं मुने स्वप्नः प्रत्यक्षमिति विस्मितः || ८ || प्रत्यक्षं दृष्ट इति शेषः || ८ || यथावस्तुतया तस्य तत उक्तः स तादृशः | संशयो हृदयान्नुन्नो वातेनेवाम्बुदो दिवः || ९ || स तादृशः प्रश्नो मया यथावस्तु वस्तुयाथार्थ्यं तद्भावेन उक्तः समाहितः | दिवः अन्तरिक्षात् || ९ || इत्येवं राघवाविद्या महती भ्रमदायिनी | असत्सत्तां नयत्याशु सच्चासत्तं नयत्यलम् || १० || श्रीराम उवाच | कथमेवं वद ब्रह्मन्स्वप्नः सत्यत्वमागतः | भ्रमोदार इवैषोऽर्थो न मे गलति चेतसि || ११ || सत्यात्वं जाग्रत्कालानुभवयोग्यताम् | भ्रमोदार इवैषोऽर्थ इति पाठे न मे गलतीत्येतदुत्तरं संशयपदमध्याहार्यम् | संशयोभगवन्सोऽयम् इति पाठे तु स्पष्टम् || ११ || श्रीवसिष्ठ उवाच | सर्वमेतदविद्यायां संभवत्येव राघव | घटेषु पटता दृष्टा स्वप्नसंभ्रमितादिषु || १२ || संभवमेवोपपादयति - घटेष्वित्यादिना || १२ || दूरं निकटवद्भाति मुकुरेऽन्तरिवाचलः | चिरं शीघ्रत्वमायाति पुनः श्रेष्ठेव यामिनी || १३ || श्रेष्ठा सुखनिद्राप्रयाता यामिनी रात्रिरिव || १३ || असंभवच्च भवति स्वप्ने स्वमरणं यथा | असच्च सदिवाभाति [सदिवोदेतीति इति पाठः] स्वप्नेष्विव नभोगतिः || १४ || सुस्थितं सुष्ठु चलति भ्रमे भूपरिवर्तवत् | अचलं चलतामेति मदविक्षुब्धचित्तवत् || १५ || सुस्थितं स्थिरम् | भ्रमे भ्रमणे | चित्तशब्देन तद्दृश्यं लक्ष्यते || १५ || वासनावलितं चेतो यद्यथा भावयत्यलम् | तत्तथानुभवत्याशु न तदस्ति न वाप्यसत् || १६ || यदैवाभ्युदिता विद्या त्वहंत्वादिमयी मुधा | तदैवानादिमध्यान्ता भ्रमस्यानन्ततोदिता || १७ || अनन्तता असंख्येयता || १७ || प्. ४१०) २४१ प्रतिभासवशादेव सर्वो विपरिवर्तते | क्षणः कल्पत्वमायाति कल्पश्च भवति क्षणः || १८ || विपर्यस्तमतिर्जन्तुः पश्यत्यात्मानमेडकम् | बिभर्ति सिंहतामेडो वासनावशतः स्वयम् || १९ || आत्मानं स्वं एडकं मेषम् || १९ || विषमभ्रमदाविद्यामोहाहन्तादयह् समाः | सर्वे चित्तविपर्यासफलसंपत्तिहेतुतः || २० || काकतालीयवच्चेतोवासनावशतः स्वतः | संवदन्ति महारम्भा व्यवहाराः परस्परम् || २१ || तथाच कल्पितत्वाविशेषेऽपि संवादविसंवादाभ्यामेव लोके सत्यत्वमिथ्यात्वव्यवहारो न परमार्थविमर्शेनेत्याशयेनाह - काकतालीयवदिति || २१ || वृत्तं प्राक्पक्कणे राज्ञः कस्यचिल्लवणस्य यत् | प्रतिभातं तदेतस्य सद्वासद्वा मनोगतम् || २२ || तर्हि लवणव्यवहारे कया रीत्या संवादस्तमाह - वृत्तमिति | पक्कणे प्राक्कस्यचिद्यद्वृत्तं चाण्डालीविवाहादि तल्लवणस्य मनोगतं प्रतिभातमिति संवादभ्रम इत्यर्थः || २२ || विस्मरत्यपि विस्तीर्णां कृतां चेतःक्रियां यथा | तथा क्र्तामप्यकृतामिति स्मरति निश्चितम् || २३ || अनुभूतविस्मृतिवदननुभूतस्मृतिरपि न दोषायेत्याशयेनाह - विस्मरतीति | यद्यपि लवणस्य भ्रान्तावनुभव एव न स्मृतिस्तथाप्यनुभवस्मृत्याद्यवान्तरवैलक्षण्यमपि कल्पनामात्रत्वान्न विमर्शक्षममिति सूचनायेत्थमुक्तम् || २३ || तथा न भुक्तवानस्मि भुक्तवानिति चेतसि | स्वप्ने देशान्तरगमे प्राकृतोऽप्यवबुद्ध्यते || २४ || विन्ध्यपुष्कससुग्रामे व्यवहारोऽयमीदृशः | प्रतिभासागतस्तस्य स्वप्ने पूर्वकथा यथा || २५ || प्रतिभाससंवादयोः पूर्वापरभावोऽपि कल्पनामात्रत्वान्न व्यवस्थित इत्याशयेनाह - विन्ध्येति द्वाभ्याम् | तस्य लवणस्य || २५ || अथवा लवणेनाशु दृष्टो यः स्वप्नविभ्रमः | स एव संविदं प्राप्तो विन्ध्यपुष्कसचेतसि || २६ || लावणी प्रतिभाऽरूढा विन्ध्यापुष्कसचेतसि | विन्ध्यपुष्कससंविद्वाऽरूढा पार्थिवचेतसि || २७ || प्रतिभाभेदकल्पनमपि तथा एकत्र जाताया एवोभयत्र भानसंभवादित्याशयेनाह - लावणीति | लवणस्येयं लावणी | उभयत्र आरूढेति च्छेदः || २७ || यथा बहूनां सदृशं वचनं नाम मानसम् | तथा स्वप्नेऽपि भवति कालो देशः क्रियापि च || २८ || प्रतिभातद्विषययोः संवादे दृष्टान्तमाह - यथेति | बहूनां कवीनां मानसोत्प्रेक्षारचितकाव्यार्थप्रतिपादकं वचनं कदाचित्सदृशं सच्छब्दतोऽर्थतश्च संवाद भवति तथा लवणपुल्कसभ्रान्तिरूपे स्वप्नेऽपि भवतीत्यर्थः || २८ || व्यवहारगतेस्तस्याः सत्तास्ति प्रतिभासतः | सत्ता सर्वपदार्थानां नान्या संवेदनादृते || २९ || तर्हि किं सा व्यवहारगतिरत्यन्तासती नेत्याह - व्यवहारेति | अधिष्ठानचित्सत्तयैव सर्ववस्तुसत्ता न स्वातन्त्र्येणेत्याह - सत्तेति || २९ || संवेदनेतरा भाति वीचिर्वा जलसंगतिः [संगत इति पाठः] | भूतभव्यभविष्यस्था तरुबीजे तरुर्यथा || ३० || इवार्थे वाशब्दः | संवेदनसत्तैव भूतभव्यभविष्यत्प्रपञ्चगता सती संवेदनादितरेव भाति जले वीचिरिव बीजे तरुरिव चेत्यर्थः || ३० || तस्याः सत्त्वमसत्त्वं च न सन्नासदिति स्थितम् | सत्सदेव हि संवित्तेरसंवित्तेरसन्मयम् || ३१ || तस्याः संवेदनेतरसत्तायाः | सत्त्वदृशा संवेदनात्सत्त्वं तथा असंवित्तेस्त्वसन्मयमिति | तत्सत्तासत्ते भ्रान्तिसंवेदनाधीने इत्यर्थः || ३१ || नाविद्या विद्यते किंचित्तैलादि सिकतास्विव | हेम्नः किं कटकादन्यत्पदं स्याद्धेमतां विना || ३२ || भ्रान्तिगोचरस्य चाविद्यामात्रत्वादसत्त्वमेव फलितमित्याशयेनाह - नेति | पदं वस्तु स्यात्किं नेत्यर्थः || ३२ || अविद्ययात्मतत्त्वस्य संबन्धो नोपपद्यते | संबन्धः सदृशानां च यः स्फुटः स्वानुभूतितः || ३३ || वस्तुसंबन्धाद्वस्तु कुतो न स्यात्तत्राह - अविद्ययेति || ३३ || जतुकाष्ठादिसंबन्धो यः समासमयोगतः | नान्योन्यानुभवायासौ तदेकस्पन्दमात्रकम् || ३४ || पार्थिवत्वद्रवत्वाभ्यां समासमयोगतः यो जतुकाष्ठादिसंबन्धः असौ असदृशयोरन्योन्ययोः संबन्धोदाहरणाय न योग्यो यतस्तदुभयतस्तस्या अविद्याया एकस्या एव स्पन्दो विलासस्तन्मात्रमित्यर्थः || ३४ || परमार्थमयं सर्वं यथा तेनोपलादयः | चिता समभिचेत्यन्ते संबन्धवशतः समाः || ३५ || यदि तु चिन्मयमेवाभ्युपगम्येत तर्हि समैस्तैश्चितः संबन्ध उपपद्यत इत्याह - परार्थमयमिति | यथा येन प्रकारेण परमार्थमयास्तेन हेतुना चिता समा इति संबन्धवशतश्चेत्यन्ते चिता प्रकाश्यन्ते इति भवेदित्यर्थः || ३५ || यदा चिन्मात्रसन्मात्रमयाः सर्वे जगद्गताः | भावास्तदा विभान्त्येते मिथः स्वानुभवस्थितेः || ३६ || तस्मिन्पक्षेऽपि दोषमाह - यदेति | तदा स्वानुभवस्थितेः स्वप्रकाशताबलादेव विभान्ति न चिदन्तरसंबन्धबलात् | दीपस्य स्वप्रथायां दीपान्तरसंबन्धापेक्षाभावादित्यर्थः || ३६ || न संभवति संबन्धो विषमाणां निरन्तरः | न परस्परसंबन्धाद्विनानुभवनं मिथः || ३७ || उक्तमेव कल्पद्वयं श्लोकद्वयेन स्फुटं पुनराह - न संभवतीति || ३७ || सदृशे [सदंशे इति पाठः] सदृशं वस्तु क्षणाद्गत्वैकतामलम् | रूपमास्फारयत्येकमेकत्वादेव नान्यथा || ३८ || द्वितीयकल्पे अणुमात्रस्याप्यचिदंशस्य भेदकस्याभावादखण्डब्रह्मस्वप्रकाशतैव फलितेत्याशयेन क्षणाद्गत्वैकतामलमित्युक्तम् || ३८ || प्. ४११) २४१ चिच्चेत्यमिलिता [चिच्चेत्यचितितारूपदृश्ययोदेति चेतन इति पाठष्टीकानुगुणः] दृश्यरूपयोदेति चेतनः | (जडं [जडं जडेन इति श्लोकार्ध क्वचिन्न पठ्यते] जडेन मिलितं घनं संपद्यते जडम् |) न च चिज्जडयोरैक्यं वैलक्षण्यात्क्वचिद्भवेत् || ३९ || यो मूढानां चेतनस्य चिच्चेत्यचितितारूपेण दृश्यया त्रिपुट्या उदितत्वानुभवः स न चिज्जडयोरभेदसंबन्धमादायोपपादयितुं शक्य इत्याशयेनाह - चिदिति || ३९ || चिज्जडौ चित्र एकत्र न तौ संमिलतः क्वचित् | चिन्मयत्वाच्चिदालम्भश्चिदालम्भेन वेदनम् || ४० || नापि भेदसंबन्धमादायोपपादयितुं शक्यत इत्याह - चिज्जडाविति | एकत्र एकस्मिंस्त्रिपुटीपटीचित्रे | नापि चिन्मयानां चिता संबन्ध इति पक्षमादायाप्युपपादयितुं शक्यत इत्याह - चिन्मयत्वादिति | सादृश्याच्चिदालम्भसंभवेऽपि भेदकाभावाद्वेद्यत्वासिद्धेर्न दृश्यवेदनांशोपपत्तिरित्यर्थः || ४० || दारुपाषाणभेदानां नतु ह्येते चिदात्मकाः | पदार्थो हि पदार्थेन परिणाम्यनुभूयते || ४१ || ननु जडत्वेन साम्येऽपि यथा दारुपाषाणमृदामेकगृहघटकत्वेन योगो यथा वा.प्यत्वेन साजात्येऽपि जिह्वारसयोर्योगस्तथा चित्त्वेन साम्येऽपि दृशो दृश्ययोगोऽस्तु तत्राह - दार्विति | दार्वादिजडपदार्थो गृहादिपदार्थभावेन परिणामी अनुभूयते नतु चिदित्यर्थः || ४१ || जिह्वयैव रसास्वादः सजातीयामलोदयः | ऐक्यं च विद्धि संबन्धं नास्त्यसावसमानयोः || ४२ || सजातीयाभ्यां जिह्वारसाभ्याममलः स्फुट उदयो यस्य तथाविधो रसास्वादो रासनचित्तवृत्तिरूपः परिणाम्यनुभूयते इत्यनुषङ्गः | किंचिदभिन्नयोरेकीभावो हि संबन्धः स च पक्षद्वयेऽपि दुर्घट इत्याह - ऐक्यं चेति || ४२ || जडचेतनयोस्तेन नोपलादि जडं मतम् | चिदेवोपलकुड्यादिरूपिणीति मिता चिता || ४३ || जडचेतनयोरिति पूर्वान्वयि | तेन किं फलितं तदाह - तेनेति | इति मिता सती || ४३ || एकीभावं गता द्रष्टृदृश्यादि कुरुते भ्रमम् | काष्ठोपलाद्यशेषं हि परमार्थमयं यतः || ४४ || परमार्थतस्त्वेकीभावं गता || ४४ || तदात्मना तत्संबन्धं [तत्संबन्ध इति पाठः साधुः] दृश्यत्वेनोपलभ्यते | सर्वं सर्वप्रकाराढ्यमनन्तमिव यत्नतः || ४५ || तर्हि परमार्थचिदात्मनां काष्ठपाषाणादीनां कथं गृहभावेन संबन्धो दृश्यते तत्राह - तदात्मनेति | कल्पितरूपेणैव तेषां संबन्धो दृश्यते न वास्तवचिद्रूपेणेत्यर्थः | यद्यस्माद्धेतोरनन्तं ब्रह्मैव सर्वप्रकाराढ्यं सर्वमिव भाति ततो हेतोर्विश्वं सन्मात्रमिति परेणान्वयः || ४५ || विश्वं सन्मात्रमेवैतद्विद्धि तत्त्वविदां वर | असत्तात्यागनिष्ठेन विश्वं लक्षशतभ्रमैः || ४६ || असत्तात्यागो मिथ्यात्वाग्रहणं स एव चिच्चमत्कारः || ४६ || पूरितं चिच्चमत्कारो नच किंचन पूरितम् | संकल्पनागरा नॄणां मिथः स्पन्दन्ति नो यथा || ४७ || न देशकालरोधाय तथा सर्गेष्विति स्थितिः | भेदबोधे हि सर्गत्वमहंत्वादिभ्रमोदयः || ४८ || हेमसंवित्परित्यागे कटकादिभ्रमो यथा | कटकादिभ्रमो हेम्नि देशाद्देशं भवाद्भवम् || ४९ || कटकादि हेम्नि भ्रमो मिथ्यैव | यतस्तत् हेमदेशादेव देशं हेमभवनादेव भवं सत्तं च लभते इति शेषः || ४९ || दृग्दर्शनपरित्यागे नाविद्यास्ति पृथक्सदा | कटकादिमहाभेदमेकं हेम यथामलम् || ५० || कटकादिमहाभेदं हेम यथा भेददृग्दर्शनपरित्यागे एकं हेमैव तद्वदित्यर्थः || ५० || बोधैकत्वादयं सर्गस्तदेवासन्नयत्यलम् | सेना मृत्संविदा चित्रा मृन्मात्रमिव मृन्मयी || ५१ || बोधव्यक्तेरेकत्वात् सदेव विश्वं असन्नयति असत्त्वमापदयति | असद्विश्वं वा सन्नयति सदैकरस्यं प्रापयति || ५१ || जलमेकं तरङ्गादि दार्वेकं शालभञ्जिका | मृन्मात्रमेकं कुम्भादि ब्रह्मैकं त्रिजगद्भ्रमः || ५२ || संबन्धे दृश्यदृष्टीनां मध्ये द्रष्टुर्हि यद्वपुः | द्रष्टृदर्शनदृश्यादिवर्जितं तदिदं परम् || ५३ || कुम्भाद्यनुस्यूतं निष्कृष्टमृत्स्वरूपमिव द्रष्ट्रादित्रिपुट्यनुस्यूतं तत्साक्षिचिन्मात्रं त्रिपुटीनिरासेन दर्शयति - संबन्धे इति | तत्प्राग्दर्शितं यत्परं ब्रह्म तदिदं निष्कृष्टप्रत्यक्स्वरूपमेवेत्यखण्डो वाक्यार्थो दर्शितो द्रष्टव्यः || ५३ || देशाद्देशं गते चित्ते मध्ये यच्चेतसो वपुः | अजाड्यसंविन्मननं तन्मयो भव सर्वदा || ५४ || तस्य त्रिपुटीशून्यता कदा प्रसिद्धा तत्राह - देशादिति | प्राग्व्याख्यातम् || ५४ || अजाग्रत्स्वप्ननिद्रस्य यत्ते रूपं सनातनम् | अचेतनं चाजडं च तन्मयो भव सर्वदा || ५५ || अचेतनं चित्तवृत्तिरहितम् | तन्मयस्तदेकरसः || ५५ || जडतां वर्जयित्वैकां शिलाया हृदयं हि तत् | अक्षुब्धो वाथवा क्षुब्धस्तन्मयो भव सर्वदा || ५६ || शिलाया हृदयं घनं चिदेकघनमिति यावत् | अक्षुब्धः समाधिस्थः क्षुब्धो व्यवहरन् || ५६ || कस्यचित्किंचनापीह नोदेति न विलीयते | अक्षुब्धो वाथवा क्षुब्धः स्वस्थस्तिष्ठ यथासुखम् || ५७ || ननु क्षुब्धस्य कथं तन्मयता तिष्ठेत्तत्राह - कस्यचिदिति | व्यवहारदशायामपि परमार्थदृष्टिमेवानुवर्तस्वेति भावः || ५७ || नाभिवाञ्छति नो द्वेष्टि देहे किंचित्क्वचित्पुमान् | स्वस्थस्तिष्ठ निराशङ्कं देहवृत्तिषु मा पत || ५८ || सामान्येनोक्तं विशिष्याह - नेति | पुमान् आत्मा || ५८ || भविष्यद्ग्रामकग्राम्यकार्यव्यवसितो यथा | चित्तवृत्तिषु मा तिष्ठ तथा सत्यात्मतां गतः || ५९ || यथा अनागते व्यवहार्ये चित्तस्यानासङ्गः स्वतःसिद्धस्तथा वर्तमानेऽपि मिथ्यात्वदृष्ट्या संपादनीय इत्याशयेनाह - भविष्यदिति || ५९ || प्. ४१२) २४२ यथा देशान्तरनरो यथा काष्ठं यथोपलः | तथैव पश्य चित्तं त्वमचित्तैव यदात्मना || ६० || यथा दूरदेशस्थो नरः सन्नप्यसत्समः | काष्ठोपलं तु सन्निहितमप्यचेतनत्वादेवासङ्गाभिमानाद्यक्षमं तथैव चित्तं पश्येत्यर्थः | यद्यस्मादात्मना आत्मस्वरूपेण विविच्य दर्शने अचित्ततैव विदुषामनुभवसिद्धेत्यर्थः | छान्दसस्तलोपः || ६० || यथा दृषदि नास्त्यम्बु यथाम्भस्यनलस्तथा | स्वात्मन्येवास्ति नो चित्तं परमात्मनि तत्कुतः || ६१ || तदेव स्पष्टमाह - यथेति || ६१ || प्रेक्ष्यमाणं न यत्किंचित्तेन यत्क्रियते क्वचित् | कृतं भवति तन्नेति मत्वा चित्तातिगो भवेत् || ६२ || चित्तस्यावस्तुत्वे चित्तकार्याणां सुतरामसत्त्वमित्याह - प्रेक्ष्यमाणमिति || ६२ || अत्यन्तानात्मभूतस्य यश्चित्तस्यानुवर्तते | पर्यन्तवासिनः कस्मान्न म्लेच्छस्यानुवर्तते || ६३ || शुद्धस्यात्मनः अशुद्धचित्तानुवृत्तिरनुचितात्वादपि हेयेत्याशयेनाह - अत्यन्तेति | पर्यन्ताः प्रत्यन्तदेशास्तद्वासिनः | तस्मान्न जननमियान्नान्तमियान्नेत्पाप्मानं मृत्युमन्ववायानि इति श्रुत्या म्लेच्छानुवृत्तेर्निषिद्धत्वादिति भावः || ६३ || निरन्तरमनादृत्य त्वमाराच्चित्तपुष्कसम् | स्वस्थमास्स्व निराशङ्कं पङ्केनेव कृतो जडः || ६४ || पङ्केन मृदा कृतो निर्मितः प्रतिमादिरिव || ६४ || चित्तं नास्त्येव मे भूतं मृतमेवाद्य वेत्ति वा | भव निश्चयवान्भूत्वा शिलापुरुषनिश्चलः || ६५ || नास्त्येवेति मुख्यं कल्पः | भूतं मृतमेव सत् अद्य वेत्ति मिथ्या पश्यतीति गौणः कल्पः || ६५ || प्रेक्षायामस्ति नो चित्तं तद्विहीनोऽसि तत्त्वतः | स किमर्थमनर्थेन तद्व्यर्थेन कदर्थ्यसे || ६६ || प्रेक्षायां आत्मप्रेक्षायां चित्तप्रेक्षायां च || ६६ || असता चित्तयक्षेण ये मुधा स्ववशे कृताः | तेषां पेलवबुद्धीनां चन्द्रादशनिरुत्थितः || ६७ || अशनिर्वैद्युताग्निः || ६७ || चित्तं दूरे परित्यज्य योऽसि सोऽसि स्थिरो भव | भव भावनया मुक्तो युक्त्या परमयान्वितः || ६८ || युक्त्या मननेन भावनया ध्यानेन || ६८ || असतो येऽनुवर्तन्ते चेतसोऽसत्यरूपिणः | व्योममारणकर्मैकनीतकालान्धिगस्तु तान् || ६९ || मूढनिन्दात्राधिकारिप्रोत्साहनाय || ६९ || व्यपगलितमना महानुभावो भव भवपारगतो भवामलात्मा | सुचिरमपि विचारितं न लब्धं मलममलात्मनि मानसात्म किंचित् || ७० || महानुभावस्तत्त्वावबोधकुशलः सन् प्रथमं व्यपगलितमना भव ततस्तत्त्वबोधेनामलात्मा सन् भवपारगतो भव | उक्तार्थं द्रढयितुं वसिष्ठो विचारविशुद्धं स्वानुभवमाह - सुचिरमिति | मया सुचिरमपि मनस्तत्त्वलाभाय विचारितं तथाप्यमलात्मनि मानसात्मकं मलं किंचिदपि न लब्धं तस्मान्नास्त्येवेति मद्वाक्यादपि स्थिरो भवेत्यर्थः || ७० || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मोक्षोपायेषूत्पत्तिप्रकरणे चित्ताभावप्रतिपादनं नामैकविंशत्युत्तरशततमः सर्गः || १२१ || इति श्रीवासिष्ठमहारामायणे तात्पर्यप्रकाशे उत्पत्तिप्रकरणे चित्ताभावप्रतिपादनं नामैकविंशत्युत्तरशततमः सर्गः || १२१ || द्वाविंशत्युत्तरशततमः सर्गः १२२ श्रीवसिष्ठ उवाच | प्रथमं जातमात्रेण पुंसा किंचिद्विकसितबुद्धिनैवं सत्संगमपरेण भवितव्यम् || १ || इहादौ वर्ण्यते पुंसो ज्ञानभूम्युदयक्रमः | रामस्य शोकमोहादिनिरासैर्बोधनं ततः || १ || तत्र ज्ञानभूमिकाक्रमं गद्यैर्विवक्षुस्तल्लाभोपायेषु प्रथमपीठिकामाह - प्रथममिति किंचिद्विकसितबुद्धिना इह जन्मनि जन्मान्तरे वानुष्ठितैर्निष्कामकर्मभिः शुद्धचित्तेनेत्यर्थः || १ || अनवरतप्रवाहपतितोऽयमविद्यानदीनिवहः शास्त्रसज्जनसंपर्कादृते न तरितुं शक्यते || २ || सत्सङ्गात्साधनचतुष्टयसंपत्तिसहितोऽध्यात्मशास्त्रसंबन्धः सिद्ध्यति सैव प्रथमा भूमिकेत्याशयेनाह - अनवरतेत्यादिना || २ || तेन विवेकतः पुरुषस्य हेयोपादेयविचार उपजायते || ३ || तदासौ शुभेच्छाभिधां विवेकभुवमापतितो [मवतीर्णो भवतीति पाठः] भवति || ४ || ततो विवेकवशतो विचारणायाम् || ५ || तज्जयाद्द्वितीयभूमिकावतारं दर्शयति - तत इत्यादिना || ५ || सम्यग्ज्ञानेनासम्यग्वासनां त्यजतः संसारभावनातोमनस्तनुतामेति || ६ || तज्जयात्तृतीयभूमिकावतार इत्याह - सम्यग्ज्ञानेनेत्यादिना || ६ || तेन तनुमानसां नाम विवेकभूमिमवतीर्णो भवति || ७ || प्. ४१३) २४२ यदैव योगिनः सम्यग्ज्ञानोदयस्तदैव सत्त्वापत्तिः || ८ || चतुर्थभूमिकावतारप्रकारमाह - यदैवेति || ८ || तद्वशाद्वासना तनुतां गता यदा तदैवासावसंसक्त इत्युच्यते कर्मफलेन न बध्यत इति || ९ || पञ्चम्यवतारमाह - तद्वशादिति | तन्नाम व्याचष्टे - कर्मफलेनेति || ९ || अथ तानववशादसत्ये भावनातानवमभ्यस्यति || १० || षष्ठ्यां भूमौ ततोऽवतारमाह - अथेति | असत्ये बाह्येऽर्थे भावनातानवं सदैवतान्तरमुखतयावस्थानेन [सदैवान्तर्मुखतया इति पाठः] ब्रह्माहंभाववासनोपचयेन बाह्यार्थस्य क्रमेण विस्मरणमित्यर्थः || १० || यावन्न कुर्वन्नपि व्यवहरन्नप्यसत्येषु संसारवस्तुषु स्थितोऽपि स्वात्मन्येव [स्वात्मन्यवक्षीण इति पाठः] क्षीणमनस्त्वादभ्यासवशाद्बाह्यं वस्तु कुर्वन्नपि न पश्यति नालम्बनेन सेवते नाभिध्यायति तनुवासनत्वाच्च केवलं मूढः सुप्तप्रबुद्ध इव कर्तव्यं करोति || ११ || कियत्कालं तदभ्यासस्तत्राह - यावदिति | न कुर्वन् समाधिस्थोऽपि | व्यवहरन् व्युत्थितोऽपि | बाह्यं स्नानभोजनादि कुर्वन्नपि न पश्यति | अत एव नालम्बनेन रुच्या सेवते नाभिध्यायति न स्मरति | मूढः शिशुरुन्मत्तो वा सुप्तप्रबुद्ध इव कर्तव्यं स्नानभोजनादि परेच्छया करोति || ११ || तनुभावितमनस्कस्तेन योगभूमिकां भावनामधिरूढः || १२ || तनुभावितमनस्कः सूक्ष्मतमब्रह्मैकरसीकृतचित्तस्तेनोक्तलक्षणेन योगभूमिकां भावनां पदार्थाभावनाख्यांअधिरूढो भवतीति शेषः || १२ || इत्यन्तर्लीनचित्तः कतिचित्संवत्सरानभ्यस्य सर्वथैव कुर्वन्नपि बाह्यपदार्थान्भावनां त्यजति तुर्यात्मा भवति ततो जीवन्मुक्त इत्युच्यते || १३ || सप्तमभूमिकावतारक्रममाह - इत्यन्तर्लीनचित्त इति | इति उक्तप्रकारेणान्तर्ब्रह्मणि लीनचित्तः परेच्छया कार्यमात्रेण कदाचिद्बाह्यपदार्थान्स्नानभोजनादीन्कुर्वन्नपि सर्वथैव तद्भावनां त्यजति | तुर्यात्मा स्वयमेव भवति | षष्ठभूमिकापर्यन्तं चित्तस्य ब्रह्माकारतास्थैर्ये लेशतो यत्नानुवृत्तिरस्ति | सप्तम्यां तु भूमिकायां सर्वथैव तन्निवृत्त्या स्वारसिकी प्रतिष्ठेति विशेष इति भावः | स एव जीवन्मुक्त इत्युच्यते || १३ || नाभिनन्दति संप्राप्तं नाप्राप्तमभिशोचति | केवलं विगताशङ्कं संप्राप्तमनुवर्तते || १४ || यद्यपि प्राक्तनभूमिष्वपि कृतसाक्षात्कारा जीवन्मुक्ता एव तथापि तेषां कदाचित्प्रबलप्रारब्धोपनीतप्रियाप्रियस्पर्शसत्त्वान्न मुख्यं जीवन्मुक्तिसुखं सप्तम्यां तु भूमिकायां योगपरिपाकजन्यपुण्यातिशयेनात्युत्कटेन तिरस्कृतं प्रारब्धकर्म जीवनव्यवहाराभासमात्रे व्यवतिष्ठते न हर्षशोकादिजननाय प्रभवतीत्याशयेन तल्लक्षणं पद्येनाह - नाभिनन्दतीति || १४ || त्वयापि राघव ज्ञातं ज्ञातव्यमखिलान्तरम् | ननु ते सर्वकार्येभ्यो वासना तनुतां गता || १५ || तव तु अत्यन्तशुद्धचित्तत्वाद्द्वितीयभूमिकायामेव स्वविचारेणैव प्रत्यगात्मतत्त्वं परिज्ञातमित्याशयेनाह - त्वयेति || १५ || शरीरातीतवृत्तिस्त्वं शरीरस्थोऽथवा भव | मागाः शोकं च हर्षं त्वं त्वमात्मा विगतामयः || १६ || शरीरातीतवृत्तिः सदैव समाधिस्थः | शरीरस्थो लोकसंग्रहव्यवहारी || १६ || त्वययात्मनि सिते स्वच्छे सर्वगे सर्वदोदिते | कुतो दुःखसुखे राम कुतो मरणजन्मनी || १७ || सिते स्वयंप्रभे | स्वच्छे निर्मले || १७ || अबन्धुरपि कस्मात्त्वं बन्धुदुःखानि शोचसि | अद्वितीये स्थिते ह्यस्मिन्बान्धवाः क इवात्मनि || १८ || आत्मबोधेन मरणजन्मादिप्रयुक्तशोकजयेऽपि बान्धवसङ्गजः शोकः कथं जययस्तत्राह - अबन्धुरिति || १८ || दृश्यते केवले देहे परमाणुचयः परम् [पर इति पाठः] | देशकालान्यतापत्तेर्नात्मोदेति न लीयते || १९ || बन्धूनां देहः शोकार्ह उतात्मा | नाद्य इत्याह - दृश्यत इति | केवले भस्मीभूते | परमाणुचयस्त्वचेतनत्वादेवन शोकार्ह इत्यर्थः | न द्वितीय इत्याह - देशेति || १९ || अविनाशोऽपि कस्मात्त्वं विनश्यामीति शोचसि | अमृत्युवसतौ स्वच्छे विनाशः क इवात्मनि || २० || घटे कपालतां याते घटाकाशो न नश्यति | यथा तथा शरीरेऽस्मिन्नष्टेऽपि न विनश्यति || २१ || न विनश्यति आत्मेति शेषः || २१ || मृगतृष्णातरङ्गिण्यां क्षीणायामातपो यथा | न नश्यति तथा देहे नष्टे नात्मा विनश्यति || २२ || वाञ्छैवोदेति ते कस्माद्भ्रान्तिरन्तर्निरर्थिका | अद्वितीयो द्वितीयं किंयद्वस्त्वात्माभिवाञ्छतु || २३ || श्रव्यं स्पृश्यं तथा दृश्यं रस्यं घ्रेयं च राघव | न किंचिदस्ति जगति व्यतिरिक्तं यदात्मनः || २४ || सर्वशक्ताविमास्तस्मिन्नात्मन्येवाखिलाः स्थिताः | शक्तयो वितते व्यक्ते आकाश इव शून्यता || २५ || नन्वातपे मृगतृष्णाभ्रमशक्तय इव जगच्छक्तयस्तर्हि पृथक् स्युस्तत्राह - शक्तय इति || २५ || चित्ताद्राघव रूढेयं त्रिलोकीललनोदिता | त्रिविधेनक्रमेणेह जन्मना जनितभ्रमा || २६ || तर्ह्यत्यन्तासतो जगतः प्ररोहे किं बीजमिति चेच्चित्तमेवेति प्रागुक्तमेवेत्याह ##- मनःप्रशमने सिद्धे वासनाक्षयनामनि | कर्मक्षयामिधानैव मायेयं प्रविनश्यति || २७ || अत एव चित्तक्षयात्तत्क्षय इत्याह - मन इति | कर्मणां क्रियादिशक्तीनां क्षयो निवासस्तदभिधाना || २७ || प्. ४१४) २४३ संसारोग्रारघट्टेऽस्मिन्नारूढा यन्त्रवाहिनी | रज्जुस्तां वासनामेतां छिन्धि राघव यत्नतः || २८ || आरघट्टे | पेषणयन्त्राधःशिलामध्यशङ्काविति यावत् | आरूढा तिर्यक्काष्ठप्रान्ते आरोपिता | अत एव यन्त्रमूर्ध्वपेषणपाषाणं वहति तच्छीला रज्जुः | तथाहि | पृथ्वी अधोयन्त्रशिलेव मेरुस्तच्छङ्कुरिव ज्योतिश्चक्रमूर्ध्वशिलायन्त्रमिव वासनावष्टब्धं जगद्दृश्यत इति भावः || २८ || अपरिज्ञानमानैषा महामोहप्रदायिनी | परिज्ञाता त्वनन्ताख्या सुखदा ब्रह्मदायिनी || २९ || आगता ब्रह्मणो भुक्त्वा संसारमिह लीलया | पुनर्ब्रह्मैव संस्मृत्य ब्रह्मण्येव विलीयते || ३० || संसारं भुक्त्वा स्वलीलाभूतयैव ब्रह्मविद्यया ब्रह्मैव संस्मृत्य ब्रह्मण्येव विलीयत इत्यन्वयः || ३० || शिवाद्राघव नीरूपादप्रमेयान्निरामयात् | सर्वभूतानि जातानि प्रकाशा इव तेजसः || ३१ || रेखावृन्दं यथा पर्णे वीचिजालं यथा जले | कटकादि यथा हेम्नि तथोष्णादि यथाऽनले || ३२ || रेखावृन्दं शिराजालम् || ३२ || तदेतद्भावनारूपे तथेदं भुवनत्रयम् | तस्मिन्नेव स्थितं जातं तस्मादेव तदेव च || ३३ || भावनारूपे वासनावच्छिन्ने ब्रह्मणि || ३३ || स एव सर्वभूतानामात्मा ब्रह्मेति कथ्यते | तस्मिञ्ज्ञाते जगज्ज्ञातं स ज्ञाता भुवनत्रये || ३४ || तदेकविज्ञानेन सर्व विज्ञातमित्याह - तस्मिन्निति | स ज्ञातेति | नान्योऽतोऽस्ति द्रष्टा इत्यादिश्रुतेरिति भावः || ३४ || शास्त्रसंव्यवहारार्थं तस्यास्य वितताकृतेः | चिद्ब्रह्मात्मेति नामानि कल्पितानि कृतात्मभिः || ३५ || विषयेन्द्रियसंयोगे हर्षामर्षविवर्जिता | सैषा शुद्धानुभूतिर्हि सोऽयमात्मा चिदव्ययः || ३६ || प्रियाप्रियविषयाणामिन्द्रियैः सह दैवात्संयोगेऽपि तेषु मिथ्यात्वनिश्चयाद्धर्षामर्षविवर्जिता सैषोक्तलक्षणा जीवन्मुक्तानुभूतिरेव स प्रसिद्ध आत्मा नतु मूढैरनुभूयमानः संसारस्वभाव इत्यर्थः || ३६ || आकाशातितराच्छाच्छ इदं तस्मिंश्चिदात्मनि | स्वाभोग एव हि जगत्पृथग्वत्प्रतिबिम्बति || ३७ || हर्षामर्षविवर्जितेति यदुक्तं तदुपपादनायाह - इदं तस्मिन्नित्यादिना | स्वाभोगे स्वान्तरेव जगत्पृथग्वत् अन्यदिव प्रतिबिम्बति तस्य च शुद्धसाक्षिणा प्रियाप्रियभागेन विवेक्तुमशक्यत्वात्तद्विवेकाय तदुभयव्यतिरेकेणान्तराले बुद्धिरन्तःकरणं प्रतिबिम्बति सैव प्रियाप्रियविकल्पनैर्लोभमोहादयो ये भावास्तान्याति न त्वात्मेत्यर्थः || ३७ || बुद्धिस्तद्व्यतिरेकेण लोभमोहादयो हि तान् | पात्यसद्व्यतिरेकेण ते च तस्मिंस्तदेव ते || ३८ || ते च जगत्तद्बुद्धितत्प्रयुक्तलोभमोहादयः असतैव व्यतिरेकेण परस्परभेदेन तस्मिंश्चिदात्मनि प्रतिबिम्बिता इति परमार्थतस्तदात्मरूपमेव | तेन हि दर्पणव्यतिरेकेण तदन्तर्दृश्यमानाः पर्वतवननद्यादयः सन्तीत्यर्थः || ३८ || अदेहस्यैव ते राम निर्विकल्पचिदाकृतेः | लज्जाभयविषादेभ्यः कुतो मोहः समुत्थितः || ३९ || एवंच देहात्मबुद्धीनां मूढानामेव भयविषादादयो युक्ता नतु तवेत्याह - अदेहस्यैवेत्यादिना || ३९ || अदेहो देहजैरेभिर्लज्जादिभिरसन्मयैः | किं मूर्ख इव दुर्बुद्धिर्विकल्पैरभिभूयसे || ४० || अखण्डचितिरूपस्य देहे खण्डनमागते | असम्यग्दर्शिनोऽप्यस्ति न नाशः किमु सन्मतेः || ४१ || आपतेदर्कमार्गेऽपि न निरुद्धगमागमम् | चित्तं नाम स विज्ञेयः पुरुषो न शरीरकम् || ४२ || असम्यग्दर्शिनोऽपि न नाश इति यदुक्तं तदुपपादयितुं देहाद्व्यतिरिक्तचित्तात्मानं व्युत्पादयति - आपतेदिति | यच्चित्तं संचारस्वातन्त्र्यात्सर्वत्र आपतेत् | अर्कस्य मार्गे निरालम्बनेऽपि यन्न निरुद्धा गमागमाः संचारा यस्य तथाविधं तच्चित्तमेव पुरि शेते इति पुरुषः संसार्यात्मा विज्ञेयो नतु शरीरमित्यर्थः || ४२ || शरीरे सत्यसति वा पुमानेव जगत्त्रये | ज्ञोऽप्यज्ञोऽपि स्थितो राम नष्टे देहे न नश्यति || ४३ || यानीमानि विचित्राणि दुःखानि परिपश्यसि | तानि देहस्य सर्वाणि नाग्राह्यस्य चिदात्मनः || ४४ || इदानीमसंसार्यात्मानं दर्शयितुं चित्तमपि देहकोटावेव निक्षिप्य देहस्यैव प्रियाप्रियस्पर्श इत्याह - यानीति || ४४ || मनोमार्गादतीतत्वाद्यासौ शून्यमिव स्थिता | चित्कथं नाम दुःखैर्वा सुखैर्वा परिगृह्यते || ४५ || परिगृह्यते व्याप्यते || ४५ || स्वास्पदात्मानमेवासौ विनष्टादेहपञ्जरात् | अभ्यस्तां वासनां यातः षट्पदः खमिवाम्बुजात् || ४६ || ननु नष्टे देहे जीवः क्व याति तत्राह - स्वास्पदात्मानमिति | असौ जीवो विनष्टाद्देहपञ्जराद्विनष्टदेहाभिमानं परित्यज्य प्रथमं स्वास्पदं स्वप्रतिष्ठाभूतं परमात्मानमेव याति | मनः प्राणे प्राणस्तेजसि तेजः परस्यां देवतायाम् इति श्रुतेर्मनःप्राणाद्युपाधिविलयाद्बिम्बभूतेश्वरैक्यं गच्छतीत्यर्थः | तर्हि कुतो न मुच्यते तत्राह - अभ्यस्तामिति | भेदवासनामूलोच्छेदिज्ञानानुदयान्न मुच्यत इति भावः || ४६ || असच्चेदात्मतत्त्वं तदस्मिंस्ते देहपञ्जरे | नष्टे किं नाम नष्टं स्याद्राम केनानुशोचसि || ४७ || ननु यदि जीवः प्रतिबिम्बस्तर्हि तस्योपाध्यतिरिक्तसत्त्वायोगादसत्त्वमुपाधिनाशेन नाशश्च स्यादिति चेदस्त्वेवं तथापि न त्वं जीव इति तदसत्त्वे नाशे वा न तव शोको युक्त इत्याह - असदिति | तत्प्रसिद्धमात्मतत्त्वं जीवरूपम् || ४७ || प्. ४१५) २४३ सत्यं भावय तेन त्वं मा मोहमनुभावय | निरिच्छस्यात्मनो नेच्छा काचिदप्यनघाकृतेः || ४८ || वस्तुतस्तु प्रतिबिम्बो बिम्बमेव | बिम्बस्येवोपाध्यनुप्रविशभेदादिकल्पनया प्रतिबिम्बत्वेन ग्रहणात् | जडोपाधिकार्यत्वे चिदाभासस्य जडत्वापत्तौ संसारभानाभोगाच्च | तेन त्वं जीवं तदुपाधिपरित्यागेन सत्यं ब्रह्मैवेति भावय संभावय मोहं भ्रान्तिप्राप्तमसन्नश्वरदेहादिभावं भानुभावय | पूर्णब्रह्मभावतृप्तत्वादेव निरिच्छस्य || ४८ || साक्षिभूते समे स्वच्छे निर्विकल्पे चिदात्मनि | निरिच्छं प्रतिबिम्बन्ति जगन्ति मुकुरे यथा || ४९ || तर्हीच्छां विना तस्य कथं सर्गादिसिद्धिस्तत्राह - साक्षिभूते इति || ४९ || साक्षिभूते समे स्वच्छे निर्विकल्पे चिदात्मनि | स्वयं जगन्ति दृश्यन्ते सन्मणाविव रश्मयः || ५० || अनिच्छमपि संबन्धो यथा दर्पणबिम्बयोः | तथैवेहात्मजगतोर्भेदाभेदौ व्यवस्थितौ || ५१ || सूर्यसंनिधिमात्रेण यथोदेति जगत्क्रिया | चित्सत्तामात्रकेणेदं जगन्निष्पद्यते तथा || ५२ || पिण्डग्रहो निवृत्तोऽस्या एवं राम जगत्स्थितेः | आकाशमेषा संपन्ना भवतामपि चेतसि || ५३ || पिण्डग्रहो मूर्ताकारः | एवं उक्तोपदेशप्रकारेण | भवतामिति रामातिरिक्तान् श्रोतॄन् प्रत्युक्तिः || ५३ || सत्तामात्रेण दीपस्य यथालोकः स्वभावतः | चित्तत्त्वस्य स्वभावात्तु तथेयं जागती स्थितिः || ५४ || आलोकः प्रभा || ५४ || पूर्वं मनः समुदितं परमात्मतत्त्वा- त्तेनाततं जगदिदं स्वविकल्पजालैः | शून्येन शून्यमपि तेन यथाम्बरेण नीलत्वमुल्लसितचारुतराभिधानम् || ५५ || विस्तरोक्तं प्रकरणार्थं संक्षिप्य दर्शयन्नुपसंहरति - पूर्वमित्यादिना | यथा शून्येनाम्बरेणाकाशेन शून्यमसदपि नीलत्वं सर्वजनानुभवेनोल्लसितमवाङ्मुखीकृतस्निग्धेन्द्रनीलमणिमयमहाकटाह् अमिव नीलं नभो दृश्यते इत्युपमोत्प्रेक्षादियोग्यतया चारुतरमभिधानं वाग्व्यवहारो यस्मिंस्तथाविधमाततं विस्तारितं तथा तेन मनसापीदं जगदित्यर्थः || ५५ || संकल्पसंक्षयवशाद्गलिते तु चित्ते संसारमोहमिहिका गलिता भवन्ति | स्वच्छं विभाति शरदीव खमागतायां चिन्मात्रमेकमजमाद्यमनन्तमन्तः || ५६ || अत एव निमित्तापाये नैमित्तिकापायान्निर्मलात्ममात्रपरिशेषसिद्धिरित्याह - संकल्पेति | मिहिकास्तुषाराः | शरदि समागतायां स्वमाकाशमिव स्वच्छं चिन्मात्रमन्तः प्रत्यगात्मस्वभावे || ५६ || कर्मात्मकं प्रथममेव मनोऽभ्युदेति संकल्पतः कमलजप्रकृतीस्तदेत्य | नानाभिदं जगदिदं हि मुधा तनोति वेतालदेहकलनामिव मुग्धबालः || ५७ || व्यष्टिभ्रमकल्पनायामिव समष्टिसृष्टिकल्पनायामपि मनोधीनावेवाविर्भावतिरोभावाविति दर्शयति - कर्मात्मकमिति | सकलप्राणिकर्मसमष्ट्यात्मकं समष्टिक्रियाशक्तिप्रधानं च मनः प्रथममुदेति आविर्भवति | ततस्तत्र चित्प्रतिबिम्बात्कमलजमन्वादिरूपाः प्रकृतीः स्रष्टृशरीराण्येत्य स्वीकृत्य संकल्पतो नानाभिधं जगन्मुधा व्यर्थमेव तनोति सृजतीत्यर्थः || ५७ || असन्मयं सदिव पुरो विलक्ष्यते पुनर्भवत्यथ परिलीयते पुनः | स्वयं मनश्चिति चितसंस्फुरद्वपु- र्महार्णवे जलवलयावली यथा || ५८ || तस्माद्दृश्यं सर्वं व्यष्टिसम.टिभेदकल्पितमनोमात्रं मनश्चासदज्ञानकार्यत्वादित्यसत एवाधिष्ठानसाक्षिसत्तास्फूर्तिबलेन सत्तया स्फुरणमुत्पत्तिरिति रीत्या जगज्जन्मादिविवर्तोपादानत्वं ब्रह्मणस्तटस्थलक्षणं तेन निष्प्रपञ्चसच्चिदानन्दैकरसं पूर्णं ब्रह्मैव परमार्थभूतं लक्ष्यत इति सर्वसृष्टिश्रुतीनां तात्पर्यार्थं इति सिद्धमित्याशयेनाह - असन्मयमिति | असदज्ञानं तन्मयं तत्परिणामभूतं मनः स्वयमेव चिति स्वाधिष्ठानचैतन्ये चितेनौपचयेन संस्फुरज्जगद्वपुः पुरः सदिव साक्षिणा विलोक्यते | यथा महार्णवे पूर्णे तत्सत्तामात्रसिद्धापरिच्छिन्नजलवलयानां पङ्क्तिरित्यर्थः | तस्माद्दृश्यमात्रस्य वाचारम्भणस्यानृतत्वात्प्रत्यगेकरसं पूर्णं ब्रह्मैवाविकृतं सदास्ते इति सिद्धम् || ५८ || इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये देवदूतोक्ते मोक्षोपायेषूत्पत्तिप्रकरणे स्वरूपनिरूपणं नाम द्वाविंशत्युत्तरशततमः सर्गः || १२२ || इति श्रीमत्परमाहंसपरिव्राजकाचार्यश्रीमत्सर्वज्ञसरस्वतीपूज्यपादशिष्यश्री मद्रामचन्द्रसरस्वतीपूज्यपादशिष्य- श्रीमद्गङ्गाधरेन्द्रसरस्वतीपूज्यपादशिष्येण श्रीमदानन्दबोधेन्द्रसरस्वत्याख्यभिक्षुणा विरचिते श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उत्पत्तिप्रकरणे स्वरूपनिरूपणं नाम द्वाविंशत्युत्तरशततमः सर्गः || १२२ || समाप्तमिदमुत्पत्तिप्रकरणम् || ########### END OF FILE #######